०७ नित्यतापक्षनिर्णयः

अथ कं पुनः पदार्थं मत्वा एष विग्रहः क्रियते - +++(सिद्धे शब्दार्थसंबन्धे = )+++ सिद्धे शब्दे अर्थे संबन्धे चेति ? आकृतिम् इत्याह ॥
कुत एतत् ? आकृतिर् हि नित्या, द्रव्यम् अनित्यम् ॥

अथ द्रव्ये पदार्थे कथं विग्रहः कर्तव्यः ? +++(सिद्धे शब्दार्थसंबन्धे = )+++ सिद्धे शब्दे अर्थसंबन्धे चेति । नित्यो ह्य् अर्थवताम् अर्थैर् अभिसंबन्धः॥

आकृति-नित्यता

अथवा +++(परमाण्वादि-)+++द्रव्य एव पदार्थे एष विग्रहो न्याय्यः - +++(सिद्धे शब्दार्थसंबन्धे = )+++ सिद्धे शब्दे अर्थे संबन्धे चेति ।
+++(परमाण्वादि-)+++द्रव्यं हि नित्यम्, आकृतिरनित्या ॥ कथं ज्ञायते? एवं हि दृश्यते लोके - मृत् कयाचिद् आकृत्या युक्ता पिण्डो भवति, पिण्डाकृतिम् उपमृद्य घटिकाः क्रियन्ते, घटिकाकृतिम् उपमृद्य कुण्डिकाः क्रियन्ते । तथा - सुवर्णं कयाचिदाकृत्या युक्तं पिण्डो भवति, पिण्डाकृतिमुपमृद्य रुचकाः क्रियन्ते, रुचकाकृतिम् उपमृद्य कटकाः+++(=कङ्कणानि)+++ क्रियन्ते, कटकाकृतिम् उपमृद्य स्वस्तिकाः क्रियन्ते । पुनर् आवृत्तः सुवर्णपिण्डः पुनर् अपरयाऽऽकृत्या युक्तः खदिराङ्गारसवर्णे कुण्डले भवतः। आकृतिर् अन्या चान्या च भवति, द्रव्यं पुनस् तदेव । आकृत्युपमर्देन द्रव्यम् एवावशिष्यते ॥
+++(समाधानम् - )+++ आकृताव् अपि पदार्थ एष विग्रहो न्याय्यः - सिद्धे शब्दे अर्थे संबन्धे चेति ॥ ननु चोक्तम् - आकृतिर् अनित्या - इति ॥ नैतद् अस्ति । नित्याऽऽकृतिः॥ कथम्? न क्वचिद् उपरतेति कृत्वा सर्वत्रोपरता भवति । द्रव्यान्तरस्था तूपलभ्यते ॥

अथवा +++(व्यक्त्यन्तरे वर्तनम् इति)+++ नेदम् एव नित्य-लक्षणम् - ध्रुवं कूटस्थम् अविचाल्य् अनपाय+उपजन-विकार्य् अनुत्पत्त्य् अवृद्ध्य् अव्यय-योगि यत् तन् नित्यम् इति । तदपि नित्यं यस्मिंस् तत्त्वं न विहन्यते ॥ किं पुनस् तत्त्वम् ? तद्भावस् तत्त्वम् ॥ आकृताव् अपि तत्त्वं न विहन्यते ॥

अनित्यपक्षः

अथवा किं न एतेन - इदं नित्यम् - इदम् अनित्यम् इति। यन् नित्यं तं पदार्थं मत्वैष विग्रहः क्रियते - सिद्धे शब्देऽर्थे संबन्धे चेति ॥
कथं पुनर्ज्ञायते - सिद्धः शब्दोऽर्थः संबन्धश्चेति ? लोकतः +++(इति मूल उक्तम्)+++॥ यल् लोके ऽर्थम् अर्थम् उपादाय शब्दान् प्रयुञ्जते, नैषां निर्वृत्तौ यत्नं कुर्वन्ति ।+++(5)+++ ये पुनः कार्या भावा निर्वृत्तौ तावत् तेषां यत्नः क्रियते । तद् यथा - घटेन कार्यं करिष्यन् कुम्भकारकुलं गत्वाऽऽह - कुरु घटं कार्यमनेन करिष्यामीति । न तद्वच् छब्दान् प्रयुयुक्षमाणो वैयाकरणकुलं गत्वाऽऽह - कुरु शब्दान् प्रयोक्ष्य इति ।+++(5 अधुना तु तथैव कुर्वन्ति!)+++ तावत्य् एवार्थम् उपादाय शब्दान् प्रयुञ्जते ॥