Source: TW
ग्रामाय गच्छति इति प्रयोगः
२५१
गम् धातुः सकर्मकः । गमनस्थलस्य अत्र कर्मत्वेन ग्रहणं भवति, अतः तस्य २.३.२ कर्मणि द्वितीया इति द्वितीयाविभक्तिः विधीयते । यथा, देवदत्तः ग्रामं गच्छति ।
परन्तु, देवदत्तः ग्रामाय गच्छति — इत्यपि साधु प्रयोगः !+++(5)+++
२.३.१२ गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायाम् अनध्वनि
इति अत्र सूत्रम् ।
यत्र शरीरस्पन्दनरूपगमनक्रिया वर्तते
(शरीररूपेण गमनं भवति; न हि मनोरूपेण इत्याशयः)
तत्र मार्गभिन्नस्य कर्मपदस्य चतुर्थी विभक्तिः अपि भवितुम् अर्हति —
इति सूत्रार्थः ।
ग्रामं ग्रामाय वा गच्छति ।
गत्यर्थकर्मणि इति किम् ? गमनक्रियायाः विषये एव इदं सूत्रं प्रयुज्यते । अतः ओदनं पचति इत्यत्र चतुर्थी न भवति ।
अर्थ इति किम् ? गमनार्थकः अपेक्षितः, न हि कश्चन विशिष्टः धातुः । ग्रामं, गामाय वा याति । ग्रामं ग्रामाय वा व्रजति ।
चेष्टायाम् इति किम् ? चेष्टा इत्युक्ते “कायिकः व्यापारः” (motion of one’s own body) । यत्र शरीरस्य गमनं भवति, तत्रैव इदं सूत्रं प्रयुज्यते । अतः मनसा पाटलीपुत्रं गच्छति इत्यत्र चतुर्थी न भवति ।
अनध्वनि इति किम् ? मार्गवाचकः शब्दः कर्मपदम् अस्ति चेत् इदं सूत्रं न प्रयुज्यते । अतः अध्वानं गच्छति, मार्गं गच्छति इत्यत्र चतुर्थी न भवति ।