०३

देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् ॥ ७.३.१॥

देविका शिंशपा दित्यवाट् दीर्घसत्र श्रेयस् इत्येतेषामङ्गानामचामादेरचः स्थाने वृद्धिप्रसङ्ग आकारो भवति ञिति णिति किति तद्धिते परतः। देविकायां भवमुदकं दाविकमुदकम्। देविकाकूले भवाः शालयो दाविकाकूलाः शालयः। पूर्वदेविका नाम प्राचां ग्रामः, तत्र भवः पूर्वदाविकः। ‘प्राचां ग्रामनगराणाम्’ (७.३.१४) इत्युत्तरपदवृद्धिः, साप्याकार एव भवति। शिंशपा- शिंशपाया विकारश्चमसः शांशपश्चमसः। पलाशादिरयं तेन पक्षेऽण् (४.३.१४१) अनुदात्तादिलक्षणो वाञ् (४.३.१४०)। शिंशपास्थले भवाः शांशपास्थला देवाः। पूर्वशिंशपा नाम प्राचां ग्रामः, तत्र भवः पूर्वशांशपः। दित्यवाट्-दित्यौह इदं दात्यौहम्। दीर्घसत्र-दीर्घसत्रे भवं दार्घसत्रम्। श्रेयस्-श्रेयसि भवं श्रायसम्॥ वहीनरस्येद्ववचनं कर्तव्यम्॥ वृद्धिविषयेऽचामादेरचः स्थाने वहीनरस्येकारादेशो भवति। वहीनरस्यापत्यं वैहीनरिः। केचित् तु विहीनरस्यैव वैहीनरिमिच्छन्ति॥

केकयमित्रयुप्रलयानां यादेरियः ॥ ७.३.२॥

केकय मित्रयु प्रलय इत्येतेषां यकारादेरिय इत्ययमादेशो भवति तद्धिते ञिति णिति किति च परतः। केकयस्यापत्यं कैकेयः। ‘जनपदशब्दात् क्षत्रियादञ्’ (४.१.१६८) इत्यञ्प्रत्ययः। मित्रयुभावेन श्लाघते मैत्रेयिकया श्लाघते। ‘गोत्रचरणाच्छ्लाघात्याकारतदवेतेषु’ (५.१.१३४) इति वुञ्। लौकिकं हि तत्र गोत्रं गृह्यते। लोके च ऋषिशब्दो गोत्रमित्यभिधीयते। प्रलय- प्रलयादागतं प्रालेयमुदकम्॥

न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् ॥ ७.३.३॥

यकारवकाराभ्यां पदान्ताभ्याम् उत्तरस्याचामादेरचः स्थाने वृद्धिर्न भवति, ताभ्यां तु यकारवकाराभ्यां पूर्वमैजागमौ भवतो ञिति णिति किति च तद्धिते परतः। यकारादैकारः, वकारादौकारः। व्यसने भवं वैयसनम्। व्याकरणमधीते वैयाकरणः। स्वश्वस्यापत्यं सौवश्वः। य्वाभ्यामिति किम्? न्रर्थस्यापत्यं न्रार्थिः। पदान्ताभ्यामिति किम्? यष्टिः प्रहरणमस्य याष्टीकः। यतश्छात्रा याताः। प्रतिषेधवचनमैचोर्विषयप्रक्ऌप्त्यर्थम्, इह मा भूत्- दाध्यश्विः, माध्वश्विरिति। न ह्यत्र य्वाभ्यामुत्तरस्य वृद्धिप्रसङ्गोऽस्ति। वृद्धेरभावात् प्रतिषेधोऽपि नास्तीत्यप्रसङ्ग। उत्तरपदवृद्धेरप्ययं प्रतिषेध इष्यते। पूर्वत्र्यलिन्दे भवः पूर्वत्रैयलिन्दः। यत्र तूत्तरपदसंबन्धी यण् न भवति, तत्र नेष्यते प्रतिषेधः। द्वे अशीती भृतो भूतो भावी वा द्व्याशीतिकः॥

द्वारादीनां च ॥ ७.३.४॥

द्वार इत्येवमादीनां य्वाभ्याम् उत्तरस्य अचामादेरचः स्थाने वृद्धिर्न भवति, पूर्वौ तु ताभ्यामैजागमौ भवतः। द्वारे नियुक्तो दौवारिकः। द्वारपालस्येदं दौवारपालम्। तदादिविधिश्चात्र भवति। स्वरमधिकृत्य कृतो ग्रन्थः सौवरः। सौवरोऽध्यायः, सौवर्यः, सप्तम्य इति। व्यल्कशे भवो वैयल्कशः। स्वस्तीत्याह सौवस्तिकः। स्वर्भवः सौवः। ‘अव्ययानां भमात्रे टिलोपः’ (६.४.१४४ वा०)। स्वर्गमनमाह सौवर्गमनिकः। स्वाध्याय इति केचित् पठन्ति, तदनर्थकम्। शोभनोऽध्याय इत्येतस्यां व्युत्पत्तौ तु पूर्वेणैव सिद्धम्। अथाप्येवं व्युत्पत्तिः क्रियते- स्वोऽध्यायः स्वाध्याय इति। एवमप्यत्रैव स्वशब्दस्यैव पाठात् सिद्धम्। तदादावपि हि वृद्धिरियं भवत्येव। स्फ्यकृतस्यापत्यं स्फैयकृतः। स्वादुमृदुन इदं सौवादुमृदवम्। शुन इदं शौवनम्। अणि ‘अन्’ (६.४.१६७) इति प्रकृतिभावः। शुनो विकारो मांसं शौवम्। ‘प्राणिरजतादिभ्योऽञ्’ (४.३.१५४) इत्यञ्। श्वादंष्ट्रायां भवः शौवादंष्ट्रो मणिः। स्वस्येदं सौवम्। स्वग्रामे भवः सौवग्रामिकः। अध्यात्मादित्वात् (४.३.६० वा०) ठञ्। अपदान्तार्थोऽयमारम्भः॥ द्वार। सवर। व्यल्कश। स्वस्ति। स्वर्। स्फ्यकृत। स्वादुमृदु। श्वन्। स्व। द्वारादिः॥

न्यग्रोधस्य च केवलस्य ॥ ७.३.५॥

न्यग्रोधशब्दस्य केवलस्य यकारादुत्तरस्याचामादेरचः स्थाने वृद्धिर्न भवति, तस्मात् च पूर्वमैकार आगमो भवति। न्यग्रोधस्य विकारो नैयग्रोधश्चमसः। केवलस्येति किम्? न्यग्रोधमूले भवाः शालयो न्याग्रोधमूलाः शालयः। न्यग्रोहतीति न्यग्रोध इति व्युत्पत्तिपक्षे नियमार्थम्, अव्युत्पत्तिपक्षे विध्यर्थम्॥

न कर्मव्यतिहारे ॥ ७.३.६॥

कर्मव्यतिहारे यदुक्तं तद् न भवति। प्रतिषेधागमयोरयं प्रतिषेधः। व्यावक्रोशी, व्यावलेखी, व्यावचर्ची, व्यावहासी वर्तते। ‘कर्मव्यतिहारे णच् स्त्रियाम्’ (३.३.४३) इति णच् प्रत्ययः, तदन्ताद् ‘णचः स्त्रियामञ्’ (५.४.१४)॥

स्वागतादीनां च ॥ ७.३.७॥

स्वागत इत्येवमादीनां यदुक्तं तद् न भवति। स्वागतमित्याह स्वागतिकः। स्वध्वरेण चरति स्वाध्वरिकः। स्वङ्गस्यापत्यं स्वाङ्गिः। व्यङ्गस्यापत्यं व्याङ्गिः। व्यडस्यापत्यं व्याडिः। व्यवहारेण चरति व्यावहारिकः। व्यवहारशब्दोऽयं लौकिके वृत्ते वर्तते, न तु कर्मव्यतिहारे। स्वपतौ साधुः स्वापतेयः। द्वारादिषु स्वशब्दपाठादत्र प्राप्तिः॥ स्वागत। स्वध्वर। स्वङ्ग। व्यङ्ग। व्यड। व्यवहार। स्वपति। स्वागतादिः॥

श्वादेरिञि ॥ ७.३.८॥

श्वादेरङ्गस्येञि परतो यदुक्तं तद् न भवति। श्वभस्त्रस्यापत्यं श्वाभस्त्रिः। श्वादंष्ट्रिः। श्वन्शब्दो द्वारादिषु पठ्यते, तत्र च तदादिविधिर्भवतीत्येतदेव वचनं ज्ञापकम्। इकारादिग्रहणं कर्तव्यं श्वागणिकाद्यर्थम्॥ श्वगणेन चरति श्वागणिकः। श्वायूथिकः। तदन्तस्य चान्यत्रापि तद्धिते प्रतिषेध इष्यते। श्वाभस्त्रेरिदं श्वाभस्त्रम्॥

पदान्तस्यान्यतरस्याम् ॥ ७.३.९॥

श्वादेरङ्गस्य पदशब्दान्तस्यान्यतरस्यां यदुक्तं तद् न भवति। श्वपदस्येदं श्वापदम्, शौवापदम्॥

उत्तरपदस्य ॥ ७.३.१०॥

उत्तरपदस्येत्ययमधिकारः, ‘हनस्तोऽचिण्णलोः’ (७.३.३२) इति प्रागेतस्मात्। यदित ऊर्ध्वमनुक्रमिष्यामः, उत्तरपदस्येत्येवं तद् वेदितव्यम्। वक्ष्यति- ‘अवयवादृतोः’ (७.३.११)- पूर्ववार्षिकम्। अपरवार्षिकम्। पूर्वहैमनम्। अपरहैमनम्। यत्र पञ्चमीनिर्देशो नास्ति ‘जे प्रोष्ठपदानाम्’ (७.३.१८) इत्येवमादौ, तदर्थमुत्तरपदाधिकारः। पञ्चमीनिर्देशेष्वपि विस्पष्टार्थम्, वृद्धेश्च व्यपदेशार्थम्। ‘उत्तरपदवृद्धौ सर्वं च’ (६.२.१०५) इत्युत्तरपदाधिकारे या वृद्धिरित्येवं विज्ञायते॥

अवयवाद् ऋतोः ॥ ७.३.११॥

अवयववाचिन उत्तरस्य ऋतुवाचिन उत्तरपदस्याचामादेरचो वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः। पूर्ववार्षिकम्। पूर्वहैमनम्। अपरवार्षिकम्। अपरहैमनम्। पूर्वं वर्षाणामपरं वर्षाणामित्येकदेशिसमासः (२.२.१)। ‘तत्र भवः’ (४.३.५३) इत्येतस्मिन्नर्थे ‘वर्षाभ्यष्ठक् ’ (४.३.१८), ‘हेमन्ताच्च’, ‘सर्वत्राण् च तलोपश्च’ (४.३.२१,२२) इत्यण् प्रत्ययः, तत्र ऋतोर्वृद्धिमद्विधाववयवानाम् (महाभाष्य १.१८६) इति तदन्तविधिः। अवयवादिति किम्? पूर्वासु वर्षासु भवं पौर्ववर्षिकम्। ‘कलाट् ठञ्’ (४.३.११) इति ठञ्। अवयवपूर्वस्यैव तदन्तविधिर्नान्यस्य॥

सुसर्वार्धाज्जनपदस्य ॥ ७.३.१२॥

सु सर्व अर्ध इत्येतेभ्य उत्तरस्य जनपदवाचिन उत्तरपदस्याचामादेरचो वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः। सुपाञ्चालकः। सर्वपाञ्चालकः। अर्धपाञ्चालकः। ‘जनपदतदवध्योश्च’ (४.२.१२४), ‘अवृद्धादपि बहुवचनविषयात्’ (४.२.१२५) इति वुञ्। सुसर्वार्धदिक्शब्देभ्यो जनपदस्य (महाभाष्य १.१८६) इति तदन्तविधिः॥

दिशोऽमद्राणाम्॥ ७.३.१३॥

दिग्वाचिन उत्तरस्य जनपदवाचिनो मद्रवर्जितस्याचामादेरचो वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः। पूर्वपाञ्चालकः। अपरपाञ्चालकः। दक्षिणपाञ्चालकः। पूर्ववत् (७.३.१२) तदन्तविधिः प्रत्ययश्च। दिश इति किम्? पूर्वः पञ्चालानां पूर्वपञ्चालः, तत्र भवः पौर्वपञ्चालकः। आपरपञ्चालकः। अमद्राणामिति किम्? पौर्वमद्रः। आपरमद्रः। ‘मद्रेभ्योऽञ्’ (४.२.१०८) इत्यञ्प्रत्ययः॥

प्राचां ग्रामनगराणाम् ॥ ७.३.१४॥

प्राचां देशे ग्रामनगराणां दिश उत्तरेषामचामादेरचो वृद्धिर्भवति तद्धिते ञिति णिति कित च परतः। ग्रामाणाम्- पूर्वषुकामशम्यां भवः पूर्वैषुकामशमः। अपरैषुकामशमः। पूर्वकार्ष्णमृत्तिकः। अपरकार्ष्णमृत्तिकः। नगराणाम्- पूर्वस्मिन् पाटलिपुत्रे भवः पूर्वपाटलिपुत्रकः। अपरपाटलिपुत्रकः। पूर्वकान्यकुब्जः। अपरकान्यकुब्जः। ग्रामत्वादेव नगराणामपि ग्रहणे सिद्धे भेदेन यदुभयोरुपादानं तत् संबन्धभेदप्रतिपत्त्यर्थम्। दिक्पूर्वपदो हि समुदायः पूर्वषुकामशम्यादिः ग्रामनामधेयम्। पाटलिपुत्रादिः पुनरुत्तरपदमेव नगरमाह। तत्र ग्रामवाचिनामङ्गानामवयवस्य दिक्शब्दादुत्तरस्य वृद्धिर्भवति इत्येवमभिसंबन्धः क्रियते, इतरत्र तु दिश उत्तरेषां नगराणामित्येव। पूर्वैषुकामशम इत्येवमादिषु कृतायामुत्तरपदवृद्धौ एकादेशो भवतीति ज्ञापितं ‘नेन्द्रस्य परस्य’ (७.३.२२) इति प्रतिषेधेन॥

संख्यायाः संवत्सरसंख्यस्य च ॥ ७.३.१५॥

संख्याया उत्तरपदस्य संवत्सरशब्दस्य संख्यायाश्चाचामादेरचः स्थाने वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः। द्वौ संवत्सरावधीष्टो भृतो भूतो भावी वा द्विसांवत्सरिकः। संख्यायाः- द्वे षष्टी अधीष्टो भृतो भूतो भावी वा द्विषाष्टिकः। द्विसाप्ततिकः। द्विषष्ट्यादिशब्दो वर्षेषु संख्येयेषु वर्तमानः कालाधिकारविहितं प्रत्ययमुत्पादयति। ‘परिमाणान्तस्य०’ (७.३.१७) इत्येव सिद्धे संवत्सरग्रहणं परिमाणग्रहणे कालपरिमाणस्याग्रहणार्थम्। तेन द्वैसमिकः त्रैसमिक इत्युत्तरपदवृद्धिर्न भवति। द्विवर्षा, त्रिवर्षा माणविकेति ‘अपरिमाणबिस्ताचित०’ (४.१.२२) इति पर्युदासो न भवति॥

वर्षस्याभविष्यति ॥ ७.३.१६॥

संख्याया उत्तरस्य वर्षशब्दस्याचामादेरचो वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः, स चेत् तद्धितो भविष्यत्यर्थे न भवति। द्वे वर्षे अधीष्टो भृतो भूतो वा द्विवार्षिकः। त्रिवार्षिकः। अभविष्यतीति किम्?

	यस्य त्रैवर्षिकं धान्यं निहितं भृत्यवृत्तये।

	अधिकं वापि विद्येत स सोमं पातुमर्हति॥ (मनु० ११.७)।

त्रीणि वर्षाणि भावीति त्रैवर्षिकम्। अधीष्टभृतयोरभविष्यतीति प्रतिषेधो न भवति। गम्यते हि तत्र भविष्यत्ता, न तु तद्धितार्थः। द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतीति द्विवार्षिको मनुष्यः॥

परिमाणान्तस्यासंज्ञाशाणयोः ॥ ७.३.१७॥

परिमाणान्तस्याङ्गस्य संख्यायाः परं यदुत्तरपदं तस्याचामादेरचो वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः, संज्ञायां विषये शाणे चोत्तरपदे न भवति। द्वौ कुडवौ प्रयोजनमस्य द्विकौडविकः। द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौवर्णिकम्। ‘विभाषा कार्षापणसहस्राभ्याम्’ (५.१.२९) इत्यत्र ‘सुवर्णशतमानयोरुपसंख्यानम्’ (५.१.२९ वा०) इति लुको विकल्पः। द्वाभ्यां निष्काभ्यां क्रीतम्, ‘द्वित्रिपूर्वान्निष्कात्’ (५.१.३०)- द्विनैष्किकम्। असंज्ञाशाणयोरिति किम्? पाञ्चलोहितिकम्। पाञ्चकलापिकम्। पञ्च लोहिन्यः परिमाणमस्य, पञ्च कलापानि परिमाणमस्येति विगृह्य ‘तदस्य परिमाणम्’ (५.१.५७) इति योगविभागात् प्रत्ययः, तद्धितान्तश्चायं समुदायः संज्ञा। द्वाभ्यां शाणाभ्यां क्रीतं द्वैशाणम्। त्रैशाणम्। ‘शाणाद्वा’, ‘द्वित्रिपूर्वादण् च’ (५.१.३५,३६) इत्यण् प्रत्ययः। असंज्ञाशाणकुलिजानामिति केचित् पठन्ति। द्वे कुलिजे प्रयोजनमस्य द्वैकुलिजिकः॥

जे प्रोष्ठपदानाम् ॥ ७.३.१८॥

ज इति जातार्थो निर्दिश्यते। तत्र यस्तद्धितो विहितस्तस्मिन् ञिति णिति किति च परतः प्रोष्ठपदानामुत्तरपदस्याचामादेरचो वृद्धिर्भवति। प्रोष्ठपदा नाम नक्षत्रम्, ताभिर्युक्तः कालः (४.२.३) इत्यण्। तस्य ‘लुबविशेषे’ (४.२.४) इति लुप्। प्रोष्ठपदासु जातः, ऋतुनक्षत्रेभ्योऽण् (४.३.१६) इत्यण्। प्रोष्ठपादो माणवकः। ज इति किम्? यदा प्रौष्ठपदो मेघो धरणीमभिवर्षति। प्रोष्ठपदासु भवः प्रौष्ठपदः। प्रोष्ठपदानामिति बहुवचननिर्देशात् पर्यायोऽपि गृह्यते- भद्रपाद इति॥

हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ॥ ७.३.१९॥

हृद् भग सिन्धु इत्येवमन्तेऽङ्गे पूर्वपदस्योत्तरपदस्य चाचामादेरचो वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः। सुहृदयस्येदं सौहार्दम्। सुहृदयस्य भावः सौहार्द्यम्। सुभगस्य भावः सौभाग्यम्। दौर्भाग्यम्। सुभगाया अपत्यं सौभागिनेयः। दौर्भागिनेयः। कल्याण्यादिषु (४.१.१२६) सुभगादुर्भगेति पठ्यते, ‘सुभग मन्त्रे’ (ग०सू० १२०) इत्युद्गात्रादिषु (५.१.१२९) पठ्यते। तत्रोत्तरपदवृद्धिर्नेष्यते, महते सौभगाय (ऐ० ब्रा० २.२), छन्दसि सर्वविधीनां विकल्पितत्वात्। सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः, सक्तुसिन्धुषु भवः साक्तुसैन्धवः। पानसैन्धवः। सिन्धुशब्दः कच्छादिषु (४.२.१३३) पठ्यते, तेन तदन्तविधिरिष्यत इत्यण् प्रत्ययः॥

अनुशतिकादीनां च ॥ ७.३.२०॥

अनुशतिक इत्येवमादीनां चाङ्गानां पूर्वपदस्य चोत्तरपदस्य चाचामादेरचः स्थाने वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः। अनुशतिकस्येदम् आनुशातिकम्। अनुहोडेन चरति आनुहौडिकः। अनुसंवरणे दीयते आनुसांवरणम्। अनुसंवत्सरे दीयत आनुसांवत्सरिकः। अङ्गारवेणुर्नाम कश्चित् तस्यापत्यम् आङ्गारवैणवः। असिहत्य- तत्र भवम् आसिहात्यम्। अस्यहत्य इति केचित् पठन्ति, ततोऽपि विमुक्तादित्वादण् (५.२.६१)। अस्यहत्यशब्दोऽस्मिन्नध्यायेऽस्ति आस्यहात्यः। अस्यहेतिरित्येवमपरे पठन्ति। अस्यहेतिः प्रयोजनमस्य आस्यहैतिकः। अत एव वचनादस्य समुदायस्य प्रातिपदिकत्वं विभक्तेश्चालुक् । वध्योग इति बिदादिः (४.१.१०४) अयं तस्यापत्यं वाध्यौगः। पुष्करसत्, अनुहरत् एतौ बाह्वादिषु (४.१.९६) पठ्येते। पौष्करसादिः। आनुहारतिः। कुरुकत गर्गादिः (४.१.१०५) कौरुकात्यः। कुरुपञ्चाल- कुरुपञ्चालेषु भवः कौरुपाञ्चालः। जनपदसमुदायो जनपदग्रहणेन न गृह्यत इति वुञ् न भवति। उदकशुद्धस्यापत्यम् औदकशौद्धिः। इहलोक। परलोक। तत्र भव ऐहलौकिकः। पारलौकिकः। ‘लोकोत्तरपदस्य’ (४.१.६० वा०) इति ठञ्। सर्वलोक। तत्र विदितः सार्वलौकिकः। सर्वपुरुषस्येदं सार्वपौरुषम्। सर्वभूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः। प्रयोग। तत्र भवः प्रायौगिकः। परस्त्री। पारस्त्रैणेयः। ‘कुलटाया वा’ (४.१.१२७) इतीनङ्। ‘राजपुरुषात् ष्यञि’ (ग०सू० १७९)। राजपौरुष्यम्। ष्यञीति किम्? राजपुरुषस्यापत्यं राजपुरुषायणिः। ‘उदीचां वृद्धादगोत्रात्’ (४.१.१५७) इति फिञ्। शतकुम्भ सुखशयनादयः। शतकुम्भे भवः शातकौम्भः। सौखशायनिकः। पारदारिकः। सूत्रनडस्यापत्यं सौत्रनाडिः। आकृतिगणश्चायमिष्यते। तेनेदमपि सिद्धं भवति- अभिगममर्हति आभिगामिकः। अधिदेवे भवमाधिदैविकम्। आधिभौतिकम्। चतस्र एव विद्याः चातुर्वैद्यम्। स्वार्थे ष्यञ्॥ अनुशतिक। अनुहोड। अनुसंवरण। अनुसंवत्सर। अङ्गारवेणु। असिहत्य। वध्योग। पुष्करसत्। अनुहरत्। कुरुकत। कुरुपञ्चाल। उदकशुद्ध। इहलोक। परलोक। सर्वलोक। सर्वपुरुष। सर्वभूमि। प्रयोग। परस्त्री। राजपुरुषात् ष्यञि (ग०सू० १७९)। सूत्रनड। अनुशतिकादिः॥

देवताद्वन्द्वे च ॥ ७.३.२१॥

देवताद्वन्द्वे च पूर्वपदस्योत्तरपदस्य चाचामादेरचः स्थाने वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः। आग्निमारु॒तीं॑ पृ॑श्नि॒मा॑ल॒भेत॒ (मै०सं० २.५.७)। आग्निमारुतं कर्म। यो देवताद्वन्द्वः सूक्तहविःसंबन्धी, तत्रायं विधिः। इह तु न भवति-स्कन्दविशाखौ देवते अस्य स्कान्दविशाखः। ब्रह्मप्रजापती- ब्राह्मप्रजापत्यम्॥

नेन्द्रस्य परस्य ॥ ७.३.२२॥

इन्द्रशब्दस्य परस्य यदुक्तंतद् न भवति। सौमेन्द्रः। आग्नेन्द्रः। परस्येति किम्? ऐन्द्राग्नमेकादशकपालं चरुं निर्वपेत्। इन्द्रशब्दे द्वावचौ, तत्र तद्धित एकस्य यस्येति- (६.४.१४८) - लोपोऽपरस्य पूर्वेण सहैकादेश इत्यप्राप्तिरेव वृद्धेः, तदेदं प्रतिषेधवचनं ज्ञापकम्- ‘बहिरङ्गमपि पूर्वोत्तरपदयोः पूर्वं कार्यं भवति पश्चादेकादेशः’ इति। तेन पूर्वैषुकामशम इत्यादि सिद्धं भवति॥

दीर्घाच्च वरुणस्य ॥ ७.३.२३॥

दीर्घादुत्तरस्य वरुणस्य यदुक्तंतद् न भवति। ऐन्द्रावरुणम्। मैत्रावरुणम्। दीर्घादिति किम्? आग्निवारुणीमनड्वाहीमालभेत (काठ० सं० १३.६)। अग्नेः ‘ईदग्नेः सोमवरुणयोः’ (६.३.२७) इत्यस्यानङपवादस्य ‘इद् वृद्धौ’ (६.३.२८) इति प्रतिषेधो विधीयते, तेन दीर्घात् परो न भवति॥

प्राचां नगरान्ते ॥ ७.३.२४॥

प्राचां देशे नगरान्तेऽङ्गे पूर्वपदस्योत्तरपदस्य चाचामादेरचो वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः। सुह्मनगरे भवः सौह्मनागरः। पौण्ड्रनागरः। प्राचामिति किम्? मद्रनगरमुदक्षु, तत्र भवो माद्रनगरः॥

जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् ॥ ७.३.२५॥

जङ्गल धेनु वलज इत्येवमन्तस्याङ्गस्य पूर्वपदस्याचामादेरचो वृद्धिर्भवति, विभाषितमुत्तरम्, उत्तरपदस्य विभाषा भवति तद्धिते ञिति णिति किति च परतः। कुरुजङ्गलेषु भवं कौरुजङ्गलम्, कौरुजाङ्गलम्। वैश्वधेनवम्, वैश्वधैनवम्। सौवर्णवलजः, सौवर्णवालजः॥

अर्धात् परिमाणस्य पूर्वस्य तु वा ॥ ७.३.२६॥

अर्धशब्दात् परस्य परिमाणवाचिन उत्तरस्याचामादेरचः स्थाने वृद्धिर्भवति, पूर्वस्य तु वा भवति तद्धिते ञिति णिति किति च परतः। अर्धद्रोणेन क्रीतम् आर्धद्रौणिकम्, अर्धद्रौणिकम्। आर्धकौडविकम्, अर्धकौडविकम्। परिमाणस्येति किम्? अर्धक्रोशः प्रयोजनमस्य आर्धक्रोशिकम्॥

नातः परस्य ॥ ७.३.२७॥

अर्धात् परस्य परिमाणाकारस्य वृद्धिर्न भवति, पूर्वस्य तु वा भवति तद्धिते ञिति णिति किति च परतः। अर्धप्रस्थिकः, आर्धप्रस्थिकः। अर्धकंसिकः, आर्धकंसिकः। अत इति किम्? आर्धकौडविकः। तपरकरणं किम्? इह मा भूत्- अर्धखार्यां भवा अर्धखारी। किं च स्यात्? अर्धखारी भार्या यस्य अर्धखारीभार्यः। ‘वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे’ (६.३.३९) इति पुंवद्भावप्रतिषेधो न स्यात्। यत्र हि तद्धिते वृद्धिः प्रतिषिध्यते, स वृद्धिनिमित्तं न भवतीति पुंवद्भावो न प्रतिषिध्यते, यथा वैयाकरणी भार्या अस्य वैयाकरणभार्य इति॥

प्रवाहणस्य ढे ॥ ७.३.२८॥

प्रवाहणस्य ढे परत उत्तरपदस्याचामादेरचो वृद्धिर्भवति, पूर्वपदस्य वा भवति। प्रवाहणस्यापत्यं प्रावाहणेयः, प्रवाहणेयः। ‘शुभ्रादिभ्यश्च’ (४.१.१२३) इति ढक् प्रत्ययः॥

तत्प्रत्ययस्य च ॥ ७.३.२९॥

ढक्प्रत्ययान्तस्य प्रवाहणशब्दस्य तद्धितेषु परत उत्तरपदस्याचामादेरचो वृद्धिर्भवति, पूर्वस्य तु वा। प्रवाहणेयस्यापत्यं प्रावाहणेयिः, प्रवाहणेयिः। प्रावाहणेयकम्, प्रवाहणेयकम्। बाह्यतद्धितनिमित्ता वृद्धिर्ढाश्रयेण विकल्पेन बाधितुमशक्येति सूत्रारम्भः॥

नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् ॥ ७.३.३०॥

नञ उत्तरेषां शुचि ईश्वर क्षेत्रज्ञ कुशल निपुण इत्येतेषामचामादेरचो वृद्धिर्भवति पूर्वपदस्य वा भवति तद्धिते ञिति णिति किति च परतः। शुचि- अशौचम्, आशौचम्। ईश्वर- अनैश्वर्यम्, आनैश्वर्यम्। क्षेत्रज्ञ- अक्षैत्रज्ञ्यम्, आक्षैत्रज्ञ्यम्, कुशल- अकौशलम्, आकौशलम्। निपुण- अनैपुणम्, आनैपुणम्। अत्र केचिदाहुरियं पूर्वपदस्य वृद्धिरप्राप्तैव विभाषा विधीयते। ‘न नञ्पूर्वात् तत्पुरुषात्०’ (५.१.१२१) इत्युत्तरो भावप्रत्ययः प्रतिषिध्यते। तत्र शुच्यादिभ्य एव प्रत्यये कृते पश्चाद् नञ्समासे सति वृद्धिरनङ्गस्यापि वचनाद् भवतीति। तदपरे न मृष्यन्ते। भाववचनादन्योऽपि हि तद्धितो वृद्धिनिमित्तमपत्यादिष्वर्थेषु नञ्समासादेव विद्यते, बहुव्रीहेश्च नञ्समासाद् भाववचनोऽप्यस्ति। तत्राङ्गाधिकारोपमर्दनं न युज्यत इति। अक्षेत्रज्ञानीश्वरौ तत्पुरुषावेव ब्राह्मणादिषु (५.१.१२४) पठ्येते, ततस्ताभ्यां भावे ष्यञ् भवति॥

यथातथयथापुरयोः पर्यायेण ॥ ७.३.३१॥

यथातथ यथापुर इत्येतयोर्नञ उत्तरयोः पर्यायेणाचामादेरचो वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः। आयथातथ्यम्, अयाथातथ्यम्। आयथापुर्यम्, अयाथापुर्यम्। अयथातथ, अयथापुरेति ब्राह्मणादिषु (५.१.१२४) नञ्समासावेतौ द्रष्टव्यौ। सूत्रे यथातथयथापुरशब्दौ तु ‘यथासादृश्ये’ (२.१.७) इत्यव्ययीभावसमासौ। तथा नपुंसकाश्रयं ह्रस्वत्वं कृतम्। भाष्ये तु यथादर्शितम् अयथातथाभावः (महाभाष्य ३.३२२) इति तथा सुप्सुपा (२.१.४) इति समासो लक्ष्यते॥

हनस्तोचिण्णलोः ॥ ७.३.३२॥

तद्धितेष्विति निवृत्तम्। तत्संबद्धं कितीत्यपि। ञ्णितीति वर्तते। हनस्तकारादेशो भवति ञ्णिति प्रत्यये परतः चिण्णलौ वर्जयित्वा। घातयति। घातकः। साधुघाती। घातंघातम्। घातो वर्तते। अचिण्णलोरिति किम्? अघानि। जघान। ‘धातोः कार्यमुच्यमानं धातोः प्रत्यये विज्ञायते’। इह न भवति- वार्त्रघ्नमितरद् इति॥

आतो युक् चिण्कृतोः ॥ ७.३.३३॥

आकारान्तस्याङ्गस्य चिणि कृति ञ्णिति युगागमो भवति। अदायि। अधायि। कृति- दायः। दायकः। धायः। धायकः। चिण्कृतोरिति किम्? ददौ। दधौ। चौडिः। बालाकिः। बाह्वादित्वात् (४.१.९६) इञ्। ज्ञा देवता अस्य ज्ञः॥

नोदात्तोपदेशस्य मान्तस्यानाचमेः ॥ ७.३.३४॥

उदात्तोपदेशस्य मान्तस्याङ्गस्याचमिवर्जितस्य चिणि कृति च ञ्णिति यदुक्तंतद् न भवति। किं चोक्तम्? ‘अत उपधायाः’ (७.२.११६) इति वृद्धिः। अशमि। अतमि। अदमि। कृति खल्वपि- शमकः। तमकः। दमकः। शमः। तमः। दमः। उदात्तोपदेशस्येति किम्? यामकः। रामकः। कथमुद्यमोपरमौ? ‘अड उद्यमे’,‘यम उपरमे’ इति निपातनादनुगन्तव्यौ। उपदेशग्रहणं किम्? शमी, दमी, तमीत्यत्र यथास्याद्, इह मा भूत्- यामकः, रामक इति। मान्तस्येति किम्? चारकः। पाठकः। अनाचमेरिति किम्? आचामकः॥ अनाचमिकमिवमीनामिति वक्तव्यम्॥ आचामः। कामः। वामः। आम इति चौरादिकस्य णिचि वृद्धौ सत्यां भवति। तत्र हि मित्त्वं नास्ति। ‘नान्ये मितोऽहेतौ’ इति। सूर्यविश्रामा भूमिरित्येवमादिकं प्रयोगमन्याय्यमेव मन्यन्ते। चिण्कृतोरित्येव- शशाम। तमाम॥

जनिवध्योश्च ॥ ७.३.३५॥

जनि वधि इत्येतयोश्चिणि कृति च ञ्णिति यदुक्तं तद् न भवति। अजनि। जनकः। प्रजनः। अवधि। वधकः। वधः। वधिः प्रकृत्यन्तरं व्यञ्जनान्तोऽस्ति तस्यायं प्रतिषेधो विधीयते। भक्षकश्चेन्न विद्येत वधकोऽपि न विद्यत इति हि प्रयोगो दृश्यते। वधादेशस्यादन्तत्वादेव वृद्धेरभावः। चिण्कृतोरित्येव-ज॒जान॒ गर्भं॑ महि॒मान॒मिन्द्र॑म् (शौ०सं० ३.१०.१२)॥

अर्तिह्रीब्लीरीक्नूयीक्ष्माय्यातां पुग् णौ ॥ ७.३.३६॥

सर्वं निवृत्तम्,अङ्गस्येति वर्तते। अर्ति ह्री व्ली री क्नूयी क्ष्मायी इत्येतेषामङ्गानामाकारान्तानां च पुगागमो भवति णौ परतः। अर्ति-अर्पयति। ह्री- ह्रेपयति। व्ली-व्लेपयति। री-रेपयति। क्नूयी-क्नोपयति। क्ष्मायी-क्ष्मापयति। आकारान्तानाम्- दापयति। धापयति। अर्तीति ‘ऋ गतिप्रापणयोः’,‘ऋ गतौ’ इति द्वयोरपि धात्वोर्ग्रहणम्। रीत्यपि ‘री गतिरेषणयोः’,‘रीङ् श्रवणे’ इति। पुकः पूर्वान्तकरणमदीदपदित्यत्रोपधाह्रस्वो यथा स्यादिति॥

शाच्छासाह्वाव्यावेपां युक् ॥ ७.३.३७॥

शा छा सा ह्वा व्या वे पा इत्येतेषामङ्गानां युगागमो भवति णौ परतः। शा- निशाययति। छा- अवच्छाययति। सा- अवसाययति। ह्वा-ह्वाययति। व्या- संव्याययति। वे-वाययति। पा- पाययति। पाग्रहणे ‘पै ओवै शोषणे’ इत्यस्यापीह ग्रहणमिच्छन्ति। ‘पा रक्षणे’ इत्यस्य लुग्विकरणत्वाद् न भवति॥ लुगागमस्तु तस्य वक्तव्यः॥ पालयति॥ धूञ्प्रीञोर्नुग् वक्तव्यः॥ धूनयति। प्रीणयति। एतेऽपि पूर्वान्ता एव क्रियन्ते। तेन न्यशीशयत्, अपीपलत्, अदूधुनत्, अपिप्रिणद् इत्युपधाह्रस्वत्वं भवति। शाच्छासाह्वाव्यावेपां कृतात्वानां ग्रहणं पुकः प्राप्तिमाख्यातुम्। किमेतस्याख्याने प्रयोजनम्? एतस्मिन् प्रकरणे लक्षणप्रतिपदोक्तपरिभाषा नास्तीत्युपदिश्यते। तेनाध्यापयति जापयतीत्येवमादि सिद्धं भवति॥

वो विधूनने जुक् ॥ ७.३.३८॥

वा इत्येतस्य विधूननेऽर्थे वर्तमानस्य जुगागमो भवति णौ परतः। पक्षेणोपवाजयति। विधूनन इति किम्? आवापयति केशान्। ‘पै ओवै शोषणे’ इत्येतस्यैतद् रूपम्॥

लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने ॥ ७.३.३९॥

ली ला इत्येतयोरङ्गयोरन्यतरस्यां नुक् लुक् इत्येतावागमौ भवतो णौ परतः स्नेहविपातनेऽर्थे। घृतं विलीनयति, घृतं विलाययति। विलालयति, विलापयति। ली ई इतीकारः प्रश्लिष्यते, तत ईकारान्तस्यैव नुग् भवति, न तु कृतात्वस्य ‘विभाषा लीयतेः’ (६.१.५१) इति। स्नेहविपातन इति किम्? जतु विलापयति। जटाभिरालापयते। ली इति लीलीङोर्ग्रहणम्। ला इति लातेः, कृतात्वस्य च लीयतेः॥

भियो हेतुभये षुक् ॥ ७.३.४०॥

भी इत्येतस्य हेतुभयेऽर्थे षुगागमो भवति णौ परतः। मुण्डो भीषयते। जटिलो भीषयते। अत्रापि भी ई इतीकारप्रश्लेषः कृतात्वस्य षुग्निवृत्त्यर्थः। मुण्डो भापयत इत्येवं हि तत्र भवति। हेतुभय इति किम्? कुञ्चिकयैनं भाययति। नात्र हेतुः प्रयोजको भयकारणम्। किं तर्हि? कुञ्चिका॥

स्फायो वः॥ ७.३.४१॥

स्फाय् इत्येतस्याङ्गस्य वकारादेशो भवति णौ परतः। स्फावयति॥

शदेरगतौ तः ॥ ७.३.४२॥

शदेरङ्गस्यागतावर्थ वर्तमानस्य तकारादेशो भवति णौ परतः। पुष्पाणि शातयति। अगताविति किम्? गाः शादयति गोपालकः॥

रुहः पोऽन्यतरस्याम् ॥ ७.३.४३॥

रुहेरङ्गस्यान्यतरस्यां पकारादेशो भवति णौ परतः। व्रीहीन् रोपयति, व्रीहीन् रोहयति॥

प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः ॥ ७.३.४४॥

प्रत्ययस्थात् ककारात् पूर्वस्याकारस्य इकारादेशो भवत्यापि परतः, स चेदाप् सुपः परो न भवति। जटिलिका। मुण्डिका। कारिका। हारिका। एतिकाश्चरन्ति। प्रत्ययग्रहणं किम्? शक्नोतीति शका। स्थग्रहणं विस्पष्टार्थम्। ककारमात्रं प्रत्ययो नास्तीति सामर्थ्यात् प्रत्ययस्थस्य ग्रहणं शक्यते विज्ञातुम्। कादिति किम्? मण्डना। रमणा। पूर्वस्येति किम्? परस्य मा भूत्-पटुका। मृदका। अत इति किम्? गोका। नौका। तपरकरणं किम्? राका। धाका। आपीति किम्? कारकः। धारकः। अथापीत्यनेन किं विशिष्यते? ककारः। यद्येवम्, कारिकेत्यत्रापि न प्राप्नोति, अकारेण व्यवहितत्वात्। एकादेशे कृते नास्ति व्यवधानम्। एकादेशः पूर्वविधौ स्थानिवद् भवतीति व्यवधानमेव। वचनाद् व्यवधानमीदृशं यत् स्थानिवद्भावकृतमेकेन वर्णेन तदाश्रीयते। रथकट्यादिषु तु श्रुतिकृतमनेकेन वर्णेन व्यवधानमितीत्वं न भवति। असुप इति किम्? बहवः परिव्राजका अस्यां मथुरायां बहुपरिव्राजका मथुरा। सुबन्तादयं परिव्राजकशब्दात् पर आबिति प्रतिषेधो भवति। प्रसज्यप्रतिषेधश्चायम्, न पर्युदासः। पर्युदासे हि सति समुदायादसुबन्तात् पर आबितीत्वमत्र स्यादेव। अविद्यमानः सुप् यस्मिन् साेऽयमसुबित्येवमपि नाश्रीयते। तथा हि सति बहुचर्मिकेत्यत्रापि न स्यात्॥ मामकनरकयोरुपसंख्यानं कर्तव्यमप्रत्ययस्थत्वात्॥ ममेयं मामिका। नरिका। अणि ममकादेशः (४.३.३)। ‘केवलमामक०’ (४.१.३०) इति नियमात् संज्ञाछन्सोरीकारो नान्यत्र। तेनाण्प्रत्ययान्तादपि टाब् भवति। नरान् कायतीति नरिका। ‘आतोऽनुपसर्गे कः’ (३.२.३) इति कः प्रत्ययः॥ प्रत्यनिषेधे त्यक्त्यपोश्चोपसंख्यानम्॥ ‘उदीचामातः स्थाने यकपूर्वायाः’ (७.३.४६) इति विकल्पो मा भूदिति। दाक्षिणात्यिका। इहत्यिका॥

न यासयोः ॥ ७.३.४५॥

या सा इत्येतयोरिकारादेशो न भवति। यका। सका। या सा इति निर्देशोऽतन्त्रम्, यत्तदोरुपलक्षणार्थमेतत्। इहापि प्रतिषेध इष्यते- यकांयकामधीमहे,तकांतकां पचामह इति॥ यासयोरित्त्वप्रतिषेधे त्यकन उपसंख्यानम्॥ उपत्यका। अधित्यका॥ पावकादीनां छन्दस्युपसंख्यानम्॥ हिर॑ण्यवर्ण्ााः॒ शुच॑यः पाव॒काः (शौ०सं० १.३३.१)। यासु अलोमकाः। छन्दसीति किम्? पाविका॥ आशिषि चोपसंख्यानम्॥ जीवताद् जीवका। नन्दताद् नन्दका। भवताद् भवका॥ उत्तरपदलोपे चोपसंख्यानम्॥ देवदत्तिका, देवका। यज्ञदत्तिका, यज्ञका॥ क्षिपकादीनां चोपसंख्यानम्॥ क्षिपका। धुव्रका॥ तारका ज्योतिष्युपसंख्यानम्॥ तारका। ज्योतिषीति किम्? तारिका दासी॥ वर्णका तान्तव उपसंख्यानम्॥ वर्णका प्रावरणभेदः। तान्तव इति किम्? वर्णिका भागुरी लौकायते॥ वर्तका शकुनौ प्राचामुपसंख्यानम्॥ वर्तका शकुनिः प्राचाम्। अन्यत्रोदीचां तु वर्तिका। शकुनाविति किम्? वर्तिका भागुरी लौकायतस्य॥ अष्टका पितृदेवत्ये॥ अष्टका। पितृदेवत्य इति किम्? अष्टिका खारी॥ वा सूतकापुत्रकावृन्दारकाणामुपसंख्यानम्॥ सूतिका, सूतका। पुत्रिका, पुत्रका। वृन्दारिका, वृन्दारका॥

उदीचामातः स्थाने यकपूर्वायाः ॥ ७.३.४६॥

उदीचामाचार्याणां मतेन यकारपूर्वायाः ककारपूर्वायाश्चातः स्थाने योऽकारः, तस्यातः स्थान इकारादेशो न भवति। उदीचांग्रहणं विकल्पार्थम्। इभ्यका, इभ्यिका। क्षत्रियका, क्षत्रियिका। ककारपूर्वायाः- चटकका, चटकिका। मूषिकका, मूषिकिका। आत इति किम्? सांकाश्ये भवा सांकाश्यिका। स्थानग्रहणमनुवादेऽपि स्थानसंबन्धप्रतिपत्त्यर्थम्। आत इत्यनेन ह्यत इति स्थानी विशिष्यते। यकपूर्वाया इति किम्? अश्वा- अश्विका। यकपूर्वाया इति स्त्रीलिङ्गनिर्देश आतः स्त्रीप्रत्ययस्य प्रतिपत्त्यर्थम्, इह न भवति- शुभं यातीति शुभंयाः- शुभंयिका। भद्रं यातीति भद्रंयाः- भद्रंयिका॥ यकपूर्वाया धात्वन्तप्रतिषेधः॥ धात्वन्तयोर्यकारककारयोरस्य प्रतिषेधस्य प्रतिषेधो वक्तव्यः। सुनयिका। सुशयिका। सुपाकिका। अशोकिका॥

भस्त्रैषाजाज्ञाद्वास्वा नञ्पूर्वाणामपि ॥ ७.३.४७॥

एषामातः स्थाने योऽकारस्तस्य इत्वं न भवत्युदीचामाचार्याणां मतेन। भस्त्रा-भस्त्रका, भस्त्रिका। अभस्त्रका, अभस्त्रिका। एषा- एषका, एषिका। अजा-अजका, अजिका। अनजका, अनजिका। ज्ञा-ज्ञका, ज्ञिका। अज्ञका, अज्ञिका। द्वा-द्वके, द्विके। स्वा-स्वका, स्विका। अस्वका, अस्विका। एषाद्वे नञ्पूर्वे न प्रयोजयतः। किं कारणम्? अत्र हि सति यदि साकच्काभ्यां नञ्समासः, अथापि कृते नञ्समासे पश्चादकच्, उभयथापि समासाद् या विभक्तिरुत्पद्यते तस्यां सत्यां त्यदाद्यत्वे सति टापा भवितव्यम्, सोऽन्तर्वर्तिन्या विभक्त्या सुबन्तात् पर इतीत्वस्य प्राप्तिरेव नास्ति। तेनानेषका अद्वके इत्येव नित्यं भवितव्यम्। स्वशब्दस्तु ज्ञातिधनाख्यायां नञ्पूर्वोऽपि प्रयोजयति। भस्त्रेत्ययमभाषितपुंस्कः, तस्य ‘अभाषितपुंस्काच्च’ (७.३.४८) इत्येव सिद्धे यदिह ग्रहणं तदुपसर्जनार्थम्। अविद्यमाना भस्त्रा यस्या अभस्त्रा। साल्पा अभस्त्रका, अभस्त्रिका। अत्रोपसर्जनह्रस्वत्वे कृते पुनर्बहुव्रीहौ कृते भाषितपुंस्काद् यष्टाबुत्पद्यते तस्य ‘केऽणः’ (७.४.१३) इति यो ह्रस्वः, नासावभाषितपुंस्काद् विहितस्यातः स्थाने भवति। नञ्पूर्वाणामपीत्यपिशब्दादन्यपूर्वाणां केवलानां च विधिरयमिष्यते। निर्भस्त्रका, निर्भस्त्रिका। बहुभस्त्रका, बहुभस्त्रिका इत्येवमादयोऽपीष्यन्ते। अत्र नञ्पूर्वाणामिति वचनमनुवाद एव मन्दबुद्धिप्रतिपत्त्यर्थः॥

अभाषितपुंस्काच्च ॥ ७.३.४८॥

अभाषितपुंस्काद् विहितस्यातः स्थाने योऽकारस्तस्योदीचामाचार्याणां मतेनेकारादेशो न भवति। खट्वका, खट्विका। अखट्वका, अखट्विका। परमखट्वका, परमखट्विका। बहुव्रीहौ यदा कपि ह्रस्वः क्रियते, तदा भवितव्यमनेन विधिना। अत्राप्यभाषितपुंस्काद् विहितस्यातः स्थाने भवत्यकार इति। यदा तु अविद्यमाना खट्वा अस्या अखट्वा, अल्पा अखट्वा अखट्विकेति, तदा न भवति। तथातिक्रान्ता खट्वाम् अति खट्वा, अल्पा अतिखट्वा अतिखट्विका॥

आदाचार्याणाम् ॥ ७.३.४९॥

अभाषितपुंस्कादातः स्थाने योऽकारस्तस्याचार्याणामाकारादेशो भवति। खट्वाका। अखट्वाका। परमखट्वाका॥

ठस्येकः॥ ७.३.५०॥

अङ्गस्य निमित्तं यष्ठः, कश्चाङ्गस्य निमित्तं भवति? प्रत्ययः, तस्य प्रत्ययठस्य इक इत्ययमादेशो भवति। ‘प्राग् वहतेष्ठक् ’ (४.४.१)- आक्षिकः। शालाकिकः। ‘लवणाट् ठञ्’ (४.४.५२)- लावणिकः। ठगादिषु यदि वर्णमात्रं प्रत्ययः, उच्चारणार्थोऽकारः, तदेहाप्यकार उच्चारणार्थः, वर्णमात्रं तु स्थानित्वेनोपादीयते। संघातग्रहणे तु प्रत्ययेऽत्रापि संघातग्रहणमेव। तत्र ‘कणेष्ठः’ (प०उ० १.१०३)- कण्ठ इत्येवमादीनामुणादीनाम् ‘उणादयो बहुलम्’ (३.३.१) इति न भवति। मथितं पण्यमस्य माथितिक इत्यत्र तु यस्येति- (६.४.१४८)- लोपे कृत ‘इसुसुक्तान्तात् कः’ (७.३.५१) इति स्थानिवद्भावादिकस्य कादेशः प्राप्नोति, ‘सन्निपातलक्षण्यो विधिरनिमित्तं तद्विघातस्य’ इति न भवति, ‘यस्येति च’ (६.४.१४८) इति लोपस्य स्थानिवद्भावाद् वा। पूर्वस्मादपि हि विधौ स्थानिवद्भावः॥

इसुसुक्तान्तात् कः ॥ ७.३.५१॥

इस् उस् इत्येवमन्तानामुगन्तानां तान्तानां चाङ्गानामुत्तरस्य ठस्य क इत्ययमादेशो भवति। इस्- सार्पिष्कः। उस्- धानुष्कः। याजुष्कः। उक्-नैषादकर्षुकः। शाबरजम्बुकः। मातृकम्। पैतृकम्। तान्तात्- औदश्वित्कः। शाकृत्कः। याकृत्कः। इसुसोः प्रतिपदोक्तयोर्ग्रहणादिह न भवति- आशिषा चरति आशिषिकः, उषा चरति औषिकः॥ दोष उपसंख्यानम्॥ दोर्भ्यां तरति दौष्कः॥

चजोः कु घिण्ण्यतो ः ॥ ७.३.५२॥

चकाराजकारयोः कवर्गादेशो भवति घिति ण्यति च प्रत्यये परतः। घिति- पाकः। त्यागः। रागः। ण्यति-पाक्यम्। वाक्यम्। रेक्यम्॥

न्यङ्क्वादीनां च ॥ ७.३.५३॥

न्यङ्कु इत्येवमादीनां कवर्गादेशो भवति। न्यङ्कुः। ‘नावञ्चेः’ (प०उ० १.१७) इत्युप्रत्ययः। मद्गुः। ‘मिमस्जिभ्य उः’ (प०उ० १.७) इति मस्जेरुप्रत्ययः। भृगुः। ‘प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च’ (प०उ० १.२८) इत्युप्रत्ययः। दूरेपाकः। फलेपाकः। दूरे पच्यते स्वयमेव फले पच्यते स्वयमेव। पचाद्यच् (३.१.१३४) निपातनाद् वृद्धिः। ‘तत्पुरुषे कृति बहुलम्’ (६.३.१४) इति सप्तम्या अलुक्। क्षणेपाक इत्यपि हि केचित् पठन्ति। दूरेपाका, फलेपाका इति टाबन्तमपरेऽधीयते। उकारान्ता वपरे- दूरेपाकुः, फलेपाकुरिति। तेषामुप्रत्ययो निपातनादेव। तक्रम्, वक्रमिति। तञ्चतेर्वञ्चतेश्च ‘स्फायितञ्चिवञ्चि०’ (प०उ० २.१३) इत्यादिना सूत्रेण रक्। व्यतिषङ्गः। व्यतिषजतीति पचाद्यच् (३.१.१३४)। अनुषङ्गः। अवसर्गः। उपसर्गः। मेघः। श्वपाकः। मांसपाकः। कपोतपाकः। उलूकपाक इति। कर्मोपपदादण् (३.२.१) प्रत्ययः। संज्ञायाम्- अर्घः, अवदाघः, निदाघः। अर्हतेर्घञ्, अर्घः। अवपूर्वस्य निपूर्वस्य च दहेरवदाघः, निदाघः। संज्ञाया अन्यत्र अर्हः। अवदाहः। निदाहः। न्यग्रोधः, वीरुदित्यत्र न्यक्पूर्वस्य रुहेः पचाद्यचि विपूर्वस्य क्विपि धकारो विधीयते। न्यग्रोहतीति न्यग्रोधः। विरोहतीति वीरुत्॥

हो हन्तेर्ञि्णन्नेषु ॥ ७.३.५४॥

हन्तेर्हकारस्य कवर्गादेशो भवति ञिति प्रत्यये परतो नकारे च। घातयति। घातकः साधुघाती। घातंघातम्। घातो वर्तते। नकारे-घ्नन्ति। घ्नन्तु। अघ्नन्। ह इति किम्? अलोऽन्त्यस्य मा भूत्। हन्तेरिति किम्? प्रहारः। प्रहारकः। ञ्णित्प्रत्ययो हन्तेर्विशेषणम्। नकारो हकारस्य- नकारेऽनन्तरस्य हन्तिहकारस्येति। तच्चानन्तर्यं संनिपातकृतम् आश्रीयते। स्थानिवद्भावशास्त्रकृतं तु यदनानन्तर्यं तदविघातकम्, वचनसामर्थ्यात्। यद्यपि सर्वैरेव ञ्णिन्नैर्हन्तिहकारो विशिष्यते तथापि ‘येन नाव्यवधानं तेन व्यवहितेपि वचनप्रामाण्यात्’ इति ञ्णिति धात्ववयवेन व्यवहितेऽपि सति भवति। इह तु न भवति- हननमिच्छति हननीयति, हननीयतेर्ण्वुल् हननीयक इति॥

अभ्यासाच्च ॥ ७.३.५५॥

अभ्यासादुत्तरस्य हन्तिहकारस्य कवर्गादेशो भवति। जिघांसति। जङ्घन्यते। अहं जघन। अभ्यासनिमित्ते प्रत्यये हन्तेरङ्गस्य योऽभ्यासस्तस्मादेवैतत् कुत्वम्। इह न भवति-हननीयितुमिच्छति जिहननीयिषति॥

हेरचङि॥ ७.३.५६॥

हिनोतेर्हकारस्याभ्यासादुत्तरस्य कवर्गादेशो भवत्यचङि। प्रजिघीषति। प्रजेघीयते। प्रजिघाय। अचङीति किम्? प्राजीहयद् दूतम्। अचङीति शक्यमकर्तुम्। कथम्? चङ्यभ्यासनिमित्ते णौ हिनोतिरङ्गं भवति, तत्राभ्यासनिमित्ते प्रत्यये हेरङ्गस्येति विज्ञायमाने प्राप्तिरेव नास्ति। तत् क्रियते ज्ञापकार्थम्। एतद् ज्ञाप्यते- ‘हेरचङीति चङोऽन्यत्र हेर्ण्यधिकस्यापि कुत्वं भवति’ इति। तेन प्रजिघाययिषतीति सिद्धं भवति॥

सन्लिटोर्ज ः ॥ ७.३.५७॥

सनि लिटि च प्रत्यये जेरङ्गस्य योऽभ्यासस्तस्मादुत्तरस्य कवर्गादेशो भवति। जिगीषति। जिगाय। सन्लिटोरिति किम्? जेजीयते। जिनातेः संप्रसारणे कृते यद्यपि जिर्भवति, तथापि लाक्षणिकत्वात् तस्य ग्रहणं न भवति। जिज्यतुः, जिज्युरित्येव भवति॥

विभाषा चेः ॥ ७.३.५८॥

चिनोतेरङ्गस्य सन्लिटोरभ्यासादुत्तरस्य विभाषा कवर्गादेशो भवति। चिचीषति, चिकीषति, चिचाय, चिकाय। सन्लिटोरित्येव- चेचीयते॥

न क्वादेः ॥ ७.३.५९॥

कवर्गादेर्धातोश्चजोः कवर्गादेशो न भवति। कूजो वर्तते। खर्जः। गर्जः। कूज्यं भवता। खर्ज्यम्, गर्ज्यं भवता॥

अजिव्रज्योश्च ॥ ७.३.६०॥

अजि व्रजि इत्येतयोश्च कवर्गादेशो न भवति। समाजः। उदाजः। व्रजि-परिव्राजः। परिव्राज्यम्। अजेस्तु ‘अजेर्व्यघञपोः’ (२.४.५६) इति वीभावस्य विधानाद् ण्यति नास्त्युदाहरणम्॥

भुजन्युब्जौ पाण्युपतापयोः ॥ ७.३.६१॥

भुज न्युब्ज इत्येतौ शब्दौ निपात्येते पाणावुपतापे च। भुज्यतेऽनेनेति भुजः पाणिः। ‘हलश्च’ (३.३.१२१) इति घञ्। तत्र कुत्वाभावो गुणाभावश्च निपात्यते। ‘उब्ज आर्जवे’ न्युब्जिताः शेरतेऽस्मिन्निति न्युब्ज उपतापो रोगः। तथैव घञि कुत्वाभावे निपात्यते। पाण्युपतापयोरिति किम्? भोगः। समुद्गः॥

प्रयाजानुयाजौ यज्ञाङ्गे ॥ ७.३.६२॥

प्रयाज अनुयाज इत्येतौ निपात्येते यज्ञाङ्गे। पञ्च॑ प्रया॒जाः (तै०सं० २.६.१०.४)। पञ्चानुयाजाः। त्वमग्ने प्रयाजानां पश्चात् त्वं पुरस्तात्। यज्ञाङ्ग इति किम्? प्रयागः। अनुयागः। प्रयाजानुयाजग्रहणं प्रदर्शनार्थम्, अन्यत्राप्येवंप्रकारे कुत्वं न भवति। एकादशोपयाजाः (ऐ०ब्रा० २.१८)। उपांशुयाजमन्तरा यजति। अष्टौ पत्नीसंयाजा भवन्ति। ऋतुयाजैश्चरिन्त (ऐ०ब्रा० २.२९)। इत्येवमादि सिद्धं भवति॥

वञ्चेर्गतौ ॥ ७.३.६३॥

वञ्चेरङ्गस्य गतौ वर्तमानस्य कवर्गादेशो न भवति। वञ्च्यं वञ्चन्ति वणिजः। गताविति किम्? वङ्कं काष्ठम्। कुटिलमित्यर्थः॥

ओक उचः के ॥ ७.३.६४॥

उचेर्धातोः के प्रत्यय ओक इति निपात्यते। किं पुनरत्र निपात्यते? कुत्वं गुणश्च। न्योकः शकुन्तः। न्योको गृहम्। कर्तरि इगुपधलक्षणः कः प्रत्ययः। अधिकरणादौ तु कारकान्तरे ‘घञर्थे कविधानम्०’ (३.३.५८. वा०) इति। किमर्थं पुनरयं घञ्येव न व्युत्पाद्यते? स्वरार्थम्, अन्तोदात्तोऽयमिष्यते, घञि सत्याद्युदात्तः स्यात्। दिवौकसः, जलौकस इत्येवमादावप्यसुनि प्रत्यय ‘उणादयो बहुलम्’ (३.३.१) इति कुत्वं द्रष्टव्यम्॥

ण्य आवश्यके ॥ ७.३.६५॥

ण्ये परत आवश्यकेऽर्थे कवर्गो न भवति। अवश्यपाच्यम्। अवश्यवाच्यम्। अवश्यरेच्यम्। आवश्यक इति किम्? पाक्यम्। वाक्यम्। रेक्यम्॥

यजयाचरुचप्रवचर्चश्च ॥ ७.३.६६॥

यज याच रुच प्रवच ऋच इत्येतेषां ण्ये परतः कवर्गादेशो न भवति। यज-याज्यम्। याच-याच्यम्। रुच- रोच्यम्। प्रवच- प्रवाच्यम्। ऋच- अर्च्यम्। ऋदुपधादपि ऋचेरत एव निपातनाद् ण्यद् भवति। प्रवचग्रहणं शब्दसंज्ञार्थम्। प्रवाच्यो नाम पाठविशेषोपलक्षितो ग्रन्थोऽस्ति। अपरे पुनराहुः- उपसर्गपूर्वस्य नियमार्थम्। प्रपूर्वस्यैव वचेरशब्दसंज्ञायां कुत्वप्रतिषेधो यथा स्याद्, अन्योपसर्गपूर्वस्य मा भूदिति। अविवाक्यमहरिति पठन्ति। एतत् तु विशेष एवेष्यते, दशरात्रस्य यद् दशममहः। अन्यत्राविवाच्यमेव भवति॥ ण्यति प्रतिषेधे त्यजेरुपसंख्यानम्॥ त्याज्यम्॥

वचोऽशब्दसंज्ञायाम् ॥ ७.३.६७॥

वचोऽशब्दसंज्ञायां ण्यति परतः कवर्गो न भवति। वाच्यमाह। अवाच्यमाह। अशब्दसंज्ञायामिति किम्? अवघुषितं वाक्यमाह॥

प्रयोज्यनियोज्यौ शक्यार्थे ॥ ७.३.६८॥

प्रयोज्य नियोज्य इत्येतौ शब्दौ शक्यार्थे निपात्येते। शक्यः प्रयोक्तुं प्रयोज्यः। शक्यो नियोक्तुं नियोज्यः। शक्यार्थ इति किम्? प्रयोग्यः नियोग्यः॥

भोज्यं भक्ष्ये ॥ ७.३.६९॥

भोज्यं निपात्यते भक्ष्येऽभिधेये। भोज्य ओदनः। भोज्या यवागूः। इह भक्ष्यमभ्यवहार्यमात्रम्। भष्य इति किम्? भोग्यः कम्बलः॥

घोर्लोपो लेटि वा ॥ ७.३.७०॥

घुसंज्ञकानां लेटि परतो वा लोपो भवति। दध॒द्रत्ना॑नि दा॒शुषे॑ (ऋ०४.१५.३)। सोमो॑ ददद् गन्ध॒र्वाय॑ (ऋ० १०.८५.४१)। न च भवति- यदग्निरग्नये ददात्। आडागमे सति लोपेऽपि ददादिति सिद्धं भवति। तत्र वावचनं विस्पष्टार्थम्, एषा हि कस्यचिदाशङ्का स्याद्-ददादित्येव नित्ये प्राप्ते लोप आरभ्यमाणो बाधत एवैतद् रूपमिति॥

ओतः श्यनि ॥ ७.३.७१॥

ओकारान्तस्याङ्गस्य श्यनि परतो लोपो भवति। शो-निश्यति। छो-अवच्छ्यति। दो-अवद्यति। सो- अवस्यति॥

क्सस्याचि ॥ ७.३.७२॥

क्सस्याजादौ प्रत्यये लोपो भवति। अधुक्षाताम्। अधुक्षाथाम्। अधुक्षि। अचीति किम्? अधुक्षत्। अधुक्षताम्। ककारवत उपादानं किम्? इह मा भूत्- उत्सौ, उत्साः। वत्सौ, वत्साः॥

लुग् वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये ॥ ७.३.७३॥

दुह दिह लिह गुह इत्येतेषामङ्गानामात्मनेपदे दन्त्यादौ परतः क्सस्य वा लुग् भवति। अदुग्ध, अधुक्षत। अदुग्धाः, अधुक्षथाः। अधुग्ध्वम़्, अधुक्षध्वम्। अदुह्वहि, अधुक्षावहि। दिह- अदिग्ध, अधिक्षत। लिह- अलीढ, अलिक्षत। गुह-न्यगूढ, न्यघुक्षत। दुहादीनामिति किम्? व्यत्यपुक्षत। आत्मनेपद इति किम्? अधुक्षत्। दन्त्य इति किम्? अधुक्षामहि। लोप इति वर्तमाने लुग्ग्रहणं सर्वादेशार्थम्, तच्च वह्यर्थम्। अन्यत्र त्वन्त्यस्यैव लोपे कृते ‘झलो झलि’ (८.२.२६) इति सकारलोपेन सिध्यति। स्थानिवद्भावोऽपि अकारलोपस्य नास्ति, ‘पूर्वत्रासिद्धे न स्थानिवत्’ (महाभाष्य १.१५४) इति। दन्त्योष्ठ्योऽपि वकारो दन्त्य इति गृह्यते। यदि स न गृह्यते, ततस्तौग्रहणमेवात्र कृतं स्यात्॥

शमामष्टानां दीर्घः श्यनि ॥ ७.३.७४॥

शमादीनामष्टानां दीर्घो भवति श्यनि परतः। शम्- शाम्यति। तम्- ताम्यति। दम्- दाम्यति। श्रम्-श्राम्यति। भ्रम्- भ्राम्यति। क्षम्- क्षाम्यति। क्लम्- क्लाम्यति। मदी-माद्यति। अष्टानामिति किम्?। अस्यति। श्यनीति किम्? भ्रमति। ‘वा भ्राश०’ (३.१.७०) इति श्यनो विकल्पः। बभ्राम॥

ष्ठिवुक्लम्याचमां शिति ॥ ७.३.७५॥

ष्ठिवु क्लमि आचम् इत्येतेषां दीर्घो भवति शिति परतः। ष्ठीवति। क्लमु-क्लामति। आचम्-आचामति। क्लमिग्रहणं शबर्थम्। चमेराङ्पूर्वस्य ग्रहणम्। इह मा भूत्-चमति। विचमति॥

क्रमः परस्मैपदेषु ॥ ७.३.७६॥

क्रमः परस्मैपदपरे शिति परतो दीर्घो भवति। क्रामति, क्रामतः, क्रामन्ति। परस्मैपदेष्विति किम्? आक्रमत आदित्यः। इह उत्क्राम, संक्रामेति हेर्लुकि कृते ‘न लुमताङ्गस्य’ (१.१.६३) इति प्रत्ययलक्षणप्रतिषेधाद् दीर्घो न प्राप्नोति। नैष दोषः। लुमता शब्देन लुप्ते यदङ्ग तस्य कार्ये स प्रतिषेधः। न च हौ क्रमिरङ्गम्। किं तर्हि? शपि॥

इषुगमियमां छः॥ ७.३.७७॥

इषु गमि यम इत्येतेषां शिति परतश्छकारादेशो भवति। इच्छति। गच्छति। यच्छति। इषेरुदितो ग्रहणम्। इह मा भूत्- इष्यति, इष्णातीति। ये त्विषिमुदितं नाधीयते, त इह च सूत्रेऽचीत्यनुवर्तयन्ति। तत् च प्रधानमज्ग्रहणं शितीत्यनेन विशेष्यत इति वर्णयन्ति। तथा च सति तदादिविधिर्न भवति। ‘यस्मिन् विधिस्तदादावल्ग्रहणे’ इत्येतदपि विशेषणेनैवेष्यते। तेन इषाणेत्यत्र छत्वं न भवति। न ह्ययमजेव शिदिति॥

पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठ-मनयच्छपश्यर्च्छधौशीयसीदाः ॥ ७.३.७८॥

पा घ्रा ध्मा स्था म्ना दाण् दृशि अर्ति सर्ति श सद इत्येतेषां पिब जिघ्र धम तिष्ठ मन यच्छ पश्य ऋच्छ धौ शीय सीद इत्येत आदेशा भवन्ति शिति परतः। पा-पिबति। घ्रा- जिघ्रति। ध्मा-धमति। स्था-तिष्ठति। म्ना-मनति। दाण्-यच्छति। दृशि- पश्यति। अर्ति-ऋच्छति। सर्ति- धावति। शद-शीयते। सद्-सीदति। पिबतेर्लघूपधगुणः प्राप्नोति, सो ‘अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य’ इति न भवति। अथ वाकारान्तोऽयमादेश आद्युदात्तो निपात्यते। सर्तेर्वेगितायां गतौ धावादेशमिच्छन्ति। अन्यत्र सरति, अनुसरतीत्येव भवति॥

ज्ञाजनोर्जा ॥ ७.३.७९॥

ज्ञा जन इत्येतयोर्जादेशो भवति शिति परतः। जानाति। जायते। जनेर्दैवादिकस्य ग्रहणम्॥

प्वादीनां ह्रस्वः ॥ ७.३.८०॥

पू इत्येवमादीनां ह्रस्वो भवति शिति परतः। प्वादयः क्र्यादिषु पठ्यन्ते। ‘पूञ् पवने’ इत्यतः प्रभृति ‘प्ली गतौ’‘वृत्’ इति यावत् केचिदिच्छन्ति, वृत्करणमेतद् ल्वादीनां प्वादीनां च परिसमाप्त्यर्थमिति। अपरे तु ल्वादीनामेव परिसमाप्त्यर्थं वृत्करणमेतदिच्छन्ति, आगणान्ताः प्वादय इति। पूञ्- पुनाति। लूञ्- लुनाति। स्तृञ्-स्तृणाति। येषामागणान्ताः प्वादयस्तेषां जानातीत्यत्र ह्रस्वः प्राप्नोति, ‘ज्ञाजनोर्जा’ (७.३.७९) इति दीर्घकरणसामर्थ्याद् न भवति, जनेर्ज इत्यपि ह्यादेशे कृत ‘अतो दीर्घो यञि’ (७.३.१०१) इति दीर्घत्वेन जायत इति सिध्यति॥

मीनातेर्निगमे॥ ७.३.८१॥

मीनातेरङ्गस्य शिति प्रत्यये परतो ह्रस्वो भवति निगमविषये। प्रमिणन्ति व्रतानि। निगम इति किम्? प्रमीणाति॥

मिदेर्गुणः ॥ ७.३.८२॥

मिदेरङ्गस्येको गुणो भवति शिति प्रत्यये परतः। मेद्यति, मेद्यतः मेद्यन्ति। शितीत्येव-मिद्यते॥

जुसि च ॥ ७.३.८३॥

जुसि च प्रत्यये परत इगन्तस्याङ्गस्य गुणो भवति। अजुहवुः। अबिभयुः। अबिभरुः। अथ चिनुयुः, सुनुयुरित्यत्र कस्माद् न भवति? अत्र हि द्वे ङित्त्वे, सार्वधातुकाश्रयं यासुडाश्रयं च। तत्र नाप्राप्ते सार्वधातुकाश्रयङित्त्वनिमित्ते प्रतिषेधे जुसि गुण आरभ्यमाणस्तमेव बाधते, यासुडाश्रयङित्त्वनिमित्तं तु न बाधते, तत्र हि प्राप्ते चाप्राप्ते चारभ्यत इति॥

सार्वधातुकार्धधातुकयोः ॥ ७.३.८४॥

सार्वधातुक आर्धधातुके च प्रत्यये परत इगन्तस्याङ्गस्य गुणो भवति। तरति। नयति। भवति। आर्धधातुके-कर्ता। चेता। स्तोता। सार्वधातुकार्धधातुकयोरिति किम्? अग्नित्वम्। अग्निकाम्यति। यदि हि प्रत्यये सङीति वोच्येत, इहापि स्यात्॥

जाग्रोऽविचिण्णल्ङित्सु ॥ ७.३.८५॥

जागृ इत्येतस्याङ्गस्य गुणो भवत्यविचिण्णल्ङित्सु परतः। जागरयति। जागरकः। साधुजागरी। जागरंजागरम्। जागरो वर्तते। जागरितः। जागरितवान्। वृद्धिविषये प्रतिषेधविषये च यथा स्यादिति जागर्तेरयं गुण आरभ्यते। तस्मिन् कृते या ‘अत उपधयाः’ (७.२.११६) वृद्धिः प्राप्नोति, सा न भवति। यदि हि स्यादनर्थक एव गुणः स्यात्, चिण्णलोश्च प्रतिषेधवचनमनर्थकम्। अविचिण्णल्ङित्स्विति किम्? ‘जृशृस्तृजागृभ्यः क्विन्’ (प०उ० ४.५५)- जागृविः। चिण्- अजागारि। णल्- जजागार। ङित्- जागृतः। जागृथः। वीति केचिदिकारमुच्चाारणार्थं वर्णयन्ति, क्वसावपि वकारादौ गुणो न भवति। जजागृवान्। अजागरुः, अहं जजागर इत्यत्र प्रतिषेधः प्राप्नोति। न, अप्रतिषेधात्, अविचिण्णल्ङित्स्विति पर्युदासोऽयम्। अथ वा जाग्र इति प्राप्तिरसावानन्तर्याद् विचिण्णल्ङित्सु प्रतिषिध्यते। या तु ‘जुसि च’ (७.३.८३), ‘सार्वधातुकार्धधातुकयोः’ (७.३.८४) इति च प्राप्तिः, सा न प्रतिषिध्यते॥

पुगन्तलघूपधस्य च ॥ ७.३.८६॥

पुगन्तस्याङ्गस्य लघूपधस्य च सार्वधातुकार्धधातुकयोर्गुणो भवति। पुगन्तस्य-व्लेपयति। ह्रेपयति। क्नोपयति। लघूपधस्य-भेदनम्। छेदनम्। भेत्ता। छेत्ता। प्रत्ययादेरङ्गावयवस्य च हलोरानन्तर्ये सति लघूपधगुणो न व्यावर्त्यत इति ज्ञापितमेतत् क्नुसनोः कित्करणेन, ‘त्रसिगृधिधृषिक्षिपेः क्नुः’ (३.२.१४०),‘हलन्ताच्च’ (१.२.१०) इति।

	संयोगे गुरुसंज्ञायां गुणो भेत्तुर्न सिध्यति।

	विध्यपेक्षं लघोश्चासौ कथं कुण्डिर्न दुष्यति ॥ १॥

	धातोर्नुमः कथं रञ्जेः स्यन्दिश्रन्थ्योर्निपातनात्।

	अनङ्लोपशिदीर्घत्वे विध्यपेक्षे न सिध्यतः ॥ २॥

	अभ्यस्तस्य यदाहाचि लङर्थं तत्कृतं भवेत्।

	क्नुसनोर्यत् कृतं कित्त्वं ज्ञापकं स्याल्लघोर्गुणे ॥ ३॥

उपधा चात्र इगेव गृह्यते, ततो भिनत्तीति गुणो न भवति। अपरे पुकि अन्तः पुगन्तः, लघ्वी उपधा लघूपधा च पुगन्तश्च लघूपधा च पुगन्तलघूपधमिति सूत्रार्थं वर्णयन्ति॥

नाभ्यस्तस्याचि पिति सार्वधातुके ॥ ७.३.८७॥

अभ्यस्तसंज्ञकस्याङ्गस्य लघूपधस्याजादौ पिति सार्वधातुके गुणो न भवति। नेनिजानि। वेविजानि। परिवेविषाणि। अनेनिजम्। अवेविजम्। पर्यवेविषम्। अभ्यस्तस्येति किम्? वेदानि। अचीति किम्? नेनेक्ति। पिद्ग्रहणमुत्तरार्थम्। सार्वधातुक इति किम्? निनेज। लघूपधस्येत्येव-जुहवानि। अजुहवम्॥ बहुलं छन्दसीति वक्तव्यम्॥ जुजो॑ष॒त् (ऋ० १.१७३.४) इति यथा स्यात्। पस्पशाते। चाकशीति, वावशीति। यङ्लुकि छान्दसमुपधाह्रस्वत्वं द्रष्टव्यम्, पस्पशात इत्यत्राभ्यासह्रस्वत्वं च। प्रकृत्यन्तराणां वा स्पशिकशिवशीनामेतानि रूपाणि॥

भूसुवोस्तिङि ॥ ७.३.८८॥

भू सू इत्येतयोस्तिङि सार्वधातुके गुणो न भवति। अभूत्। अभूः। अभूवम्। सुवै, सुवावहै, सुवामहै। सूतेर्लुग्विकरणस्येदं ग्रहणम्। सुवतिसूयत्योर्विकरणेन तिङो व्यवधानम्। विकरणस्यैव ङित्त्वाद् गुणाभावः, सिद्धः। तिङीति किम्? भवति। सार्वधातुक इत्येव-व्यतिभविषीष्ट। अथ बोभवीतीति यङ्लुकि गुणप्रतिषेधः कस्माद् न भवति? ज्ञापकात्, यदयं बोभूतु (७.४.६५) इति गुणाभावार्थं निपातनं करोति॥

उतो वृद्धिर्लुकि हलि ॥ ७.३.८९॥

सार्वधातुके पितीति वर्तते। उकारान्तस्याङ्गस्य वृद्धिर्भवति लुकि सति हलादौ पिति सार्वधातके। यौति। यौषि। यौमि। नौति। नौषि। नौमि। स्तौति। स्तौषि। स्तौमि। उत इति किम्? एति। एषि। एमि। लुकीति किम्? सुनोति। सुनोषि। सुनोमि। हलीति किम्? यवानि। रवाणि। पितीत्येव- युतः। रुतः। अपि स्तुयाद् राजानमित्यत्र हि ङित् च पिद् न भवतीति पित्त्वप्रतिषेधाद् वृद्धेरभावः। ‘नाभ्यस्तस्य०’ (७.३.८७) इत्येतदिहानुवर्तते, योयोति, रोरोति इत्येवमाद्यर्थम्॥

ऊर्णोतेर्विभाषा ॥ ७.३.९०॥

ऊर्णोतेर्विभाषा वृद्धिर्भवति हलादौ पिति सार्वधातुके। प्रोर्णौति, प्रोर्णोति। प्रोर्णौषि, प्रोर्णोषि। प्रोर्णौमि, प्रोर्णोमि। हलीत्येव-प्रोर्णवानि॥

गुणोऽपृक्ते ॥ ७.३.९१॥

ऊर्णोतेर्धारतोरपृक्ते हलि पिति सार्वधातुके गुणो भवति। प्रौर्णोत्। प्रौर्णोः। हलीति वर्तमाने यदपृक्तग्रहणं क्रियते, तेनैव ज्ञाप्यते भवत्येषा परिभाषा- ‘यस्मिन् विधिस्तदादावल्ग्रहणे’ इति॥

तृणह इम् ॥ ७.३.९२॥

तृणह इत्येतस्याङ्गस्य इमागमो भवति हलि पिति सार्वधातुके। तृणेढि। तृणेक्षि। तृणेह्मि। अतृणेट्। वर्णाश्रयेऽप्यत्र प्रत्ययलक्षणमिष्यते। हलीति किम्? तृणहानि। पितीत्येव- तृण्ढः। तृणह इत्यागतश्नम्को गृह्यते, श्नमि कृत इमागमो यथा स्यादिति॥

ब्रुव ईट् ॥ ७.३.९३॥

ब्रू इत्येतस्मादुत्तरस्य हलादेः पितः सार्वधातुकस्येडागमो भवति। ब्रवीति। ब्रवीषि। ब्रवीमि। अब्रवीत्। हलीत्येव- ब्रवाणि। पितीत्येव-ब्रूतः॥

यङो वा ॥ ७.३.९४॥

यङ उत्तरस्य हलादेः पितः सार्वधातुकस्येडागमो भवति वा। शाकुनिको लालपीति। दु॑न्दु॒भिर्वा॑वदीति (ऋ० ६.४७.३१)। त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्या॒ँ॒ आ वि॑वेश (ऋ० ४.५८.३)। न च भवति- वर्व॑र्ति (ऋ० १.१६४.११)। चर्कर्ति चक्रम्। हलादेः पितः सार्वधातुकस्य यङन्तादभाव इति यङ्लुगन्तस्योदाहरणम्॥

तुरुस्तुशम्यमः सार्वधातुके ॥ ७.३.९५॥

तु इति सौत्रोऽयं धातुः, ‘रु शब्दे’,‘ष्टुञ् स्तुतौ’,‘शमु उपशमे’,‘अम गत्यादिषु’ इत्येतेभ्यः परस्य सार्वधातुकस्य हलादेर्वा ईडागमो भवति। उत्तौति, उत्तवीति। उपरौति, उपरवीति। उपस्तौति, उपस्तवीति। शाम्यध्वम्, शमी॒ध्व॑म् (मै०सं० ४.१३.४)। अभ्यमति, अभ्यमीति। शम्यमोः ‘बहुलं छन्दसि’ (२.४.७३) इति विकरणलुकि सति हलादिसार्वधातुकमनन्तरं संभवति। आपिशलाः ‘तुरुस्तुशम्यमः सार्वधातुकासुच्छन्दसि’ इति पठन्ति। तत्र सर्वेषामेव छन्दसि विषये विधिरयं भवति। सर्वधातुक इत्यनुवर्तमाने पुनः सार्वधतुकग्रहणमपिदर्थम्- स्तुवीत, शमीध्वमित्यत्रापि यथा स्याद् इति॥

अस्तिसिचोऽपृक्ते ॥ ७.३.९६॥

अस्तेरङ्गात् सिजन्तात् च परस्यापृक्तस्य सार्वधातुकस्य ईडागमो भवति। अस्तेः- आसीत्। आसीः। सिजन्तात्- अकार्षीत्। असावीत्। अलावीत्। अपावीत्। अपृक्त इति किम्? अस्ति। अकार्षम्। आहिभुवोरीटि प्रतिषेध इति स्थानिवद्भावप्रतिषेधः, तेनेह न भवति- आत्थ, अभूदिति॥

बहुलं छन्दसि ॥ ७.३.९७॥

अस्तिसिचोरपृक्तस्य सार्वधातुकस्य ईडागमो भवति बहुलं छन्दसि विषये। आप एवेदं सलिलं सर्वमाः। आसीदिति स्थान आः क्रियापदम्। अ॑ह॒र्वा॑व॑ त॑र्ह्या॑सी॒न्न॑ रा॑त्रिः॒ (मै०सं० १.५.१२)। सिचः खल्वपि- गोभि॑रक्षाः॒ (ऋ० ९.१०७.९)। प्र॒त्यञ्च॑मत्साः (ऋ० १०.२८.४)। अभैषीर्मा पुत्रकेति च भवति। छान्दसत्वाद् माङ्योगेऽप्यडागमो भवति- अक्षाः, अत्सा इति सिच इडभावश्च॥

रुदश्च पञ्चभ्यः॥ ७.३.९८॥

रुदादिभ्यः परस्य सार्वधातुकस्य हलादेरपृक्तस्य ईडागमो भवति। अरोदीत् । अरोदीः। अस्वपीत्। अस्वपीः। अश्वसीत् । अश्वसीः। प्राणीत्। प्राणीः। अजक्षीत्। अजक्षीः। पञ्चभ्य इति किम् ? अजागर्भवान् । अपृक्तस्येत्येव-रोदिति॥

अड् गार्ग्यगालवयोः॥ ७.३.९९॥

रुदादिभ्यः, पञ्चभ्यः परस्यापृक्तस्य सार्वधातुकस्याडागमो भवति गार्ग्यगालवयोर्मतेन। अरोदत्। अरोदः। अस्वपत्। अस्वपः। अश्वसत्। अश्वसः। प्राणत्। प्राणः। अजक्षत्। अजक्षः। गार्ग्यगालवयोर्ग्रहणं पूजार्धम्।

अदः सर्वेषाम्॥ ७.३.१००॥

‘अद भक्षणे’ अस्मादुत्तरस्यापृक्तस्य सार्वधातुकस्याडागमो भवति सर्वेषामाचार्याणां मतेन। आदत्। आदः। अपृक्तस्येत्येव-अत्ति । अत्सि॥

अतो दीर्घो यञि॥ ७.३.१०१॥

अकारान्तस्याङ्गस्य दीर्घो भवति यञादौ सार्वधातुके परतः। पचामि, पचावः, पचामः। पक्ष्यामि, पक्ष्यावः, पक्ष्यामः। अत इति किम् ? चिनुवः। चिनुमः। यञीति किम्? पचतः। पचथः। सार्वधातुक इत्येव-अङ्गना। केशवः। केचिदत्र तिङीत्यनुवर्तयन्ति, तेषां भववानिति क्वसौ सार्वधतातुके दीर्घो न भवति॥

सुपि च ॥ ७.३.१०२॥

‘अतो दीर्घो यञि’ (७.३.१०१) इत्यनुवर्तते। सुपि च यञादौ परतोऽकारान्तस्याङ्गस्य दीर्घो भवति। वृक्षाय। प्लक्षाय। वृक्षाभ्याम्। प्लक्षाभ्याम्। अत इत्येव-अग्निभ्याम्। यञीत्येव-वृक्षस्य। प्लक्षस्य॥

** बहुवचने झल्येत् ॥ ७.३.१०३॥**

बहुवचने झलादौ सुपि परतोऽकारान्तस्याङ्गस्य एकारादेशो भवति। वृक्षेभ्यः। प्लक्षेभ्यः। वृक्षेषु। प्लक्षेषु। बहुवचन इति किम् ? वृक्षाभ्याम् । प्लक्षाभ्याम्। झलीति किम्? वृक्षाणाम्। सुपीत्येव-यजध्वम्। पचध्वम् ॥

ओसि च ॥ ७.३.१०४॥

ओसि परतोऽकारान्तस्याङ्गस्य एकारादेशो भवति। वृक्षयोः स्वम्। प्लक्षयोः स्वम्। वृक्षयोर्निधेहि। प्लक्षयोर्निधेहि॥

आङि चापः॥ ७.३.१०५॥

आङिति पूर्वाचार्यनिर्देशेन तृतीयैकवचनं गृह्यते। तस्मिन्नाङि परतश्चकारादोसि चाबन्तस्याङ्गस्यैकारादेशो भवति। खट्वया। मालया। खट्वयोः। मालयोः। बहुराजया। कारीषगन्ध्यया। बहुराजयोः। कारीषगन्ध्ययोः। आप इति पितो ग्रहणं किम् ? कीलालपा ब्राह्मणेन। कीलालपोर्ब्राह्मणयोः। ङ्याब्ग्रहणेऽदीर्घग्रहणम् इति वचनादिह न भवति- अतिखट्वेन ब्राह्मणकुलेन॥

संबुद्धौ च॥ ७.३.१०६॥

आप इति वर्तते। संबुद्धौ च परत आबन्तस्याङ्गस्य एत्वं भवति। हे खट्वे। हे बहुराजे। हे कारीषगन्ध्ये॥

अम्बार्थनद्योर्ह्रस्वः॥ ७.३.१०७॥

संबुद्धाविति वर्तते। अम्बार्थानामङ्गानां नद्यन्तानां च ह्रस्वो भवति संबुद्धौ परतः। हे अम्ब। हे अक्क। हे अल्ल। नद्याः खल्वपि- हे कुमारि। हे शार्ङ्गरवि। हे ब्रह्मबन्धु। हे वीरबन्धु॥ डलकवतीनां प्रतिषेधो वक्तव्यः॥ हे अम्बाडे। हे अम्बाले। हे अम्बिके॥ छन्दसि वेति वक्तव्यः॥ हे अम्बाड, हे अम्बाडे। हे अम्बाल, हे अम्बाले। हे अम्बिक, हे अम्बिके॥ तलो ह्रस्वो वा ङिसंबुद्ध्योरिति वक्तव्यम्॥ देवते भक्तिः, देवतायां भक्तिः। हे देवत, हे देवते। छन्दस्येव ह्रस्वत्वमिष्यते॥ मातृणां मातच् पुत्रार्थमर्हते॥ मातृणां मातजादेशो वक्तव्यः संबुद्धौ पुत्राय पुत्रमभिधातुम्। कीदृशाय? अर्हते-मात्रा व्यपदेशमर्हति श्लाघनीयत्वाद् यः पुत्रस्तदर्थम्। हे गार्गीमात। ‘नद्यृतश्च’ (५.४.१५३) इति समासान्तापवादो मातजादेशः। चित्करणमन्तोदात्तार्थम्॥

ह्रस्वस्य गुणः॥ ७.३.१०८॥

संबुद्धाविति वर्तते। ह्रस्वान्तस्याङ्गस्य गुणो भवति संबुद्धौ परतः। हे अग्ने। हे वायो। हे पटो। हे कुमारि, हे ब्रह्मबन्धु इत्येवमादीनां ह्रस्वविधानसामर्थ्याद् गुणो न भवति। यदि गुण इष्टः स्यात्, अम्बार्थानां ह्रस्व इत्युक्त्वा नदीह्रस्वयोर्गुण इत्येवं ब्रूयात ॥

जसि च ॥ ७.३.१०९॥

जसि परतो ह्रस्वान्तस्याङ्गस्य गुणो भवति। अग्नयः। वायवः। पटवः। धेनवः। बुद्धयः॥ जसादिषु छन्दसि वावचनं प्राङ् णौ चङ्युपधाया ह्रस्व इत्येतस्मात्॥ इतः प्रकरणात् प्रभृति छन्दसि वेति वक्तव्यम्। किं प्रयोजनम्? अम्बे, दर्वि, शतक्रत्वः, पश्वे नृभ्यः, किकिदीव्या। अम्बे, अम्ब॒ (ऋ० १०.९७.२)। पू॒र्णा द॑र्वि॒ (मा०सं०३.४९),पूर्णा दर्वी। अधा॑ शतक्रत्वः(ऋ०१०.९७.२),शतक्रतवः (काठ०सं० १६.१३)। पश्वे॒ नृभ्यः॒ (ऋ०१.४३.२), प॒शवे॑ (ऋ० ३.६२.१४)। किकिदी॒व्या (मै०सं०२.७.१३), किकिदी॒विना॑ (ऋ० १०.९७.१३)॥

ऋतो ङिसर्वनामस्थानयोः ॥ ७.३.११०॥

गुण इति वर्तते। ऋकारान्तस्याङ्गस्य ङौ परतः सर्वनामस्थाने च गुणो भवति। ङौ-मातरि। पितरि। भ्रातरि। कर्तरि। सर्वनामस्थाने-कर्तारौ, कर्तारः। मातरौ। पितरौ। भ्रातरौ। तपरकरणं मुखसुखार्थम्॥

घेर्ङिति ॥ ७.३.१११॥

घ्यन्तस्याङ्गस्य ङिति प्रत्यये परतो गुणो भवति। अग्नये। वायवे। अग्नेरागच्छति। वायोरागच्छति। अग्नेः स्वम्। वायोःस्वम्। घेरिति किम्? सख्ये। पत्ये। ङितीति किम्? अग्निभ्याम्। सुपीत्येव-पट्वी। कुरुतः॥

आण्नद्याः ॥ ७.३.११२॥

नद्यन्तादङ्गादुत्तरस्य ङितः प्रत्ययस्याडागमो भवति। कुमार्यै। ब्रह्मबन्ध्वै। कुमार्याः। ब्रह्मबन्ध्वाः॥

याडापः ॥ ७.३.११३॥

आबन्तादङ्गादुत्तरस्य ङित प्रत्ययस्य याडागमो भवति। खट्वायै। बहुराजायै। कारीषगन्ध्यायै। खट्वायाः। बहुराजायाः। कारीषगन्ध्यायाः। अतिखट्वायेत्यत्राकृते दीर्घे ङ्याब्ग्रहणेऽदीर्घः (महाभाष्य १.१३८) इति वचनाद् याडागमो न भवति, कृते तु लाक्षणिकत्वात्॥

सर्वनाम्नः स्याड्ढ्रस्वश्च ॥ ७.३.११४॥

सर्वनाम्न आबन्तादङ्गादुत्तरस्य ङित प्रत्ययस्य स्याडागमो ह्रस्वश्च भवति। सर्वस्यै। विश्वस्यै। यस्यै। तस्यै। कस्यै। अन्यस्यै। सर्वस्याः। विश्वस्याः। यस्याः। तस्याः। कस्याः। अन्यस्याः। आप इत्येव-भवति। भवते॥

विभाषा द्वितीयातृतीयाभ्याम् ॥ ७.३.११५॥

द्वितीया तृतीया इत्येताभ्यामुत्तरस्य ङितः प्रत्ययस्य विभाषा स्याडागमो भवति, द्वितीयातृतीययोश्च ह्रस्वो भवति। द्वितीयस्यै, द्वितीयायै। तृतीयस्यै, तृतीयायै॥

ङेराम् नद्याम्नीभ्यः॥ ७.३.११६॥

नद्यन्तादाबन्ताद् नीत्येतस्मात् चोत्तरस्य ङेरामित्ययमादेशो भवति। कुमार्याम्। गौर्याम्। ब्रह्मबन्ध्वाम्। धीबन्ध्वाम्। आपः-खट्वायाम्। बहुराजायाम्। कारीषगन्ध्यायाम्। नी-राजन्याम्। सेनान्याम्। ग्रामण्याम्॥

इदुद्भ्याम्॥ ७.३.११७॥

इकारोकाराभ्यां नदीसंज्ञकाभ्यामुत्तरस्य ङेरामादेशो भवति। कृत्याम्। धेन्वाम्॥

औत्॥ ७.३.११८॥

इदुद्भ्यामुत्तरस्य ङेरौकारादेशो भवति। यद् न नदीसंज्ञं नापि घिसंज्ञमिकारान्तम्, तदिहोदाहरणम्। सख्यौ। पत्यौ॥

अच्च घेः॥ ७.३.११९॥

औदिति वर्तते। घिसंज्ञकादुत्तरस्य ङेरौकारादेशो भवति, तस्य च घेरकारादेशो भवति। अग्नौ। वायौ। कृतौ। धेनौ। पटौ। अदिति तपरकरणं स्त्रियां टापो निवृत्त्यर्थम्। औदच्च घेरिति येषामेकमेवेदं सूत्रम्, ते प्रधानशिष्टमिदुद्भ्यामौत्वं वर्णयन्ति, अन्वाचयशिष्टं घेरकारमिति ॥

आङो नास्त्रियाम्॥ ७.३.१२०॥

घेरुत्तरस्याङो नाभावो भवत्यस्त्रियाम्। अग्निना। वायुना। पटुना। पुंसि इति नोक्तम्-अमुना ब्राह्मणकुलेन। अस्त्रियामिति किम्? कृत्या। धेन्वा॥

॥ इति श्रीवामनविरचितायां काशिकायां वृत्तौ सप्तमाध्यायस्य तृतीयः पादः॥