०९ शब्द-विषयः

अप्रयुक्तानां साधुता

अस्त्य् अप्रयुक्तः॥ सन्ति वै शब्दा अप्रयुक्ताः। तद्यथा - ऊष, तेर, चक्र, पेच - इति ॥ किम् अतो यत् सन्त्य् अप्रयुक्ताः?
प्रयोगाद्+धि भवाञ् छब्दानां साधुत्वम् अध्यवस्यति । य इदानीम् अप्रयुक्ताः, नामी साधवः स्युः॥

अप्रयोगो नाम लोकेऽप्रयोगः

इदं तावद् विप्रतिषिद्धम् - यद् उच्यते - ‘सन्ति वै शब्दाः, अप्रयुक्ताः’ इति ।
यदि सन्ति, नाप्रयुक्ताः।
अथाप्रयुक्ताः, न सन्ति । सन्ति चाप्रयुक्ताश् चेति विप्रतिषिद्धम् । प्रयुञ्जान एव खलु भवान् आह - सन्ति शब्दा अप्रयुक्ता इति ।+++(5)+++ कश् चेदानीम् अन्यो भवज्जातीयकः पुरुषः शब्दानां प्रयोगे साधुः स्यात् ?

नैतद् विप्रतिषिद्धम् । सन्तीति तावद् ब्रूमः, यद् एताञ् शास्त्रविदः शास्त्रेणानुविदधते। अप्रयुक्ता इति ब्रूमः, यल् लोके ऽप्रयुक्ता इति ॥
यदप्युच्यते - ‘कश्चेदानीमन्यो भवज्जातीयकः पुरुषः शब्दानां प्रयोगे साधुः स्यात्’ इति । न ब्रूमो ऽस्माभिर् अप्रयुक्ता इति ।+++(5)+++ किं तर्हि ? लोकेऽप्रयुक्ता इति ॥
ननु च भवान् अप्य् अभ्यन्तरो लोके ॥ अभ्यन्तरोऽहं लोके, न त्वहं लोकः ॥

समाधानम्

अर्थे शब्दप्रयोगात्

अस्त्य् अप्रयुक्त इति चेन् न - अर्थे शब्दप्रयोगात्
अस्त्य् अप्रयुक्त इति चेत्, तन् न । किं कारणम् ‘अर्थे शब्दप्रयोगात्’ - अर्थे शब्दाः प्रयुज्यन्ते । सन्ति चैषां शब्दानाम् अर्था येष्व् अर्थेषु प्रयुज्यन्ते ॥

+++(आक्षेपः - )+++ अप्रयोगः प्रयोगान्यत्वात् ॥
अप्रयोगः खल्व् अप्य् एषां शब्दानां न्याय्यः। कुतः? ‘प्रयोगान्यत्वात्’ । यद् एतेषां शब्दानाम् अर्थे ऽन्याञ् छब्दान् प्रयुञ्जते । तद्यथा - ‘ऊष’ इत्यस्य शब्दस्यार्थे - क्व यूयम् उषिताः, ‘तेर’ इत्यस्यार्थे - क्व यूयं तीर्णाः, ‘चक्र’ इत्यस्यार्थे - क्व यूयं कृतवन्तः। ‘पेच’ इत्यस्यार्थ - क्व यूयं पक्ववन्त इति ॥

अप्रयुक्ते दीर्घसत्त्रवत् ॥

यद्यप्य् अप्रयुक्ताः, अवश्यं दीर्घसत्त्रवल् लक्षणेनानुविधेयाः। तद् यथा - दीर्घसत्त्राणि वार्षशतिकानि वार्षसहस्रिकाणि च, न चाद्यत्वे कश्चिद् अप्य् आहरति। केवलम् ऋषिसंप्रदायो धर्म इति कृत्वा याज्ञिकाः शास्त्रेणानुविदधते ॥+++(5)+++

सर्वे देशान्तरे

सर्वे खल्व् अप्य् एते शब्दा देशान्तरेषु प्रयुज्यन्ते ॥ न चैवोपलभ्यन्ते ॥

उपलब्धौ यत्नः क्रियताम् ॥ महान् शब्दस्य प्रयोगविषयः। सप्तद्वीपा वसुमती, त्रयो लोकाः, चत्वारो वेदाः साङ्गाः सरहस्या बहुधा भिन्नाः - एकशतम् अध्वर्युशाखाः, सहस्र-वर्त्मा सामवेदः, एकविंशतिधा बाह्वृच्यं, नवधा ऽऽथर्वणो वेदः, वाकोवाक्यम्+++(=संवादाः)+++ , इतिहासः, पुराणं, वैद्यकम् इत्येतावाञ् छब्दस्य प्रयोगविषयः।+++(5)+++ एतावन्तं शब्दस्य प्रयोगविषयम् अननुनिशम्य ‘सन्त्य् अप्रयुक्ताः’ इति वचनं केवलं साहस-मात्रम् एव ॥

एतस्मिंश् चातिमहति शब्दस्य प्रयोगविषये ते ते शब्दास् तत्र तत्र नियतविषया दृश्यन्ते । तद् यथा शवतिर् गतिकर्मा कम्बोजेष्व् एव भाषितो भवति, +++(जीव)+++विकार एनम् आर्या भाषन्ते - शव इति । हम्मतिः सुराष्ट्रेषु, रंहतिः प्राच्यमध्येषु, गमिम् एव त्व् आर्याः प्रयुञ्जते ।+++(4)+++ दातिर् लवनार्थे प्राच्येषु, दात्रम् उदीच्येषु॥

ये चाप्येते भवतो ऽप्रयुक्ता अभिमताः शब्दा एतेषाम् अपि प्रयोगो दृश्यते ॥ क्व? वेदे। तद्यथा - ‘सप्तास्ये रेवती रेवदूष’, ‘यद् वो रेवती रेवत्यान् तमूष’, ‘यन्मे नरः श्रुत्यं ब्रह्म चक्र’, ‘यत्रा नश् चक्रा जरसं तनूनाम्’ इति ॥