विश्वास-प्रस्तुतिः - 118
नपुंसकम्
मूलम् - 118
नपुंसकम्
सिद्धान्त-कौमुदी - 118
अधिकारोऽयम् ।
विश्वास-प्रस्तुतिः - 119
भावे ल्युडन्तः
मूलम् - 119
भावे ल्युडन्तः
सिद्धान्त-कौमुदी - 119
हसनम् । भावे किम् ? पचनोऽग्निः । इध्मप्रवचनः कुठारः ।
विश्वास-प्रस्तुतिः - 120
निष्ठा च
मूलम् - 120
निष्ठा च
सिद्धान्त-कौमुदी - 120
भावे या निष्ठा तदन्तं क्लीबन्तं स्यात् । हसितम् । गीतम् ।
विश्वास-प्रस्तुतिः - 121
त्वष्यञौ तद्धितौ
मूलम् - 121
त्वष्यञौ तद्धितौ
सिद्धान्त-कौमुदी - 121
शुक्लत्वम् । शौक्ल्यम् । ष्येञः षित्वसामर्थ्यात् पक्षे स्त्रीत्वम् । चातुर्यम् । चातुरी । सामग्र्यम् । सामग्री । औचित्यम् । औचिती ।
विश्वास-प्रस्तुतिः - 122
कर्मणि च ब्राह्मणादिगुणवचनेभ्यः
मूलम् - 122
कर्मणि च ब्राह्मणादिगुणवचनेभ्यः
सिद्धान्त-कौमुदी - 122
ब्राह्मणस्य कर्म ब्राह्मण्यम् ।
विश्वास-प्रस्तुतिः - 123
यद्यढग्यगयण्बुञ्छाश्च भावकर्मणि
मूलम् - 123
यद्यढग्यगयण्बुञ्छाश्च भावकर्मणि
सिद्धान्त-कौमुदी - 123
एतदन्तानि क्लीबानि । «स्तेनाद्यन्नलोपश्च» [[5.1.125]] - स्तेयम् । «सख्युर्यः» [[5.1.126]] - सख्यम् । «कपिज्ञातोर्ढक्» [[5.1.127]] - कापेयम् । «पत्यन्तपुरोहितादिभ्यो यक्» [[5.1.128]] - आधिपत्यम् । «प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्» [[5.1.129]] - औष्ट्रम् । «हायनान्तयुवादिभ्योऽण्» [[5.1.130]] - द्वैहायनम् । «द्वन्द्वमनोज्ञादिभ्यश्च» [[5.1.133]] - पितापुत्रकम् । «होत्राभ्यश्छः» [[5.1.135]] - अच्छावायीकम् । «अव्ययीभावः» [[2.4.18]] - अधिस्त्री ।
विश्वास-प्रस्तुतिः - 124
द्वन्द्वैकत्वम्
मूलम् - 124
द्वन्द्वैकत्वम्
सिद्धान्त-कौमुदी - 124
पाणिपादम् ।
विश्वास-प्रस्तुतिः - 125
अभाषायां हेमन्तशिशिरावहोरात्रे च
मूलम् - 125
अभाषायां हेमन्तशिशिरावहोरात्रे च
सिद्धान्त-कौमुदी - 125
स्पष्टम् ।
विश्वास-प्रस्तुतिः - 126
अनञ्कर्मधारयस्तत्पुरुषः
मूलम् - 126
अनञ्कर्मधारयस्तत्पुरुषः
सिद्धान्त-कौमुदी - 126
अधिकारोऽयम् ।
विश्वास-प्रस्तुतिः - 127
अनल्पे छाया
मूलम् - 127
अनल्पे छाया
सिद्धान्त-कौमुदी - 127
शरच्छायम् ।
विश्वास-प्रस्तुतिः - 128
राजाऽमनुष्यपूर्वा सभा
मूलम् - 128
राजाऽमनुष्यपूर्वा सभा
सिद्धान्त-कौमुदी - 128
इनसभमित्यादि ।
विश्वास-प्रस्तुतिः - 129
सुरासेनाच्छायाशालानिशा स्त्रियां च
मूलम् - 129
सुरासेनाच्छायाशालानिशा स्त्रियां च
विश्वास-प्रस्तुतिः - 130
परवत्
मूलम् - 130
परवत्
सिद्धान्त-कौमुदी - 130
अन्यस्तत्पुरुषः परवल्लिङ्गः स्यात् । रात्राह्नाहाः पुंसि ।
विश्वास-प्रस्तुतिः - 131
अपथपुण्याहे नपुंसके
मूलम् - 131
अपथपुण्याहे नपुंसके
विश्वास-प्रस्तुतिः - 132
संख्यापूर्वा रात्रिः
मूलम् - 132
संख्यापूर्वा रात्रिः
सिद्धान्त-कौमुदी - 132
त्रिरात्रम् । सङ्ख्यापूर्वेति किम् ? सर्वरात्रः ।
विश्वास-प्रस्तुतिः - 133
द्विगुः स्त्रियां च
मूलम् - 133
द्विगुः स्त्रियां च
सिद्धान्त-कौमुदी - 133
व्यवस्थया । पञ्चमूली । त्रिभुवनम् ।
विश्वास-प्रस्तुतिः - 134
इसुसन्तः
मूलम् - 134
इसुसन्तः
सिद्धान्त-कौमुदी - 134
हविः । धनुः ।
विश्वास-प्रस्तुतिः - 135
अर्चिः स्त्रियां च
मूलम् - 135
अर्चिः स्त्रियां च
सिद्धान्त-कौमुदी - 135
इसन्तत्वेऽपि अर्चिः । स्त्रियां नपुंसके च स्यात् । इयमिदं वा अर्चिः ।
विश्वास-प्रस्तुतिः - 136
छदिः स्त्रियामेव
मूलम् - 136
छदिः स्त्रियामेव
सिद्धान्त-कौमुदी - 136
इयं छदिः । छद्यते अनेन इति छादेश्चुरादिण्यन्तादर्चिशुचीत्यादिना इस् । इस्मन्नित्यादिना ह्रस्वः । पटलं छदिरित्यमरः । तत्र पटलसाहचर्याच्छदिषः क्लीबतां वदन्तोऽमरव्याख्यातारः उपेक्ष्याः ।
विश्वास-प्रस्तुतिः - 137
मुखनयनलोहवनमांसरुधिरकार्मुकविवरजलहलधनान्नाभिधानानि
मूलम् - 137
मुखनयनलोहवनमांसरुधिरकार्मुकविवरजलहलधनान्नाभिधानानि
सिद्धान्त-कौमुदी - 137
एतेषामभिधानानि क्लीबे स्युः । मुखमाननम् । नयनं लोचनम् । लोहं कालम् । वनं गहनम् । मांसमामिषम् । रुधिरं रक्तम् । कार्मुकं शरासनम् । विवरं बिलम् । जलं वारि । हलं लाङ्गलम् । धनं द्रविणम् । अन्नमशनम् । अस्यापवादानाह त्रिसूत्र्या ।
विश्वास-प्रस्तुतिः - 138
सीरार्थौदनाः पुंसि
मूलम् - 138
सीरार्थौदनाः पुंसि
विश्वास-प्रस्तुतिः - 139
वक्त्रनेत्रारण्यगाण्डीवानि पुंसि च
मूलम् - 139
वक्त्रनेत्रारण्यगाण्डीवानि पुंसि च
सिद्धान्त-कौमुदी - 139
वक्त्रो वक्त्रम् । नेत्रो नेत्रम् । अरण्योऽरण्यम् । गाण्डीवो गाण्डीवम् ।
विश्वास-प्रस्तुतिः - 140
अटवी स्त्रियाम्
मूलम् - 140
अटवी स्त्रियाम्
विश्वास-प्रस्तुतिः - 141
लोपधः
मूलम् - 141
लोपधः
सिद्धान्त-कौमुदी - 141
कुलम् । कूलम् । स्थलम् ।
विश्वास-प्रस्तुतिः - 142
तूलोपलतालकुसूलतरलकम्बलदेवलवृषलाः पुंसि
मूलम् - 142
तूलोपलतालकुसूलतरलकम्बलदेवलवृषलाः पुंसि
सिद्धान्त-कौमुदी - 142
अयं तूलः
विश्वास-प्रस्तुतिः - 143
शीलमूलमङ्गलसालकमलतलमुसलकुण्डलपललमृणालवालनिगलपलालबिडालखिलशूलाः पुंसि च
मूलम् - 143
शीलमूलमङ्गलसालकमलतलमुसलकुण्डलपललमृणालवालनिगलपलालबिडालखिलशूलाः पुंसि च
सिद्धान्त-कौमुदी - 143
चात्क्लीबे । शीलं शीलः इत्यादि ।
विश्वास-प्रस्तुतिः - 144
शतादिः संख्या
मूलम् - 144
शतादिः संख्या
सिद्धान्त-कौमुदी - 144
शतम् । सहस्रम् । शतादिरिति किम् ? एक द्वौ बहवः । सङ्ख्येति किम् ? शतशृङ्गो नाम पर्वतः ।
विश्वास-प्रस्तुतिः - 145
शतायुतप्रयुताः पुंसि च
मूलम् - 145
शतायुतप्रयुताः पुंसि च
सिद्धान्त-कौमुदी - 145
अयं शतः । इदं शतम् इत्यादि ।
विश्वास-प्रस्तुतिः - 146
लक्षा कोटिः स्त्रियाम्
मूलम् - 146
लक्षा कोटिः स्त्रियाम्
सिद्धान्त-कौमुदी - 146
इयं लक्षा । इयं कोटिः । वा लक्षा नियुतं च तदित्यमरात् क्लीबेऽपि लक्षम् ।
विश्वास-प्रस्तुतिः - 147
शङ्कुः पुंसि
मूलम् - 147
शङ्कुः पुंसि
विश्वास-प्रस्तुतिः - 148
सहस्रः क्वचित्
मूलम् - 148
सहस्रः क्वचित्
सिद्धान्त-कौमुदी - 148
अयं सहस्रः । इदं सहस्रम् ।
विश्वास-प्रस्तुतिः - 149
मन्द्व्यच्कोऽकर्तरि
मूलम् - 149
मन्द्व्यच्कोऽकर्तरि
सिद्धान्त-कौमुदी - 149
मन्प्रत्ययान्तो द्व्यच्कः क्लीबः स्यान्न तु कर्तरि । वर्म । चर्म । द्व्यच्कः किम् - अणिमा । महिमा । अकर्तरि किम् ? ददातीति दामा ।
विश्वास-प्रस्तुतिः - 150
ब्रह्मन् पुंसि च
मूलम् - 150
ब्रह्मन् पुंसि च
सिद्धान्त-कौमुदी - 150
अयं ब्रह्मा । इदं ब्रह्म ।
विश्वास-प्रस्तुतिः - 151
नामरोमणी नपुंसके
मूलम् - 151
नामरोमणी नपुंसके
सिद्धान्त-कौमुदी - 151
‘मन्द्व्यच्क’ इत्यस्यायं प्रपञ्चः ।
विश्वास-प्रस्तुतिः - 152
असन्तो द्व्यच्कः
मूलम् - 152
असन्तो द्व्यच्कः
सिद्धान्त-कौमुदी - 152
यशः । मनः । तपः । द्व्यच्कः किम् ? चन्द्रमाः ।
विश्वास-प्रस्तुतिः - 153
अप्सराः स्त्रियाम्
मूलम् - 153
अप्सराः स्त्रियाम्
सिद्धान्त-कौमुदी - 153
एता अप्सरसः । प्रायेणायं बहुवचनान्तः ।
विश्वास-प्रस्तुतिः - 154
त्रान्तः
मूलम् - 154
त्रान्तः
सिद्धान्त-कौमुदी - 154
पत्रम् । छत्रम् ।
विश्वास-प्रस्तुतिः - 155
यात्रामात्राभस्त्रादंष्ट्रावरत्राः स्त्रियामेव
मूलम् - 155
यात्रामात्राभस्त्रादंष्ट्रावरत्राः स्त्रियामेव
विश्वास-प्रस्तुतिः - 156
भृत्रामित्रछात्रपुत्रमन्त्रवृत्रमेढोष्ट्राः पुंस
मूलम् - 156
भृत्रामित्रछात्रपुत्रमन्त्रवृत्रमेढोष्ट्राः पुंस
सिद्धान्त-कौमुदी - 156
अयं भृत्रः ।
विश्वास-प्रस्तुतिः - 157
पत्रपात्रपवित्रसूत्रच्छत्राः पुंसि च
मूलम् - 157
पत्रपात्रपवित्रसूत्रच्छत्राः पुंसि च
विश्वास-प्रस्तुतिः - 158
बलकुसुमशुल्बपत्तनरणाभिधानानि
मूलम् - 158
बलकुसुमशुल्बपत्तनरणाभिधानानि
सिद्धान्त-कौमुदी - 158
बलं वीर्यम् ।
विश्वास-प्रस्तुतिः - 159
पद्मकमलोत्पलानि पुंसि च
मूलम् - 159
पद्मकमलोत्पलानि पुंसि च
सिद्धान्त-कौमुदी - 159
पद्मादयः शब्दाः कुसुमाभिधायित्वेऽपि द्विलिङ्गाः स्तुः । अमरोऽप्याह वा पुंसि पद्मं नलिनमिति । एवं चार्धर्चादिसूत्रे तु जलजे पद्मं नपुंसकमेवेति वृत्तिग्रन्थो मतान्तरेण नेयः ।
विश्वास-प्रस्तुतिः - 160
आहवसङ्ग्रामौ पुंसि
मूलम् - 160
आहवसङ्ग्रामौ पुंसि
विश्वास-प्रस्तुतिः - 161
आजिः स्त्रियामेव
मूलम् - 161
आजिः स्त्रियामेव
विश्वास-प्रस्तुतिः - 162
फलजातिः
मूलम् - 162
फलजातिः
सिद्धान्त-कौमुदी - 162
फलजातिवाची शब्दो नपुंसकः स्यात् । आमलकम् । आम्रम् ।
विश्वास-प्रस्तुतिः - 163
वृक्षजातिः स्त्रियामेव
मूलम् - 163
वृक्षजातिः स्त्रियामेव
सिद्धान्त-कौमुदी - 163
क्वचिदेवेदम् । हरीतकी ।
विश्वास-प्रस्तुतिः - 164
वियज्जगत्सकृत्शकन्पृषत्शकृद्यकृदुदश्वितः
मूलम् - 164
वियज्जगत्सकृत्शकन्पृषत्शकृद्यकृदुदश्वितः
सिद्धान्त-कौमुदी - 164
एते क्लीबाः स्युः ।
विश्वास-प्रस्तुतिः - 165
नवनीतावतानानृतामृतनिमित्तवित्तचित्तपित्तव्रतरजतवृत्तपलितानि
मूलम् - 165
नवनीतावतानानृतामृतनिमित्तवित्तचित्तपित्तव्रतरजतवृत्तपलितानि
विश्वास-प्रस्तुतिः - 166
श्राद्धकुलिशदैवपीठकुण्डाङ्काङ्गदधिसक्थक्ष्यास्यास्पदाकाशकण्वबीजानि
मूलम् - 166
श्राद्धकुलिशदैवपीठकुण्डाङ्काङ्गदधिसक्थक्ष्यास्यास्पदाकाशकण्वबीजानि
सिद्धान्त-कौमुदी - 166
एतानि क्लीबे स्युः ।
विश्वास-प्रस्तुतिः - 167
दैवं पुंसि च
मूलम् - 167
दैवं पुंसि च
सिद्धान्त-कौमुदी - 167
दैवम्, दैवः ।
विश्वास-प्रस्तुतिः - 168
धान्याज्यसस्यरूप्यपण्यवर्ण्यधृष्यहव्यकव्यकाव्यसत्यापत्यमूल्यशिक्यकुड्यमद्यहर्म्यतूर्यसैन्यानि
मूलम् - 168
धान्याज्यसस्यरूप्यपण्यवर्ण्यधृष्यहव्यकव्यकाव्यसत्यापत्यमूल्यशिक्यकुड्यमद्यहर्म्यतूर्यसैन्यानि
सिद्धान्त-कौमुदी - 168
इदं धान्यमित्यादि
विश्वास-प्रस्तुतिः - 169
द्वन्द्वबर्हदुःखबडिशपिच्छबिम्बकुटुम्बकवचवरशरवृन्दारकाणि
मूलम् - 169
द्वन्द्वबर्हदुःखबडिशपिच्छबिम्बकुटुम्बकवचवरशरवृन्दारकाणि
विश्वास-प्रस्तुतिः - 170
अक्षमिन्द्रिये
मूलम् - 170
अक्षमिन्द्रिये
सिद्धान्त-कौमुदी - 170
इन्द्रिये किम् ? रथाङ्गादौ मा भूत् । इति नपुंसकाधिकारः ॥
विश्वास-प्रस्तुतिः - 171
स्त्रीपुंसयोः
मूलम् - 171
स्त्रीपुंसयोः
सिद्धान्त-कौमुदी - 171
अधिकारोऽयम्
विश्वास-प्रस्तुतिः - 172
गोमणियष्टिमुष्टिपाटलिवस्तिशाल्मलित्रुटिमसिमरीचयः
मूलम् - 172
गोमणियष्टिमुष्टिपाटलिवस्तिशाल्मलित्रुटिमसिमरीचयः
सिद्धान्त-कौमुदी - 172
इयं वा गौः ।
विश्वास-प्रस्तुतिः - 173
मृत्युसीधुकर्कन्धुकिष्कुकण्डुरेणवः
मूलम् - 173
मृत्युसीधुकर्कन्धुकिष्कुकण्डुरेणवः
सिद्धान्त-कौमुदी - 173
इयमयं वा मृत्युः ।
विश्वास-प्रस्तुतिः - 174
गुणवचनमुकारान्तं नपुंसकं च
मूलम् - 174
गुणवचनमुकारान्तं नपुंसकं च
सिद्धान्त-कौमुदी - 174
त्रिलिङ्गमित्यर्थः । पटु । पटुः । पट्वी ।
विश्वास-प्रस्तुतिः - 175
अपत्यार्थतद्धिते
मूलम् - 175
अपत्यार्थतद्धिते
सिद्धान्त-कौमुदी - 175
औपगवः । औपवगी । इति स्त्रीपुंसाधिकारः ॥
विश्वास-प्रस्तुतिः - 176
पुंनपुंसकयोः
मूलम् - 176
पुंनपुंसकयोः
सिद्धान्त-कौमुदी - 176
अधिकारोऽयम् ।
विश्वास-प्रस्तुतिः - 177
घृतभूतमुस्तक्ष्वेलितैरावतपुस्तकबुस्तलोहिताः
मूलम् - 177
घृतभूतमुस्तक्ष्वेलितैरावतपुस्तकबुस्तलोहिताः
सिद्धान्त-कौमुदी - 177
अयं घृतः । इदं घृतम् ।
विश्वास-प्रस्तुतिः - 178
शृङ्गार्घनिदाघोद्यमशल्यदृढाः
मूलम् - 178
शृङ्गार्घनिदाघोद्यमशल्यदृढाः
सिद्धान्त-कौमुदी - 178
अयं शृङ्गः । इदं शृङ्गम् ।
विश्वास-प्रस्तुतिः - 179
वज्रकुञ्जकुथकूर्चप्रस्थदर्पार्भार्धर्चदर्भपुच्छाः
मूलम् - 179
वज्रकुञ्जकुथकूर्चप्रस्थदर्पार्भार्धर्चदर्भपुच्छाः
सिद्धान्त-कौमुदी - 179
अयं वज्रः । इदं वज्रम् ।
विश्वास-प्रस्तुतिः - 180
कबन्धौषधायुधान्ताः
मूलम् - 180
कबन्धौषधायुधान्ताः
सिद्धान्त-कौमुदी - 180
स्पष्टम् ।
विश्वास-प्रस्तुतिः - 181
दण्डमण्डखमशमसैन्धवपार्श्वाकाशकुशकाशाङ्कुशकुलिशाः
मूलम् - 181
दण्डमण्डखमशमसैन्धवपार्श्वाकाशकुशकाशाङ्कुशकुलिशाः
सिद्धान्त-कौमुदी - 181
एते पुंनपुंसकयोः स्तुः । कुशो रामसुते दर्भे योक्त्रे द्वीपे कुशं जले - इति विश्वः । शलाकावाची तु स्त्रियाम् । तथा च «जानपदकुण्ड…> [[4.1.42]] इति सूत्रेणायोचिकारे ङीषि कुशी । दारुणि तु टाप् । कुशा वानस्पत्याः स्थ ता मा पातेति श्रुतिः । «अतः कृकमि…» [[8.3.46]] इति सूत्रे कुशाकर्णीश्विति प्रयोगश्च । व्याससूत्रे च । हानी तूपायनशब्दे शेषत्वात्कुशाच्छन्द इति । तत्र शारीरकभाष्येऽप्येवम् । एवं च श्रुतिसूत्रभाष्याणामेकवाक्यत्वे स्थिते आच्छन्द इत्याङ्प्रश्लेषादिपरो भामतीग्रन्थः प्रौढिवादमात्रपर इति विभावनीयं बहुश्रुतैः ।
विश्वास-प्रस्तुतिः - 182
गृहमेहदेहपट्टपटहाष्टापदाम्बुदककुदाश्च ।
मूलम् - 182
गृहमेहदेहपट्टपटहाष्टापदाम्बुदककुदाश्च ।
सिद्धान्त-कौमुदी - 182
इति पुंनपुंसकाधिकारः ॥
विश्वास-प्रस्तुतिः - 183
अविशिष्टलिङ्गम्
मूलम् - 183
अविशिष्टलिङ्गम्
विश्वास-प्रस्तुतिः - 184
अव्ययं कतियुष्मदः
मूलम् - 184
अव्ययं कतियुष्मदः
विश्वास-प्रस्तुतिः - 185
ष्णान्ता सङ्ख्या
मूलम् - 185
ष्णान्ता सङ्ख्या
सिद्धान्त-कौमुदी - 185
शिष्टा परवत् । एकः पुरुषः । एका स्त्री । एकं कुलम् ।
विश्वास-प्रस्तुतिः - 186
गुणवचनं च
मूलम् - 186
गुणवचनं च
सिद्धान्त-कौमुदी - 186
शुक्लः पटः । शुक्ला पटी । शुक्लं वस्त्रम् ।
विश्वास-प्रस्तुतिः - 187
कृत्याश्च
मूलम् - 187
कृत्याश्च
विश्वास-प्रस्तुतिः - 188
करणाधिकरणयोर्ल्युट् च
मूलम् - 188
करणाधिकरणयोर्ल्युट् च
विश्वास-प्रस्तुतिः - 189
सर्वादीनि सर्वनामानि
मूलम् - 189
सर्वादीनि सर्वनामानि
सिद्धान्त-कौमुदी - 189
स्पष्टार्थेयं त्रिसूची ।