+++(‘एकः शब्दः सम्यक् ज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति’(६।१।८४) इति श्रुतिः ।)+++
किं पुनः - शब्दस्य ज्ञाने धर्मः, आहोस्वित् प्रयोगे?
कश्चात्र विशेषः?
ज्ञानपक्षः
- ज्ञाने धर्म इति चेत्तथाऽधर्मः॥ ज्ञाने धर्म इति चेत् तथा ऽधर्मः प्राप्नोति । यो हि शब्दान् जानाति, अपशब्दान् अप्यसौ जानाति । यथैव शब्दज्ञाने धर्मः, एवमपशब्दज्ञाने ऽप्य् अधर्मः ॥
- अथवा भूयान् अधर्मः प्राप्नोति । भूयांसो ह्यपशब्दाः, अल्पीयांसः शब्दाः । एकैकस्य शब्दस्य बहवोऽपभ्रंशाः। तद्यथा - गौरित्यस्य गावी - गोणी - गोता - गोपोतलिकेत्य् एवम् आदयो ऽपभ्रंशाः ॥
- आचारे नियमः ॥ आचारे पुनर् ऋषिर्नियमं वेदयते - ‘तेऽसुरा हेलयो हेलय इति कुर्वन्तः पराबभूवुः’ इति ॥ +++(तेनापशब्द-ज्ञानजन्य-प्रयोगात् पापं स्यात्।)+++
प्रयोगपक्षः
अस्तु तर्हि प्रयोगे॥
प्रयोगे सर्वलोकस्य ॥ यदि प्रयोगे धर्मः, सर्वो लोको ऽभ्युदयेन युज्येत ॥
कश्चेदानीं भवतो मत्सरः, यदि सर्वो लोको ऽभ्युदयेन युज्येत?
न खलु कश्चिन् मत्सरः । प्रयत्नानर्थक्यं तु भवति । फलवता च नाम यत्नेन भवितव्यम् । न च प्रयत्नः फलाद् व्यतिरेच्यः॥
ननु च ये कृतप्रयत्नास् ते साधीयः शब्दान् प्रयोक्ष्यन्ते, अत एव साधीयो ऽभ्युदयेन योक्ष्यन्ते ॥
व्यतिरेकोऽपि वै लक्ष्यते । दृश्यन्ते हि कृतप्रयत्नाश् चाप्रवीणाः, अकृत-प्रयत्नाश् च प्रवीणाः । तत्र फल-व्यतिरेको ऽपि स्यात् ॥
उभयपक्षः
एवं तर्हि - नापि ज्ञान एव धर्मः, नापि प्रयोग एव ॥ किं तर्हि ? शास्त्रपूर्वके प्रयोगे ऽभ्युदयस् तत् तुल्यं वेदशब्देन ॥+++(5)+++ शास्त्रपूर्वकं यः शब्दान्प्रयुङ्क्ते सोऽभ्युदयेन युज्यते। ‘तत्तुल्यं वेदशब्देन’ । वेदशब्दा अप्य् एवम् अभिवदन्ति - ‘योऽग्निष्टोमेन यजते य उ चैनम् एवं वेद’, ‘योऽग्निं नाचिकेतं चिनुते य उ चैनम् एवं वेद’ ॥
अपर आह - तत्तुल्यं वेदशब्देन - इति । यथा - वेदशब्दा नियमपूर्वम् अधीताः फलवन्तो भवन्ति, एवं यः शास्त्रपूर्वकं शब्दान् प्रयुङ्क्ते सोऽभ्युदयेन युज्यत इति ॥ +++(5)+++
अपशब्दज्ञाने साधुता
अथ वा पुनरस्तु - ज्ञान एव धर्म इति ॥ ननु चोक्तम् - ज्ञाने धर्म इति चेत् तथाऽधर्मः इति ॥ नैष दोषः, शब्दप्रमाणका वयम् , यच् छब्द आह तदस्माकं प्रमाणम् । शब्दश् च शब्दज्ञाने धर्मम् आह, नापशब्दज्ञाने ऽधर्मम् ॥ यच् च पुनर् अशिष्टाप्रतिषिद्धम्, नैव तद् दोषाय भवति, नाभ्युदयाय। तद्यथा - हिक्कित-हसित-कण्डूयितानि नैव दोषाय भवन्ति, नाभ्युदयाय ॥+++(5)+++
अथवाऽभ्युपाय एवापशब्दज्ञानं शब्दज्ञाने । यो ह्य् अपशब्दाञ् जानाति शब्दान् अप्यसौ जानाति । तदेवं ‘ज्ञाने धर्मः’ इति ब्रुवतोऽर्थाद् आपन्नं भवति - ‘अपशब्दज्ञानपूर्वके शब्दज्ञाने धर्मः’ इति ॥+++(5)+++
अथवा कूप-खानकवद् एतद् भविष्यति । तद् यथा कूपखानकः कूपं खनन् यद्यपि मृदा पांशुभिश् चावकीर्णो भवति सोऽप्सु संजातासु तत एव तं गुणम् आसादयति, येन स च दोषो निर्हण्यते भूयसा चाभ्युदयेन योगो भवति ॥+++(5)+++ एवम् इहापि यद्य् अपशब्दज्ञाने ऽधर्मः, तथापि यस्त्वसौ शब्दज्ञाने धर्मस् तेन स च दोषो निर्घानिष्यते, भूयसा चाभ्युदयेन योगो भविष्यति ॥
यदप्युच्यते - आचारे नियमः इति । याज्ञे कर्मणि स नियमः, अन्यत्रानियमः ।+++(5)+++ एवं हि श्रूयते - ‘यर्वाणस् तर्वाणो नाम ऋषयो बभूवुः प्रत्यक्ष-धर्माणः परा-परज्ञा विदित-वेदितव्या अधिगतयाथातथ्याः।’ ते तत्रभवन्तः ‘यद्वा नः’ ‘तद्वा नः’ इति प्रयोक्तव्ये ‘यर्वाणः - तर्वाणः’ इति प्रयुञ्जते, याज्ञे पुनः कर्मणि नापभाषन्ते ॥+++(4)+++ तैः पुनर् असुरैर् याज्ञे कर्मण्य् अपभाषितम् , ततस्ते पराभूताः ॥