प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् विहिताः प्रत्ययाः = स्त्रीप्रत्ययाः । आहत्य दश स्त्रीप्रत्ययाः —
- टाप् / डाप् / चाप् — एतेषां त्रयाणाम् “आ” इति दृश्यरूपम् । यथा —
- ४.१.४ अजाद्यतष्टाप् इति टाप् । बाल + टाप् → बाला ।
- ४.१.१३ डाबुभाभ्यामन्यतरस्याम् इति डाप् । सीमन् + डाप् → दामा । ६.४.१४३ टेः इति टिलोपार्थं डित्त्वम् ।
- ४.१.७४ यङश्चाप् इति चाप् । कौसल्य + चाप् → कौसल्या । स्वरविधानार्थम् चित्त्वम् ।
- ङीप् / ङीष् / ङीन् — एतेषां त्रयाणाम् “ई” इति दृश्यरूपम् । यथा —
- ४.१.५ ऋन्नेभ्यो ङीप् इति ङीप् । कर्तृ + ङीप् → कर्त्री ।
- ४.१.२५ बहुव्रीहेरूधसो ङीष् इति ङीष् । कुण्डोध्न + ङीष् → कुण्डोध्नी । पकारस्वरनिवृत्यर्थं तत्स्थाने षकारः ।
- ४.१.७३ शार्ङ्गरवाद्यञो ङीन् इति ङीन् । शार्ङ्गरव + ङीन् → शार्ङ्गरवी । स्वरविधानार्थम् नित्त्वम् ।
- अन्येऽपि चत्वारः स्त्रीप्रत्ययाः सन्ति — ऊङ्, ति, ष्फ, [ष्यङ्] ।
सर्वेभ्यः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् स्त्रीप्रत्ययाः भवेयुः एव — इति नियमः नास्ति । यथा — “मरुत्”, “सुहृद्”, “मुनि” — एते नित्यपुंलिङ्गशब्दाः । एतेभ्यः स्त्रीप्रत्ययः न भवति ।
सर्वेऽपि स्त्रीलिङ्गवाचिनः शब्दाः स्त्रीप्रत्ययान्ताः एव भवेयुः — इति नावश्यकम् । यथा — मातृ, बुद्धि, विद्युत्, वाच्, लक्ष्मी — एते स्त्रीलिङ्गवाचिनः शब्दाः स्त्रीप्रत्ययान्ताः न सन्ति ।
केभ्यश्चन प्रातिपदिकेभ्यः युगपत् द्वौ स्त्रीप्रत्ययौ भवतः । यथा, “गार्ग्य” इत्यस्मात् स्त्रीत्वे विवक्षिते “ष्फ” तथा “ङीष्” एतौ द्वौ स्त्रीप्रत्ययौ युगपत् भवतः । गार्ग्य + ष्फ + ङीष् → गार्ग्यायणी ।