कथं पुनर् इदं भगवतः पाणिनेर् आचार्यस्य लक्षणं प्रवृत्तम् ?
+++(“सिद्धे शब्दार्थसम्बन्धे, लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः, यथा लौकिकवैदिकेषु।” इति प्रथमं वार्तिकम् विवृणोति।)+++
सिद्धे शब्दार्थसंबन्धे = +++(समाहारद्वन्द्वेन)+++ सिद्धे शब्देऽर्थे संबन्धे चेति ॥
सिद्धशब्दविचारः
अथ सिद्धशब्दस्य कः पदार्थः? नित्यपर्यायवाची सिद्धशब्दः ॥ कथं ज्ञायते? - यत् कूटस्थेष्व् अविचालिषु भावेषु वर्तते । तद्यथा - सिद्धा द्यौः, सिद्धा पृथिवी, सिद्धम् आकाशमिति ॥
ननु च भोः कार्येष्वपि वर्तते । तद्यथा - सिद्ध ओदनः, सिद्धः सूपः, सिद्धा यवागूरिति । यावता कार्येष्व् अपि वर्तते, तत्र कुत एतत् - नित्य-पर्यायवाचिनो ग्रहणम्, न पुनः कार्ये यः सिद्धशब्द इति?
- संग्रहे तावत् कार्य-प्रतिद्वन्द्वि-भावान् मन्यामहे नित्यपर्यायवाचिनो ग्रहणम् इति । इहापि तदेव ॥
- अथवा सन्त्य् एकपदान्य् अप्य् अवधारणानि । तद्यथा अब्भक्षो वायुभक्ष इति, अप एव भक्षयति - वायुम् एव भक्षयतीति गम्यते । एवम् इहापि - सिद्ध एव, न साध्य इति ॥ +++(किन्तु सिद्धशब्दो न समासः। अतः कारणान्तरं चिन्तनीयम्।)+++
- अथवा पूर्वपदलोपोऽत्र द्रष्टव्यः – अत्यन्तसिद्धः सिद्ध इति । तद्यथा - देवदत्तः - दत्तः, सत्यभामा भामेति ॥
- अथवा ‘व्याख्यानतो विशेषप्रतिपत्तिर्, न हि सन्देहाद् +++(लक्षणम्)+++ अलक्षणम् +++(भवति)+++’+++(5 कुलक्षणं तु स्यात्!)+++ इति नित्य-पर्याय-वाचिनो ग्रहणम् इति व्याख्यास्यामः॥
किं पुनरनेन वर्ण्येन । किं न महता कण्ठेन नित्यशब्द एवोपात्तः, यस्मिन्नुपादीयमानेऽसंदेहः स्यात् ?
मङ्गलार्थम् ॥+++(5)+++ +++(कात्यायनो)+++ माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं सिद्ध-शब्दम् आदितः प्रयुङ्क्ते । मङ्गलादीनि हि शास्त्राणि प्रथन्ते, वीर+++(पठितृ)+++पुरुषाणि च भवन्ति, आयुष्मत्+++(पठितृ)+++पुरुषाणि चाध्येतारश्च सिद्धार्था यथा स्युरिति ॥
+++(सिद्धशब्दस्य स्थाने नित्यशब्द एवाभविष्यद् इति चिन्तायाम् - )+++ अयं खलु नित्यशब्दो नावश्यं कूटस्थेष्व् अविचालिषु भावेषु वर्तते। किं तर्हि ? आभीक्ष्ण्येऽपि वर्तते +++(न केवलं शाश्वततायाम्)+++ । तद्यथा - नित्यप्रहसितो नित्यप्रजल्पित इति । यावता आभीक्ष्ण्येऽपि, तत्राप्य् अनेनैवार्थः स्यात् - ‘व्याख्यानतो विशेष-प्रतिपत्तिर्न हि सन्देहाद् अलक्षणम्’ इति । पश्यति त्व् आचार्यो - “मङ्गलार्थश् चैव सिद्धशब्द आदितः प्रयुक्तो भविष्यति, शक्ष्यामि चैनं नित्य-पर्यायवाचिनं वर्णयितुम्” इति । अतः सिद्धशब्द एवोपात्तो न नित्य-शब्दः॥
अथ कं पुनः पदार्थं मत्वा एष विग्रहः क्रियते - सिद्धे शब्दे अर्थे संबन्धे चेति ? \r\nआकृतिमित्याह ॥ \r\nकुत एतत् ? आकृतिर्हि नित्या, द्रव्यमनित्यम् ॥ \r\nअथ द्रव्ये पदार्थे कथं विग्रहः कर्तव्यः ? \r\nसिद्धे शब्दे अर्थसंबन्धे चेति । नित्यो ह्यर्थवतामर्थैरभिसंबन्धः॥