प्रातिपदिकसिद्धिः
- यथावत् प्रातिपदिक-कल्पनम् - चुक् इति प्रातिपदिकम् भवति, यस्यार्थः कश्चन शब्दविशेषः।
- अनेकाज्भ्यो डाच् → अव्ययम्
- पटपटत् → पटपटा
- “कस्यचन शिशुः ‘अ’, ‘क्’ , ‘स्’ एतादृशान् ध्वनीन् करोति चेत् एते सर्वे वर्णैः व्यक्ताः ध्वनयः सन्ति । अतः एतेषाम् विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।”
- “डाच् अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच्” ( कृ-भू-अस्ति-योगे)
- “डाचि बहुलम् द्वे भवतः” इत्यनेन वार्त्तिकेन प्रकृतेः द्वित्वं भवति ।
- परशब्दस्य तस्य परमाम्रेडितम् ( ८.१.२ ) इत्यनेन ‘आम्रेडित’ इति संज्ञा भवति । On doing the द्वित्व, the ‘second member’ of the pair gets the term ‘आम्रेडित’ ।
- नित्यमाम्रेडिते डाचि ( ६.१.१०० ) इत्यनेन पररूप-एकादेशः भवति ।
- ऊर्यादिच्विडाचश्च इति निपातसंज्ञा।
प्रयोगः
- कारप्रत्ययेन - झेङ्कारः। पेङ्कारः। …
- डाच् + क्यष्
- पटपट + डाच् + क्यष् + तिङ् = पटपटायते or पटपटायति
- डाच् + इति-रहित–कृ-भू-अस्ति-योगः
- पटपटत् → पटपटा (करोति /भवति /स ्यात्/ चिकीर्षति/ बोभूयति/ कारयति) । पटपटाकृतम्, पटपटाभवितव्यम्, पटपटासन्।
- अव्यक्तानुकृतिः +इति
- “अव्यक्तानुकरणस्यात इतौ” इत्यनेन (* + अत् अनेकाच्) + इति = * + इति । “६.१.९९ नाम्रेडितस्यान्त्यस्य तु वा” इति तु द्विरुक्तौ विकल्पः।
- पटत् + इति =पटिति, घटत् + इति = घटिति, झटत् + इति = झटिति, छमत् + इति = छमिति ॥
- “अव्यक्तानुकरणस्यात इतौ” इत्यनेन (* + अत् अनेकाच्) + इति = * + इति । “६.१.९९ नाम्रेडितस्यान्त्यस्य तु वा” इति तु द्विरुक्तौ विकल्पः।
- “तत्करोति तदाचष्टे” इति णिजन्तधातुर् अपि सम्भवति।
- चुक् इति शब्दयति - चोकयति।