११ व्याकरणम्

अथ व्याकरणमित्यस्य शब्दस्य कः पदार्थः?

सूत्रपक्षः

+++(व्याकरणपदार्थः)+++ सूत्रम्? सूत्रे व्याकरणे षष्ठ्यर्थोऽनुपपन्नः॥ सूत्रे +++(पदार्थे सति)+++ व्याकरणे षष्ठ्यर्थो नोपपद्यते - ‘व्याकरणस्य सूत्रम्’ इति +++(“सूत्रस्य सूत्रम्” इति भवेद् अर्थः!)+++ ॥ किं हि तदन्यत् सूत्रात् व्याकरणं यस्यादः सूत्रं स्यात् ?
“शब्दाप्रतिपत्तिः” ॥ शब्दानां चाप्रतिपत्तिः प्राप्नोति - ‘व्याकरणाच् छब्दान् प्रतिपद्यामहे’ इति । न हि सूत्रत एव शब्दान् प्रतिपद्यन्ते। किं तर्हि ? व्याख्यानतश् च ॥
ननु च तदेव सूत्रं विगृहीतं व्याख्यानं भवति?
न केवलं चर्चापदानि व्याख्यानम् - ‘वृद्धिः, आत्, ऐच्’ इति । किं तर्हि ? उदाहरणं - प्रत्युदाहरणं - वाक्याध्याहारः - इत्येतत् समुदितं व्याख्यानं भवति ॥+++(5)+++

शब्दपक्षः

एवं तर्हि +++(व्याकरणपदार्थः)+++ शब्दः। “शब्दे ल्युडर्थः”- यदि शब्दो व्याकरणं, ल्युडर्थो नोपपद्यते - “व्याक्रियन्ते शब्दा अनेनेति व्याकरणम्” । न हि शब्देन किंचित् व्याक्रियते। केन तर्हि ? सूत्रेण ॥
“भवे च तद्धितः॥” - भवे च तद्धितो नोपपद्यते - “व्याकरणे भवो योगो वैयाकरणः” - इति । न हि शब्दे भवो योगः। क्व तर्हि? सूत्रे॥
“प्रोक्तादयश्च तद्धिताः॥” - प्रोक्तादयश् च तद्धिता नोपपद्यन्ते । “पाणिनिना प्रोक्तं पाणिनीयम्, आपिशलं, काशकृत्स्नम्” इति । न हि पाणिनिना शब्दाः प्रोक्ताः । किं तर्हि ? सूत्रम् ॥
(किमर्थम् इदमुभयम् उच्यते - * भवे - प्रोक्तादयश्च तद्धिताः* इति । न प्रोक्तादयश्च तद्धिताः इत्येव भवेऽपि तद्धितश्चोदितः स्यात् ? पुरस्ताद् इदम् आचार्येण दृष्टम् - भवे च तद्धितः इति, तत्पठितम् । तत उत्तरकालम् इदं दृष्टम् - प्रोक्तादयश्च तद्धिताः इति, तदपि पठितम् । न चेदानीम् आचार्याः सूत्राणि कृत्वा निवर्तयन्ति ॥+++(5)+++)

आक्षेपसमाधानम्

अयं तावद् अदोषः - यदुच्यते शब्दे ल्युडर्थः इति +++(“व्याक्रियन्ते शब्दा अनेनेति व्याकरणम्” इत्यत्र)+++ । नावश्यं करणाधिकरणयोरेव ल्युड्-विधीयते । किं तर्हि ? अन्येष्वपि कारकेषु - ‘कृत्यल्युटो बहुलम्’ इति । तद्यथा - प्रस्कन्दनं प्रपतनम् इति ॥
अथवा शब्दैर् अपि शब्दा व्याक्रियन्ते । तद् यथा गौरित्युक्ते सर्वे संदेहा निवर्तन्ते, नाश्वो न गर्दभ इति ॥

उभयपक्षः

अयं तर्हि दोषः - ‘भवे - प्रोक्तादयश्च तद्धिताः’ इति +++(“व्याकरणे भवो योगो वैयाकरणः” इत्यत्र)+++॥ एवं तर्हि - लक्ष्यलक्षणे व्याकरणम् ॥+++(5)+++ लक्ष्यं च लक्षणं चैतत् समुदितं व्याकरणं भवति॥ किं पुनर् लक्ष्यम्, किं लक्षणम्? शब्दो लक्ष्यः, सूत्रं लक्षणम् ॥
एवम् अप्य् अयं दोषः - समुदाये व्याकरणशब्दः प्रवृत्तोऽवयवे नोपपद्यते । सूत्राणि चाप्य् अधीयान इष्यते +++(न तावच् छब्दान्)+++ - वैयाकरण इति ॥ नैष दोषः । समुदायेषु हि शब्दाः प्रवृत्ता अवयवेष्व् अपि वर्तन्ते । तद् यथा - पूर्वे पञ्चालाः, उत्तरे पञ्चालाः, तैलं भुक्तम् , घृतं भुक्तम्, शुक्लो, नीलः, कृष्ण इति ॥ एवम् अयं समुदाये व्याकरणशब्दः प्रवृत्तो ऽवयवे ऽपि वर्तते ॥

सूत्रपक्ष-समर्थनम्

अथ वा पुनरस्तु सूत्रम् +++(व्याकरणपदार्थः)+++ ॥ ननु चोक्तम् - सूत्रे व्याकरणे षष्ठ्यर्थोऽनुपपन्नः इति +++(‘व्याकरणस्य सूत्रम्’ इत्यत्र)+++॥ नैष दोषः। व्यपदेशिवद्भावेन भविष्यति +++(यथा ‘राहोः शिरः’ इत्य् एकस्मिन्न् अपि वस्तुनि शब्दार्थभेदाद्भेदव्यवहारः)+++॥ यदप्युच्यते - *‘शब्दाप्रतिपत्तिः’*इति +++(‘व्याकरणाच् छब्दान् प्रतिपद्यामहे’ इत्यत्र)+++ । न हि सूत्रत एव शब्दान् प्रतिपद्यन्ते । किं तर्हि ? व्याख्यानतश्च - इति। परिहृतम् एतत् - तदेव सूत्रं विगृहीतं व्याख्यानं भवतीति ॥ ननु चोक्तम् - ‘न केवलानि चर्चापदानि व्याख्यानम् - वृद्धिः - आत् - ऐजिति । किं तर्हि ? उदाहरणं - प्रत्युदाहरणं - वाक्याध्याहारः - इत्येतत्समुदितं व्याख्यानं भवति’ इति ॥ अविजानत एतद् एवं भवति । +++(‘सूत्रेष्वेव हि तत्सर्वं यद्वृत्तौ यच्च वार्तिके।’)+++ सूत्रत एव हि शब्दान् प्रतिपद्यन्ते ॥ आ+++(अ)+++तश्च सूत्रत एव । यो ह्य् उत्सूत्रं कथयेन्- +++(सारहीनो)+++ नादो गृह्येत ॥