शब्दानुशासनम् इदानीं कर्तव्यम् ।
किं शब्दोपदेशः कर्तव्यः, आहोस्विद् अपशब्दोपदेशः, आहोस्विद् उभयोपदेश इति?
अन्यतरोपदेशेन कृतं स्यात् । तद् यथा - भक्ष्य-नियमेनाभक्ष्य-प्रतिषेधो गम्यते । ‘पञ्च पञ्चनखा भक्ष्याः’ इत्युक्ते गम्यत एतत् - अतोऽन्येऽभक्ष्या इति ॥ अभक्ष्यप्रतिषेधेन च भक्ष्यनियमः । तद्यथा - ‘अभक्ष्यो ग्राम्यकुक्कुटः - अभक्ष्यो ग्राम्यसूकरः’ इत्युक्ते गम्यत एतत् - आरण्यो भक्ष्य इति ॥ एवम् इहापि। यदि तावच् छब्दोपदेशः क्रियते, गौर् इत्येतस्मिन्न् उपदिष्टे गम्यत एतत् - गाव्यादयोऽपशब्दा इति । अथाप्य् अपशब्दोपदेशः क्रियेत, गाव्यादिषूपदिष्टेषु गम्यत एतत् - गौरित्य् एष शब्द इति ॥
किं पुनरत्र ज्यायः? लघुत्वाच् छब्दोपदेशः । लघीयाञ् छब्दोपदेशः । गरीयान् अपशब्दोपदेशः । एकैकस्य शब्दस्य बहवो ऽपभ्रंशाः । तद् यथा - गौर् इत्य् अस्य शब्दस्य गावी गोणी गोता गोपोतलिका - इत्य् एवम् आदयो ऽपभ्रंशाः। इष्टान्वाख्यानं +++(→साधुशब्दसूचिदर्शनं)+++ खल्वपि भवति ॥
अथैतस्मिञ् शब्दोपदेशे सति किं शब्दानां प्रतिपत्तौ प्रतिपदपाठः कर्तव्यः - गौरश्वः पुरुषो हस्ती शकुनिर् मृगो ब्राह्मण इत्येवमादयः शब्दाः पठितव्याः ?
नेत्याह । अनभ्युपाय एष शब्दानां प्रतिपत्तौ प्रतिपदपाठः ॥ एवं हि श्रूयते - ‘बृहस्पतिर् इन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच नान्तं जगाम’ ॥ बृहस्पतिश्च प्रवक्ता, इन्द्रश्चाध्येता, दिव्यं वर्षसहस्रमध्ययनकालः, न चान्तं जगाम । किं पुनरद्यत्वे ? यः सर्वथा चिरं जीवति - वर्षशतं जीवति । चतुर्भिश् च प्रकारैर् विद्योपयुक्ता भवति - आगम-कालेन, स्वाध्याय-कालेन, प्रवचन-कालेन, व्यवहार-कालेनेति । तत्र चास्यागमकालेनैवायुः पर्युपयुक्तं स्यात् । तस्माद् अनभ्युपायः शब्दानां प्रतिपत्तौ प्रतिपदपाठः॥+++(4)+++
कथं तर्हीमे शब्दाः प्रतिपत्तव्याः? किंचित् सामान्य-विशेषवल्-लक्षणं प्रवर्त्यम् । येनाल्पेन यत्नेन महतो महतः शब्दौघान् प्रतिपद्येरन् ॥ किं पुनस् तत् ? उत्सर्गापवादौ । कश्चिदुत्सर्गः कर्तव्यः, कश्चिदपवादः ॥+++(5)+++
कथंजातीयकः पुनर् उत्सर्गः कर्तव्यः, कथंजातीयको ऽपवादः?
सामान्येनोत्सर्गः कर्तव्यः । तद्यथा - ‘कर्मण्य् अण्’। तस्य विशेषेणापवादः । तद्यथा - ‘आतो ऽनुपसर्गे कः’ ॥