विश्वास-प्रस्तुतिः - 35
पुमान्
मूलम् - 35
पुमान्
सिद्धान्त-कौमुदी - 35
अधिकारोऽयम्
विश्वास-प्रस्तुतिः - 36
घञबन्तः
मूलम् - 36
घञबन्तः
सिद्धान्त-कौमुदी - 36
पाकः । त्यागः । करः । गरः । भावार्थे एवेदम् । नपुंसकत्वविशिष्टे भावे क्तल्युड्भ्यां स्त्रीत्वविशिष्टे तु क्तिन्नाडिभिर्बाधेन परिशेषात् । कर्मादौ तु घञाद्यन्तमपि विशेष्यलिङ्गम् । तथा च भाष्यम् । सम्बन्धमनुवर्तिष्यत इति ।
विश्वास-प्रस्तुतिः - 37
घाजन्तश्च
मूलम् - 37
घाजन्तश्च
सिद्धान्त-कौमुदी - 37
विस्तरः । गोचरः । चयः । जयः । इत्यादि ।
विश्वास-प्रस्तुतिः - 38
भयलिङ्गभगपदानि नपुंसके
मूलम् - 38
भयलिङ्गभगपदानि नपुंसके
सिद्धान्त-कौमुदी - 38
एतानि नपुंसके स्युः । भयम् । लिङ्गम् । भगम् । पदम् ।
विश्वास-प्रस्तुतिः - 39
नङन्तः
मूलम् - 39
नङन्तः
सिद्धान्त-कौमुदी - 39
नङ्प्रत्ययान्तः पुंसि स्यात् । यज्ञः । यत्नः ।
विश्वास-प्रस्तुतिः - 40
याच्ञा स्त्रियाम्
मूलम् - 40
याच्ञा स्त्रियाम्
सिद्धान्त-कौमुदी - 40
पूर्वस्यापवादः
विश्वास-प्रस्तुतिः - 41
क्यन्तो घुः
मूलम् - 41
क्यन्तो घुः
सिद्धान्त-कौमुदी - 41
किप्रत्ययान्तो घुः पुंसि स्यात् । आधिः । निधिः । उदधिः । क्यन्तः किम् ? दानम् । घुः किम् ? जज्ञिर्बीजम् ।
विश्वास-प्रस्तुतिः - 42
इषुधि स्त्री च
मूलम् - 42
इषुधि स्त्री च
सिद्धान्त-कौमुदी - 42
इषुधिशब्दः स्त्रियां पुंसि च । पूर्वस्यापवादः ।
विश्वास-प्रस्तुतिः - 43
देवासुरात्मस्वर्गगिरिसमुद्रनखकेशदन्तस्तनभुजकण्ठखड्गशरपङ्काभिधानानि
मूलम् - 43
देवासुरात्मस्वर्गगिरिसमुद्रनखकेशदन्तस्तनभुजकण्ठखड्गशरपङ्काभिधानानि
सिद्धान्त-कौमुदी - 43
एतानि पुंसि स्युः । देवाः सुराः । असुराः दैत्याः । आत्मा क्षेत्रज्ञः । स्वर्गो नाकः । गिरिः पर्वतः । समुद्रोऽब्धिः । नखः कररुहः । केशः शिरोरुहः । दन्तो दशनः । स्तनः कुचः । भुजो दोः । कण्ठो गलः । खड्गः करवालः । शरो मार्गणः । पङ्कः कर्दमः इत्यादु ।
विश्वास-प्रस्तुतिः - 44
त्रिविष्टपत्रिभुवने नपुंसके
मूलम् - 44
त्रिविष्टपत्रिभुवने नपुंसके
सिद्धान्त-कौमुदी - 44
स्पष्टम् । तृतीयं विष्टपं त्रिपिष्टपम् । स्वर्गाभिधानतया पुंस्त्वे प्राप्ते अयमारम्भः ।
विश्वास-प्रस्तुतिः - 45
द्यौः स्त्रियाम्
मूलम् - 45
द्यौः स्त्रियाम्
सिद्धान्त-कौमुदी - 45
द्योदिवोस्तन्त्रेणोपादानमिदम् ।
विश्वास-प्रस्तुतिः - 46
इषुबाहू स्त्रियां च
मूलम् - 46
इषुबाहू स्त्रियां च
सिद्धान्त-कौमुदी - 46
चात्पुंसि ।
विश्वास-प्रस्तुतिः - 47
बाणकाण्डौ नपुंसके च
मूलम् - 47
बाणकाण्डौ नपुंसके च
सिद्धान्त-कौमुदी - 47
चात्पुंसि । त्रिविष्टपेत्यादिचतुःसूत्री देवासुरेत्यस्यापवादः ।
विश्वास-प्रस्तुतिः - 48
नान्तः
मूलम् - 48
नान्तः
सिद्धान्त-कौमुदी - 48
अयं पुंसि । राजा । तक्षा । न च चर्मवर्मादिष्वतिव्याप्तिः ‘मन्द्व्यच्कोऽकर्तरि’ इति नपुंसकप्रकरणे वक्ष्यमाणत्वात् ।
विश्वास-प्रस्तुतिः - 49
क्रतुपुरुषकपोलगुल्फमेघाभिधानानि
मूलम् - 49
क्रतुपुरुषकपोलगुल्फमेघाभिधानानि
सिद्धान्त-कौमुदी - 49
क्रतुरध्वरः । पुरुषो नरः । कपोलो गरुडः । गुल्फः प्रपदः । मेघो नीरदः ।
विश्वास-प्रस्तुतिः - 50
अभ्रं नपुंसकम्
मूलम् - 50
अभ्रं नपुंसकम्
सिद्धान्त-कौमुदी - 50
पूर्वस्यापवादः
विश्वास-प्रस्तुतिः - 51
उकारान्तः
मूलम् - 51
उकारान्तः
सिद्धान्त-कौमुदी - 51
अयं पुंसि स्यात् । प्रभुः । इक्षुः । हनुर्हट्टविलासिन्यां नृत्यारम्भे गदे स्त्रियाम् । द्वयोः कपोकावयव इति मेदिनी । करेणुरिभ्यां स्त्री नेभे इत्यमरः । एवंजातीयकविशेषवचनानाक्रान्तस्तु प्रकृतसूत्रस्य विषयः । उक्तं च - लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाधित इति । एवमन्यत्रापि ।
विश्वास-प्रस्तुतिः - 52
धेनुरज्जुकुहूसरयुतनुरेणुप्रियङ्गवः स्त्रियाम् ।
मूलम् - 52
धेनुरज्जुकुहूसरयुतनुरेणुप्रियङ्गवः स्त्रियाम् ।
विश्वास-प्रस्तुतिः - 53
समासे रज्जुः पुंसि च
मूलम् - 53
समासे रज्जुः पुंसि च
सिद्धान्त-कौमुदी - 53
कर्कटरज्वा । कर्कटरज्जुना ।
विश्वास-प्रस्तुतिः - 54
श्मश्रुजानुवसुस्वाद्वश्रुजतुत्रयपुतालूनि नपुंसके
मूलम् - 54
श्मश्रुजानुवसुस्वाद्वश्रुजतुत्रयपुतालूनि नपुंसके
विश्वास-प्रस्तुतिः - 55
वसु चार्थवाचि
मूलम् - 55
वसु चार्थवाचि
सिद्धान्त-कौमुदी - 55
अर्थवाचीति किम् ? वसूर्मयुखाग्निधनाधिपेषु ।
विश्वास-प्रस्तुतिः - 56
मद्गुमधुसीधुशीधुसानुकमण्डलूनि नपुंसके च
मूलम् - 56
मद्गुमधुसीधुशीधुसानुकमण्डलूनि नपुंसके च
सिद्धान्त-कौमुदी - 56
चात्पुंसि अयं मद्गुः । इदं मद्गु ।
विश्वास-प्रस्तुतिः - 57
रुत्वन्तः
मूलम् - 57
रुत्वन्तः
सिद्धान्त-कौमुदी - 57
मेरुः । सेतुः ।
विश्वास-प्रस्तुतिः - 58
दारुकशेरुजतुवस्तुमस्तूनि नपुंसके
मूलम् - 58
दारुकशेरुजतुवस्तुमस्तूनि नपुंसके
सिद्धान्त-कौमुदी - 58
रुत्वन्त इति पुंस्त्वस्यापवादः । इदं दारु ।
विश्वास-प्रस्तुतिः - 59
सक्तुर्नपुंसके च
मूलम् - 59
सक्तुर्नपुंसके च
सिद्धान्त-कौमुदी - 59
चात्पुंसि । सक्तुः, सक्तु ।
विश्वास-प्रस्तुतिः - 60
प्रागरश्मेरकारान्तः
मूलम् - 60
प्रागरश्मेरकारान्तः
सिद्धान्त-कौमुदी - 60
रश्मिर्दिवसाभिधानमिति वक्ष्यति । प्रागेतस्मादकारान्त इत्यधिक्रियते ।
विश्वास-प्रस्तुतिः - 61
कोपधः
मूलम् - 61
कोपधः
सिद्धान्त-कौमुदी - 61
कोपधोऽकारान्तः पुंसि स्यात् । स्तबकः । कल्कः ।
विश्वास-प्रस्तुतिः - 62
चिबुकशालूकप्रातिपदिकांशुकोल्मुकानि नपुंसके
मूलम् - 62
चिबुकशालूकप्रातिपदिकांशुकोल्मुकानि नपुंसके
सिद्धान्त-कौमुदी - 62
पूर्वसूत्रापवादः ।
विश्वास-प्रस्तुतिः - 63
कण्टकानीकसरकमोदकचषकमस्तकपुस्तकतडाकनिष्कशुष्कवर्चस्कपिनाकभाण्डकपिण्डककटकशण्डकपिटकतालकफलकपुलाकानि नपुंसके च
मूलम् - 63
कण्टकानीकसरकमोदकचषकमस्तकपुस्तकतडाकनिष्कशुष्कवर्चस्कपिनाकभाण्डकपिण्डककटकशण्डकपिटकतालकफलकपुलाकानि नपुंसके च
सिद्धान्त-कौमुदी - 63
चात्पुंसि । अयं कण्टकः । इदं कण्टकमित्यादि ।
विश्वास-प्रस्तुतिः - 64
टोपधः
मूलम् - 64
टोपधः
सिद्धान्त-कौमुदी - 64
टोपधोऽकारान्तः पुंसि स्यात् । घटः । पटः ।
विश्वास-प्रस्तुतिः - 65
किरीटमुकुटललाटवटवीटशृङ्गाटकराटलोष्टानि नपुंसके च
मूलम् - 65
किरीटमुकुटललाटवटवीटशृङ्गाटकराटलोष्टानि नपुंसके च
सिद्धान्त-कौमुदी - 65
किरिटमित्यादि ।
विश्वास-प्रस्तुतिः - 66
कुटकूटकटपटकवाटकर्पटनटनिकटकीटकटानि नपुंसके च
मूलम् - 66
कुटकूटकटपटकवाटकर्पटनटनिकटकीटकटानि नपुंसके च
सिद्धान्त-कौमुदी - 66
चात्पुंसि । कुटः कुटमित्यादि ।
विश्वास-प्रस्तुतिः - 67
णोपधः
मूलम् - 67
णोपधः
सिद्धान्त-कौमुदी - 67
णोपधोऽकारान्तः पुंसि स्यात् । गुणः । गणः । पाषाणः ।
विश्वास-प्रस्तुतिः - 68
ऋणलवणपर्वतोरणरणोष्णानि नपुंसके
मूलम् - 68
ऋणलवणपर्वतोरणरणोष्णानि नपुंसके
सिद्धान्त-कौमुदी - 68
पूर्वसूत्रापवादः ।
विश्वास-प्रस्तुतिः - 69
कार्षापणस्वर्णसुवर्णव्रणचरणवृषणविषाणचूर्णतृणानि नपुंसकेच
मूलम् - 69
कार्षापणस्वर्णसुवर्णव्रणचरणवृषणविषाणचूर्णतृणानि नपुंसकेच
सिद्धान्त-कौमुदी - 69
चात्पुंसि ।
विश्वास-प्रस्तुतिः - 70
थोपधः
मूलम् - 70
थोपधः
सिद्धान्त-कौमुदी - 70
रथः ।
विश्वास-प्रस्तुतिः - 71
काष्ठपृष्ठसिक्थोक्थानि नपुंसके
मूलम् - 71
काष्ठपृष्ठसिक्थोक्थानि नपुंसके
सिद्धान्त-कौमुदी - 71
इदं काष्ठमित्यादि ।
विश्वास-प्रस्तुतिः - 72
काष्ठा दिगर्था स्त्रियाम्
मूलम् - 72
काष्ठा दिगर्था स्त्रियाम्
सिद्धान्त-कौमुदी - 72
इमाः काष्ठाः ।
विश्वास-प्रस्तुतिः - 73
तीर्थप्रोथयूथगाथानि नपुंसके च
मूलम् - 73
तीर्थप्रोथयूथगाथानि नपुंसके च
सिद्धान्त-कौमुदी - 73
चात्पुंसि । अयं तीर्थः । इदं तीर्थम् ।
विश्वास-प्रस्तुतिः - 74
नोपधः
मूलम् - 74
नोपधः
सिद्धान्त-कौमुदी - 74
अदन्तः पुंसि । इनः फेनः ।
विश्वास-प्रस्तुतिः - 75
जघनाकिनतुहिनकाननवनवृजिनविपिनवेतनशासनसोपानमिथुनश्मशानरत्ननिम्नचिह्नानि नपुंसके
मूलम् - 75
जघनाकिनतुहिनकाननवनवृजिनविपिनवेतनशासनसोपानमिथुनश्मशानरत्ननिम्नचिह्नानि नपुंसके
सिद्धान्त-कौमुदी - 75
पूर्वस्यापवादः ।
विश्वास-प्रस्तुतिः - 76
मानयानाभिधाननलिनपुलिनोद्यानशयनासनस्थानचन्दनासमानभवनवसनसंभावनविभावनविमानानि नपुंसके च
मूलम् - 76
मानयानाभिधाननलिनपुलिनोद्यानशयनासनस्थानचन्दनासमानभवनवसनसंभावनविभावनविमानानि नपुंसके च
सिद्धान्त-कौमुदी - 76
चात्पुंसि । अयं मानः । इदं मानम् ।
विश्वास-प्रस्तुतिः - 77
पोपधः
मूलम् - 77
पोपधः
सिद्धान्त-कौमुदी - 77
अदन्तः पुंसि । यूपः । दीपः ।
विश्वास-प्रस्तुतिः - 78
पापरूपोडुपतल्पशिल्पपुष्पसमीपान्तरीपाणि नपुंसके
मूलम् - 78
पापरूपोडुपतल्पशिल्पपुष्पसमीपान्तरीपाणि नपुंसके
सिद्धान्त-कौमुदी - 78
इदं पापमित्यादि ।
विश्वास-प्रस्तुतिः - 79
शूर्पकुतपकुणपद्वीपविटपानि नपुंसके च
मूलम् - 79
शूर्पकुतपकुणपद्वीपविटपानि नपुंसके च
सिद्धान्त-कौमुदी - 79
अयं शूर्पः । इदं शूर्पमित्यादि ।
विश्वास-प्रस्तुतिः - 80
भोधपः
मूलम् - 80
भोधपः
सिद्धान्त-कौमुदी - 80
स्तम्भः ।
विश्वास-प्रस्तुतिः - 81
तलभं नपुंसकम्
मूलम् - 81
तलभं नपुंसकम्
सिद्धान्त-कौमुदी - 81
पूर्वस्यापवादः ।
विश्वास-प्रस्तुतिः - 82
जृम्भं नपुंसके च
मूलम् - 82
जृम्भं नपुंसके च
सिद्धान्त-कौमुदी - 82
जृम्भम् । जृम्भः ।
विश्वास-प्रस्तुतिः - 83
मोपधः
मूलम् - 83
मोपधः
सिद्धान्त-कौमुदी - 83
सोमः । भीमः ।
विश्वास-प्रस्तुतिः - 84
रुक्मसिध्मयुग्मेध्मगुल्माध्यात्मकुङ्कुमानि नपुंसके
मूलम् - 84
रुक्मसिध्मयुग्मेध्मगुल्माध्यात्मकुङ्कुमानि नपुंसके
सिद्धान्त-कौमुदी - 84
इदं रुक्ममित्यादि ।
विश्वास-प्रस्तुतिः - 85
संग्रामदाडिमकुसुमाश्रमक्षेमक्षौमहोमोद्दामानि नपुंसके च
मूलम् - 85
संग्रामदाडिमकुसुमाश्रमक्षेमक्षौमहोमोद्दामानि नपुंसके च
सिद्धान्त-कौमुदी - 85
चात्पुंसि अयं संग्रामः । इदं संग्रामम् ।
विश्वास-प्रस्तुतिः - 86
योपधः
मूलम् - 86
योपधः
सिद्धान्त-कौमुदी - 86
समयः । हयः ।
विश्वास-प्रस्तुतिः - 87
किसलयहृदयेन्द्रियोत्तरीयाणि नपुंसके
मूलम् - 87
किसलयहृदयेन्द्रियोत्तरीयाणि नपुंसके
सिद्धान्त-कौमुदी - 87
स्पष्टम् ।
विश्वास-प्रस्तुतिः - 88
गोमयकषायमलयान्वयाव्ययानि नपुंसके च
मूलम् - 88
गोमयकषायमलयान्वयाव्ययानि नपुंसके च
सिद्धान्त-कौमुदी - 88
गोमयः । गोमयम् ।
विश्वास-प्रस्तुतिः - 89
रोपधः
मूलम् - 89
रोपधः
सिद्धान्त-कौमुदी - 89
क्षुरः । अङ्कुरः ।
विश्वास-प्रस्तुतिः - 90
द्वाराग्रस्फारतक्रवक्रवप्रक्षिप्रक्षुद्रनारतीरदूरकृच्छ्ररन्धाश्रश्वभ्रभीरगभीरक्रूरविचित्रकेयूरकेदारोदराजस्रशरीरकन्दरमन्दारपञ्जराजरजठराजिरवैरचामरपुष्करगह्वरकुहरकुटीरकुलीरचत्वरकाश्मीरनीराम्बरशिशिरतन्त्रयन्त्रनक्षत्रक्षेत्रमित्रकलत्रचित्रमूत्रसूत्रवक्त्रनेत्रगोत्राङ्गुलित्रभलत्रशस्त्रशास्त्रवस्त्रपत्रपात्रच्छत्राणि नपुंसके
मूलम् - 90
द्वाराग्रस्फारतक्रवक्रवप्रक्षिप्रक्षुद्रनारतीरदूरकृच्छ्ररन्धाश्रश्वभ्रभीरगभीरक्रूरविचित्रकेयूरकेदारोदराजस्रशरीरकन्दरमन्दारपञ्जराजरजठराजिरवैरचामरपुष्करगह्वरकुहरकुटीरकुलीरचत्वरकाश्मीरनीराम्बरशिशिरतन्त्रयन्त्रनक्षत्रक्षेत्रमित्रकलत्रचित्रमूत्रसूत्रवक्त्रनेत्रगोत्राङ्गुलित्रभलत्रशस्त्रशास्त्रवस्त्रपत्रपात्रच्छत्राणि नपुंसके
सिद्धान्त-कौमुदी - 90
इदं द्वारमित्यादि ।
विश्वास-प्रस्तुतिः - 91
शुक्रमदेवतायाम्
मूलम् - 91
शुक्रमदेवतायाम्
सिद्धान्त-कौमुदी - 91
इदं शुक्रं रेतः ।
विश्वास-प्रस्तुतिः - 92
चक्रवज्रान्धकारसारावारपारक्षीरतोमरशृङ्गारबषङ्गारमन्दारोशीरतिमितशिशिराणि नपुंसके च
मूलम् - 92
चक्रवज्रान्धकारसारावारपारक्षीरतोमरशृङ्गारबषङ्गारमन्दारोशीरतिमितशिशिराणि नपुंसके च
सिद्धान्त-कौमुदी - 92
चात्पुंसि । चक्रः, चक्रमित्यादि ।
विश्वास-प्रस्तुतिः - 93
षोपधः
मूलम् - 93
षोपधः
सिद्धान्त-कौमुदी - 93
वृषः । वृक्षः ।
विश्वास-प्रस्तुतिः - 94
शिरीषर्जीषाम्बरीषपीयूषपुरीषकिल्बिषकल्माषाणि नपुंसके
मूलम् - 94
शिरीषर्जीषाम्बरीषपीयूषपुरीषकिल्बिषकल्माषाणि नपुंसके
विश्वास-प्रस्तुतिः - 95
यूषकरीषमिषविषवर्षाणि नपुंसके च
मूलम् - 95
यूषकरीषमिषविषवर्षाणि नपुंसके च
सिद्धान्त-कौमुदी - 95
चात्पुंसि । अयं यूषः । इदं यूषमित्यादि ।
विश्वास-प्रस्तुतिः - 96
सोपधः
मूलम् - 96
सोपधः
सिद्धान्त-कौमुदी - 96
वत्सः । वायसः । महानसः ।
विश्वास-प्रस्तुतिः - 97
पनसबिसबुससाहसानि नपुंसके
मूलम् - 97
पनसबिसबुससाहसानि नपुंसके
विश्वास-प्रस्तुतिः - 98
चमसांसररनिर्यासोपवासकार्पासवासमासकासकांसमांसानि नपुंसके च
मूलम् - 98
चमसांसररनिर्यासोपवासकार्पासवासमासकासकांसमांसानि नपुंसके च
सिद्धान्त-कौमुदी - 98
इदं चमसम् । अयं चमसः । इत्यादि ।
विश्वास-प्रस्तुतिः - 99
कंसं चात्प्राणिनि
मूलम् - 99
कंसं चात्प्राणिनि
सिद्धान्त-कौमुदी - 99
कंसोऽस्त्री पानभाजनम् । प्राणिनि तु कंसो नाम कश्चिद्राजा ।
विश्वास-प्रस्तुतिः - 100
रश्मिदिवसाभिधानानि
मूलम् - 100
रश्मिदिवसाभिधानानि
सिद्धान्त-कौमुदी - 100
एतानि पुंसि स्युः । रश्मिर्मयूखः दिवसो घस्नः ।
विश्वास-प्रस्तुतिः - 101
दीधितिः स्त्रियाम्
मूलम् - 101
दीधितिः स्त्रियाम्
सिद्धान्त-कौमुदी - 101
पूर्वस्यापवादः ।
विश्वास-प्रस्तुतिः - 102
दिनाहनी नपुंसके
मूलम् - 102
दिनाहनी नपुंसके
सिद्धान्त-कौमुदी - 102
अयमप्यपवादः ।
विश्वास-प्रस्तुतिः - 103
मानाभिधामनि
मूलम् - 103
मानाभिधामनि
सिद्धान्त-कौमुदी - 103
एतानि पुंसि स्युः । कुडवः । प्रस्थः ।
विश्वास-प्रस्तुतिः - 104
द्रौणाढकौ नपुंसके च
मूलम् - 104
द्रौणाढकौ नपुंसके च
सिद्धान्त-कौमुदी - 104
इदं द्रोणम् । अयं द्रोणः ।
विश्वास-प्रस्तुतिः - 105
खारीमानिके स्त्रियाम्
मूलम् - 105
खारीमानिके स्त्रियाम्
सिद्धान्त-कौमुदी - 105
इयं खारी । इयं मानिका ।
विश्वास-प्रस्तुतिः - 106
दाराक्षतलजासूनां बहुत्वं च
मूलम् - 106
दाराक्षतलजासूनां बहुत्वं च
सिद्धान्त-कौमुदी - 106
इमे दाराः ।
विश्वास-प्रस्तुतिः - 107
नाड्यपजनोपपदानि व्रणाङ्गपदानि
मूलम् - 107
नाड्यपजनोपपदानि व्रणाङ्गपदानि
सिद्धान्त-कौमुदी - 107
यथासङ्ख्यं नाड्यादीन्युपपदानि व्रणादीनि पुंसि स्युः । अयं नाडीव्रणः । अपाङ्गः । जनपदः । व्रणादीनामुभयलिङ्गत्वेऽपि क्लीबत्वानुवृत्यर्थं सूत्रम् ।
विश्वास-प्रस्तुतिः - 108
मरुद्गरुत्तरदृत्विजः
मूलम् - 108
मरुद्गरुत्तरदृत्विजः
सिद्धान्त-कौमुदी - 108
अयं मरुत् ।
विश्वास-प्रस्तुतिः - 109
ऋषिराशिदृतिग्रन्थिक्रिमिध्वनिबलिकौलिमौलिरविकविकपिमुनयः
मूलम् - 109
ऋषिराशिदृतिग्रन्थिक्रिमिध्वनिबलिकौलिमौलिरविकविकपिमुनयः
सिद्धान्त-कौमुदी - 109
एते पुंसि स्युः । अयमृषिः ।
विश्वास-प्रस्तुतिः - 110
ध्वजगजमुञ्जपुञ्जाः
मूलम् - 110
ध्वजगजमुञ्जपुञ्जाः
सिद्धान्त-कौमुदी - 110
एते पुंसि ।
विश्वास-प्रस्तुतिः - 111
हस्तकुन्तान्तव्रातवातदूतधूतसूतचूतमुहूर्ताः
मूलम् - 111
हस्तकुन्तान्तव्रातवातदूतधूतसूतचूतमुहूर्ताः
सिद्धान्त-कौमुदी - 111
एते पुंसि । अमरस्तु मुहुर्तोऽस्त्रियामित्याह ।
विश्वास-प्रस्तुतिः - 112
षण्डमण्डकरण्डभरण्डवरण्डतुण्डगण्डमुण्डपाषण्डशिखण्डाः
मूलम् - 112
षण्डमण्डकरण्डभरण्डवरण्डतुण्डगण्डमुण्डपाषण्डशिखण्डाः
सिद्धान्त-कौमुदी - 112
अयं षण्डः ।
विश्वास-प्रस्तुतिः - 113
वंशांशपुरोडाशः
मूलम् - 113
वंशांशपुरोडाशः
सिद्धान्त-कौमुदी - 113
अयं वंशः । पुरो दाश्यते पुरोडाशाः । कर्मणि घञ् । भव्यव्याख्यानयोः प्रकरणे «पौरोडाशपुरोडाशात् ष्ठन्» [[4.3.70]] इति विकारप्रकरणे, «व्रीहेः पुरोडाशे» [[4.3.148]] इति च निपातनात् प्रकृतसूत्र एव निपातनाद्वा दस्य डत्वम् । पुरोडाशभुजामिष्टमिति माघः ।
विश्वास-प्रस्तुतिः - 114
हृदकन्दकुन्दबुद्बुदशब्दाः
मूलम् - 114
हृदकन्दकुन्दबुद्बुदशब्दाः
सिद्धान्त-कौमुदी - 114
अयं हृदः ।
विश्वास-प्रस्तुतिः - 115
अर्धपथिमथ्यृभुक्षिस्तम्बनितम्बपूगाः
मूलम् - 115
अर्धपथिमथ्यृभुक्षिस्तम्बनितम्बपूगाः
सिद्धान्त-कौमुदी - 115
अयमर्धः ।
विश्वास-प्रस्तुतिः - 116
पल्लवपल्वलकफरेफकटाहनिर्व्यूहमठमणितरङ्गतुरङ्गगन्धमृदङ्गसङ्गसमुद्गपुङ्खाः
मूलम् - 116
पल्लवपल्वलकफरेफकटाहनिर्व्यूहमठमणितरङ्गतुरङ्गगन्धमृदङ्गसङ्गसमुद्गपुङ्खाः
सिद्धान्त-कौमुदी - 116
अयं पल्लवः इत्यादि ।
विश्वास-प्रस्तुतिः - 117
सारथ्यतिक्षिकुक्षिबस्तिपाण्यञ्जलयः
मूलम् - 117
सारथ्यतिक्षिकुक्षिबस्तिपाण्यञ्जलयः
सिद्धान्त-कौमुदी - 117
एते पुंसि । अयं सारथिः । इति पुंलिङ्गाधिकारः ॥