Source: TW
इक्ष्वाकुः / ऐक्ष्वाकः
इक्ष्वाकुः इति राज्ञः नाम । अयमेव शब्दः जनपदस्य नामरूपेण अपि प्रयुज्यते । अस्यां स्थितौ इक्ष्वाकोः अपत्यम् अस्मिन् अर्थे इक्ष्वाकु शब्दात् ४.१.१६८ जनपदशब्दात् क्षत्रियादञ् इति सूत्रेण अञ् इति प्रत्ययः भवति । इक्ष्वाकु + अञ् → ऐक्ष्वाक । प्रक्रियायाम् ६.४.१४६ ओर्गुणः इत्यनेन गुणादेशे प्राप्ते तद्बाधित्वा ६.४.१७४ दाण्डिनायन…सारवैक्ष्वाक.. इत्यनेन सूत्रेण ऐक्ष्वाक इति शब्दः निपात्यते ।
४.१.१७४ ते तद्राजाः इति सूत्रेण अत्र विहितस्य अञ्-प्रत्ययस्य तद्राजसंज्ञा भवति । अतः ऐक्ष्वाक इति तद्राजप्रत्ययान्तशब्दः । अस्य शब्दस्य बहुवचनप्रक्रियायाम् २.४.६२ तद्राजस्य बहुषु तेनैवास्त्रियाम् इति सूत्रेण तद्राजप्रत्ययस्य लोपः भवति ।
इक्ष्वाकु + अञ् + जस् → इक्ष्वाकु + जस् → इक्ष्वाकवः ।
ऐक्ष्वाकः ऐक्ष्वाकौ इक्ष्वाकवः
ऐक्ष्वाकम् ऐक्ष्वाकौ इक्ष्वाकून्
ऐक्ष्वाकेण ऐक्ष्वाकाभ्याम् इक्ष्वाकुभिः
ऐक्ष्वाकाय ऐक्ष्वाकाभ्याम् इक्ष्वाकुभ्यः
ऐक्ष्वाकात् ऐक्ष्वाकाभ्याम् इक्ष्वाकुभ्यः
ऐक्ष्वाकस्य ऐक्ष्वाकयोः इक्ष्वाकूणाम्
ऐक्ष्वाके ऐक्ष्वाकयोः इक्ष्वाकुषु
हे ऐक्ष्वाक हे ऐक्ष्वाकौ हे इक्ष्वाकवः
इक्ष्वाकूणाम् इति “ऐक्ष्वाक” इत्यस्य षष्ठीबहुवचनम् । इक्ष्वाकुवंशीयानाम् इति अर्थः ।
इक्ष्वाकु-शब्दात् तत्र (जनपदे) भवः अस्मिन् अर्थे ४.२.१३२ कोपधादण् इति सूत्रेण अण्-प्रत्यये कृते अपि ऐक्ष्वाक इति शब्दः सिद्ध्यति (निपात्यते) । इक्ष्वाकुषु जातः सः ऐक्ष्वाकः । अत्र विद्यमानः अण्-प्रत्ययः तद्राजसंज्ञकः नास्ति; अतः तस्य बहुवचने लुक् न भवति । अतः अण्-प्रत्ययान्तस्य ऐक्ष्वाक-शब्दस्य रूपाणि तु रामशब्दसदृशानि एव भवन्ति । ऐक्ष्वाकः, ऐक्ष्वाकौ, ऐक्ष्वाकाः । यथा, ऐक्ष्वाकेषु च मैथिलेषु च फलन्त्यस्माकमद्याशिषः इत्यत्र ऐक्ष्वाकेषु इति अण्-प्रत्ययान्तस्य ऐक्ष्वाक-शब्दस्य बहुवचनं प्रयुक्तम् अस्ति ।
रघुवंशे १.७२
६.४.१७४ दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि इत्यत्र तत्त्वबोधिनी …