०४

णौ चङ्युपधाया ह्रस्वः॥ ७.४.१॥

‘अङ्गस्य’ (६.४.१) इति वर्तते। चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वो भवति। अचीकरत्। अजीहरत्। अलीलवत्। अपीपवत्। अत्र द्विर्वचनोपधाह्रस्वत्वयोः प्राप्तयोः परत्वादुपधाह्रस्वत्वम्, तत्र कृते, द्विर्वचनम्। इह तु मा भवानटिटदिति नित्यत्वाद् द्वितीयस्य द्विर्वचनं प्राप्नोति, तथा सति ह्रस्वभाविनोऽङ्गस्याकारस्योपधात्वं विहतम् इति ह्रस्वो न स्यात् ? नैष दोषः। ओणेर्ऋदित्करणं ज्ञापकम्-नित्यमपि द्विर्वचनमुपधाह्रस्वत्वेन बाध्यत इति। णाविति किम् ? चङ्युपधाया ह्रस्व इत्युच्यमानेऽलीलवदित्यत्र वचन सामर्थ्यादन्तरङ्गामपि वृद्धिमादेशं च बाधित्वा ह्रस्वः स्यात्। अदीदपदित्यत्र ह्रस्वत्वेन पुको बाधः स्यात्। अपीपचदित्येवमादौ तु नैव स्यात्। चङीति किम्? कारयति। हारयति। उपधाया इति किम्? अचकाङ्क्षत्। अववाञ्छत्। तदेतदुपधाग्रहणमुत्तरार्थमवश्यं कर्तव्यम्, तदिहापि ह्रस्वत्वं निवर्तयतीत्येवमर्थं ‘येन नाव्यवधानम्०’ इत्येतद् नाश्रयितव्यमिति॥ उपधाह्रस्वत्वे णेर्णिच्युपसंख्यानम्॥ वादितवन्तं प्रयोजितवान् अवीवदद् वीणां परिवादकेन। योऽसौ णौ णिलोपस्तस्य स्थानिवद्भावात् तेन वाग्लोपित्वाद् अङ्गस्य ह्रस्वो न प्राप्नोति। ण्याकृतिनिर्देशात् सिद्धम्॥

नाग्लोपिशास्वृदिताम्॥ ७.४.२॥

अग्लोपिनामङ्गानां शासेर्ऋदितां च णौ चङ्युपधाया ह्रस्वो न भवति। अग्लोपिनां तावत्-मालामाख्यद् अममालत्। मातरमाख्यद् अममातत्। राजानमतिक्रान्तवान् अत्यरराजत्। लोमान्यनुमृष्टवान् अन्वलुलोमत्। अगेव यत्र केवलो लुप्यते तत्र स्थानिवद्भावादपि सिद्धम् हलचोरादेशे तु न सिध्यतीति तदर्थमेतद् वचनम्। शासेः-अशशासत्। ऋदिताम्-बाधृ-अबबाधत्। याचृ-अययाचत्। ढौकृ-अडुढौकत्॥

भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् ॥ ७.४.३॥

भ्राज भास भाष दीप जीव मील पीड इत्येतेषामङ्गानां णौ चङ्युपधाया ह्रस्वो भवत्यन्यतरस्याम्। भ्राज-अबिभ्रजत् अबभ्राजत्। भास- अबीभसत्, अबभासत्। भाष-अबीभषत्, अबभाषत्। दीप-अदीदिपत्, अदिदीपत्। जीव-अजीजिवत्, अजिजीवत्। मील-अमीमिलत्, अमिमीलत्। पीड-अपीपिडत्। अपिपीडत्। भ्राजभासोर्ऋदित्करणमपाणिनीयम् ॥ काणयादीनां चेति वक्तव्यम्॥ अचकाणत्, अचीकणत्। अववाणत् अवीवणत्॥

लोपः पिबतेरीच्चाभ्यासस्य ॥ ७.४.४॥

पिबतेरङ्गस्य णौ चङ्युपधाया लोपो भवति, अभ्यासस्येकारादेशो भवति। अपीप्यत्, अपीप्यताम् अपीप्यन्। उपधालोपे कृत ओः पुयण्वचनं (७.४.८०) ज्ञापकं णौ स्थानिवद्भावस्येति स्थानिवद्भावाद् द्विर्वचनम्॥

तिष्ठतेरित् ॥ ७.४.५॥

तिष्ठतेरङ्गस्य णौ चङ्युपधाया इकारादेशो भवति। अतिष्ठिपत्, अतिष्ठिपताम्, अतिष्ठिपन्॥

जिघ्रतेर्वा ॥ ७.४.६॥

जिघ्रतेरङ्गस्य णौ चङ्युपधाया इकारादेशो वा भवति। अजिघ्रिपत् अजिघ्रिपताम्, अजिघ्रिपन्। अजिघ्रपत्, अजिघ्रपताम्, अजिघ्रपन्॥

**उर्ऋत् ॥ ७.४.७॥ **

णौ चङ्युपधाया ऋवर्णस्य स्थाने वा ऋकारादेशो भवति। इररारामपवादः। इर्-अचिकीर्तत्,अचीकृतत्। अर्-अववर्तत्, अवीवृतत्। आर्-अममार्जत्, अमीमृजत्। वचनसामर्थ्यादन्तरङ्गा अपि इररारो बाध्यन्ते। तपरकरणं दीर्घेऽपि स्थानिनि ह्रस्व एव यथा स्यात्-अचीकृतदिति। न चायं भाव्यमानः,किं तु आदेशान्तरनिवृत्त्यर्थं स्वरूपमेवैतदभ्यनुज्ञायते॥

नित्यं छन्दसि ॥ ७.४.८॥

छन्दसि विषये णौ चङ्युपधाया ऋवर्णस्य स्थान ऋकारादेशो भवति नित्यम्। अवी॑वृधत् पुरो॒डाशे॑न (मा०सं० २८.२३)। अवीवृधताम्। अवीवृधन्॥

दयतेर्दिगि लिटि ॥ ७.४.९॥

दयतेरङ्गस्य लिटि परतो दिगीत्ययमादेशो भवति। अवदिग्ये, अवदिग्याते, अवदिग्यिरे। दयतेरिति दीङो ग्रहणं न तु ‘दय दाने’ इत्यस्य। तस्य हि लिट्याम् (३.१.३७) विहितः। दिग्यादेशेन द्विर्वचनस्य बाधनमिष्यते॥

ऋतश्च संयोगादेर्गुणः ॥ ७.४.१०॥

ऋकारान्तस्याङ्गस्य संयोगादेर्गुणो भवति लिटि परतः। स्वृ-सस्वरतुः, सस्वरुः। ध्वृ-दध्वरतुः, दध्वरुः। स्मृ-सस्मरतुः, सस्मरुः। ऋत इति किम्? चिक्षियतुः, चिक्षियुः। संयोगादेरिति किम्? चक्रतुः, चक्रुः। प्रतिषेधविषयेऽपि गुणो यथा स्यादित्ययमारम्भः। वृद्धिविषये तु पूर्वविप्रतिषेधेन वृद्धिरेवेष्यते। सस्वार। सस्मार। लिटीत्येव-स्मृतः। स्मृतवान्॥ संयोगादेर्गुणविधाने संयोगोपधग्रहणं कृञर्थं कर्तव्यम्॥ संचस्करतुः, संचस्करुः इति। अत्र हि ‘पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेण’ इत्यत्र दर्शने लिटि कृते, तदाश्रये च द्विर्वचने, पश्चादुपसर्गयोगे सति ‘अडभ्यासव्यवायेऽपि’ (६.१.१३६) इति सुट् क्रियते। एवं च कृत्वा संस्कृषीष्ट, उपस्कृषीष्टेत्यत्र सुटो बहिरङ्गलक्षणस्यासिद्धत्वाद् ‘ऋतश्च संयोगादेः’(७.२.४३) इतीडागमो न भवति॥

ऋच्छत्यृताम् ॥ ७.४.११॥

ऋच्छतेरङ्गस्य ऋ इत्येतस्य ॠकारान्तानां च लिटि परतो गुणो भवति। ऋच्छ-आनर्च्छ, आनर्च्छतुः, आनर्च्छुः। ऋ-आरतुः, आरुः। ॠकारान्तानाम्-निचकरतुः, निचकरुः। निजगरतुः, निजगरुः। ऋच्छेरलघूपधत्वादप्राप्तो गुणो विधीयते, ॠतां तु प्रतिषिद्धः। वृद्धिविषये तु पूर्वविप्रतिषेधेन वृद्धिरेवेष्यते। निचकार। निजगार॥

शृदृप्रां ह्रस्वो वा ॥ ७.४.१२॥

शृ दृ पृ इत्येतेषामङ्गानां लिटि परतो वा ह्रस्वो भवति। शृ-विशश्रतुः विशश्रुः। विशशरतुः, विशशरुः। दृ-विदद्रतुः, विदद्रुः। विददरतुः, विददरुः। पृ-निपप्रतुः, निपप्रुः। निपपरतुः, निपपरुः। ह्रस्ववचनमित्त्वोत्त्वनिवृत्त्यर्थम्। केचिदेतत् सूत्रं प्रत्याचक्षते। ‘श्रा पाके’,‘द्रा कुत्सायां गतौ’,‘प्रा पूरणे’ इत्येतेषामनेकार्था धातव इति शृदृप्रामर्थे वर्तमानानां विशश्रतुः, विशश्रुः, विदद्रतुः, विदद्रुः, निपप्रतुः, निपप्रुः इत्येतानि रूपाणि साधयन्ति। तथा च सति क्वसौ विशशृवानित्येतद् रूपं न स्यात्॥

केऽणः ॥ ७.४.१३॥

के प्रत्यये परतोऽणो ह्रस्वो भवति। ज्ञका। कुमारिका। किशोरिका। अण इति किम्? गोका। नौका। राका, धाकेत्यत्र ‘उणादयो बहुलम्’(३.३.१)इति ह्रस्वो न भवति। ‘न कपि’ (७.४.१४) इति प्रतिषेधसामर्थ्यात् कनोऽपि सानुबन्धकस्य ग्रहणमिह भवति॥

न कपि ॥ ७.४.१४॥

कपि प्रत्यये परतोऽणो ह्रस्वो न भवति। बहुकुमारीकः। बहुवधूकः । बहु-लक्ष्मीकः। ‘गोस्त्रियोरुपसर्जनस्य’ (१.२.४८) इत्ययमपि ह्रस्वः कपि न भवति। समासार्थे ह्युत्तरपदे कपि कृते, पश्चात् कबन्तेन सह समासेन भवितव्यमिति स्त्रीप्रत्ययान्तं समासप्रातिपदिकं न भवति॥

आपोऽन्यतरस्याम् ॥ ७.४.१५॥

आबन्तस्याङ्गस्य कपि ह्रस्वो न भवत्यन्यतरस्याम्। बहुखट्वाकः, बहुखट्वकः। बहुमालाकः, बहुमालकः॥

ऋदृशोऽङि गुणः ॥ ७.४.१६॥

ऋवर्णान्तानां दृशेश्चाङि परतो गुणो भवति। शकलाङ्गुष्ठकोऽकरत्। अ॒हं तेभ्यो॑ऽकरं॒ नमः॑ (मा० सं० १६.८)। असरत्। आरत्। जरा। दृशेः-अदर्शत्, अदर्शताम्, अदर्शन्॥

अस्यतेस्थुक् ॥ ७.४.१७॥

अस्यतेरङ्गस्य थुगागमो भवत्यङि परतः। आस्थत्, आस्थताम् आस्थन्॥

श्वयतेरः ॥ ७.४.१८॥

श्वयतेरङ्गस्याकारादेशो भवत्यङि परतः। अश्वत्, अश्वताम्, अश्वन्॥

पतः पुम् ॥ ७.४.१९॥

पतेरङ्गस्य पुमागमो भवत्यङि परतः। अपप्तत्, अपप्तताम् अपप्तन्॥

वच उम्॥ ७.४.२०॥

वचेरङ्गस्याङि परत उमागमो भवति। अवोचत्, अवोचताम्, अवोचन्॥

शीङः सार्वधातुके गुणः॥ ७.४.२१॥

शीङोऽङ्गस्य सार्वधातुके परतो गुणो भवति। शेते, शयाते, शेरते। सार्वधातुक इति किम्? शिश्ये॥

अयङ् यि क्ङिति ॥ ७.४.२२॥

यकारादौ क्ङिति प्रत्यये परतः शीङोऽङ्गस्यायङित्ययमादेशो भवति। शय्यते। शाशय्यते। प्रशय्य। उपशय्य। यीति किम्? शिश्ये। क्ङितीति किम्? शेयम्॥

उपसर्गाद् ध्रस्व ऊहतेः ॥ ७.४.२३॥

उपसर्गादुत्तरस्य ऊहतेरङ्गस्य ह्रस्वो भवति यकारादौ क्ङिति प्रत्यये परतः। समुह्यते। समुह्य गतः। अभ्युह्यते। अभ्युह्य गतः। उपसर्गादिति किम्? ऊह्यते। ऊहतेरिति किम् ? समीह्यते। यीत्येव-समूहितम्। क्ङितीत्येव-समूह्योऽयमर्थः। अण इत्येव-आ ऊह्यत ओह्यते। समोह्यते॥

एतेर्लिङि ॥ ७.४.२४॥

एतेरङ्गस्योपसर्गादुत्तरस्य लिङि यकारादौ क्ङिति परतो ह्रस्वो भवति। उदियात्। समियात्। अन्वियात्। आशिषि लिङि ‘अकृत्सार्वधातुकयोः०’ (७.४.२५) इति दीर्घत्वे कृते ह्रस्वोऽनेन भवति। उपसर्गादित्येव-ईयात्। अण इत्येव - आ ईयात् एयात्। समेयात्॥

अकृत्सार्वधातुकयोर्दीर्घः॥ ७.४.२५॥

अकृद्यकारेऽसार्वधातुकयकारे च क्ङिति परतोऽजन्तस्याङ्गस्य दीर्घो भवति। भृशायते। सुखायते। दुःखायते। चीयते। चेचीयते। स्तूयते। तोष्टूयते। चीयात्। स्तूयात्। अकृदिति किम्? प्रकृत्य। प्रहृत्य। परत्वाद् दीर्घत्वेन तुको बाधः स्यात्। असार्वधातुक इति किम्? चिनुयात्। सुनुयात्। क्ङितीत्येव-उरुया। धृष्णुया॥

च्वौ च॥ ७.४.२६॥

च्विप्रत्यये परतोऽजन्तस्याङ्गस्य दीर्घो भवति। शुचीकरोति। शुची भवति। शुचीस्यात्। पटूकरोति। पटूभवति। पटूस्यात्॥

रीङ् ऋतः॥ ७.४.२७॥

ऋकारान्तस्याङ्गस्याकृद्यकारेऽसार्वधातुके यकारे च्वौ च परतो रीङित्ययमादेशो भवति। मात्रीयति। मात्रीयते। पित्रीयति। पित्रीयते। चेक्रीयते। मात्रीभूतः। क्ङितीत्येतद् निवृत्तम्, तेनेहापि भवति-पितुरागतं पित्र्यम्। ऋत इति तपरकरणं किम्? चेकीर्यते । निजेगिल्यते॥

रिङ् शयग्लिङ्क्षु ॥ ७.४.२८॥

ऋकारान्तस्याङ्गस्य श यक् इत्येतयोर्लिङि च यकारादौ असार्वधातुके परतो रिङित्ययमादेशो भवति। श-आद्रियते। आध्रियते। यक्-क्रियते। ह्रियते। लिङ्-क्रियात्। ह्रियात्। रिङ्वचनं दीर्घनिवृत्त्यर्थम्। असार्वधातुक इत्येव-बिभृयात्। यीत्येव-कृषीष्ट। हृषीष्ट॥

गुणोऽर्तिसंयोगाद्योः ॥ ७.४.२९॥

ऋतो यकि लिङिइति वर्तते। श इत्यसंभवाद् निवृत्तम्। गुणो भवत्यर्तेः संयोगादीनामृकारान्तानां यकि परतो लिङिच यकारादावसार्वधातुके। अर्यते। अर्यात्। स्मर्यते। स्मर्यात्। इह संस्क्रियते, संस्क्रियादिति सुटो बहिरङ्गलक्षणस्यासिद्धत्वादभक्तत्वाद् वा संयोगादित्वमङ्गस्य नास्तीति गुणो न प्रवर्तते। यीत्येव-स्वृषीष्ट। ध्वृषीष्ट। असार्वधातुक इत्येव-इयृयात्॥

यङि च ॥ ७.४.३०॥

यङि च परतो अर्तेः संयोगादेश्च ऋतो गुणो भवति। अरार्यते। सास्वर्यते। दाध्वर्यते। सास्मर्यते। अर्तेः ‘अट्यर्त्यशूर्णोतीनामुपसंख्यानम्’ (३.१.२२ वा०) इति यङ्। ‘न न्द्राः संयोगादयः’(६.१.३) इति द्विर्वचनप्रतिषेधो यकारपरस्य नेष्यते॥ हन्तेर्हिंसायां यङि घ्नीभावो वक्तव्यः॥ जेघ्नीयते। हिंसायामिति किम्? जङ्घन्यते॥

ई घ्राध्मोः ॥ ७.४.३१॥

घ्रा ध्मा इत्येतयोर्यङि परत ईकारादेशो भवति। जेघ्रीयते। देध्मीयते॥

अस्य च्वौ ॥ ७.४.३२॥

ई इति वर्तते। अवर्णान्तस्याङ्गस्य च्वौ परत ईकारादेशो भवति। शुक्लीभवति। शुक्लीस्यात्। खट्वीकरोति। खट्वीस्यात्॥

क्यचि च ॥ ७.४.३३॥

अस्येति वर्तते। क्यचि परतोऽवर्णान्तस्याङ्गस्य ईकारादेशो भवति। पुत्रीयति। घटीयति। खट्वीयति। मालीयति। ‘अकृत्सार्वधातुकयोर्दीर्घः’(७.४.२५) इत्यस्यापवादः। पृथग्योगकरणमुत्तरार्थम्॥

अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु ॥ ७.४.३४॥

अशनाय उदन्य धनाय इत्येतानि निपात्यन्ते बुभुक्षा पिपासा गर्ध इत्येतेष्वर्थेषु। अशनायेत्यशनशब्दस्य आत्वं क्यचि निपात्यते। अशनायतीति भवति बुभुक्षा चेत्। अशनीयतीत्येवान्यत्र। उदन्येति उदकशब्दस्य उदन्नादेशो निपात्यते। उदन्यतीति भवति पिपासा चेत्। उदकीयतीत्येवान्यत्र। धनायेति धनशब्दस्य आत्वं निपात्यते। धनायतीति भवति गर्धश्चेत्। धनीयतीत्येवान्यत्र॥

नच्छन्दस्यपुत्रस्य ॥ ७.४.३५॥

छन्दसि विषये पुत्रवर्जितस्यावर्णान्तस्याङ्गस्य क्यचि यदुक्तं तद् न भवति। किं चोक्तम् ? दीर्घत्वमीत्वं च। मि॒त्र॒युः॑ (मै० सं० २.६.१२)। स॑ स्वे॒द॒युः॑ (मै०सं०४.१२.२)। दे॒वाञ्जि॑गाति सुम्न॒युः (ऋ० ३.२७.१)। अपुत्रस्येति किम्? पुत्री॒यन्तः॑ सु॒दान॑वः (ऋ०७.९६.४)॥ अपुत्रादीनामिति वक्तव्यम्॥ ज॒नी॒यन्तो॒ न्वग्र॑वः(ऋ०७.९६.४)॥

दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति ॥ ७.४.३६॥

दुरस्युः द्रविणस्युः वृषण्यति रिषण्यति इत्येतानि छन्दसि निपात्यन्ते। दुष्टशब्दस्य क्यचि दुरस्भावो निपात्यते। अवियोना दुरस्युः। दुष्टीयतीति प्राप्ते। द्रविणशब्दस्य द्रविणस्भावो निपात्यते। द्रविण॒स्युर्वि॑प॒न्यया॑ (ऋ० ६.१६.३४)। द्रविणीयतीति प्राप्ते। वृषशब्दस्य वृषण्भावो निपात्यते। वृषण्यति(ऋ० ९.५.६)। वृषीयतीति प्राप्ते। रिष्टशब्दस्य रिषण्भावो निपात्यते। रि॑ष॒ण्यति॑ (ऋ० २.२३.१२)। रिष्टीयतीति प्राप्ते॥

अश्वाघस्यात् ॥ ७.४.३७॥

अश्व अघ इत्येतयोः क्यचि परतः छन्दसि विषय आकारादेशो भवति। अ॒श्वा॒यन्तो॑ मघवन् (ऋ० ७.३२.२३)। मा त्वा॒ वृका॑ अघा॒यवो॑ विदन् (मा०सं० ४.३४)। एतदेवात्ववचनं ज्ञापकं ‘नच्छन्दस्यपुत्रस्य’ (७.४.३५) इति दीर्घप्रतिषेधो भवतीति॥

देवसुम्नयोर्यजुषि काठके ॥ ७.४.३८॥

देव सुम्न इत्येतयोः क्यचि परत आकारादेशो भवति काठके यजुषि। देवायते॑ य॑जमानाय (काठ० सं० २.९)। सुम्नाय॑न्तो ह॑वामहे (काठ० सं० ८.१७)। यजुषीति किम्? देवाञ्जिगाति सुम्न॒युः (ऋ० ३.२७.१)। काठक इति किम् ? सुम्न॒युरि॒दम॑सी॒दम॒सि (तै०सं० २.५.७.४)॥

कव्यध्वरपृतनस्यर्चि लोपः॥ ७.४.३९॥

कवि अध्वर पृतना इत्येतेषामङ्गानां क्यचि परतो लोपो भवति ऋचि विषये। कव्यन्तः सुमनसः। अध्वर-अध्व॒र्यन्तः॑ (मा० सं० १७.५६)। पृतन्यन्तः (पै०सं०२.८९.४) तिष्ठन्ति॥

द्यतिस्यतिमास्थामित् ति किति ॥ ७.४.४०॥

द्यति स्यति मा स्था इत्येतेषामङ्गानामिकारादेशो भवति तकारादौ किति प्रत्यये परतः। द्यति-निर्दितः। निर्दितवान्। स्यति-अवसितः। अवसितवान्। मा -मितः। मितवान्। स्था-स्थितः। स्थितवान्। तीति किम्? अवदाय। कितीति किम्? अवदाता ॥

शाच्छोरन्यतरस्याम् ॥ ७.४.४१॥

शा छा इत्येतयोरन्यतरस्यामिकारादेशो भवति तकारादौ किति। शा-निशितम्, निशातम्। निशितवान् निशातवान्। छा-अवच्छितम्, अवच्छातम्। अवच्छितवान्, अवच्छातवान्॥ श्यतेरित्वं व्रते नित्यमिति वक्तव्यम्॥ संशितो ब्राह्मणः। संशितव्रत इत्यर्थः। व्यवस्थितविभाषाविज्ञानात् सिद्धम्।

	देवत्रातो गलो ग्राह इतियोगे च सद्विधिः।

	मिथस्ते न विभाष्यन्ते गवाक्षः संशितव्रतः॥

दधातेर्हिः ॥ ७.४.४२॥

दधातेरङ्गस्य हीत्ययमादेशो भवति तकारादौ किति प्रत्यये परतः। हितः। हितवान्। हित्वा॥

जहातेश्च क्त्वि ॥ ७.४.४३॥

जहातेरङ्गस्य हीत्ययमादेशो भवति क्त्वाप्रत्यये परतः। हित्वा राज्यं वनं गतः। हित्वा गच्छति। जहातेर्निर्देशाद् जिहातेः न भवति। हात्वा॥

विभाषा छन्दसि ॥ ७.४.४४॥

जहातेरङ्गस्य विभाषा हीत्ययमादेशो भवति छन्दसि विषये क्त्वाप्रत्यये परतः। हि॒त्वा शरी॑रं (तै०ब्रा० २.५.६.५) यातव्यम्। हात्वा॥

सुधितवसुधितनेमधितधिष्वधिषीय च ॥ ७.४.४५॥

सुधित वसुधित नेमधित धिष्व धिषीय इत्येतानि छन्दसि विषये निपात्यन्ते। तत्र सुधित वसुधित नेमधित इति सुवसुनेमपूर्वस्य दधातेः क्तप्रत्यय इत्वमिडागमो वा प्रत्ययस्य निपात्यते। गर्भ॑ं मा॒ता सुधि॑तम् (ऋ० १०.२७.१६)। सुहितमिति प्राप्ते। वसुधितमग्नौ जुहोति। वसुहितमिति प्राप्ते। ने॒मधि॑ता॒ (ऋ०१०.९३.१३) बाधन्ते। नेमहिता इति प्राप्ते। धिष्वेति। लोण्मध्यमैकवचने दधातेरित्वमिडागमो वा प्रत्ययस्य द्विर्वचनाभावश्च निपात्यते। स्तोमं॑ धिष्व (ऋ० ८.३३.१५)। धत्स्वेति प्राप्ते। धिषीयेति आशीर्लिङ्यात्मनेपदोत्तमैकवचने दधातेरित्वमिडागमो वा प्रत्ययस्य निपात्यते। धिषीय॒ (तै० सं० १.६.४.४)। धासीयेति प्राप्ते॥

दो दद् घोः॥ ७.४.४६॥

दा इत्येतस्य घुसंज्ञकस्य ददित्ययमादेशो भवति तकारादौ किति प्रत्यये परतः। दत्तः। दत्तवान्। दत्तिः। द इति किम्? धीतः। धीतवान्। धेट एतद् रूपम्। घोरिति किम्? ‘दाप् लवने’ -दातं बर्हिः। ‘दैप् शोधने’- अवदातं मुखम्। अयमादेशस्थान्त इष्यते। एवं ह्युक्तम्-

तान्ते दोषो दीर्घत्वं स्याद् दान्ते दोषो निष्ठानत्वम्।

धान्ते दोषो धत्वप्राप्तिस्थान्तेऽदोषस्तस्मात् थान्तम्॥(महाभाष्य ३.३५०-३५१)

यदि तु ‘दस्ति’ (६.३.१२४) इति तकारादौ दीर्घत्वम् तदा तान्तेऽप्यदोषः। दान्तधान्तयोरपि ‘सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य’ इति नत्वधत्वे न भविष्यत इति न दोषः।

	अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि।

	सुदत्तमनुदत्तं च निदत्तमिति चेष्यते॥

‘अच उपसर्गात् तः’ (७.४.४७) इति प्राप्ते निपात्यन्ते। अनुपसर्गा वा एतेऽवादयः क्रियान्तरविषया वेदितव्याः॥

अच उपसर्गात् तः॥ ७.४.४७॥

अजन्तादुपसर्गादुत्तरस्य दा इत्येतस्य घुसंज्ञकस्य त इत्ययमादेशो भवति तकारदौ किति। प्रत्तम्। अवत्तम्। नीत्तम्। परीत्तम्। अच इति किम्? निर्दत्तम्। दुर्दत्तम्। उपसर्गादिति किम्? दधि दत्तम्। मधु दत्तम्। घोरित्येव-अवदातं मुखम्। उपसर्गादिति पञ्चमीनिर्देशादादेरलः प्राप्नोति। तत्र समाधिमाहुः। अच इत्येतद् द्विरावर्तयितव्यम्। तत्रैकं पञ्चम्यन्तमुपसर्गविशेषणार्थम्, अपरमपि षष्ठ्यन्तं स्थानिनिर्देशार्थमित्याकारस्य स्थाने तकारो भवति। द्वितकारो वा संयोगोऽयमादिश्यते, सोऽनेकाल्त्वात् सर्वस्य भविष्यति। ‘अपो भि’ (७.४.४८) इत्यत्र पञ्चम्यन्तमच इत्यनुवर्तते। तेन पकारमात्रस्य भविष्यति॥ द्यतेरित्वादचस्त इत्येतद् भवति विप्रतिषेधेन॥ अवत्तम्। प्र॑त्तं॒ (मै०सं० १.६.९) जुहोति॥

अपो भि॥ ७.४.४८॥

अप् इत्येतस्याङ्गस्य भकारादौ प्रत्यये परतस्त इत्ययमादेशो भवति। अद्भिः। अद्भ्यः। भीति किम्? अप्सु। स्ववःस्वतवसोर्मास उषसश्च तकारादेश इष्यते छन्दसि भकारादौ। स्ववद्भिः। स्वतवद्भिः। माद्भिष्ट्वा इन्द्रो वृत्रहा। समु॒षद्भि॑रजायथाः (ऋ० १.६.३)॥

सः स्यार्धधातुके॥ ७.४.४९॥

सकारान्तस्याङ्गस्य सकारादावार्धधातुके परतस्तकारादेशो भवति। वत्स्यति। अवत्स्यत्। विवत्सति। जिघत्सति। स इति किम्? वक्ष्यति। सीति किम्? घासः। वासः। आर्धधातुक इति किम् ? आस्से । वस्ते॥

तासस्त्योर्लोप॥ ७.४.५०॥

तासेरस्तेश्च सकारस्य सकारादौ प्रत्यये परतो लोपो भवति। तासेः-कर्तासि। कर्तासे। अस्तेः-त्वमसि। व्यतिसे। अस्तेरकारसकारयोर्लुप्तयोः स इति प्रत्ययमात्रमेतत् पदम्। तेन ‘सात्पदाद्योः’ (८.३.१०९) इति षत्वं न भवति॥

रि च॥ ७.४.५१॥

रेफादौ च प्रत्यये परतः तासस्त्योः सकारस्य लोपो भवति। कर्तारौ, कर्तारः। अध्येतारौ, अध्येतारः॥

ह एति॥ ७.४.५२॥

तासस्त्योः सकारस्य हकारादेशो भवत्येति परतः। कर्ताहे। अस्तेः- व्यतिहे॥

यीवर्णयोर्दीधीवेव्योः॥ ७.४.५३॥

यकारादाविवर्णादौ च परतो दीधीवेव्योर्लोपो भवति। यकारादौ-आदीध्य गतः। आवेव्य गतः। आदीध्यते। आवेव्यते। इवर्णादौ-आदीधिता। आवेविता। लिङि-आदीधीत। आवेवीत। यीवर्णयोरिति किम्? आदीध्यनम्। आवेव्यनम्॥

सनि मीमाघुरभलभशकपतपदामच इस्॥ ७.४.५४॥

सनि प्रत्यये सकारादौ परतो मी मा घु रभ लभ शक पत पद इत्येतेषामङ्गानामचः स्थान इसित्ययमादेशो भवति। मी इति मीनातिमिनोत्योर्द्वयोरपि ग्रहणमिष्यते। मित्सति। प्रमित्सति। मा इति ‘गामादाग्रहणेष्वविशेषः’। मित्सते। अपमित्सते। घु-दित्सति। धित्सति। रभ-आरिप्सते। लभ-आलिप्सते। शक-शिक्षति। पत-पित्सति। पद-प्रपित्सते। सनीति किम्? दास्यति। सीत्येव-पिपतिषति। ‘तनिपतिदरिद्राणामुपसंख्यानम्’ (७.२.४९ का०) इति पतेरिडागमविकल्पः॥ सनि राधो हिंसायामच इस् वक्तव्यः॥ प्रतिरित्सति। हिंसायामिति किम्? आरिरात्सति॥

आप्ज्ञप्यृधामीत्॥ ७.४.५५॥

आप् ज्ञपि इत्येतेषामङ्गानामच ईकारादेशो भवति सनि सकारादौ परतः। आप्-ईप्सति। ज्ञपि-ज्ञीप्सति। ऋध्-ईर्त्सति। ज्ञपेर्द्वावचौ तत्र णेः पूर्वविप्रतिषेधेन लोपः, इतरस्य त्वीत्वम्। सनीत्येव-प्राप्स्यति। सीत्येव-जिज्ञपयिषति। अर्दिधिषति। ‘सनीवन्तर्ध०’ (७.२.४९) इति ज्ञपेर्ऋधेश्चेटो विकल्पः॥

दम्भ इच्च॥ ७.४.५६॥

दम्भेरच इकारादेशो भवति,चकारादीत् च, सनि सकारादौ परतः। धिप्सति। धीप्सति। सीत्येव-दिदम्भिषति॥

मुचोऽकर्मकस्य गुणो वा॥ ७.४.५७॥

मुचोऽकर्मकस्य गुणो वा भवति सनि सकारादौ परतः। ‘हलन्ताच्च’ (१.२.१०) इति कित्त्वप्रतिषेधो विकल्प्यते। मोक्षते वत्सः स्वयमेव, मुमुक्षते वत्सः स्वयमेव। अकर्मकस्येति किम्? मुमुक्षति वत्सं देवदत्तः। कर्मकर्तरि मुचिरकर्मको भवति, कर्मविशेषस्याविवक्षितत्वाद् वा॥

अत्र लोपोऽभ्यासस्य॥ ७.४.५८॥

यदेतत् प्रक्रान्तं ‘सनि मीमा०’ (७.४.५४) इत्यादि ‘मुचोऽकर्मकस्य०’ (७.४.५७) इति यावत्, अत्राभ्यासलोपो भवति। तथैवोदाहृतम्। अभ्यासस्येत्येतत् चाधिकृतं वेदितव्यमाध्यायपरिसमाप्तेः। इत उत्तरं यद् वक्ष्यामोऽभ्यासस्येत्येवं तद् वेदितव्यम्। वक्ष्यति-‘ह्रस्वः’ (७.४.५९)-डुढौकिषते। तुत्रौकिषते। सनि मीमाघुरभलभशकपतपदामच इस् अभ्यासलोपश्चेत्येवं सिद्धे यदत्रग्रहणमिह क्रियते, तद् विषयावधारणार्थम्-अत्रैवाभ्यासलोपो भवति, सन्वद्भावविषये न भवति। अमीमपत्। अदीदपत्। ‘सन्वल्लघुनि चङ्परे०’(७.४.९३) इति सन्वद्भावात् प्राप्नोति। सर्वस्याभ्यासस्यायं लोप इष्यते, तदर्थमेव केचिदत्रग्रहणं वर्णयन्ति। ‘नानर्थकेऽलोन्त्यविधिः०’ इत्यपरे सर्वस्य कुर्वन्ति॥

ह्रस्वः॥ ७.४.५९॥

ह्रस्वो भवत्यभ्यासस्य। डुढौकिषते। तुत्रौकिषते। डुढौके। तुत्रौके। अडुढौकत्। अतुत्रौकत्॥ अभ्यासस्यानचि॥ अभ्यासस्य यदुच्यतेऽनचि तद् भवतीति वक्तव्यम्। चराचरः। चलाचलः। पतापतः। वदावतः। हलादिःशेषः (७.४.६०) न भवति॥

हलादिः शेषः॥ ७.४.६०॥

अभ्यासस्य हलादिः शिष्यते, अनादिर्लुप्यते। जग्लौ। मम्लौ। पपाच। पपाठ। आट, आटतुः, आटुः। आदिशेषनिमित्तोऽयमनादेर्लोपो विधीयते। तत्राभ्यासजातेराश्रयणात् क्वचिदपि वर्तमानो हलादिरनादेः सर्वत्र निवृत्तिं करोति। अपरे तु ब्रुवतेशेषशब्दोऽयं निवृत्त्या विशिष्टमवस्थानमाह। तदवस्थानमुक्तितो यद्यपि प्रधानम्, अविधेयत्वात् तु तदप्रधानम्। निवृत्तिरेव तु विधेयत्वात् प्रधानम्। तत्रायमर्थोऽस्य जायते-अभ्यासस्यानादेर्हलो निवृत्तिर्भवतीति। सा किमित्यादेरविधेयां सतीमनिवृत्तिमपेक्षिष्यत इति॥

शर्पूर्वाः खयः॥ ७.४.६१॥

अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते, अन्ये हलो लुप्यन्ते। चुश्च्योतिषति। तिष्ठासति। पिस्पन्दिषते। शर्पूर्वा इति किम्? पपाच। खय इति किम् ? सस्नौ॥ खर्पूर्वाः खय इति वक्तव्यम्॥ उचिच्छिषतीत्यत्र उच्छेरन्तरङ्गत्वात् तुकि कृते द्विर्वचनम्, तत्र हलादिः शेषे (७.४.६०) सत्यभ्यासे तकारः श्रूयेत॥

कुहोश्चुः॥ ७.४.६२॥

अभ्यासस्य कवर्गहकारयोश्चवर्गादेशो भवति। चकार। चखान। जगाम। जघास। हकारस्य-जहार। जिहीर्षति। जहौ॥

न कवतेर्यङि॥ ७.४.६३॥

कवतेरभ्यासस्य यङि परतश्चुर्न भवति। कोकूयत उष्ट्रः। कोकूयते खरः। कवतेरिति विकरणनिर्देशः कौतेः कुवतेश्च निवृत्त्यर्थः। तयोश्चुत्वमेव भवति। चोकूयते। यङीति किम्? चुकुवे॥

कृषेश्छन्दसि॥ ७.४.६४॥

कृषेश्छन्दसि विषये यङिपरतोऽभ्यासस्य चुर्न भवति। करीकृष्यते यज्ञकुणपः। छन्दसीति किम्? चरीकृष्यते कृषीवलः॥

दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्तेऽलर्ष्यापनीफणत्संसनिष्यदत्करि-क्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतःसरीसृपतंवरीवृजन्मर्मृज्या-गनीगन्तीति च ॥ ७.४.६५॥

दाधर्ति दर्धर्ति दर्धर्षि बोभूतु तेतिक्ते अलर्षि आपनीफणत् संसनिष्यदत् करिक्रत् कनिक्रदत् भरिभ्रत् दविध्वतः दविद्युतत् तरित्रतः सरीसृपतं वरीवृजत् मर्मृज्य आगनीगन्ति इत्येतानि अष्टादश छन्दसि विषये निपात्यन्ते। दाधर्ति्् दर्धर्ति दर्धर्षीति धारयतेर्धृङो वा श्लौ यङ्लुकि वाभ्यासस्य दीर्घत्वं णिलोपश्च। दाधर्ति। एवं दर्धर्ति-श्लौ रुगभ्यासस्य निपात्यते। तथा दर्धर्षि॒ (ऋ० ५.८४.३) इति। अत्र च यद् लक्षणेनानुपपन्नं तत् सर्वं निपातनात् सिद्धम्। बोभूत्विति-भवतेर्यङ्लुगन्तस्य लोटि गुणाभावो निपात्यते। नैतदस्ति प्रयोजनम्, अत्र ‘भूसुवोस्तिङि’ (७.३.८८) इति गुणाभावः सिद्धः। ज्ञापनार्थं तर्हि निपातनम्-एतद् ज्ञापयति-अन्यत्र यङ्लुगन्तस्य गुणप्रतिषेधो न भवतीति। बोभोति। बोभवीति (ऋ०३.५३.८)। तेति॑क्ते(ऋ०४.२३.७)-तिजेर्यङ्लुगन्तस्यात्मनेपदं निपात्यते। यङो ङित्त्वात् प्रत्ययलक्षणेनात्मनेपदं सिद्धमेव। ज्ञापनार्थं त्वात्मनेपदनिपातनम्-अन्यत्र यङ्लुगन्तादात्मनेपदं न भवति। अलर्षीति-इयर्तेर्लटि सिप्यभ्यासस्य हलादिःशेषापवादो रेफस्य लत्वं निपात्यते। सिपा निर्देशोऽतन्त्रम्, तिप्यपि दृश्यते-अल॑र्ति॒ दक्षः॑ (ऋ०८.४८.८)। आ॒पनी॑फणत् (ऋ० ४.४०.४) इति फणतेराङ्पूर्वस्य यङ्लुगन्तस्य शतर्यभ्यासस्य नीग् निपात्यते। सं॒स॑नि॒ष्यदत् (मै०सं० १.११.२) इति-स्यन्देः संपूर्वस्य यङ्लुक्, शतर्येवाभ्यासस्य निक् , धातुसकारस्य षत्वं निपात्यते। न चास्य संपूर्वता तन्त्रम्, अन्यत्रापि हि दृश्यते- आसनिष्यददिति। करि॑क्॒रत् (ऋ० १.१३१.३) इति-करोतेर्यङ्लुगन्तस्य शतरि चुत्वाभावोऽभ्यासककारस्य, रिगागमो निपात्यते। कनि॑क्रदत् (ऋ० १.१२८.३) इति-क्रन्देर्लुङिच्लेरङादेशो द्विर्वचनमभ्यासस्य चुत्वाभावो निगागमश्च निपात्यते। तथा चास्य हि विवरणं कृतम्। अक्रन्दीदिति भाषायाम्। भरि॑भ्र॒त् (ऋ० १०.४५.७) इति-बिभर्तेर्यङ्लुगन्तस्य शतरि ‘भृञामित्’ (७.४.७६) इतीत्वाभावो जश्त्वाभावोऽभ्यासस्य रिगागमो निपात्यते। दविध्वत इति-ध्वरतेर्यङ्लुगन्तस्य शर्तारे जसि रूपमेतत्। अत्राभ्यासस्य विगागम ऋकारलोपश्च निपात्यते। दवि॑ध्वतो र॒श्मयः॒ सूर्य॑स्य॒ (ऋ० ४.१३.४)। दवि॑द्युतत् (ऋ० ६.१६.४५) इति-द्युतेर्यङ्लुगन्तस्य शतर्यभ्यासस्य संप्रसारणाभावोऽत्वं विगागमश्च निपात्यते। तरित्रत इति-तरतेः शतरि श्लौ षष्ठ्येकवचनेऽभ्यासस्य रिगागमो निपात्यते। सरीसृपतमिति-सृपेःशतरि श्लौ द्वितीयैकवचनेऽभ्यासस्य रीगागमो निपात्यते। वरी॑वृज॒त् (ऋ० ७.२४.४)। इति-वृजेः शतरि श्लौ रीगागमो निपात्यतेऽभ्यासस्य। मर्मृज्येति-मृजेर्लिटि णलि अभ्यासस्य रुगागमो धातोश्च युगागमो निपात्यते। ततो ‘मृजेर्वृद्धिः’ (७.२.११४) न भवति, अलघूपधत्वात्। लघूपधगुणे प्राप्ते वृद्धिरारभ्यते। आगनीगन्तीति-आङ्पूर्वस्य गमेर्लटि श्लौ अभ्यासस्य चुत्वाभावो नीगागमश्च निपात्यते। व॒क्ष्यन्ती॒ वेदाग॑नीगन्ति॒ कर्ण॑म् (ऋ० ६.७५.३)। इतिकरणमेवंप्रकाराणामन्येषामप्युपसंग्रहार्थम्॥

उरत् ॥ ७.४.६६॥

ऋवर्णान्तस्याभ्यासस्याकारादेशो भवति। ववृते। ववृधे। शशृधे। नर्नर्त्ति, नरिनर्त्ति,नरीनर्त्ति इत्येवमादौ ‘अभ्यासविकारेष्वपवादो नोत्सर्गान् विधीन् बाधते’ इत्युरदत्वे कृते रुगादय आगमाः क्रियन्ते॥

द्युतिस्वाप्योः संप्रसारणम् ॥ ७.४.६७॥

द्युति स्वापि इत्येतयोरभ्यासस्य संप्रसारणं भवति। विदिद्युते। व्यदिद्युतत्। विदिद्योतिषते, विदिद्युतिषते। विदेद्युत्यते। स्वापेः- सुष्वापयिषति। स्वापिर्ण्यन्तो गृह्यते, तस्याभ्यासनिमित्तेन प्रत्ययेनानन्तर्ये सति संप्रसारणमिष्यते। इह न भवति-स्वापयतेर्ण्वुल् स्वापकः, तस्मात् क्यचि स्वापकीयति, स्वापकीयतेः सन् सिस्वापकीयिषति॥

व्यथो लिटि॥ ७.४.६८॥

व्यथेर्लिटि परतोऽभ्यासस्य संप्रसारणं भवति। विव्यथे, विव्यथाते, विव्यथिरे। हलादिःशेषेण (७.४.६०) यकारस्य निवृत्तौ प्राप्तायां संप्रसारणं क्रियते, वकारस्य ‘न संप्रसारणे संप्रसारणम्’ (६.१.३७) इति प्रतिषिध्यते। लिटीति किम्? वाव्यथ्यते॥

दीर्घ इणः किति॥ ७.४.६९॥

इणोऽङ्गस्य योऽभ्यासस्तस्य दीर्घो भवति किति लिटि परतः। ईयतुः, ईयुः। ‘इणो यण्’ (६.४.८१) इति यणादेशे कृते स्थानिवद्भावाद् द्विर्वचनम्। कितीति किम्? इयाय। इययिथ॥

अत आदेः॥ ७.४.७०॥

अभ्यासस्यादेरकारस्य दीर्घो भवति लिटि परतः। अतो गुणे (६.१.९७) पररूपत्वस्यापवादः। आट, आटतुः, आटुः। आदेरिति किम्? पपाच। पपाट॥

तस्मान्नुड् द्विहलः॥ ७.४.७१॥

तस्मादतोऽभ्यासाद् दीर्घीभूतादुत्तरस्य द्विहलोऽङ्गस्य नुडागमो भवति। आनङ्ग, आनङ्गतुः, आनङ्गुः। आनञ्ज, आनञ्जतुः, आनञ्जुः। द्विहल इति किम्? आट, आटतुः, आटुः। ऋकारैकदेशो रेफो हल्ग्रहणेन गृह्यते। तेनेहापि द्विहलोऽङ्गस्य नुडागमो भवति- आनृधतुः, आनृधुः॥

अश्नोतेश्च॥ ७.४.७२॥

अश्नोतेश्च दीर्घीभूतादभ्यासादुत्तरस्य नुडागमो भवति। व्यानशे, व्यानशाते, व्यानशिरे। अश्नोतेरिति विकरणनिर्देशोऽश्नातेर्मा भूदिति। आश, आशतुः, आशुः॥

भवतेरः॥ ७.४.७३॥

भवतेरभ्यासस्याकारादेशो भवति लिटि परतः। बभूव, बभूवतुः, बभूवुः। अनुबभूवे। भवतेरिति कर्तृनिर्देशादिह न भवति- अनुबभूवे कम्बलो देवदत्तेन। लिटीत्येव-बुभूषति। बोभूयते॥

ससूवेति निगमे॥ ७.४.७४॥

ससूव इति निगमे निपात्यते। सूतेर्लिटि परस्मैपदं वुगागमोऽभ्यासस्य चात्वं निपात्यते। स॑सूव॒ स्थवि॑रं (ऋ० ४.१८.१०) विपश्चिताम्। सुषुवे इति भाषायाम्॥

निजां त्रयाणां गुणः श्लौ॥ ७.४.७५॥

निजादीनां त्रयाणामभ्यासस्य गुणो भवति श्लौ सति। णिजिर्-नेनेक्ति । विजिर्-वेवेक्ति। विष्ऌ- वेवेष्टि। त्रिग्रहणमुत्तरार्थम्, एषां हि वृत्करणं समाप्त्यर्थं षठ्यत एवेति। श्लाविति किम्? निनेज॥

भृञामित्॥ ७.४.७६॥

भृञादीनां त्रयाणामभ्यासस्येकारादेशो भवति श्लौ सति। भृञ्-बिभर्ति। माङ्-मिमीते। ओहाङ्-जिहीते। त्रयाणामित्येव-जहाति। श्लावित्येव-बभार॥

अर्तिपिपर्त्योश्च॥ ७.४.७७॥

अर्ति पिपर्ति इत्येतयोरभ्यासस्येकारादेशो भवति श्लौ। इयर्ति धूमम्। पिपर्ति सोमम्॥

बहुलं छन्दसि॥ ७.४.७८॥

छन्दसि विषयेऽभ्यासस्य श्लौ बहुलमिकारादेशो भवति। पू॒र्णां वि॑वष्टि॒ (ऋ०७.१६.११)। वशेरेतद् रूपम्। तथा वचेः-जनि॑मा विवक्ति (ऋ० ९.९७.७)। सचेः- व॒त्सं न मा॒ता सि॑षक्ति (ऋ० १.३८.८)। जिघर्ति सोमम्। न च भवति-ददातीत्येवं ब्रूयात्। ज॒ज॑न॒दि॑न्द्र॒म् (मै०सं० १.९.१)। मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा (ऋ० १०.७३.१)॥

सन्यतः॥ ७.४.७९॥

सनि परतोऽकारान्ताभ्यासस्येकारादेशो भवति। पिपक्षति। यियक्षति। तिष्ठासति। पिपासति। सनीति किम्? पपाच। अत इति किम्? लुलूषति। तपरकरणं किम्? पापचिषते॥

ओः पुयण्ज्यपरे॥ ७.४.८०॥

सनीति वर्तते, इदिति च। उवर्णान्ताभ्यासस्य पवर्गे यणि जकारे चावर्णपरे परत इकारादेशो भवति सनि प्रत्यये परतः। पवर्गेऽपरे-पिपविषते। पिपावयिषति। बिभावयिषति। यण्यपरे-यियविषति। यियावयिषति। रिरावयिषति। लिलावयिषति। ज्यपरे-जु इति सौत्रोऽयं धातुः, जिजावयिषति। एतदेव पुयण्ज्यपर इति वचनं ज्ञापकम्-अद्विर्वचननिमित्तेऽपि णौ स्थानिवद् भवतीति। ओरिति किम्? पापच्यतेः सन्-पापचिषते। पुयण्जीति किम्? अवतुतावयिषति। जुहावयिषति। अपर इति किम्? बुभूषति॥

स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा॥ ७.४.८१॥

स्रवति शृणोति द्रवति प्रवति प्लवति च्यवति इत्येतेषामभ्यासस्य ओरवर्णपरे यणि वेकारादेशो भवति सनि परतः। सिस्रावयिषति, सुस्रावयिषति। शृणोति-शिश्रावयिषति, शुश्रावयिषति। द्रवति-दिद्रावयिषति, दुद्रावयिषति। प्रवति-पिप्रावयिषति, पुप्रावयिषति। प्लवति- पिप्लावयिषति, पुप्लावयिषति। च्यवति-चिच्यावयिषति, चुच्यावयिषति। वचनसामर्थ्यादेकेन वर्णेन यणो व्यवधानमाश्रीयते। पूर्वसूत्रेण त्वनन्तर एव यणि भवितव्यमित्यप्राप्तविभाषेयम्। अपर इत्येव-सुस्रूषति। शुश्रूषते॥

गुणो यङ्लुकोः॥ ७.४.८२॥

यङ्ि यङ्लुकि चेगन्तस्याभ्यासस्य गुणो भवति। चेचीयते। लोलूयते। यङ्लुकि- जोहवीति। ‘यङो वा’ (७.३.९४) इतीड्विकल्पः। चोक्रुशीति॥

दीर्घोऽकितः॥ ७.४.८३॥

अकितोऽभ्यासस्य दीर्घो भवति यङियङ्लुकि च । पापच्यते। पापचीति। यायज्यते। यायजीति। अकित इति किम्? यंयम्यते। यंयमीति। रंरम्यते। रंरमीति। ननु चात्रापवादत्वाद् नुकि कृतेऽभ्यासस्यानजन्तत्वादेव दीर्घत्वं न भविष्यति? एवं तर्ह्यकित इत्यनेनैतद् ज्ञाप्यते- ‘अभ्यासविकारेष्वपवादा नोत्सर्गान् विधीन् बाधन्ते’ (सीर० प० ९६) इति। किमेतस्य ज्ञापने प्रयोजनम्? डोढौक्यत इत्यत्र दीर्घोऽकित इत्यनेन संध्यक्षरह्रस्वो न बाध्यते, अचीकरदित्यत्र ‘दीर्घो लघोः’ (७.४.९४) इत्यनेन सन्वदित्वं न बाध्यते, मान्प्रभृतीनां दीर्घेण सनीत्वं न बाध्यते-मीमांसते, ‘ई च गणः’ (७.४.९७) इतीत्वेन ‘हलादिः शेषः’ (७.४.६०) न बाध्यते-अजीगणत्॥

नीग् वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्॥ ७.४.८४॥

वञ्चु स्रंसु ध्वंसु भ्रंसु कस पत पद स्कन्द इत्येतेषामभ्यासस्य नीगागमो भवति यङियङ्लुकि च। वञ्चु-वनीवच्यते। वनीवञ्चीति। स्रंसु-सनीस्रस्यते। सनीस्रंसीति। ध्वंसु-दनीध्वस्यते। दनीध्वंसीति। भ्रंसु-बनीभ्रस्यते। बनीभ्रंसीति। कस-चनीकस्यते। चनीकसीति। पत-पनीपत्यते। पनीपतीति। पद-पनीपद्यते। पनीपदीति। स्कन्द-चनीस्कद्यते। चनीस्कन्दीति॥

नुगतोऽनुनासिकान्तस्य॥ ७.४.८५॥

अनुनासिकान्तस्याङ्गस्य योऽभ्यासस्तस्याकारान्तस्य नुगागमो भवति यङ्यङ्लुकोः। परतः। तन्तन्यते। तन्तनीति। जङ्गम्यते। जङ्गमीति। यंयम्यते। यंयमीति। रंरम्यते। रंरमीति। नुगित्येतदनुस्वारोपलक्षणार्थं द्रष्टव्यम्। स्थानिना ह्यादेशो लक्ष्यते। तेन यंयम्यत। इत्येवमादावझल्परत्वेऽप्यनुस्वारो भवति॥ पदान्तवच्चेति वक्तव्यम्॥ ‘वा पदान्तस्य’ (८.४.५९) इति परसवर्णविकल्पो यथा स्यादिति। अत इति किम् ? तेतिम्यते। तपरकरणं तु भूतपूर्वस्यापि दीर्घस्य निवृत्त्यर्थम्-बाभाम्यते। अनुनासिकान्तस्येति किम् ? पापच्यते॥

जपजभदहदशभञ्जपशां च॥ ७.४.८६॥

जप जभ दह दश भञ्ज पश इत्येतेषामभ्यासस्य नुगागमो भवति यङ्यङ्लुकोः परतः। जञ्जप्यते। जञ्जपीति। जभ-जञ्जभ्यते। जञ्जभीति। दह-दन्दह्यते। दन्दहीति। दश-दन्दश्यते। दन्दशीति। दश इति दंशिरयं नकारलोपार्थमेव निर्दिष्टः। तेन यङ्लुक्यपि नकारलोपो भवति। भञ्ज-बम्भज्यते। बम्भञ्जीति। पश इति सौत्रो धातुः-पम्पश्यते। पम्पशीति॥

चरफलोश्च॥ ७.४.८७॥

चर फल इत्येतयोरभ्यासस्य नुगागमो भवति यङ्यङ्लुकोः परतः। चञ्चूर्यते। चञ्चुरीति। पम्फुल्यते। पम्फुलीति॥

उत् परस्यातः॥ ७.४.८८॥

चरफलोरभ्यासात् परस्यात उकारादेशो भवति यङ्यङ्लुकोः परतः। चञ्चूर्यते। चञ्चुरीति। पम्फुल्यते। पम्फुलीति। परस्येति किम्? अभ्यासस्य मा भूत्। अत इति किम्? अलोऽन्त्यस्य मा भूत्। उदिति तपरकरणं चञ्चूर्ति, पम्फुल्ति इत्यत्र लघूपधगुणनिवृत्त्यर्थम्। दीर्घस्यासिद्धत्वादिह लघुत्वं न निवर्तते॥

ति च॥ ७.४.८९॥

तकारादौ प्रत्यये परतश्चरफलोरकारस्य उकारादेशो भवति। चरणं चूर्तिः। ब्रह्मणश्चूर्तिः। प्रफुल्तिः। प्रफुल्ताः सुमनसः। यङ्लुकोरभ्यासस्येति चानुवर्तमानमपि वचन सामर्थ्यादिह नाभिसंबध्यते॥

रीगृदुपधस्य च ॥ ७.४.९०॥

ऋदुपधस्याङ्गस्य योऽभ्यासस्तस्य रीगागमो भवति यङ्यङ्लुकोः परतः। वरीवृत्यते। वरीवृतीति। वरीवृध्यते। वरीवृधीति। नरीनृत्यते। नरीनृतीति॥ रीगृत्वत इति वक्तव्यम्॥ इहापि यथा स्यात् - वरीवृश्च्यते। परीपृच्छ्यते॥

रु ग्रिकौ च लुकि ॥ ७.४.९१॥

यङ्लुकि ऋदुपधस्याङ्गस्य योऽभ्यासस्तस्य रुग्रिकावागमौ भवतः, चकाराद्रीक् च। नर्नर्त्ति, नरिनर्त्ति, नरीनर्त्ति। वर्वर्त्ति, वरिवर्ति, वरीवर्त्ति। उकार उच्चारणार्थः॥ मर्मृज्यते मर्मृज्यमानास इत्युपसंख्यानम्॥ मर्मृज्यते। मर्मृज्यमानसः॥

ऋतश्च ॥ ७.४.९२॥

ऋकारान्तस्याङ्गस्य योऽभ्यासस्तस्य रुग्रिकावागमौ भवतो रीक् च यङ्लुकि। चर्कर्ति, चरिकर्ति, चरीकर्ति। चर्हर्ति, जरिहर्ति, जरीहर्ति। तपरकरणं किम्? किरतेश्चाकर्ति।

	किरतिं चर्करीतान्तं पचतीत्यत्र यो नयेत्।

	प्राप्तिज्ञं तमहं मन्ये प्रारब्धस्तेन संग्रहः॥ 

तत्रेयं प्राप्तिः-तपरकरणसामर्थ्यादङ्गविशेषणमृत इत्येतत्, तथा चाप्राप्तिः किरते रुगादीनामिति॥

सन्वल्लघुनि चङ्परेऽनग्लोपे ॥ ७.४.९३॥

लघुनि धात्वक्षरे परतो योऽभ्यासस्तस्य चङ्परे णौ परतः सनीव कार्यं भवति अग्नलोपे। ‘सन्यतः’ (७.४.७९) इत्युक्तम्, चङ्परेऽपि तथा। अचीकरत्। अपीपचत्। ‘ओः पुयण्ज्यपरे’ (७.४.८०) इत्युक्तम्, चङ्परेऽपि तथा। अपीपवत्। अलीलवत्। अजीजवत्। ‘स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा’ (७.४.८१) इत्युक्तम् चङ्परेऽपि तथा। असिस्रवत् असुस्रवत्। अशिश्रवत्, अशुश्रवत्। अदिद्रवत्, अदुद्रवत्। अपिप्रवत् अपुप्रवत्। अपिप्लवत्, अपुप्लवत्। अचिच्यवत् अचुच्यवत्। लघुनीति किम्? अततक्षत्। अररक्षत्। जागरयतेः- अजजागरत् । अत्र केचिद् गशब्दं लघुमाश्रित्य सन्वद्भावमिच्छन्ति, सर्वत्रैव लघोरानन्तर्यम् अभ्यासेन नास्तीति व्यवधानेऽपि वचनप्रामाण्याद् भवितव्यम्। तदसत्, ‘येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्’ इत्येकेन व्यवधानमाश्रीयते, न पुनरनेकेन। यद्येवम्, कथमचिक्षणदिति? आचार्यप्रवृतिर्ज्ञापयति-भवत्येवंजातीयकानामित्वमिति, यदयं तद्-बाधनार्थं स्मरत्यादीनामत्वम् (७.४.९५) विदधाति। चङ्पर इति किम्? अहं पपच। परग्रहणं किम्? चङ्येव केवले मा भूत्-अचकमत। अनग्लोप इति किम्? अचकथत्। दृषदमाख्यातवान् अददृषत्। वादितवन्तं प्रयोजितवान् अवीवददित्यत्र योऽसौ णौ णेर्लोपो नासावग्लोप इत्याश्रीयते। किं कारणम्? चङ्पर इति णिजातेर्निमित्तत्वेनाक्षेपात् ततोऽन्यस्याको लोपः परिगृह्यते। मीमादीनामत्रग्रहणात् सन्वद्भावेनाभ्यासलोपो न भवतीत्युक्तम् (७.४.५८)। किं च सन्वदिति सनाश्रयं कार्यमतिदिश्यते, न च लोपः सनमेवापेक्षते। किं तर्हि? इस्भावाद्यपि। तदभावादमीमपदित्यादावभ्यासलोपो न भवष्यिति॥

दीर्घो लघोः ॥ ७.४.९४॥

दीर्घो भवति। लघोरभ्यासस्य लघुनि णौ चङ्परेऽनग्लोपे। अचीकरत्। अजीहरत्। अलीलवत्। अपीपचत्। लघोरिति किम्? अबिभ्रजत्। लघुनीत्येव- अततक्षत्। अररक्षत्। चङीत्येव-अहं पपच। पर इत्येव- अचकमत। अनग्लोप-इत्येव- अचक थत्॥

अत् स्मृदृृत्वरप्रथम्रदस्तृृस्पशाम् ॥ ७.४.९५॥

स्मृ दृृ त्वर प्रथ म्रद स्तृृ स्पश इत्येतेषामभ्यासस्यादित्ययमादेशो भवति चङ्परे णौ परतः। स्मृ-असस्मरत्। दृृ-अददरत्। त्वर-अतत्वरत्। प्रथ-अपप्रथत्। म्रद-अमम्रदत्। स्तृृ-अतस्तरत्। स्पश-अपस्पशत्। सन्वद्भावादित्वं प्राप्तमनेन बाध्यते। तपरकरणसामर्थ्यादति कृते ‘दीर्घो लघोः’ (७.४.९४) इत्येतदपि न भवति। अददरत्॥

विभाषा वेष्टिचेष्ट्योः ॥ ७.४.९६॥

वेष्टि चेष्टि इत्येतयोरभ्यासस्य विभाषा अदित्ययमादेशो भवति चङ्परे णौ परतः। अववेष्टत् अविवेष्टत्। अचचेष्टत्, अचिचेष्टम्। अभ्यासह्रस्वत्वे कृतेऽत्वं पक्षे भवति॥

ई च गणः ॥ ७.४.९७॥

गणेरभ्यासस्य ईकारादेशो भवति चङ्परे णौ परतः, चकारादत् च। अजीगणत्, अजगणत्॥

॥ इति श्रीवामनविरचितायां काशिकायां वृत्तौ सप्तमाध्यायस्य चतुर्थः पादः॥