विश्वास-प्रस्तुतिः - 1
लिङ्गम्
मूलम् - 1
लिङ्गम्
विश्वास-प्रस्तुतिः - 2
स्त्री
मूलम् - 2
स्त्री
सिद्धान्त-कौमुदी - 2
अधिकारसूत्रे एते ।
विश्वास-प्रस्तुतिः - 3
ऋकारान्ता मातृदुहितृस्वसृयातृननान्दरः
मूलम् - 3
ऋकारान्ता मातृदुहितृस्वसृयातृननान्दरः
सिद्धान्त-कौमुदी - 3
ऋकारान्ता एते पञ्चैव स्त्रीलिङ्गाः । स्वस्रादिपञ्चकस्येव ङीब्निषेधेन कर्त्रीत्यादेर्ङीपा ईकारान्तत्वात् । तिसृचतस्रोस्तु स्त्रियामादेशतया विधानेऽपि प्रकृत्योस्त्रिचतुरोर्ऋदन्तत्वाभावात् ।
विश्वास-प्रस्तुतिः - 4
अन्यूप्रत्ययान्ता धातुः
मूलम् - 4
अन्यूप्रत्ययान्ता धातुः
सिद्धान्त-कौमुदी - 4
अनिप्रत्ययान्त ऊप्रत्ययान्तश्च धातुः स्त्रियां स्यात् । अवनिः । चमूः । प्रत्ययग्रहणं किम् ? - देपयतेः क्विप् द्यूः । विशेष्यलिङ्गः ।
विश्वास-प्रस्तुतिः - 5
अशनिभरण्यरणयः पुंसि च
मूलम् - 5
अशनिभरण्यरणयः पुंसि च
सिद्धान्त-कौमुदी - 5
इयमयं वा अशनिः ।
विश्वास-प्रस्तुतिः - 6
मिन्यतः
मूलम् - 6
मिन्यतः
सिद्धान्त-कौमुदी - 6
मिप्रत्ययान्तो निप्रत्ययान्तश्च धातुः स्त्रियां स्यात् । भूमिः । ग्लानिः ।
विश्वास-प्रस्तुतिः - 7
वह्निवृष्णवग्नयः पुंसि
मूलम् - 7
वह्निवृष्णवग्नयः पुंसि
सिद्धान्त-कौमुदी - 7
पूर्वस्यापवादः ।
विश्वास-प्रस्तुतिः - 8
श्रोणियोन्यूर्मयः पुंसि च
मूलम् - 8
श्रोणियोन्यूर्मयः पुंसि च
सिद्धान्त-कौमुदी - 8
इयमयं वा श्रोणिः ।
विश्वास-प्रस्तुतिः - 9
क्तिन्नन्तः
मूलम् - 9
क्तिन्नन्तः
सिद्धान्त-कौमुदी - 9
स्पष्टम् । कृतिरित्यादि ।
विश्वास-प्रस्तुतिः - 10
ईकारान्तश्च
मूलम् - 10
ईकारान्तश्च
सिद्धान्त-कौमुदी - 10
ईप्रत्ययान्तः स्त्री स्यात् । लक्ष्मीः ।
विश्वास-प्रस्तुतिः - 11
ऊङाबन्तश्च
मूलम् - 11
ऊङाबन्तश्च
सिद्धान्त-कौमुदी - 11
कुरूः । विद्या ।
विश्वास-प्रस्तुतिः - 12
य्वन्तमेकाक्षरम्
मूलम् - 12
य्वन्तमेकाक्षरम्
सिद्धान्त-कौमुदी - 12
श्रीः । भूः । एकाक्षरं किम् ? पृथुश्रीः ।
विश्वास-प्रस्तुतिः - 13
विंशत्यादिरानवतेः
मूलम् - 13
विंशत्यादिरानवतेः
सिद्धान्त-कौमुदी - 13
इयं विंशतिः । त्रिंशत् । चत्वारिंशत् । पञ्चाशत् । षष्टिः । सप्ततिः । अशीतिः । नवतिः ।
विश्वास-प्रस्तुतिः - 14
दुन्दुभिरक्षेषु
मूलम् - 14
दुन्दुभिरक्षेषु
सिद्धान्त-कौमुदी - 14
इयं दुन्दुभिः । अक्षेषु किम् ? अयं दुन्दुभिर्वाद्यविशेषोऽसुरो वेत्यर्थः ।
विश्वास-प्रस्तुतिः - 15
नाभिरक्षत्रिये
मूलम् - 15
नाभिरक्षत्रिये
सिद्धान्त-कौमुदी - 15
इयं नाभिः ।
विश्वास-प्रस्तुतिः - 16
उभाव्यप्यन्यत्र पुंसि
मूलम् - 16
उभाव्यप्यन्यत्र पुंसि
सिद्धान्त-कौमुदी - 16
दुन्दुभिर्नाभिश्चोक्तविषयादन्यत्र पुंसि स्तः । नाभिः क्षत्रियः । कथं तर्हि समुल्लसत्पङ्कजपङ्कजपत्रकोमलैरूपाहितश्रीण्युपनीविनाभिरिति भारवीः ? उच्यते - दृढभक्तिरित्यादाविव कोमलैरिति सामान्ये नपुंसकं बोध्यम् । वस्तुतस्तु लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्येति भाष्यात् पुंस्त्वमपीह साधु । अतएव नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्यात् स्त्रियां कस्तूरिकामद इति मेदिनी । रभसोऽप्याह - मुख्यराट्क्षत्रिये नाभिः पुंसि प्राण्यङ्गे द्वयोः । चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामद इति । एवमेवंविधेऽन्यत्रापि बोध्यम् ।
विश्वास-प्रस्तुतिः - 17
तलन्तः
मूलम् - 17
तलन्तः
सिद्धान्त-कौमुदी - 17
अयं स्त्रियां स्यात् । शुक्लस्य भावः शुक्लता । ब्राह्मणस्य कर्म ब्राह्मणता । ग्रामस्य समूहो ग्रामता । देव एव देवता ।
विश्वास-प्रस्तुतिः - 18
भूमिविद्युत्सरिल्लतावनिताभिधानानि
मूलम् - 18
भूमिविद्युत्सरिल्लतावनिताभिधानानि
सिद्धान्त-कौमुदी - 18
भूमिर्भूः । विद्युत्सौदामनी । सरिन्निम्नगा । लता वल्ली । वनिता योषित् ।
विश्वास-प्रस्तुतिः - 19
यादो नपुंसकम्
मूलम् - 19
यादो नपुंसकम्
सिद्धान्त-कौमुदी - 19
यादःशब्दः सरिद्वाचकोऽपि क्लीबं स्यात् ।
विश्वास-प्रस्तुतिः - 20
भाःस्रुक्स्रग्दिगुष्णिगुपानहः
मूलम् - 20
भाःस्रुक्स्रग्दिगुष्णिगुपानहः
सिद्धान्त-कौमुदी - 20
एते स्त्रियां स्युः । इयं भाः इत्यादिः ।
विश्वास-प्रस्तुतिः - 21
स्थूणोर्णे नपुंसके च
मूलम् - 21
स्थूणोर्णे नपुंसके च
सिद्धान्त-कौमुदी - 21
एते स्त्रियां क्लीबे च स्तः । स्थूणा । स्थूणम् । ऊर्णा । ऊर्णम् । तत्र स्थूणा काष्ठमयी द्विकर्णिका । ऊर्णा तु मेषादिलोम ।
विश्वास-प्रस्तुतिः - 22
गृहशशाभ्यां क्लीबे
मूलम् - 22
गृहशशाभ्यां क्लीबे
सिद्धान्त-कौमुदी - 22
नियमार्थमिदम् । गृहशशपूर्वे स्थूणोर्णे यथासङ्ख्यं नपुंसके स्तः । गृहस्थूणम् । शशोर्णं शशलोमनीत्यमरः ।
विश्वास-प्रस्तुतिः - 23
प्रावृट्विप्रट्रुट्विट्त्विषः
मूलम् - 23
प्रावृट्विप्रट्रुट्विट्त्विषः
सिद्धान्त-कौमुदी - 23
एते स्त्रियां स्युः ।
विश्वास-प्रस्तुतिः - 24
दर्विविदिवेदिखनिशान्यश्रिवेशिकृष्योषधिकट्यङ्गुलयः
मूलम् - 24
दर्विविदिवेदिखनिशान्यश्रिवेशिकृष्योषधिकट्यङ्गुलयः
सिद्धान्त-कौमुदी - 24
एते स्त्रियां स्युः । पक्षे ङीप् । दर्वी, दर्विः इत्यादि ।
विश्वास-प्रस्तुतिः - 25
तिथिनाडिरुचिवीचिनालिधूलिकिकिकेलिच्छविरात्र्यादयः
मूलम् - 25
तिथिनाडिरुचिवीचिनालिधूलिकिकिकेलिच्छविरात्र्यादयः
सिद्धान्त-कौमुदी - 25
एते प्राग्वत् । इयं तिथिरित्यादि । अमरस्त्वाह तिथयो द्वयोरिति । तथा च भारविः । तस्य भुवि बहुतिथास्तिथय इति । स्त्रीत्वे हि बहुतिथ्य इति स्यात् । श्रीहर्षश्च । निखिलान्निशि पौर्णिमातिथीनिति ।
विश्वास-प्रस्तुतिः - 26
शष्कुलिराजिकुट्यशनिवर्तिभृकुटित्रुटिवलिङ्क्तयः
मूलम् - 26
शष्कुलिराजिकुट्यशनिवर्तिभृकुटित्रुटिवलिङ्क्तयः
सिद्धान्त-कौमुदी - 26
एतेऽपि स्त्रियां स्युः । इयं शष्कुलिः ।
विश्वास-प्रस्तुतिः - 27
प्रतिपदापद्विपत्सम्पच्छरत्संसत्परिषदुषः संवित्क्षुत्पुन्मुत्समिधः ।
मूलम् - 27
प्रतिपदापद्विपत्सम्पच्छरत्संसत्परिषदुषः संवित्क्षुत्पुन्मुत्समिधः ।
सिद्धान्त-कौमुदी - 27
इयं प्रतिपदित्यादि । उषा उच्छन्ती । उषाः प्रातरधिष्ठात्री देवता ।
विश्वास-प्रस्तुतिः - 28
आशीर्धूःपूर्गीर्द्वारः
मूलम् - 28
आशीर्धूःपूर्गीर्द्वारः
सिद्धान्त-कौमुदी - 28
इयमाशीरित्यादिः ।
विश्वास-प्रस्तुतिः - 29
अप्सुमनस्समासिकतावर्षाणां बहुत्वं च
मूलम् - 29
अप्सुमनस्समासिकतावर्षाणां बहुत्वं च
सिद्धान्त-कौमुदी - 29
अबादीनां पञ्चानां स्त्रीत्वं स्यात् बहुत्वं च । आपः इमाः । स्त्रियः सुमनसः पुष्पम् । सुमना मालती जातिः । देववाची तु पुंस्येेव । सुपर्वाणः सुमनसः । बहुत्वं प्रायिकम् । एका च सिकता तैलदाने असमर्थेति अर्थवत्सूत्रे भाष्यप्रयोगात् । «समांसमां विजायते» [[5.2.12]] इत्यत्र समायां समायामिति भाष्याच्च । «विभाषा घ्राधेट्शाच्छासः» [[2.4.78]] इति सूत्रे अघ्रासातां सुमनसाविति वृत्तिव्याख्यायां हरदत्तोऽप्येवम् ।
विश्वास-प्रस्तुतिः - 30
स्रक्त्वक्ज्योग्वाग्यवागूनौस्फिजः
मूलम् - 30
स्रक्त्वक्ज्योग्वाग्यवागूनौस्फिजः
सिद्धान्त-कौमुदी - 30
इयं स्रक् त्वक् ज्योक् वाक् यवागूः नौः स्फिक् ।
विश्वास-प्रस्तुतिः - 31
तृटिसीमासंबध्याः
मूलम् - 31
तृटिसीमासंबध्याः
सिद्धान्त-कौमुदी - 31
इयं तृटिः । सीमा । संबध्या ।
विश्वास-प्रस्तुतिः - 32
चुल्लिवेणिखार्यश्च
मूलम् - 32
चुल्लिवेणिखार्यश्च
सिद्धान्त-कौमुदी - 32
स्पष्टम् ।
विश्वास-प्रस्तुतिः - 33
ताराधाराज्योत्स्नादयश्च
मूलम् - 33
ताराधाराज्योत्स्नादयश्च
विश्वास-प्रस्तुतिः - 34
शलाका स्त्रियां नित्यम्
मूलम् - 34
शलाका स्त्रियां नित्यम्
सिद्धान्त-कौमुदी - 34
नित्यग्रहणमन्येषां क्वचिद्व्यभिचारं ज्ञापयति । इति स्त्र्यधिकारः ॥