मूषकः
मूषँ (स्तेये, भ्वादिः) + ण्वुल् (३.१.१३३ ण्वुल्तृचौ) → मूषक । मूषति (चोरयति) इति मूषकः । अङ्गस्य गुरूपधत्वात् उपधागुणः न प्रवर्तते ।
मूषको वज्रदशनः क्रमः काण्डः बिलेशयः इति वाचस्पतिः — इति अमरकोशस्य सुधाव्याख्यानम् ।
मूषँ (स्तेये, भ्वादिः) + क (३.१.१३५ इगुपधज्ञाप्रीकिरः कः) → मूष + (स्वार्थे) कन् → मूषक — इति शब्दकल्पद्रुमः ।
मूष् + क्वुन् (क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि २.३३ इति उणादिसूत्रम्) → मूषक — इति कृदन्तरूपमाला, तत्त्वबोधिनी ।
मूषिका
स्त्रीत्वे अत्र वस्तुतः ४.१.६३ जातेरस्त्रीविषयादयोपधात् इति ङीष् भवेत्, परन्तु अजादिगणत्वात् तद्बाधित्वा ४.१.४ अजाद्यतष्टाप् इति टाप् भवति; ततः प्रक्रियायाम् ७.३.४४ प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः इति इत्वं भवति । मूषक + टाप् → मूषिका ।
मोषकः
मुषँ (स्तेये, क्र्यादिः) + ण्वुल् → मोषकः । मुष्णाति (चोरयति) सः मोषकः । अङ्गस्य लघूपधत्वात् ७.३.८६ पुगन्तलघूपधस्य इति गुणे कृते रूपं सिद्ध्यति । ४.१.४ अजाद्यतष्टाप् इति टाप् — मोषिका ।
मूषिकः
मूषिकः — मुषँ (स्तेये, क्र्यादिः) + किकन् (मुषेर्दीर्घश्च २.४३ इति उणादिसूत्रम्) → मूषिक । मुष्णाति द्रव्याणि इति मूषिकः । उन्दुरुर्मूषिकोऽप्याखुः — इति अमरकोशः ।
मूषँ स्तेये भौवादिकः । तस्मात् किकन्-प्रत्यये दीर्घवचनमन्तरेणापि मूषिकशब्दस्य सिद्धत्वात् दीर्घवचनं स्पष्टार्थम्, एवं च मूषेर् ण्वुलि मूषकः इति श्वेतवनवासी, इति दशपाद्युणादिपाठस्य टिप्पण्याम् — इति कृदन्तरूपमाला ।
अतः मूषँ (स्तेये, भ्वादिः) इत्यस्मात् अपि किकन्-प्रत्ययः भवति इति निर्णयः ।
स्त्रीत्वे ४.१.४ अजाद्यतष्टाप् इति टाप् — मूषिका । अत्र प्रक्रियायाम् इत्वं नैव भवति — मूलशब्दे एव इकारः वर्तते ।
मूषः
मूषः — मूष् (स्तेये, भ्वादिः) + अच् (३.१.१३४ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः) → मूष — इति सुधाटीकायुक्ते अमरकोशे । मूषति इति मूषः ।
मूषा, मूषी
स्त्रीत्वे अत्र वस्तुतः ४.१.६३ जातेरस्त्रीविषयादयोपधात् इति ङीष् एव भवेत्, परन्तु अजादिगणत्वात् तद्बाधित्वा ४.१.४ अजाद्यतष्टाप् इति टाप् भवति; तथा च गौरादित्वात् ४.१.४१ षिद्गौरादिभ्यश्च इति ङीष् अपि भवति । अतः मूषा, मूषी इति रूपद्वयम् ।
द्वयोः अपि एतयोः गणयोः अयं शब्दः वस्तुतः न विद्यते, तथापि शिष्टप्रयोगम् अनुसृत्य अस्य उभयत्र ग्रहणं भवति ।
महाकृपणः अस्मिन् अर्थे अपि मूषिक/मूषकशब्दः प्रयुक्तः दृश्यते ।
विभवे सति नैवात्ति
न ददाति जुहोति च ।
तमाहुराखुं तस्यान्नं
भुक्त्वा कृच्छ्रेण शुद्ध्यति ॥
— इति मार्कण्डेयपुराणे आचाराध्यायः ।