सिचि वृद्धिः परस्मैपदेषु ॥ ७.२.१॥
परस्मैपदपरे सिचि परत इगन्तस्याङ्गस्य वृद्धिर्भवति। अचैषीत्। अनैषीत्। अलावीत्। अपावीत्। अकार्षीत्। अहार्षीत्। अन्तरङ्गमपि गुणमेषां वृद्धिर्वचनाद् बाधते। न्यनुवीद् न्यधुवीद् इत्यत्र कुटादित्वाद् ङित्वे सति प्रतिषिद्धायां वृद्धावुवङादेशः क्रियते। परस्मैपदेष्विति किम् ? अच्योष्ट। अप्लोष्ट।
अतो ल्रान्तस्य ॥ ७.२.२॥
रेफलकारौ यावतोऽन्तौ समीपौ तदन्तस्याङ्गस्य अत एव स्थाने वृद्धिर्भवति। क्षर - अक्षारीत्। त्सर - अत्सारीत्। ज्वल-अज्वालीत्। ह्मल् - अह्मालीत्। ‘अतो हलादेर्लघोः (७.२.७)’ इति विकल्पस्यायमपवादः। अत इति किम् ? न्यखोरीत्। न्यमीलीत्। ल्रान्तस्येति किम् ? मा भवानटीत्। मा भवानशीत्। अन्तग्रहणं किम् ? अवभ्रीत्। अश्वल्लीत्। अत्र यौ रेफलकारावङ्गस्यान्तौ, न तावतः समीपौ।
वदव्रजहलन्तस्याचः ॥ ७.२.३॥
वदव्रजोर्हलन्तानां चाङ्गानामचः स्थाने वृद्धिर्भवति, सिचि परस्मैपदे परतः। अवादीत्। अव्राजीत्। विकल्पबाधनार्थं वदिव्रजिग्रहणम्। हलन्तानाम् - अपाक्षीत्। अभैत्सीत्। अच्छैत्सीत्। अरौत्सीत्। अत्र योगविभागे सति हलन्तग्रहणमन्तरेणापि सिध्यति। कथम्? वदिव्रज्योरित्यत्र प्रथमयोगेऽत इति स्थानी अनुवर्तते। ततो यदच इति सूत्रं तत्राङ्गेनाज् विशेष्यते। अङ्गस्याचः सिचि परतो वृद्धिर्भवति। तदेतद् हल्ग्रहणं हल्समुदायपरिग्रहार्थम्। इहापि स्यात्-अराङ्क्षीत्। असाङ्क्षीत्। अन्यथा हि ‘येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्’इत्येकेन वर्णेन व्यवधाने स्यात्, अनेकेन हला न स्यात्। उदवोढाम्, उदवोढम् इत्यत्र वहेः सिचि ढत्वसलोपादीनां ‘पूर्वत्रासिद्धम्’(८.२.१.)इत्यसिद्धत्वात् पूर्वं हलन्तलक्षणा वृद्धिः क्रियते, पश्चाद् ढलोपनिमित्तमोत्वम्। तत्र कृते पुनर्वृद्धिर्न भवति, कृतत्वात्। यत्र त्वकृता वृद्धिः, ओकारस्यैव तत्र भवति, सोढामित्रस्यापत्यं सौढामित्रिरिति॥
नेटि ॥ ७.२.४॥
इडादौ सिचि हलन्तस्याङ्गस्य वृद्धिर्न भवति। अदेवीत्। असेवीत्। अकोषीत्। अमोषीत्। हलन्तस्येत्येव - अलावीत्। ननु चैतदप्यन्तरङ्गत्वाद् गुणावादेशयोः कृतयोर्हलन्तं भवति। नैतदेवम्। अन्तरङ्गमपि गुणं वचनारम्भसामर्थ्यात् सिचि वृद्धिर्बाधत इत्युक्तम्(७.२.१)॥
ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् ॥ ७.२.५॥
हकारान्तानां मकारान्तानां यकारान्तानामङ्गानां क्षण श्वस जागृ णि श्वि इत्येतेषामेदितां च इडादौ सिचि परस्मैपदे परतो वृद्धिर्न भवति। ग्रह-अग्रहीत्। स्यम-अस्यमीत्। टुवम-अवमीत्। व्यय-अव्ययीत् । क्षण-अक्षणीत्। श्वस-अश्वसीत्। जागृ- अजागरीत्। णि-औनयीत्। ऐलयीत्। श्वि-अश्वयीत्। एदिताम्-रगे-अरगीत्। कखे-अकखीत्। ह्म्यन्तक्षणश्वसामेदितां च ‘अतो हलादेर्लघोः’ (७.२.७) इति विकल्पे प्राप्ते प्रतिषेधः। जागृणिश्वीनां तु सिचि वृद्धिः (७.२.१) प्राप्ता, सा च ‘नेटि’ (७.२.४) इति न प्रतिषिध्यते। न चान्तरङ्गत्वादत्र पूर्वं गुणो भवति, सिचि वृद्धेरनवकाशत्वात्। यदि पूर्वं गुणःस्यादिह णिश्विग्रहणमनर्थकं स्यात्, गुणायादेशयोः कृतयोर्यकारान्तत्वादेव प्रतिषेधस्य सिद्धत्वात्। तस्मादिदमेव णिश्विग्रहणं ज्ञापकं न सिच्यन्तरङ्गमस्तीति। अथ जागृग्रहणं किमर्थम्,‘जाग्रोऽविचिण्णल्ङित्सु’ (७.३.८५) इति जागर्तेर्गुणो वृद्धेरपवादो विधीयते, स यथा ‘अचो ञ्णिति’ (७.२.११५) इति वृद्धिं बाधते तथा सिचि वृद्धिमपि बाधिष्यते? नैतदस्ति। कृते गुणे ‘अतो ल्रान्तस्य’ (७.२.२) इति या वृद्धिः प्राप्नोति, सा प्रतिषिध्यते। अथ गुणविधानसमार्थ्यादुत्तरकालभाविन्यपि वृद्धिर्बाध्यते, यथा जागरयतीत्यत्र ‘अत उपधायाः’ (७.२.११६) इत्यपि वृद्धिर्न भवति, तथा च चिण्णलोः प्रतिषेधोऽर्थवान् भवतीति शक्यमिह जागृग्रहणमकर्तुम्। तत् तु क्रियते विस्पष्टार्थम्॥
ऊर्णोतेर्विभाषा ॥ ७.२.६॥
ऊर्णोतेरिडादौ सिचि परस्मैपदपरे परतो विभाषा वृद्धिर्न भवति। प्रौर्णवीत्, प्रौर्णावीत्। ‘विभाषोर्णोः’(१.२.३) इत्यङित्त्वपक्षे वृद्धिविकल्पोऽयम्। ङित्त्वपक्षे तु गुणवृद्ध्योरभाव उवङ् भवति। प्रौर्णुवीत्॥
अतो हलादेर्लघोः ॥ ७.२.७॥
हलादेरङ्गस्य लघोरकारस्येडादौ सिचि परस्मैपदपरे परतो विभाषा वृद्धिर्न भवति। अकणीत्, अकाणीत्। अरणीत्, अराणीत्। अत इति किम्? अदेवीत्। असेवीत्। न्यकुटीत्, न्यपुटीत् इत्यत्रात इत्यस्मिन्नसति स्थानिनिर्देशार्थमच इत्येतदनुवर्तयितव्यम्। तत्राज्लक्षणा वृद्धिरिग्लक्षणा न भवतीति ‘क्ङिति च’ (१.१.५) इति प्रतिषेधो न स्यात्। हलादेरिति किम्? मा भवानशीत्। मा भवानटीत्। लघोरिति किम्? अतक्षीत्। अरक्षीत्। अथेह कस्माद् न भवति अचकासीदिति? ‘येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्’ इति हला व्यवधानमाश्रितम्, न पुनरचापि व्यवधानमिति वृद्धिर्न भवति। अथ पुनरेकेन वर्णेन व्यवधानमाश्रीयते न पुनरनेकेनेति कल्पने शक्यमकर्तुं लघोरिति, अतक्षीदित्यत्रानेकेन व्यवधानमिति न भविष्यति। तत् क्रियते विस्पष्टार्थम्। इटीत्येव-अपाक्षीत्॥
नेड् वशि कृति ॥ ७.२.८॥
वशादौ कृति प्रत्यये परत इडागमो न भवति। वरमनादौ प्रयोजनम्। ईशिता। ईशितुम्। ईश्वरः। दीपिता। दीपितुम्। दीप्रः। भसिता। भसितुम्। भस्म। याचिता। याचितुम्। याच्ञा। वरमनादौ इत्युदाहरणप्रदर्शनार्थम्, न परिगणनम्। तेन ‘ञमन्ताड् डः’(प०उ० १.११४) इत्येवमादावपि हि प्रतिषेधो भवति। अथ तत्र ‘उणादयो बहुलम्’ (३.३.१) इति समाधीयते। संभवोदाहरणप्रदर्शनमेतत्। कृतीति किम्? रुदिवः। रुदिमः॥
तितुत्रतथसिसुसरकसेषु च ॥ ७.२.९॥
ति तु त्र त थ सि सु सर क स इत्येतेषु कृत्सु इडागमो न भवति। तीति क्तिन्क्तिचोः सामान्यग्रहणम्। क्तिच्-तनिता। तनितुम्। तन्तिः। क्तिन्-दीपिता। दीपितुम्। दीप्तिः। तु-‘सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन्’ (प०उ०१.६९)- सचिता। सचितुम्। सक्तुः। त्र-‘दाम्नीशसयुयुज०’ (३.२.१८२) इति ष्ट्रन्। पतिता। पतितुम्। पत्त्रं वाहनम्। उणादिष्वपि ‘सर्वधातुभ्यः ष्ट्रन्’ (प०उ० ४.१६०)- तनिता। तनितुम्। तन्त्रम्। त-‘हसिमृग्रिण्वामिदमिलूपूधुर्विभ्यस्तन्’ (प०उ० ३.८६)- हसिता। हसितुम्। हस्तः। लविता। लवितुम्। लोतः। पविता। पवितुम्। पोतः। धूर्विता। धूर्वितुम्। धूर्तः। औणादिकस्यैव तशब्दस्य ग्रहणमिष्यते, न पुनः क्तस्य। हसितमित्येव हि तत्र भवति। थ-‘हनिकुषिनीरमिकाशिभ्यः क्थन्’ (प०उ० २.२.)- कोषिता। कोषितुम्। कुष्ठम्। काशिता। काशितुम्। काष्ठम्। सि-‘प्लुषिशुषिकुषिभ्यः क्सिः’ (प०उ० ३.१५५)-कोषिता। कोषितुम्। कुक्षिः। सु-‘क्सुश्च इषेः’ (द०उ० १.१५४)- एषिता। एषितुम्। इक्षुः। सर-‘अशेःसरन्’ (प०उ० ३.७०)- अशिता। अशितुम्। क-‘इण्भीकापाशल्यतिमर्चिभ्यः कन्’(प०उ० ३.४३)- शलिता। शलितुम्। शल्कः। स-‘वृतृवदिहनिकमिकषियुमुचिभ्यःसः’ (द०उ० ९.२१)- वदिता। वदितुम्। वत्सः॥ तितुत्रतथेष्वग्रहादीनामिति वक्तव्यम्॥ ग्रहादयो ग्रहप्रकाराः, येषामिट् क्तिनि दृश्यते। निगृहीतिः। उपस्निहितिः। निकुचितिः। निपठितिः। कृतीत्येव-रोदिति। स्वपिति॥
एकाच उपदेशेऽनुदात्तात् ॥ ७.२.१०॥
उपदेशे य एकाच् धातुरनुदात्तश्च तस्मादिडागमो न भवति। प्रकृत्याश्रयोऽयं प्रतिषेधः। के पुनरुपदेशेऽनुदात्ताः? ये तथा गणे पठ्यन्ते। त एव विस्पष्टार्थमनिट्कारिकासु प्रविभक्ताः प्रदर्श्यन्ते।
अनिट् स्वरान्तो भवतीति दृश्यतामिमांस्तु सेटः प्रवदन्ति तद्विदः।
अदन्तमृदन्तमृतां च वृङ्वृञौ श्विडीङिवर्णेष्वथ शीङ्श्रिञावपि॥ १॥
गणस्थमूदन्तमुतां च रुस्नुवौ क्षुवं तथोर्णोतिमथो युणुक्ष्णवः।
इति स्वरान्ता निपुणं समुच्चितास्ततो हलन्तानपि सन्निबोधत॥ २॥
द्वय एव धातवः, स्वरान्ता व्यञ्जनान्ताश्च। तत्र सर्वे स्वरान्ता एकाचोऽनुदात्ता अदन्तादीन् वर्जयित्वा। दाता। नेता। चेता। स्तोता। कर्ता। हर्ता। अदन्तादय उदात्ताः। आवधिष्ट। ॠदन्तम्-तरिता, तरीता। ऋतां च वृङ्वृञौ-निर्वरिता, निर्वरीता। प्रवरिता, प्रवरीता। श्विडीङिवर्णेष्वथ शीङ्श्रिञावपि-श्वयिता। उड्डयिता। शयिता। श्रयिता। गणस्थमूदन्तम्-लविता। पविता। उतां च रुस्नुवौ क्षुवं तथोर्णोतिमथो युणुक्ष्णवः-रविता। प्रस्नविता। क्षविता। प्रोर्णविता। ‘वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः प्रयोजनम्०’(३.१.३६ का०) इत्यतिदेशादेकाच्त्वमूर्णोतेरस्तीति उदात्त उपदिश्यते। यविता। नविता। क्ष्णविता। इति स्वरान्ता निपुणं समुच्चितास्ततो हलन्तानपि सन्निबोधत।
शकिस्तु कान्तेष्वनिडेक इष्यते घसिश्च सान्तेषु वसिः प्रसारणी।
शक्ता। घसिः प्रकृत्यन्तरमस्ति। घस्ता। वसिः प्रसारणी। वस्ता। प्रसारणीति किम्? वसिता वस्त्राणाम्। ‘वस निवासे’ इत्यस्य यजादित्वात् (६.१.१५) संप्रसारणं विहितम्, न तु ‘वस आच्छादने’ इत्यस्य।
रभिस्तु भान्तेष्वथ मैथुने यभिस्ततस्तृतीयो लभिरेव नेतरे ॥ ३॥
आरब्धा। यब्धा। लब्धा।
यमिर्ञमन्तेष्वनिडेक इष्यते रमिश्च यश्च श्यनि पठ्यते मनिः।
नमिश्चतुर्थो हनिरेव पञ्चमो गमिश्च षष्ठः प्रतिषेधवाचिनाम्॥ ४॥
यन्ता। रन्ता। मन्ता। श्यनीति किम्? मनुतेर्मनितेत्येव भवति। नन्ता। हन्ता। गन्ता।
दिहिर्दुहिर्मेहतिरोहती वहिर्नहिस्तु षष्ठो दहतिस्तथा लिहिः।
इमेऽनिटोऽष्टाविह मुक्तसंशया गणेषु हान्ताः प्रविभज्य कीर्तिताः॥ ५॥
देग्धा। दोग्धा। मेढा। रोढा। वोढा। नद्धा। दग्धा। लेढा। मुक्तसंशया इति किम्? तन्त्रान्तरे चत्वारोऽपरे पठ्यन्ते। सहिमुहिरिहिलुहयः। तत्र सहेरिड्विकल्पस्तकारादौ (७.२.४८)। मुहिरपि रधादौ (७.२.४५) पठ्यते। तेन तौ ससंशयौ सविकल्पौ। इतरौ तु धातुषु न पठ्येते। कैश्चिदभ्युपगम्येते इति स्वरूपेणैव ससंशयौ।
दिशिं दृशिं दंशिमथो मृशिं स्पृशिं रिशिं रुशिं क्रोशतिमष्टमं विशिम्।
लिशिं च शान्ताननिटः पुराणगाः पठन्ति पाठेषु दशैव नेतरान् ॥ ६॥
देष्टा। द्रष्टा। दंष्टा। आम्रष्टा, आमर्ष्टा। स्प्रष्टा, स्पर्ष्टा। ऋदुपधानाम् अनुदात्तोपदेशानां सृजिदृशी वर्जयित्वा ‘अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्’(६.१.५९) इत्यमागमविकल्पः। रेष्टा। रोष्टा। क्रोष्टा। प्रवेष्टा। लेष्टा।
रुधिः सराधिर्युधिबन्धिसाधयःक्रुधिक्षुधी शुध्यतिबुध्यति व्यधिः।
इमे तु धान्ता दश येऽनिटो मतास्ततः परं सिध्यतिरेव नेतरे॥ ७॥
रोद्धा। राद्धा। योद्धा। बन्द्धा। साद्धा। क्रोद्धा। क्षोद्धा। शोद्धा। बोद्धा। व्यद्धा। सेद्धा। बुध्यतिसिध्यत्योः श्यना निर्देशात् न्याय्यविकरणयोर्बुधिसिध्योरिड् भवत्येव। बोधिता। सेधिता। निष्ठायामपि प्रतिषेधाभावाद् बुधितम्, सिधितमित्येव भवति।
शिषिं पिषिं शुष्यतिपुष्यती त्विषिं विषिं श्लिषिं तुष्यतिदुष्यती द्विषिम्।
इमान् दशैवोपदिशन्त्यनिड्विधौ गणेषु षान्तान् कृषिकर्षती तथा॥ ८॥
शेष्टा। पेष्टा। शोष्टा। पोष्टा। त्वेष्टा। वेष्टा। श्लेष्टा। तोष्टा। दोष्टा। द्वेष्टा। क्रष्टा। कर्ष्टा। कृषेस्तौदादिकस्य भौवादिकस्य च कृषिकर्षती इति निर्देशः।
तपिं तिपिं चापिमथो वपिं स्वपिं लिपिं लुपिं तृप्यतिदृप्यती सृपिम्।
स्वरेण नीचेन शपिं छुपिं क्षिपिं प्रतीहि पान्तान् पठितांस्त्रयोदश॥ ९॥
तप्ता। तेप्ता। आप्ता। वप्ता। स्वप्ता। लेप्ता। लोप्ता। तृप्यतिदृप्यत्योरनुदात्तत्वममागमार्थमेव। इट् त्वनयो रधादिपाठाद् विकल्पेन भवति। त्रप्ता, तर्प्ता, तर्पिता। द्रप्ता, दर्प्ता, दर्पिता। तुदादिषु तु यौ तृपिदृपी तावुदात्तावेव। स्रप्ता, सर्प्ता। शप्ता। छोप्ता। क्षेप्ता।
अदिं हदिं स्कन्दिभिदिच्छिदिक्षुदीन् शदिं सदिं स्विद्यतिपद्यती खिदिम्।
तुदिं नुदिं विद्यति विन्त इत्यपि प्रतीहि दान्तान् दश पञ्च चानिटः॥ १०॥
अत्ता। हत्ता। स्कन्ता। भेत्ता। छेत्ता। क्षोत्ता। शत्ता। सत्ता। स्वेत्ता। स्विद्यतीति श्यना निर्देशो ञिष्विदा इत्यस्य ग्रहणं मा भूत्। उदात्त एवायम्। पत्ता। खेत्ता। तोत्ता। नोत्ता। वेत्ता। विद्यति विन्त इत्यपि श्यना श्नमा च निर्देशोऽन्यविकरणनिवृत्त्यर्थः। वेत्तिविन्दती उदात्तावेव। वेदिता विद्यानाम्। वेदिता धनस्य।
पचिं वचिं विचिरिचिरञ्जिपृच्छतीन् निजिं सिचिं मुचिभजिभञ्जिभृज्जतीन्।
त्यजिं यजिं युजिरुजिसञ्जिमज्जतीन् भुजिं स्वजिं सृजिमृजी विद्ध्यनिट्स्वरान्॥११॥
पक्ता । वक्ता । विवेक्ता। रेक्ता। रङ्क्ता। प्रष्टा। निर्णेक्ता। सेक्ता। मोक्ता। भक्ता। भङ्क्ता। भ्रष्टा, भर्ष्टा। त्यक्ता। यष्टा। योक्ता। रोक्ता। सङ्क्ता। मङ्क्ता। भोक्ता। परिष्वक्ता। स्रष्टा। मार्ष्टा। मृजिरयमूदित् पठ्यते। ततोऽस्य विकल्पेनेटा भवितव्यम्। मार्ष्टा, मार्जिता इति। अमागमोऽप्यस्य न दृश्यते। तदिह पाठस्य प्रयोजनं चिन्त्यम्। केचिदस्य स्थाने विजिं पठन्ति-सृजिं विजिं विद्ध्यनिट्स्वरानिति। निजादिषु यो विजिरसावनिडिष्यते। तथा च तन्त्रान्तरे निजिविजिष्वञ्जिवर्जमित्युक्तम्। एकाच इति किम्? अवधीत् । वृद्धिनिवृत्त्यर्थमदन्तो वधिरुपदिश्यते। उपदेशग्रहणं किम्? इह च यथा स्यात्-लविष्यति। पविष्यिति। इह च मा भूत्-कर्ता कटान्, कर्तुमिति॥
श्र्युकः किति ॥ ७.२.११॥
श्रि इत्येतस्योगन्तानां च किति प्रत्यये परत इडागमो न भवति। श्रित्वा। श्रितः। श्रितवान्। उगन्तानां च-युत्वा। युतः। युतवान्। लूत्वा। लूनः। लूनवान्। वृत्वा। वृतः। वृतवान्। तीर्त्वा। तीर्णः। तीर्णवान्। श्र्युक इति किम्? विदितः। कितीति किम्? श्रयिता। श्रयितुम्। श्रयितव्यम्। केचिदत्र द्विककारनिर्देशेन गकारप्रश्लेषं वर्णयन्ति, भूष्णुरित्येवं यथा स्यात्। सौत्रत्वात् च निर्देशस्य श्र्युकः कितीत्यत्र चर्त्वस्यासिद्धत्वमनाश्रित्य रोरुत्वं न कृतं विसर्जनीयश्च कृत इति। ‘ग्लाजिस्थश्च क्स्नुः’ (३.२.१३९) इत्यत्र स्था आ इत्याकारप्रश्लेषेण स्थास्नोः सिद्धत्वाद् न किंचिदेतत्। उपदेश इत्येव-तीर्ण इत्यत्रापि यथा स्यात्। इत्वे हि कृते रपरत्वे च न स्यात्। मा भूदेवम्। ‘इट् सनि वा’(७.२.४१) इति विकल्पे विहिते ‘यस्य विभाषा’ (७.२.१५) इति निष्ठायां प्रतिषेधो भविष्यति। कस्य पुनः सा विभाषा? ॠतः। यद्येवमित्वे हि कृते नायमृकारान्तो भविष्यति। स्थानिवद्भावाद् भविष्यति। अनल्विधौ (१.१.५६) स्थानिवद्भावः, अल्विधिश्चायम्। तस्मादनुवर्तयितव्यमुपदेश इति। तथा च सति जागरितः, जागरितवानित्यत्रापि प्राप्नोति, तदर्थमेकाच इत्यनुवर्तयितव्यम्। ऊर्णोतेस्तु-
वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः प्रयोजनम्।
आमश्च प्रतिषेधार्थमेकाचश्चेडुपग्रहात्॥
प्रोर्णुतः। प्रोर्णुतवान्॥
सनि ग्रहगुहोश्च॥ ७.२.१२॥
ग्रह गुह इत्येतयोरुगन्तानां च सनि प्रत्यये परत इडागमो न भवति। जिघृक्षति। जुघुक्षति। उगन्तानां च-रुरूषति। लुलूषति। ‘सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्’ (७.२.४९) इति विकल्पविधानात् श्रयतिरत्र नानुकृष्यते। ग्रहेर्नित्यं प्राप्तः, गुहेरूदित्त्वाद् विकल्पः॥
कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि॥ ७.२.१३॥
कृ सृ भृ वृ स्तु द्रु स्रु श्रु इत्येतेषां लिटि प्रत्यय इडागमो न भवति। कृ-चकृव, चकृम। सृ-ससृव, ससृम। भृ-बभृव, बभृम। वृञ्-ववृव, ववृम। वृङ्-ववृवहे, ववृमहे। स्तु-तुष्टुव, तुष्टुम। द्रु-दुद्रुव, दुद्रुम। स्रु-सुस्रुव, सुस्रुम। श्रु-शुश्रुव, शुश्रुम। सिद्धे सत्यारम्भो नियमार्थः। क्रादय एव लिट्यनिटस्ततोऽन्ये सेट इति। बिभिदिव, बिभिदिम। लुलुविव, लुलविम। अनुदात्तोपदेशानामत्र प्रकृत्याश्रयः प्रतिषेधः, वृञ्वृङोस्तु प्रत्ययाश्रयः, तदुभयस्याप्ययं नियमः। वृञो हि थलि ववर्थ (७.२.६४) इति निपातनाद् व्यवस्था, स्तुद्रुस्रुश्रुवां तु ‘ऋतो भारद्वाजस्य’(७.२.६३) इत्यस्मादपि नियमाद् य इट् प्राप्नोति सोऽपि नेष्यते। तुष्टोथ। दुद्रोथ। सुस्रोथ। शुश्रोथ॥ कृञोऽसुट्कस्येति वक्तव्यम्॥ ससुट्कस्येडागमो यथा स्यात्। संचस्करिव। संचस्करिम। ‘ऋतो भारद्वाजस्य’ (७.२.६३) इत्येतदप्यसुट्कस्यैवेष्यते। संचस्करिथ॥
श्वीदितो निष्ठायाम्॥ ७.२.१४॥
श्वयतेरीदितश्च निष्ठायामिडागमो न भवति। शूनः। शूनवान्। ईदितः-ओलजी-लग्नः। लग्नवान्। ओविजी-उद्विग्नः। उद्विग्नवान्। ‘ओदितश्च’(८.२.४५) इति निष्ठातकारस्य नकारः। दीपी-दीप्तः। दीप्तवान्। डीङस्त्वोदितां मध्ये पाठो ज्ञापको निष्ठायामनिट्त्वस्य। स हि नत्वार्थः, नत्वं च निष्ठातोऽनन्तरस्य विधीयते। उड्डीनः। उड्डीनवान्। निष्ठायामित्यधिकार ‘आर्धधातुकस्येड् वलादेः’ (७.२.३५) इति यावत्॥
यस्य विभाषा ॥ ७.२.१५॥
यस्य धातोर्विभाषा क्वचिदिडुक्तः, तस्य निष्ठायां परत इडागमो न भवति। वक्ष्यति-‘स्वरतिसूतिसूयतिधूञूदितो वा’ (७.२.४४)- विधूतः। विधूतवान्। गुहू-गूढः। गूढवान्। ‘उदितो वा’ (७.२.५६)-वृधु-वृद्धः। वृद्धवान्। ‘तनिपतिदरिद्राणामुपसंख्यानम्’ (७.२.४९ का०) इति पतेर्विभाषितेट्कस्यापि ‘द्वितीया श्रितातीतपतित०’ (२.१.२४) इति निपातनादिडागमः॥
आदितश्च॥ ७.२.१६॥
आदितश्च धातोर्निष्ठायामिडागमो न भवति। ञिमिदा-मिन्नः। मिन्नवान्। ञिक्ष्विदा-क्ष्विण्णः। क्ष्विण्णवान्। ञिष्विदा-स्विन्नः। स्विन्नवान्। चकारोऽनुक्तसमुच्चयार्थः। आश्वस्तः। वान्तः। योगविभागकरणं किमर्थम्, आदितश्च विभाषा भावादिकर्मणोरित्येवं पठितव्यम्, अन्यत्र हि भावादिकर्मभ्यां ‘यस्य विभाषा’ (७.२.१५) इति प्रतिषेधो भविष्यति? ज्ञापनार्थम्, एतद् ज्ञापयति-यदुपाधेर्विभाषा तदुपाधेः प्रतिषेध इति। तेन ‘विभाषा गमहनविदविशाम्’ (७.२.६८) इत्यत्र विदेर्लाभार्थस्य विभाषेति ज्ञानार्थस्य प्रतिषेधो न भवति। विदितः। विदितवान्॥
विभाषा भावादिकर्मणोः॥ ७.२.१७॥
भाव आदिकर्मणि च आदितो धातोर्विभाषा निष्ठायामिडागमो न भवति। मिन्नमनेन, मेदितमनेन। प्रमिन्नः, प्रमेदितः। सौनागाः कर्मणि निष्ठायां शकेरिटमिच्छन्ति विकल्पेन। शकितो घटः, कर्तुम्, शक्तो घटः कर्तुम्। भावे न भवत्येव-शक्तमनेन। अस्यतेर्भावे- असितमनेन। कर्मणि च न भवत्येव-अस्तः काण्डः॥
क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ता-विस्पष्टस्वरानायासभृशेषु॥ ७.२.१८॥
क्षुब्ध स्वान्त ध्वान्त लग्न म्लिष्ट विरिब्ध फाण्ट बाढ इत्येते निपात्यन्ते यथासंख्यं मन्थ मनः तमः सक्त अविस्पष्ट स्वर अनायास भृश इत्येतेष्वर्थेषु। क्षुब्ध इति भवति मन्थाभिधानं चेत्। क्षुब्धो मन्थः। क्षुभितमन्यत्। क्षुभितं मन्थेन। क्षुब्धा गिरिनदी इत्येवमाद्युपमानाद् भविष्यति। स्वान्तमिति मनोऽभिधानं चेत्। स्वनितमन्यत्। स्वनितो मृदङ्गः। स्वनितं मनसा। ध्वान्तमिति भवति तमोऽभिधानं चेत्। ध्वनितमन्यत्। ध्वनितो मृदङ्गः। ध्वनितं मनसा। लग्नमिति भवति सक्तं चेत्। लगितमन्यत्। म्लिष्टमिति भवत्यविस्पष्टं चेत्। म्लेच्छितमन्यत्। इत्वमप्येकारस्य निपातनादेव। विरिब्धमिति स्वरश्चेत्। विरेभितमन्यत्। ‘रेभृ शब्दे’ इत्यस्यैतद् निपातनम्। अन्ये तु विरिभितमन्यदिति पठन्ति। रिभिं सौत्रं धातुं पठन्ति। ते विरिभितमिति प्रत्युदाहरन्ति। फाण्टमिति भवत्यनायासश्चेत्। फणितमन्यत्। यदशृतमपिष्टं च कषायमुदकसंपर्कमात्राद् विभक्तरसमीषदुष्णं तत् फाण्टम्। तदल्पप्रयत्नसाध्यत्वादनायासेन लक्ष्यते। बाढमिति भवति भृशं चेत्। बाहितमन्यत्। ‘बाहृ प्रयत्ने’ इत्यस्य धातोरेतद् निपातनम्। अतिशयश्च भृशमिहोच्यते॥
धृषिशसी वैयात्ये ॥ ७.२.१९॥
वियातस्य भावो वैयात्यम्, प्रागल्भ्यम्, अविनीतता। तत्र धृष् शस् इत्येतयोर्निष्ठायामिडागमो न भवति। धृष्टोऽयम्। विशस्तोऽयम्। धृषेः ‘आदितश्च’ (७.२.१६) इति प्रतिषेधः सिद्ध एव, शसेरपि ‘उदितो वा’ (७.२.५६), ‘यस्य विभाषा’ (७.२.१५) इति? नियमार्थं वचनम्। धृषिशस्योर्वैयात्य एवेड् न भवति। भावादिकर्मणोरपि वैयात्ये धृषिर्नास्ति। धृष्टः। विशस्तः। वैयात्य इति किम्? धर्षितः। विशसितः॥
दृढः स्थूलबलयोः ॥ ७.२.२०॥
दृढ इति निपात्यते स्थूले बलवति चार्थे। दृढःस्थूलः। दृढो बलवान्। किमत्र निपात्यते? दृंहेः क्तप्रत्यय इडभावः, हकारनकारयोर्लोपः, परस्य ढत्वम्। अथ दृहिः प्रकृत्यन्तरमस्ति? तत्राप्येतदेव सर्वं नलोपवर्जम्, नकारस्याभावात्। हलोपनिपातनं पूर्वत्रासिद्धत्वनिवृत्त्यर्थम्। ढलोपे हि सति तस्य पूर्वत्रासिद्धत्वाद् द्रढिमा, द्रढीयान्, द्रढयतीत्यत्र ‘र ऋतो हलादेर्लघोः’ (६.४.१६१) इति रेफो न स्यात्। इह च परिद्रढय्य गत इति ‘ल्यपि लघुपूर्वात्’ (६.४.५६) इति णेरयादेशो न स्यात्। इह च परिदृढस्यापत्यं पारिदृढी कन्येति गुरूपोत्तमलक्षणःष्यङ् (४.१.७८) प्रसज्येत। स्थूलबलयोरिति किम्? दृंहितम्। दृहितम्॥
प्रभौ परिवृढः ॥ ७.२.२१॥
परिवृढ इति निपात्यते प्रभुश्चेद् भवति। परिवृढः कुटुम्बी। पूर्वेण तुल्यमेतत्। वृंहेर्निपातनम्। वृहिश्च यदि प्रकृत्यन्तरमस्ति, तस्यापि तदेव सर्वम्, हलोपनिपातनस्य च तदेव प्रयोजनम्। परिव्रढयति, परिव्रढय्य गतः, पारिवृढी कन्येति। परिवृढमाचष्ट इति विगृह्य वृढशब्दादेव णिजुत्पद्यते। संग्रामयतेरेव सोपसर्गाद् णिजुत्पत्तिरिष्यते, नान्यस्मादिति। तथा सति परिव्रढयतीति ‘तिङ्ङतिङः’ (८.१.२८) इति निघातः। परिव्रढय्येत्यत्र परिशब्दस्य क्त्वाप्रत्ययान्तेन समासे सति ल्यबादेशः सिद्धो भवति। प्रभाविति किम्? परिवृंहितम्। परिवृहितम्॥
कृच्छ्रगहनयोः कषः ॥ ७.२.२२॥
कृच्छ्र गहन इत्येतयोरर्थयोः कषेर्धातोर्निष्ठायामिडागमो न भवति। कष्टोऽग्निः। कष्टं व्याकरणम्। ततोऽपि कष्टतराणि सामानि। कृच्छ्रं दुःखम्, तत्कारणमप्यग्न्यादिकं कृच्छ्रमित्युच्यते। गहने-कष्टानि वनानि। कष्टाः पर्वताः। कृच्छ्रगहनयोरिति किम्? कषितं सुवर्णम्॥
घुषिरविशब्दने ॥ ७.२.२३॥
घुषेर्धातोरविशब्दनेऽर्थे निष्ठायामिडागमो न भवति। घुष्टा रज्जुः। घुष्टौ पादौ। अविशब्दन इति किम्? अवघुषितं वाक्यमाह। विशब्दनं प्रतिज्ञानम्। घुषिरशब्दार्थ इति भूवादिषु (४३६) षठ्यते, घुषिरविशब्दन इति चुरादिषु (१९५)। तयोरिह सामान्येन ग्रहणम्। विशब्दनप्रतिषेधश्च ज्ञापकश्चुरादिणिज् विशब्दनार्थस्यानित्य इति। तेनायमपि प्रयोग उपपन्नो भवति- ‘महीपालवचः श्रुत्वा जुघुषुः पुष्यमाणवाः’ (महाभाष्य ३.२८८) इति। स्वाभिप्रायं शब्देनाविष्कृतवन्त इत्यर्थः॥
अर्देः संनिविभ्यः ॥ ७.२.२४॥
सं नि वि इत्येतेभ्य उत्तरस्यार्देर्निष्ठायामिडागमो न भवति। समर्णः। न्यर्णः। व्यर्णः। अर्देरिति किम्? समेधितः संनिविभ्य इति किम्? अर्दितः॥
अभेश्चाविदूर्ये ॥ ७.२.२५॥
अभिशब्दादुत्तरस्यार्देराविदूर्येऽर्थे निष्ठायामिडागमो न भवति। अभ्यर्णा सेना। अभ्यर्णा शरत्। आविदूर्य इति किम्? अभ्यर्दितो वृषलः। शीतेन पीडित इत्यर्थः। विदूरं विप्रकृष्टम्, ततोऽन्यदविदूरम्, तस्य भाव आविदूर्यम्। एतस्मादेव निपातनाद् ‘न नञ्पूर्वात् तत्पुरुषात्०’ (५.१.१२१) इत्युत्तरस्य भावप्रत्ययस्य प्रतिषेधो न भवति॥
णेरध्ययने वृत्तम् ॥ ७.२.२६॥
ण्यन्तस्य वृतेर्निष्ठायाम् अध्ययनार्थे वृत्तमितीडभावो णिलुक् च निपात्यते। वृत्तो गुणो देवदत्तेन। वृत्तं पारायणं देवदत्तेन। अध्ययन इति किम्? वर्तितमन्यत्। वृतिरयमकर्मकः, स ण्यर्थे वर्तमानः सकर्मको भवति। ‘तेन निर्वृत्तम्’ (५.१.७९) इति हि प्रकृतेरेव कर्मणि क्तप्रत्ययो दृश्यते। तद्वदिहापि ण्यर्थवृत्तेरेव च वृतेर्वृत्तो गुणो देवदत्तेनेति भविष्यतीति निपातनमनर्थकम्? तत् क्रियते यदापि णिचैव ण्यर्थोऽभिधीयते, तदा वर्तितमित्यध्ययने मा भूदिति केचित्। अपरे तु वर्तितो गुणो देवदत्तेनेत्यपीच्छन्ति॥
वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः ॥ ७.२.२७॥
णेरित्यनुवर्तते। दम् शम् पूरी दस् स्पश् छद् ज्ञप् इत्येतेषां ण्यन्तानां धातूनां वानिट्त्वं निपात्यते। दान्तः, दमितः। शान्तः, शमितः। पूर्णः, पूरितः। दस्तः, दासितः। स्पष्टः, स्पाशितः। छन्नः, छादितः। ज्ञप्तः, ज्ञपितः। इट्प्रतिषेधो णिलुक् च निपात्यते। ज्ञपेस्तु भरज्ञपिसनाम् (७.२.४९) इति विकल्पविधानाद् ‘यस्य विभाषा’ (७.२.१५) इति नित्ये प्रतिषेधे प्राप्ते विकल्पार्थं निपातनम्॥
रुष्यमत्वरसंघुषास्वनाम् ॥ ७.२.२८॥
वेति वर्तते। रुषि अम त्वर संघुष आस्वन इत्येतेषां निष्ठायां वेडागमो न भवति। रुष्टः, रुषितः। ‘तीषसहलुभरुषरिषः’ (७.२.४८) इति विकल्पविधानाद् ‘यस्य विभाषा’ (७.२.१५) इति प्रतिषेधे प्राप्ते विकल्पार्थं वचनम्। अम्-अभ्यान्तः, अभ्यमितः। त्वर-तूर्णः, त्वरितः। ‘आदितश्च’ (७.२.१६) इति प्रतिषेधे प्राप्ते वचनम्। संघुष- संघुष्टौ पादौ, संघुषितौ पादौ। संघुष्टं वाक्यमाह, संघुषितं वाक्यमाह। संघुष्टौ दम्यौ, संघुषितौ दम्यौ। संपूर्वस्य घुषेरविशब्दनेऽपि परत्वादयमेव विकल्पो भवति। आस्वन-आस्वान्तो देवदत्तः, आस्वनितो देवदत्तः। आस्वान्तं मनः, आस्वनितं मनः। आङ्पूर्वस्य स्वनेर्मनोऽभिधानेऽपि परत्वादयं विकल्पः ‘क्षुब्धस्वान्त०’ (७.२.१८) इति निपातनं बाधते॥
हृषेर्लोमसु ॥ ७.२.२९॥
लोमसु वर्तमानस्य हृषेर्निष्ठायां वेडागमो न भवति। हृष्टानि लोमानि, हृषितानि लोमानि। हृष्टं लोमभिः, हृषितं लोमभिः। हृष्टाः केशाः, हृषिताः केशाः। हृष्टं केशैः, हृषितं केशैः। ‘हृषु अलीके’ इत्युदित्त्वाद् निष्ठायामनिट्। ‘हृष तुष्टौ’ इत्ययं सेट्। तयोरुभयोरिह ग्रहणमित्युभयत्रविभाषेयम्। लोमानि मूर्द्धजानि अङ्गजानि च सामान्येन गृह्यन्ते, यथा ‘लोमनखं स्पृष्ट्वा शौचं कर्तव्यम्’ (महाभाष्य १.२५) इति। तद्विषये च हृषिर्वर्तमानो लोमसु वर्तत इत्युच्यते। लोमस्विति किम्? हृष्टो देवदत्त इत्यलीकार्थस्य, हृषितो देवदत्त इति तुष्ट्यर्थस्य॥ विस्मितप्रतिघातयोश्चेति वक्तव्यम्॥ हृष्टो देवदत्तः, हृषितो देवदत्तः। विस्मित इत्यर्थः। हृष्टा दन्ताः, हृषिता दन्ताः। प्रतिहता इत्यर्थः॥
अपचितश्च ॥ ७.२.३०॥
अपचित इति वा निपात्यते। अपपूर्वस्य चायतेर्निष्ठायामनिट्त्वं चिभावश्च निपात्यते। अपचितोऽनेन गुरुः, अपचायितोऽनेन गुरुः॥ क्तिनि नित्यमिति वक्तव्यम्॥ क्तिनि नित्यं चिभावो निपात्यते। अपचितिः॥
ह्रु ह्वरेश्छन्दसि ॥ ७.२.३१॥
ह्वरतेर्धातोर्निष्ठायां छन्दसि ह्रु इत्ययमादेशो भवति। ह्रुतस्य चाह्रुतस्य च। अह्रु॑तमसि हवि॒र्धान॑म् (मा०सं० १.९)। छन्दसीति किम्? ह्वृतम्॥
अपरिह्वृताश्च ॥ ७.२.३२॥
अपरिह्वृता इति निपात्यते छन्दसि विषये। ह्रु इत्येतस्यादेशस्याभावो निपात्यते। अप॑रिह्वृताः सनुयाम॒ वाज॑म् (ऋ० १.१००.१९)॥
सोमे ह्वरितः ॥ ७.२.३३॥
ह्वरित इति ह्वरतेर्निष्ठायामिडागमो गुणश्च निपात्यते छन्दसि विषये, सोमश्चेद् भवति। मा नः सोमो ह्वरितः, विह्वरितस्त्वम्॥
**ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ता विशस्तृशंस्तृशास्तृ-तरुतृतरूतृवरुतृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिक्षमितिवमित्यमितीति च॥ ७.२.३४॥ **
ग्रसित स्कभित स्तभित उत्तभित चत्त विकस्त विशस्तृ शंस्तृ शास्तृ तरुतृ तरूतृ वरुतृ वरूतृ वरूत्रीः उज्ज्वलिति क्षरिति क्षमिति वमिति अमिति इत्येतानि छन्दसि विषये निपात्यन्ते। तत्र ग्रसितस्कभितस्तभितोत्तभितेति ग्रसु स्कम्भु स्तम्भु इत्येतेषामुदित्त्वाद् निष्ठायामिट्प्रतिषेधे प्राप्त इडागमो निपात्यते। ग्रसि॒तं॑ वा॑ ए॒त॑त्सो॑म॒स्य॒ (मै०सं० ३.७.४)। ग्रस्तमिति भाषायाम्। स्कभित- विष्क॑भिते अ॒जरे॑ (ऋ० ६.७०.१)। विष्कब्ध इति भाषायाम्। स्तभित-येन॒ स्वः॑ स्तभि॒तम् (ऋ० १०.१२१.५)। स्तब्धमिति भाषायाम्। उत्तभित-स॒त्येनोत्त॑भिता॒ भूमिः॒ (ऋ० १०.८५.१)। उत्तब्धेति भाषायाम्। उत्तभितेति उत्पूर्वस्य निपातनसामर्थ्यादन्योपसर्गपूर्वः स्तभितशब्दो न भवति। चत्त विकस्तेति चतेः कसेश्च विपूर्वस्य निष्ठायामिडभावो निपात्यते। चत्ता वर्षेण विद्युत्। चतितेति भाषायाम्। विकस्त- उत्ता॒ना॑या॒ हृ॑दयं॒ य॑द् वि॑क॒स्तम् (मै०सं० २.७.४)। विकसितमिति भाषायाम्। निपातनबहुत्वापेक्ष विकस्ता इति बहुवचनं कृतम्। अपरेषु तु निपातनेषु प्रत्येकं विभक्तिनिर्देशः। विशस्तृ शंस्तृ शास्तृ इति शसेर्विपूर्वस्य शंसेः शासेश्च तृचीडभावो निपात्यते। विशस्तृ- एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता (ऋ० १.१६२.१९) विशसितेति भाषायाम्। शंस्तृ-उ॒त शंस्ता॒ सुवि॑प्रः (ऋ० १.१६२.५)। शंसितेति भाषायाम्। शास्तृ-प्र॑शा॒स्ता (ऋ० १.९४.६)। प्रशासितेति भाषायाम्। तरुतृतरूतृवरुतृवरूतृवरूत्रीरिति तरतेर्वृङ्वृञोश्च तृचि उट् ऊट् इत्येतावागमौ निपात्येते। तरु॒तारं॒ रथा॑नाम् (ऋ० १०.१७८.१)। तरूतारम्। तरितारम्, तरीतारमिति भाषायाम्। वरुतारं रथानाम्, वरूतारं रथानाम्। वरितारम्, वरीतारमिति भाषायाम्। वरू॑त्रीष्ट्वा, दे॒वीर्वि॒श्वदे॑व्यावतीः (मा०सं० ११.६१)। जसि पूर्वसवर्णोच्चारणं प्रयोगदर्शनार्थम्। अतन्त्रं चैतत्, इदमपि हि भवति-अहोरात्रा॒णि वै व॒रूत्रयः (श० ब्रा० ६.५.४.६) इति। छान्दसिकमत्र ह्रस्वत्वम्। प्रपञ्चार्थमेव च ङीबन्तस्य निपातनम्। वरूतृशब्दो हि निपातितः, तत एव ङीपि सति सिद्धो वरूत्रीशब्दः। उज्ज्वलिति क्षरिति क्षमिति वमित्यमितीति च ज्वलतेरुत्पूर्वस्य क्षर क्षम वम अम इत्येतेषां च तिपि शप इकारादेशो निपात्यते, शपो लुग्वेडागमः। अग्निरुज्ज्वलिति। उज्ज्वलतीति भाषायाम्। क्षरिति-स्तोकं क्षरिति। क्षरतीति भाषायाम्। क्षमिति-स्तोमं क्षमिति। क्षमतीति भाषायाम्। वमिति-यः सोमं वमिति। वमतीति भाषायाम्। अमिति-अभ्यमिति वरुणः। अभ्यमतीति भाषायाम्। इतिकरणं प्रदर्शनार्थम्, तेन क्वचिदीकारो भवति। र॒विम॒भ्य॒मीति॒ वरु॑णः (मा०सं० २२.५) इत्यपि हि वेदे पठ्यते।
आर्धधातुकस्येड् वलादेः ॥ ७.२.३५॥
छन्दसीति निवृत्तम्। आर्धधातुकस्य वलादेरिडागमो भवति। लविता। लवितुम्। लवितव्यम्। पविता। पवितुम्। पवितव्यम्। आर्धधातुकस्येति किम्? आस्ते। शेते। वस्ते। ‘रुदादिभ्यः सार्वधातके’ (७.२.७६) इत्येतस्मिन् नियमार्थे विज्ञायमाने प्रतिपत्तिगौरवं भवतीति आर्धधातुक्रहणं क्रियते। वलादेरिति किम्? लव्यम्। पव्यम्। लवनीयम्। पवनीयम्। इडिति वर्तमाने पुनरिड्ग्रहणं प्रतिषेधनिवृत्त्यर्थम्॥
स्नुक्रमोरनात्मनेपदनिमित्ते ॥ ७.२.३६॥
नियमार्थमिदम्। स्नुक्रमोरार्धधातुकस्य वलादेरिडागमो भवति, न चेत् स्नुक्रमौ आत्मनेपदस्य निमित्तं भवतः। क्व च तावात्मनेपदस्य निमित्तम्? यत्रात्मनेपदं तदाश्रयं भवति, भावकर्मकर्मकर्तृकर्मव्यतिहाराः क्रमेर्वृत्त्यादयश्च। तेनायं सत्यात्मनेपदे प्रतिषेधो भवति, नासतीति। प्रतिषेधफलं चेदं सूत्रम्। स्नुक्रमोरुदात्तत्वादिट् सिद्ध एव। प्रस्नविता। प्रस्नवितुम्। प्रस्नवितव्यम्। प्रक्रमिता। प्रक्रमितुम्। प्रक्रमितव्यम्। अनात्मनेपदनिमित्त इति किम्? प्रस्नोषीष्ट। प्रक्रंसीष्ट। प्रस्नोष्यते। प्रक्रंस्यते। प्रसुस्नूषिष्यते। प्रचिक्रंसिष्यते। सर्वत्रैवात्र स्नौतिः क्रमिश्चात्मनेपदस्य निमित्तम्। सनन्तादपि हि ‘पूर्ववत्सनः’ (१.३.६२)इत्यात्मनेपदं विधीयते। निमित्तग्रहणं किम्? सीयुडादेस्तत्परपरस्य च प्रतिषेधार्थम्। इह तु प्रस्नवितेवाचरतीति प्रस्नवित्रीयत इति क्यङन्तमात्मनेपदस्य निमित्तम्, न स्नौतिः॥ क्रमेस्तु कर्तर्यात्मनेपदविषयादसत्यात्मनेपदे कृति प्रतिषेधो वक्तव्यः ॥ प्रक्रन्ता। उपक्रन्ता। कर्तरीति किम्? प्रक्रमितव्यम्। उपक्रमितव्यम्। आत्मनेपदविषयादिति किम्? निष्क्रमिता। स्नौतेः सनि किति च प्रत्यये ‘श्र्युकः किति’(७.२.११), ‘सनि ग्रहगुहोश्च’ (७.२.१२) इत्येव प्रतिषेधो भवति। प्रसुस्नूषति। प्रस्नुतः। प्रस्नुतवान्॥
ग्रहोऽलिटि दीर्घः ॥ ७.२.३७॥
ग्रह उत्तरस्येटोऽलिटि दीर्घो भवति। ग्रहीता। ग्रहीतुम्। ग्रहीतव्यम्। अलिटीति किम्? जगृहिव, जगृहिम। प्रकृतस्येटो दीर्घत्वमिदं चिण्वदिटो न भवति। ग्राहिता। ग्राहिष्यते॥
वृृतो वा ॥ ७.२.३८॥
वृ इति वृङ्वृञोः सामान्येन ग्रहणम्, तस्मादुत्तरस्य ॠकारान्तेभ्यश्चेटो वा दीर्घो भवति। वरिता, वरीता। प्रावरिता, प्रावरीता। ॠकारान्तेभ्यः- तरिता, तरीता। आस्तरिता, आस्तरीता। वृृत इति किम्? करिष्यति। हरिष्यति। अलिटीत्येव- ववरिथ। तेरिथ॥
न लिङि ॥ ७.२.३९॥
वृृत उत्तरस्येटो लिङि दीर्घो न भवति। विवरिषीष्ट। प्रावरिषीष्ट। आस्तरिषीष्ट विस्तरिषीष्ट॥
सिचि च परस्मैपदेषु ॥ ७.२.४०॥
परस्मैपदपरे सिचि वृृत उत्तरस्येटो दीर्घो न भवति। प्रावारिष्टाम्, प्रावारिषुः। अतारिष्टाम्, अतारिषुः। आस्तारिष्टाम्, आस्तारिषुः। परस्मैपदेष्विति किम्? प्रावरिष्ट, प्रावरीष्ट॥
इट् सनि वा ॥ ७.२.४१॥
वृतः सनो वेडागमो भवति। वुवूर्षते, विवरिषते, विवरीषते। प्रावुवूर्षति, प्राविवरिषति, प्राविवरीषति। ॠकारान्तेभ्यः- तितीर्षति, तितरिषति, तितरीषति। आतिस्तीर्षते, आतिस्तरिषते, आतिस्तरीषते। ‘सनि ग्रहगुहोश्च’ (७.२.१२) इतीट्प्रतिषेधे प्राप्ते पक्ष इडागमो विधीयते। इटश्च ‘वृतो वा’ (७.२.३८) इति पक्षे दीर्घः। चिकीर्षति, जिहीर्षति इत्यत्रोपदेशाधिकाराद् लाक्षणिकत्वात् चेडागमो न भवति॥
लिङ्सिचोरात्मनेपदेषु ॥ ७.२.४२॥
वृतो लिङि सिचि चात्मनेपदपरे वेडागमो भवति। वृषीष्ट, वरिषीष्ट। प्रवृषीष्ट, प्रावरिषीष्ट। आस्तरिषीष्ट, आस्तीर्षीष्ट। सिचि खल्वपि- अवृत, अवरिष्ट, अवरीष्ट। प्रावृत, प्रावरिष्ट, प्रावरीष्ट। आस्तीर्ष्ट, आस्तरिष्ट, आस्तरीष्ट। आत्मनेपदेष्विति किम्? प्रावारिष्टाम्, प्रावारिषुः। लिङः प्रत्युदाहरणं न दर्शितम्, असंभवाद् यासुटोऽवलादित्वादिति॥
ऋतश्च संयोगादेः ॥ ७.२.४३॥
ऋदन्ताद् धातोः संयोगादेरुत्तरयोर्लिङ्सिचोरात्मनेपदेषु वेडागमो भवति। ध्वृषीष्ट, ध्वरिषीष्ट। स्मृषीष्ट, स्मरिषीष्ट। अध्वृषाताम्, अध्वरिषाताम्। अस्मृषाताम्, अस्मरिषाताम्। ऋत इति किम्? च्योषीष्ट। प्लोषीष्ट। अच्योष्ट। अप्लोष्ट। संयोगादेरिति किम्? कृषीष्ट। हृषीष्ट। आकृत। अहृत। आत्मनेपदेष्वित्येवअध्वार्षीत्। अस्मार्षीत्। संस्कृषीष्ट, समस्कृतेत्यत्रोपदेशाधिकाराद्, अभक्तत्वात् च सुट इडागमो न भवति॥
स्वरतिसूतिसूयतिधूञूदितो वा ॥ ७.२.४४॥
स्वरति सूति सूयति धूञ् इत्येतेभ्य ऊदिद्भ्यश्चोत्तरस्य वलादेरार्धधातुकस्य वेडागमो भवति। स्वर्ता, स्वरिता। सूति। प्रसोता, प्रसविता। सूयति- सोता, सविता। धूञ्- धोता, धविता। ऊदिद्भ्यः खल्वपि- गाहू- विगाढा, विगाहिता। गुपू- गोप्ता, गोपिता। वेति वर्तमाने पुनर्वाग्रहणं लिङ्सिचोर्निवृत्त्यर्थम्। सूतिसूयत्योर्विकरणनिर्देशः ‘षू प्रेरणे’ इत्यस्य निवृत्त्यर्थः। धूञिति सानुबन्धकस्य निर्देशो ‘धू विधूनने’ इत्यस्य निवृत्त्यर्थः। सविता, धुवितेत्येव नित्यमेतयोर्भवति। स्वरतेरेतस्माद् विकल्पाद् ‘ऋद्धनोः स्ये’ (७.२.७०) इत्येद् भवति विप्रतिषेधेन। स्वरिष्यति। किति तु प्रत्यये ‘श्र्युकः किति’ (७.२.११) इति नित्यः प्रतिषेधो भवति पूर्वविप्रतिषेधेन। स्वृत्वा। सूत्वा। धूत्वा॥
रधादिभ्यश्च ॥ ७.२.४५॥
‘रध हिंसासंराद्ध्योः’ इत्येवमादिभ्योऽष्टाभ्य उत्तरस्य वलादेरार्धधातुकस्य वेडागमो भवति। रद्ध, रधिता। नंष्टा, नशिता। त्रप्ता, तर्प्ता, तर्पिता। द्रप्ता, दर्प्ता, दर्पिता। द्रोग्धा, द्रोढा, द्रोहिता। मोग्धा, मोढा, मोहिता। स्नोग्धा, स्नोढा, स्नोहिता। स्नेग्धा, स्नेढा, स्नेहिता। क्रादिनियमाद् लिटि रधादिभ्यः परत्वाद् विकल्पं केचिदिच्छन्ति। अपरे पुनराहुः- पूर्वविधेरिण्निषेधविधानसामर्थ्याद् बलीयस्त्वं प्रतिषेधनियमस्येति नित्यमिटा भवितव्यम्। ररन्धिव, ररन्धिमेति भवति॥
निरःकुषः ॥ ७.२.४६॥
निर् इत्येवंपूर्वात् कुष उत्तरस्य वलादेरार्धधातुकस्य वेडागमो भवति। निष्कोष्टा, निष्कोषिता। निष्कोष्टुम्, निष्कोषितुम्। निष्कोष्टव्यम्, निष्कोषितव्यम्। निर इति किम्? कोषिता। कोषितुम्। कोषितव्यम्। निस इति वक्तव्ये निर इति निर्देशेन रेफान्तमुपसर्गान्तरमस्तीति ज्ञाप्यते। तस्य हि निलयनमिति ‘उपसर्गस्यायतौ’ (८.२.१९) इति लत्वं भवति। निसो हि रुत्वस्यासिद्धत्वाद् लत्वं न स्यात्॥
इण्निष्ठायाम् ॥ ७.२.४७॥
निरः कुषो निष्ठायामिडागमो भवति। निष्कुषितः। निष्कुषितवान्। इड्ग्रहणं नित्यार्थम्। आरम्भो हि ‘यस्य विभाषा’ (७.२.१५) इत्यस्य बाधकः, अन्यथा हि विकल्पार्थ एव स्याद्। अत्रैव नित्यमिडागमः, उत्तरत्र विकल्प एवेति॥
तीषसहलुभरुषरिषः ॥ ७.२.४८॥
तकारादावार्धधातुक इषु सह लुभ रुष रिष इत्येतेभ्यो वेडागमो भवति। इषु-एष्टा, एषिता। ‘इषु इच्छयाम्’ इत्यस्यायं विकल्प इष्यते। यस्तु ‘इष गतौ’ इति दैवादिकस्तस्य प्रेषिता, प्रेषितुम्, प्रेषितव्यमिति नित्यं भवति। योऽपि ‘इष आभीक्ष्ण्ये’ इति क्र्यादौ पठ्यते, तस्याप्येवमेव। तदर्थमेव तीषसहेति सूत्रे केचिदुदितमिषं पठन्ति। सह- सोढा, सहिता। लुभ-लोब्धा, लोभिता। रुष- रोष्टा, रोषिता। रिष्- रेष्टा, रेषिता। तीति किम्? एषिष्यति॥
सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् ॥ ७.२.४९॥
इवन्तानां धातूनाम् ऋधु भ्रस्ज दम्भु श्रि स्वृ यु ऊर्णु भर ज्ञपि सन् इत्येतेषां च सनि वेडागमो भवति। इवन्तानाम्- दिदेविषति, दुद्यूषति। सिसेविषति, सुस्यूषति। ऋध् अर्दिधिषति। ईर्त्सति। भ्रस्ज- बिभ्रज्जिषति, बिभ्रक्षति, बिभर्ज्जिषति, बिभर्क्षति। दम्भु- दिदम्भिषति, धिप्सति, धीप्सति। श्रि-उच्छिश्रयिषति, उच्छिश्रीषति। स्वृ-सिस्वरिषति, सुस्वूर्षति। यु- यियविषति, युयूषति। ऊर्णु- प्रोर्णुनविषति, प्रोर्णुनुविषति, प्रोर्णुनूषति। भर इति भृञित्येतस्य भौवादिकस्य ग्रहणं शपा निर्देशात्। बिभरिषति, बुभूर्षति। ज्ञपि- जिज्ञपयिषति, ज्ञीप्सति। सन्- सिसनिषति। सिषासति। केचिदत्र भरज्ञपिसनितनिपतिदरिद्राणाम् इति पठन्ति। तितनिषति, तितंसति, तितांसति। पिपतिषति, पित्सति। दिदरिद्रिषति, दिदरिद्रासति। सनीति किम्? देविता। भ्रष्टा॥
क्लिशः क्त्वानिष्ठयोः ॥ ७.२.५०॥
क्लिशः क्त्वानिष्ठयोर्वेडागमो भवति। क्लिष्ट्वा, क्लिशित्वा। क्लिष्टः, क्लिशितः। क्लिष्टवान्, क्लिशितवान्। ‘क्लिशू विबाधने’ इत्यस्य क्त्वायां विकल्पः सिद्ध एव, निष्ठायां तु ‘यस्य विभाषा’ (७.२.१५) इति प्रतिषेधः प्राप्नोति। ‘क्लिश उपतापे’ इत्येतस्य तु क्त्वायां निष्ठायां च नित्यमिडागमः प्राप्नोति। तदर्थं क्त्वाग्रहणं क्रियते॥
पूङश्च ॥ ७.२.५१॥
पूङश्च क्त्वानिष्ठयोर्वेडागमो भवति। पूत्वा, पवित्वा। सोमोऽतिपूतः, सोमोऽतिपवतिः। पूतवान्, पवितवान्। ‘श्र्युकः किति’ (७.२.११) इति प्रतिषेधे प्राप्ते विकल्पो विधीयते॥
वसतिक्षुधोरिट् ॥ ७.२.५२॥
वसतेः क्षुधेश्च क्त्वानिष्ठयोरिडागमो भवति। उषित्वा। उषितः उषितवान्। क्षुधित्वा। क्षुधितः। क्षुधितवान्। वसतीति विकरणो निर्देशार्थ एव। वस्तेस्तूदात्तत्वादेव भवितव्यमिटा। पुनरिड्ग्रहणं नित्यार्थम्॥
अञ्चेः पूजायाम् ॥ ७.२.५३॥
अञ्चेः पूजायामर्थे क्त्वानिष्ठयोरिडागमो भवति। अञ्चित्वा जानु जुहोति। अञ्चिता अस्य गुरवः। ‘उदितो वा’ (७.२.५६) इति क्त्वाप्रत्यये विकल्पः प्राप्तः, निष्ठायां ‘यस्य विभाषा’ (७.२.१५) इति प्रतिषेधः प्राप्तः, तदर्थमिदं प्रारब्धम्। पूजायामिति किम्? उदक्तमुदकं कूपात्। उद्धृतमित्यर्थः॥
लुभो विमोहने ॥ ७.२.५४॥
लुभो विमोहनेऽर्थे वर्तमानात् क्त्वानिष्ठयोरिडागमो भवति। लुभित्वा, लोभित्वा। विलुभिताः केशाः। विलुभितः सीमन्तः। विलुभितानि पदानि। विमोहनमाकुलीकरणम्। तत्र क्त्वायां ‘तीषसहलुभ०’ (७.२.४८) इति विकल्पः, निष्ठायां ‘यस्य विभाषा ’(७.२.१५) इति प्रतिषेधः प्राप्तः। विमोहन इति किम्? लुब्धो वृषलः? शीतेन पीडित इत्यर्थः लुब्ध्वा, लुभित्वा, लोभित्वा। गार्ध्ये यथाप्राप्तमेव भवति॥
जृव्रश्च्योः क्त्वि ॥ ७.२.५५॥
जृ व्रश्चि इत्येतयोः क्त्वाप्रत्यय इडागमो भवति। जरित्वा, जरीत्वा। व्रश्चित्वा। जृ इत्येतस्य ‘श्र्युकः किति’ (७.२.११) इति प्रतिषेधः प्राप्तः, व्रश्चेरूदित्त्वाद् विकल्पः। क्त्वाग्रहणं निष्ठानिवृत्त्यर्थम्॥
उदितो वा ॥ ७.२.५६॥
उदितो धातोः क्त्वाप्रत्यये परतो वेडागमो भवति। शमु-शमित्वा, शान्त्वा। तमु-तमित्वा, तान्त्वा। दमु-दमित्वा, दान्त्वा॥
सेऽसिचि कृतचृतच्छृदतृदनृतः ॥ ७.२.५७॥
सकारादावसिच्यार्धधातुके कृत चृत छृद तृद नृत् इत्येतेभ्यो धातुभ्यो वेडागमो भवति। कृत- कर्त्स्यति। अकर्त्स्यत्। चिकृत्सति। कर्तिष्यति। अकर्तिष्यत्। चिकर्तिषति। चृत- चर्त्स्यति। अचर्त्स्यत्। चिचृत्सति। चर्तिष्यति। अचर्तिष्यत्। चिचर्तिषति। छृद- छर्त्स्यति। अच्छर्त्स्यत्। चिच्छृत्सति। छर्दिष्यति। अच्छर्दिष्यत्। चिच्छर्दिषति। तृद- तर्त्स्यति। अतर्त्स्यत्। तितृत्सति। तर्दिष्यति। अतर्दिष्यत्। तितर्दिषति। नृत्-नर्त्स्यति। अनर्त्स्यत्। निनृत्सति। नर्तिष्यति। अनर्तिष्यत्। निनर्तिषति। स इति किम्? कर्तिता। असिचीति किम्? अकर्तीत्॥
गमेरिट् परस्मैपदेषु ॥ ७.२.५८॥
गमेर्धातोः सकारादेरार्धधातुकस्य परस्मैपदेष्विडागमो भवति। गमिष्यति। अगमिष्यत्। जिगमिषति। गमेरिति किम्? चेष्यति। इड्ग्रहणं नित्यार्थम्। परस्मैपदेष्विति किम्? संगंसीष्ट। संगंस्यते। संजिगंसते। संजिगंसिष्यते। अधिजिगांसते। अधिजिगांसिष्यते। गमेरिङादेशस्य ‘अज्झनगमां सनि’ (६.४.१६) इति दीर्घत्वम्। स इत्येव- गन्तास्मि, गन्तास्वः, गन्तास्मः आत्मनेपदेन समानपदस्थस्य गमेरयमिडागमो नेष्यते। अन्यत्र सर्वत्रैवेष्यते। कृत्यपि हि भवति, परस्मैपदलुकि च - संजिगमिषिता, अधिजिगमिषिता व्याकरणस्य, जिगमिष त्वमिति। पदशेषकारस्य पुनरिदं दर्शनम् गम्युपलक्षणार्थं परस्मैपदग्रहणम्, परस्मैपदेषु यो गमिरुपलक्षितस्तस्मात् सकारादेरार्धधातुकस्येड् भवति। तन्मतेन संजिगंसिता, अधिजिगांसिता व्याकरणस्य इत्येव भवितव्यम्॥
न वृद्भ्यश्चतुर्भ्यः ॥ ७.२.५९॥
वृतादिभ्यश्चतुर्भ्य उत्तरस्य सकारादेरार्धधातुकस्य परस्मैपदेष्विडागमो न भवति। वृत्- वर्त्स्यति। अवर्त्स्यत्। विवृत्सति। वृधु- वर्त्स्यति। अवर्त्स्यत्। विवृत्सति। शृधु- शर्त्स्यति। अशर्त्स्यत्। शिशृत्सति। स्यन्दू- स्यन्त्स्यति। अस्यन्त्स्यत्। सिस्यन्त्सति। चतुर्भ्य इति न वक्तव्यम्, वृद्ग्रहणं हि तत्र द्युतादिपरिसमाप्त्यर्थं क्रियते-कृपू सामर्थ्ये वृदिति, तदेव यदि वृतादिसमाप्त्यर्थमपि विज्ञायते न किंचिदनिष्टं प्राप्नोति तत् क्रियते स्यन्देरूदिल्लक्षणमन्तरङ्गमपि विकल्पं प्रतिषेधो यथा बाधेतेति। चतुर्ग्रहणे हि सति तात्पर्येण स्यन्दिः संनिधापितो भवति। परस्मैपदेष्वित्येव- वर्तिष्यते। वर्तिषीष्ट। अवर्तिष्यत। विवर्तिषते। अत्राप्यात्मनेपदेन समानपदस्थेभ्यो वृतादिभ्य इडागम इष्यते। अन्यत्र सर्वत्र प्रतिषेधः। कृत्यपि हि परस्मैपदलुकि च प्रतिषेधो भवति- विवृत्सिता, विवृत्स त्वमिति॥
तासि च क्ऌपः ॥ ७.२.६०॥
कृप उत्तरस्य तासेः सकारादेश्चार्धधातुकस्य परस्मैपदेष्विडागमो न भवति। श्वः कल्प्ता। कल्प्स्यति। अकल्प्स्यत्। चिक्ऌप्सति। परस्मैपदेष्वित्येव- कल्पितासे। कल्पिष्यते। कल्पिषीष्ट। अकल्पिष्यत। चिकल्पिषते। क्ऌपेरप्यात्मनेपदेन समानपदस्थस्येडागम इष्यते। अन्यत्र प्रतिषेधः। कृत्यपि हि परस्मैपदलुकि च प्रतिषेधो भवति-चिक्ऌप्सिता। चिक्ऌप्स त्वमिति॥
अचस्तास्वत् थल्यनिटो नित्यम् ॥ ७.२.६१॥
तासौ ये नित्यानिटो धातवोऽजन्ताः, तेभ्यस्तासाविव थलीडागमो न भवति। याता-ययाथ। चेता-चिचेथ। नेता- निनेथ। होता- जुहोथ। अच इति किम्? भेत्ता-बिभेदिथ। तास्वदिति किम्? लूत्वा- लुलविथ। थलीति किम्? याता-ययिव। ययिम। अनिड्ग्रहणं नित्यमित्यनेन विशेषणार्थम्। नित्यग्रहणं किम्? विधोता, विधविता- विदुधविथ। तासि विभाषितेट्, थलि नित्यमिडागमो भवति। तास्वदिति वतिनिर्देशः किमर्थः? तासौ सतस्थलि प्रतिषेधार्थः। यो हि तासावसन्, असत्त्वात् च नित्यानिट्, तस्य थलि प्रतिषेधो न भवति। जघसिथ। उवयिथ। उत्तरसूत्रेऽपि तास्वदिति वर्तते। अदादेशो हि घसिर्वेञादेशश्च वयिस्तासौ नास्ति॥
उपदेशेऽत्वतः ॥ ७.२.६२॥
उपदेशे यो धातुरकारवान् तासौ नित्यानिट् तस्मात् तासाविव थलीडागमो न भवति। पक्ता-पपक्थ। यष्टा-इयष्ठ। शक्ता-शशक्थ। उपदेश इति किम्? कर्ष्टा-चकर्षिथ। अत्वत इति किम्? भेत्ता- बिभेदिथ। तपरकरणं किम्? राद्धा-रराधिथ। तास्वदित्येव-जिघृक्षति- जग्रहिथ। नित्यमनिट इत्येव-अङ्क्ता, अञ्जिता-आनञ्जिथ॥
ऋतो भारद्वाजस्य ॥ ७.२.६३॥
ऋकारान्ताद् धातोर्भारद्वाजस्याचार्यस्य मतेन तासाविव नित्यानिटस्थलीडागमो न भवति। स्मर्ता- सस्मर्थ। ध्वर्ता- दध्वर्थ। सिद्धे सत्यारम्भो नियमार्थः। ऋत एव भारद्वाजस्य, नान्येषां धातूनाम्। ययिथ। वविथ। पेचिथ। शेकिथ। तदयमर्थात् पूर्वयोर्योगयोर्विकल्पः। तपरकरणमृृकारान्तस्य निवृत्त्यर्थम्। तथा हि सति विध्यर्थमेतत् स्यात्॥
बभूथाततन्थजगृभ्मववर्थेति निगमे ॥ ७.२.६४॥
बभूथ आततन्थ जगृभ्म ववर्थ इत्येतानि निपात्यन्ते निगमविषये। निगमो वेदः। बभूथ-त्वं हि होता॑ प्रथ॒मो ब॒भूथ॑ (तै०सं० ३.१.४.४)। बभूविथेति भाषायाम्। आततन्थ- येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ (ऋ० ३.२२.२)। आतेनिथेति भाषायाम्। जगृभ्म-ज॒गृ॒भ्मा ते॒ दक्षि॑णमिन्द्र॒ हस्त॑म् (ऋ० १०.४७.१)। जगृहिमेति भाषायाम्। ववर्थ-ववर्थ त्वं हि ज्योतिषा। ववरिथेति भाषायाम्। क्रादिसूत्रादेवास्य प्रतिषेधे सिद्धे नियमार्थं वचनम्-निगम एव न भाषायामिति॥
विभाषा सृजिदृशोः ॥ ७.२.६५॥
सृजि दृशि इत्येतयोस्थलि विभाषेडागमो न भवति। सस्रष्ठ, ससर्जिथ। दद्रष्ठ, ददर्शिथ॥
इडत्त्यर्तिव्ययतीनाम् ॥ ७.२.६६॥
अत्ति अर्ति व्ययति इत्येतेषां थलीडागमो भवति। आदिथ। आरिथ। विव्ययिथ। व्येञो ‘न व्यो लिटि’ (६.१.४६) इत्यात्वप्रतिषेधः। अत्तिव्ययत्योः ‘ऋतो भारद्वाजस्य’ (७.२.६३) इति नियमाद् विकल्पः। अर्तेरपि नित्यः प्रतिषेधः। अत्रेड्ग्रहणं विस्पष्टार्थम्। विकल्पविधाने हि सत्यत्तिव्ययतिग्रहणमनर्थकम्, प्रतिषेधविधाने चार्तिग्रहणमिति नित्योऽयं विधिरिड्ग्रहणमन्तरेणापि शक्यते विज्ञातुम्॥
वस्वेकाजाद्घसाम् ॥ ७.२.६७॥
कृतद्विर्वचनानामेकाचां धातूनाम्, आकारान्तानां घसेश्च वसाविडागमो भवति। आदिवान्। आशिवान्। पेचिवान्। शेकिवान्। धात्वभ्यासयोरेकादेशे कृत एत्वाभ्यासलोपयोश्च कृतयोः कृतद्विर्वचना एत एकाचो भवन्ति। आत्- ययिवान्। तस्थिवान्। घस्- जक्षिवान्। सिद्धे सत्यारम्भो नियमार्थः- एकाजाद्घसामेव वसाविडागमो भवति नान्येषाम्। बिभिद्वान्। चिच्छिद्वान्। बभूवान्। शिश्रिवान्। क्रादिनियमात् प्रतिषेधाभावात् च य इट् प्रसक्तः स नियम्यते। आद्ग्रहणमनेकाज्ग्रहणार्थम्। द्विर्वचने हि कृत इटि हि सत्यातो लोपेन भवितव्यम्। द्ररिद्रातेस्तु ‘कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थम्’ (३.१.३५ वा०) इत्यामा भवितव्यम्। दरिद्रांचकार। अथाप्याम् न क्रियते तथापि च दरिद्रातेरार्धधातुके लोपः सिद्धश्च प्रत्ययविधौ (६.४.११४ वा०) इति प्रागेव प्रत्ययोत्पत्तेराकारे लुप्त इडागमस्य निमित्तं विहतमिति नेडागमो भवति, ददरिद्र्वानिति भवितव्यम्। घसेरपि यदि ग्रहणमिह न क्रियते तदा द्विर्वचनात् परत्वाद् ‘घसिभसोर्हलि च’ (६.४.१००) इत्युपधालोपे कृते द्विर्वचनमेव न स्याद्, अनच्कत्वाद्। इह तु घसिग्रहणाद् उपधालोपमपि परत्वादिडागमो बाधते। तत्र कृते ‘गमहनजनखनघसाम्०’ (६.४.९८) इत्युपधालोपः। स च ‘द्विर्वचनेऽचि’ (१.१.५९) इति द्विर्वचने कर्तव्ये स्थानिवद् भवति, तेन जक्षिवानिति सिध्यति॥
विभाषा गमहनविदविशाम् ॥ ७.२.६८॥
गम हन विद विश इत्येतेषां धातूनां वसौ विभाषा इडागमो भवति। गम- जग्मिवान्, जगन्वान्। ‘मो नो धातोः’ (८.२.६४), ‘म्वोश्च’ (८.२.६५) इति नकारः। हन- जघ्निवान्, जघन्वान्। विद- विविदिवान्, विविद्वान्। विश्-विविशिवान्, विविश्वान्। विशिना साहचर्यात् इह विदेस्तौदादिकस्य लाभार्थस्य ग्रहणम्। ज्ञानार्थस्य तु नित्यं विविद्वानित्येव भवति॥ दृशेश्चेति वक्तव्यम्॥ ददृशिवान्, ददृ॒श्वान् (ऋ० ४.३३.६)॥
सनिं ससनिवांसम् ॥ ७.२.६९॥
सनोतेः सनतेर्वा धातोः सनिं ससनिवांसमिति निपात्यते। आजिं त्वाग्ने….. सनिं ससनिवांसम् (मा०श्रौ० १.३.४.२)। इडागम एत्वाभ्यासलोपाभावश्च निपात्यते। सनिम्पूर्वादन्यत्र सेनिवांसमित्येव भवति। छन्दसीदं निपातनं विज्ञायते। भाषायां सेनिवांसमिति भवति॥
ऋद्धनोः स्ये ॥ ७.२.७०॥
ऋकारान्तानां धातूनां हन्तेश्च स्य इडागमो भवति। करिष्यति। हरिष्यति। हनिष्यति। स्वरतेर्वेट्त्वाद् ऋद्धनोः स्य इत्येतद् भवति विप्रतिषेधेन। स्वरिष्यति। तपरकरणं विस्पष्टार्थम्॥
अञ्जेः सिचि ॥ ७.२.७१॥
अञ्जेः सिचीडागमो भवति। आञ्जीत्, आञ्जिष्टाम्, आञ्जिषुः। सिचीति किम्? अङ्क्ता, अञ्जिता। ऊदित्त्वाद् विभाषा (७.२.४४) भवति॥
स्तुसुधूञ्भ्यः परस्मैपदेषु ॥ ७.२.७२॥
स्तु सु धूञ् इत्येतेभ्यः सिचि परस्मैपदे परत इडागमो भवति। अस्तावीत्। असावीत्। अधावीत्। परस्मैपदेष्विति किम्? अस्तोष्ट। असोष्ट। अधोष्ट, अधविष्ट॥
**यमरमनमातां सक् च ॥ ७.२.७३॥ **
यम रम नम इत्येतेषामङ्गानामाकारान्तानां च सगागमो भवति परस्मैपदे सिचि, इडागमश्च। यम्- अयंसीत्, अयंसिष्टाम्, अयंसिषुः। रम्- व्यरंसीत्, व्यरंसिष्टाम् व्यरंसिषुः। नम्- अनंसीत्, अनंसिष्टाम्, अनंसिषुः। आकारान्तानाम्- आयासीत्, अयासिष्टाम्, अयासिषुः यमादीनां हलन्तलक्षणा वृद्धिः (७.२.३) प्राप्ता, सा ‘नेटि’ (७.२.४) इति प्रतिषिध्यते। परस्मैपदेष्वित्येव- आयंस्त। अरंस्त। अनंस्त॥
स्मिपूङ्रञ्ज्वशां सनि॥ ७.२.७४॥
स्मिङ् पूङ् ऋ अञ्जू अशू इत्येतेषां धातूनां सनीडागमो भवति। सिस्मयिषते। पिपविषते। अरिरिषति। अञ्जिजिषति। अशिशिषते। ङकारग्रहणं पूञो मा भूत्। पुपूषति इत्येव तस्य भवति। अशेरूदितो ग्रहणाद् अश्नातेः नित्यमिडागमोऽस्त्येव॥
किरश्च पञ्चभ्यः ॥ ७.२.७५॥
किरादिभ्यः पञ्चभ्यः सनीडागमो भवति। कृ-चिकरिषति। गृ- जिगरिषति। दृङ्- दिदरिषते। धृङ्- दिधरिषते। प्रच्छ- पिपृच्छिषति। पञ्चभ्य इति किम्? सिसृक्षति। किरतिगिरत्योः ‘इट् सनि वा’ (७.२.४१) इति विकल्पः प्राप्तः । ‘वृतो वा’ (७.२.३८) इति चास्येटो दीर्घत्वं नेच्छन्ति॥
रुदादिभ्यः सार्वधातुके ॥ ७.२.७६॥
रुदादिभ्यः पञ्चभ्य उत्तरस्य वलादेः सार्वधातुकस्येडागमो भवति। रुद्- रोदिति। स्वप्- स्वपिति। श्वस्- श्वसिति। अन्- प्राणिति। जक्ष्- जक्षिति। पञ्चभ्य इत्येव- जागर्ति। सार्वधातुक इति किम्? स्वप्ता। वलादेरित्येव- रुदन्ति॥
ईशः से ॥ ७.२.७७॥
ईश उत्तरस्य स इत्येतस्य सार्वधातुकस्येडागमो भवति। ईशिषे। ईशिष्व॥
ईडजनोर्ध्वे च ॥ ७.२.७८॥
ईड जन इत्येताभ्यामुत्तरस्य ध्व इत्येतस्य स इत्येतस्य च सार्वधातुकस्येडागमो भवति। ईडिध्वे। ईडिध्वम्। ईडिषे। ईडिष्व। जनिध्वे। जनिध्वम्। जनिषे। जनिष्व। ‘जनी प्रादुर्भावे’ इत्यस्य छान्दसत्वात् श्यनो लुक् , उपधालोपाभावश्च। ‘जन जनने’ इत्यस्यापि श्लुविकरणस्य ग्रहणमत्रेष्यते। तस्य कर्मव्यतिहारे व्यतिजज्ञिषे, व्यतिजज्ञिष्व, व्यतिजज्ञिध्वे, व्यतिजज्ञिध्वम् इति च भवति। ध्वेशब्द ईशेरपि इडागम इष्यते- ईशिध्वे, ईशिध्वमिति। तदर्थं केचिद् ‘ईडिजनोः स्ध्वे च’ इति सूत्रं पठन्ति। तत्र सकारादेः सेशब्दस्य सूत्र एवोपादानात् चशब्दो भिन्नक्रम ईशेरनुकर्षणार्थो विज्ञायते। ‘ईशीडिजनां सेध्वयोः’ इत्येकमेव सूत्रं न पठितम्? विचित्रा हि सूत्रस्य कृतिः पाणिनेरिति। ध्व इति कृतटेरेत्वस्य ग्रहणात् लङि ध्वमि न भवितव्यमिटा। लोटि पुनरेकदेशविकृतस्यानन्यत्वाद् भवितव्यमिटा॥
लिङः सलोपोऽनन्त्यस्य ॥ ७.२.७९॥
सार्वधातुक इति वर्तते। सार्वधातुके यो लिङ् तस्यानन्त्यस्य सकारस्य लोपो भवति। कः पुनरनन्त्यो लिङः सकारः? यो यासुट्सुट्सीयुटाम्। कुर्यात्,कुर्याताम्, कुर्युः। कुर्वीत, कुर्वीयाताम्, कुर्वीरन्। अनन्त्यस्येति किम्? कुर्युः। कुर्याः। सार्वधातुक इत्येव- क्रियास्ताम्, क्रियासुः। कृषीष्ट, कृषीयास्ताम्, कृषीरन्॥
अतो येयः ॥ ७.२.८०॥
अकारान्तादङ्गादुत्तरस्य या इत्येतस्य सार्वधातुकस्येय् इत्ययमादेशो भवति। पचेत्, पचेताम्, पचेयुरित्यत्र ‘उस्यपदान्तात्’ (६.१.९६) इति पररूपं बाधितम्। अत इति किम्? चिनुयात्। सुनुयात्। तपरकरणं किम्? यायात्। सार्वधातुक इत्येव- चिकीर्ष्यात्। ननु च अतो लोपेन (६.४.४८) अत्र भवितव्यम्? पचेदित्यत्रापि हि तर्हि ‘अतो दीर्घो यञि’ (७.३.१०१) इति दीर्घत्वेन भवितव्यम्। तदनेनावश्यं विध्यन्तरं बाधितव्यम्, स यथैव दीर्घस्य बाधक एवमतो लोपस्यापि बाधकः स्यात्। स्यादेतदेवं यदि दीर्घः सार्वधातुके विधीयते। अथ तु तिङि विधीयते, तदा येन नाप्राप्तिन्यायेन दीर्घस्यैव बाधकः स्याद् न पुनरतो लोपस्य। येय इत्यविभक्तिको निर्देशः। य इति वा षष्ठीनिर्देशे यलोपस्यासिद्धत्वमनाश्रित्य ‘आद् गुणः’ (६.१.८७) कृतः, सौत्रत्वाद् निर्देशस्येति। केचिद् अत्र अतो यासिय इति सूत्रं पठन्ति। तेषां सकारान्तः स्थानी, षष्ठीसमासश्च॥
आतो ङितः ॥ ७.२.८१॥
आकारस्य ङिदवयवस्य अकारान्ताद् अङ्गादुत्तरस्य सार्वधातुकस्येय् इत्ययमादेशो भवति। पचेते। पचेथे। पचेताम्। पचेथाम्। यजेते। यजेथे। यजेताम्। यजेथाम्। ‘सार्वधातुकमपित्’ (१.२.४) इत्यत्र न ङितीव ङिद्वद् इत्येवमङ्गीक्रियते, अपि तु ङित इव ङिद्वदिति। पूर्वसूत्र एव उच्चुकुटिषतीति प्रसिद्धये तथाङ्गीकरणम्। यदि गाङ्कुटादिसूत्रे (१.२.१) ङित इव ङिद्वद्भवतीत्येवमङ्गीक्रियते, तदा ‘अनुदात्तङित आत्मनेपदम्’ (१.३.१२) इत्यात्मनेपदं प्राप्नोतीति। आत इति किम्? पचन्ति। यजन्ति। पचन्ते। यजन्ते। ङित इति किम्? पचावहै, पचामहै। अत इत्येव- चिन्वाते। सुन्वाते। तपरकरणं किम्? मिमाते। मिमाथे॥
आने मुक् ॥ ७.२.८२॥
आने परतोऽङ्गस्यातो मुमागमो भवति। पचमानः। यजमानः। अकारमात्रभक्तोऽयं मुक् अदुपदेशग्रहणेन गृह्यत इत्यदुपदेशात्० (६.१.१८६) इति लसार्वधातुकानुदात्तत्वं भवति। यद्येवम् ‘आतो ङितः’ (७.२.८१) इत्ययमपि विधिः प्राप्नोति? तपरनिर्देशाद् न भविष्यति। मुकि सत्यध्यर्धमात्रो भवति। लसार्वधातुकानुदात्तत्वमपि तर्हि न प्राप्नोति? नैष दोषः। उपदेशग्रहणं तत्र क्रियते। तेनोपदेशादूर्ध्वं सत्यपि कालेभेदे भवितव्यम्। तथा च पचावः, पचाम इत्यत्रापि भवति॥
ईदासः ॥ ७.२.८३॥
आस उत्तरस्यानशब्दस्य ईकारादेशो भवति। आसीनो यजते। अत्र पञ्चम्या परस्य षष्ठी कल्प्यते॥
अष्टन आ विभक्तौ ॥ ७.२.८४॥
अष्टनो विभक्तौ परत आकारादेशो भवित । अष्टाभिः। अष्टाभ्यः। अष्टानाम्। अष्टासु। विभक्ताविति किम्? अष्टत्वम्। अष्टता। आ इति व्यक्तिनिर्देशोऽयम्, आकृतिनिर्देशे तु नकारस्थानेऽनुनासिकाकारः स्यात्। विकल्पेनायमाकारो भवति, एतद् ज्ञापितम् ‘अष्टनो दीर्घात्’ (६.१.१७२) इति दीर्घग्रहणाद्, ‘अष्टाभ्य औश्’ (७.१.२१) इति च कृतात्वस्य निर्देशात्। तेनाष्टभिरष्टभ्य इत्यपि भवति। तदन्तविधिश्चात्रेष्यते। प्रिया अष्टौ येषां ते प्रियाष्टानः, प्रियाष्टौ॥
रायो हलि॥ ७.२.८५ ॥
रै इत्येतस्य हलादौ विभक्तौ परत आकारादेशो भवति। राभ्याम्। राभिः। हलीति किम्? रायौ। रायः। विभक्ताविति किम्? रैत्वम्। रैता। ‘मृजेर्वृद्धिः’ (७.२.११४) इत्यतः प्राग् विभक्त्यधिकारः ॥
युष्मदस्मदोरनादेशे ॥ ७.२.८६॥
युष्मदस्मदित्येतयोरनादेशे विभक्तौ परत आकारादेशो भवति। युष्माभिः। अस्माभिः युष्मासु। अस्मासु। अनादेश इति किम्? युष्मत्। अस्मत्। हलीत्यधिकारादप्यत्र न स्यात्। उत्तरत्र त्वनादेशग्रहणेन प्रयोजनं ‘योऽचि’ (७.२.८९) इति तदिहैव क्रियते॥
द्वितीयायां च ॥ ७.२.८७॥
द्वितीयायां च परतो युष्मदस्मदोराकारादेशा भवति। त्वाम्। माम्। युवाम्। आवाम्। युष्मान्। अस्मान्। आदेशार्थं वचनम्॥
प्रथमायाश्च द्विवचने भाषायाम् ॥ ७.२.८८॥
प्रथमायाश्च द्विवचने परतो भाषायां विषये युष्मदस्मदोराकारादेशा भवति। युवाम्। आवाम्। प्रथमाया इति किम्? युवयोः। आवयोः। द्विवचन इति किम्? त्वम्। अहम्। यूयम्। वयम्। भाषायामिति किम्? यु॒वं वस्त्रा॑णि पीव॒सा व॑साथे (ऋ० १.१५२.१)॥
योऽचि ॥ ७.२.८९॥
अजादौ विभक्तावनादेशे युष्मदस्मदोर्यकारादेशो भवति। त्वया। मया। त्वयि। मयि। युवयोः। आवयोः। अचीति किम्? युवाभ्याम्। आवाभ्याम्। ‘युष्मदस्मदोरनादेशे’ (७.२.८६) इत्यत्र यदि हलि (७.२.८५) इत्यनुवर्तते शक्यमकर्तुमचीत्येतत्। तत् क्रियते विस्पष्टार्थम्। अनादेश इत्येव-त्वद् गच्छति। मद् गच्छति॥
शेषे लोपः ॥ ७.२.९०॥
शेषे विभक्तौ युष्मदस्मदोर्लोपो भवति। कश्च शेषः? यत्राकारो यकारश्च न विहितः।
पञ्चम्याश्च चतुर्थ्याश्च षष्ठीप्रथमयोरपि।
यान्यद्विवचनान्यत्र तेषु लोपो विधीयते॥
त्वम्। अहम् । यूयम्। वयम्। तुभ्यम्। मह्यम्। युष्मभ्यम्। अस्मभ्यम्। त्वत्। मत्। युष्मत्। अस्मत्। तव। मम। युष्माकम्। अस्माकम्। शेषग्रहणं विस्पष्टार्थम्। शेषे लोपे कृते स्त्रियां टाप् कस्माद् न भवति- त्वं ब्राह्मणी, अहं ब्राह्मणी? ‘संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य’, अलिङ्गे वा युष्मदस्मदी इति। केचित् तु शेषे लोपं टिलोपमिच्छन्ति। कथम्? वक्ष्यमाणादेशापेक्षः शेषः, ते चादेशा मपर्यन्तस्य (७.२.९१) विधीयन्ते। तेन मपर्यन्ताद् योऽन्यः स शेष इति। तत्रायं लोप इति टिलोपो भवति॥
मपर्यन्तस्य ॥ ७.२.९१॥
मपर्यन्तस्येत्ययमधिकारः। यदित ऊर्ध्वमनुक्रमिष्यामो मपर्यन्तस्येत्येवं तद् वेदितव्यम्। वक्ष्यति- ‘युवावौ द्विवचने’ (७.२.९२)- युवाम्। आवाम्। मपर्यन्तस्येति किम्? युवकाम्, आवकामिति साकच्कस्य मा भूत्। ‘त्वमावेकवचने’ (७.२.९७) - त्वया। मया। मपर्यन्तस्येति किम्? सर्वस्य मा भूत्। तथा च सति त्वमयोरकारस्य ‘योऽचि’ (७.२.८९) इति यकारे कृतेऽनिष्टं रूपं स्यात्। मान्तस्येत्येव सिद्धेऽस्मिन् यत् परिग्रहणं कृतम्, अवधिद्योतनार्थं तत्,मान्ते मा भूत्। कदा? यदा ण्यन्तयोः क्विपि मान्तत्वं विद्यते युष्मदस्मदोः। स्थानिवत्त्वं च णेरत्र क्वौ लुप्तत्वाद् (महाभाष्य १.१.५८ वा०) न विद्यते॥
युवावौ द्विवचने ॥ ७.२.९२॥
द्विवचने इत्यर्थग्रहणम्। द्विवचने ये युष्मदस्मदी द्व्यर्थाभिधानविषये तयोर्मपर्यन्तस्य स्थाने युव आव इत्येतावादेशौ भवतः। युवाम्। आवाम्। युवाभ्याम्। आवाभ्याम्। युवयोः। आवयोः। यदा समासे द्व्यर्थे युष्मदस्मदी भवतः, समासार्थस्यान्यसंख्यत्वादेकवचनं बहुवचनं वा भवति, तदापि द्व्यर्थयोर्युष्मदस्मदोर्युवावौ भवतः, यदि ‘त्वाहौ सौ’ (७.२.९४) इत्येवमादिना आदेशान्तरेण न बाध्येते। अतिक्रान्तं युवाम् अतियुवाम्। अत्यावाम्। अतिक्रान्तान् युवाम् अतियुवान्। अत्यावान्। अतिक्रान्तेन युवाम् अतियुवया। अत्यावया। अतिक्रान्तैर्युवाम् अतियुवाभिः। अत्यावाभिः। अतिक्रान्तेभ्यो युवाम् अतियुवभ्यम्। अत्यावभ्यम्। अतिक्रान्ताद् युवाम् अतियुवत्। अत्यावत्। अतिक्रान्तेभ्यो युवाम् अतियुवत्। अत्यावत्। अतिक्रान्तानां युवाम् अतियुवाकम्। अत्यावाकम्। अतिक्रान्ते युवाम्। अतियुवयि। अत्यावयि। अतिक्रान्तेषु युवाम् अतियुवासु। अत्यावासु। त्वाहादीनां तु विषये परत्वात् त एव भवन्ति। अतिक्रान्तो युवाम् अतित्वम्। अत्यहम्। अतिक्रान्ता युवाम् अतियूयम्। अतिवयम्। अतिक्रान्ताय युवाम् अतितुभ्यम्। अतिमह्यम्। अतिक्रान्तस्य युवाम् अतितव। अतिमम। यदा तु युष्मदस्मदी एकत्वबहुत्वयोर्वर्तेते, समासार्थस्तु द्वित्वे, तदा युवावौ न भवतः। अतिक्रान्तौ त्वाम् अतित्वाम्। अतिमाम्। अतिक्रान्तौ युष्मान् अतियुष्माम्। अत्यस्माम्। एवमुन्नेयम्॥
यूयवयौ जसि ॥ ७.२.९३॥
युष्मदस्मदोर्मपर्यन्तस्य जसि परतो यूय वय इत्येतावादेशौ भवतः। यूयम्। वयम्। परमयूयम्। परमवयम्। अतियूयम्। अतिवयम्। तदन्तविधिरत्र भवति॥
त्वाहौ सौ ॥ ७.२.९४॥
युष्मदस्मदोर्मपर्यन्तस्य सौ परे त्व अह इत्येतावादेशौ भवतः। त्वम्। अहम्। परमत्वम्। परमाहम्। अतित्वम्। अत्यहम्॥
तुभ्यमह्यौ ङयि ॥ ७.२.९५॥
युष्मदस्मदोर्मपर्यन्तस्य तुभ्य मह्य इत्येतावादेशौ भवतो ङयि परतः। तुभ्यम्। मह्यम्। परमतुभ्यम्। परममह्यम्। अतितुभ्यम्। अतिमह्यम्॥
तवममौ ङसि ॥ ७.२.९६॥
युष्मदस्मदोर्मपर्यन्तस्य तव मम इत्येतावादेशौ भवतो ङसि परतः। तव। मम। परमतव। परममम। अतितव। अतिमम॥
त्वमावेकवचने ॥ ७.२.९७॥
एकवचने इत्यर्थनिर्देशः। एकवचने ये युष्मदस्मदी एकार्थाभिधानविषये तयोर्मपर्यन्तस्य स्थाने त्व म इत्येतावादेशौ भवतः। त्वाम्। माम्। त्वया। मया। त्वत्। मत्। त्वयि। मयि। यदा समास एकार्थे युष्मदस्मदी भवतः, समासार्थस्य त्वन्यसंख्यत्वाद् द्विवचनं बहुवचनं वा भवति, तदापि त्वमावादेशौ भवतः। आदेशान्तराणां तु ‘त्वाहौ सौ’ (७.२.९४) इत्येवमादीनां विषये पूर्वविप्रतिषेधेन त एवेष्यन्ते। अतिक्रान्तस्त्वाम् अतित्वम्। अत्यहम्। अतिक्रान्तौ त्वाम् अतित्वाम्। अतिमाम्। अतिक्रान्तान् त्वामतित्वान्। अतिमान्। अतिक्रान्ताभ्यां त्वामतित्वाभ्याम्। अतिमाभ्याम्। अतिक्रान्तैस्त्वामतित्वाभिः। अतिमाभिः। इत्येवमाद्युदाहर्तव्यम्॥
प्रत्ययोत्तरपदयोश्च ॥ ७.२.९८॥
एकवचने इत्यनुवर्तते। प्रत्यय उत्तरपदे च परत एकवचने वर्तमानयोर्युष्मदस्मदोर्मपर्यन्तस्य त्व म इत्येतावादेशौ भवतः। तवायं त्वदीयः। मदीयः। अतिशयेन त्वं त्वत्तरः। मत्तरः। त्वामिच्छति त्वद्यति। मद्यति। त्वमिवाचरति त्वद्यते। मद्यते। उत्तरपदे- तव पुत्रः त्वत्पुत्रः। मत्पुत्रः। त्वं नाथोऽस्य त्वन्नाथः। मन्नाथः। एकवचने इत्येव- युष्माकमिदं युष्मदीयम्। अस्मदीयम्। युष्माकं पुत्रोऽस्माकं पुत्रो युष्मत्पुत्रोऽस्मत्पुत्रः। विभक्तावित्यधिकारात् पूर्वयोगो विभक्तावेव। ततोऽन्यत्रापि प्रत्यय उत्तरपदे च यथा स्यादित्ययमारम्भः। ननु चात्राप्यन्तर्वर्तिनी विभक्तिरस्ति, तस्यामेवादेशौ भविष्यतः? नैवं शक्यम्, लुका तस्या भवितव्यम्। बहिरङ्गो लुक् अन्तरङ्गावादेशौ, प्रथमं तौ भविष्यतः? एतदेव तर्ह्यादेशवचनं ज्ञापकम्- ‘अन्तरङ्गानपि विधीन् बहिरङ्गोऽपि लुग् बाधते’ इति। तेन गोमान् प्रियोऽस्य गोमत्प्रिय इत्येवमादौ नुमादि लुका बाध्यते। एवं च सति ‘त्वाहौ सौ’ (७.२.९४) इत्येवमादयोऽपि प्रत्ययोत्तरपदयोरादेशा न भवन्ति। त्वं प्रधानमेषां त्वत्प्रधानाः। मत्प्रधानाः। यूयं पुत्रा अस्य युष्मत्पुत्रः। अस्मत्पुत्रः। तुभ्यं हितं त्वद्धितम्। मद्धितम्। तव पुत्रः त्वत्पुत्रः। मत्पुत्रः। अथ किमर्थमेषां त्वाहादीनां बाधनार्थमेतद् न विज्ञायते? लक्ष्यस्थित्यपेक्षया। ज्ञापकार्थे ह्येतस्मिन् बहुतरमिष्टं संगृह्यते॥
त्रिचतुरोः स्त्रियां तिसृचतसृ ॥ ७.२.९९॥
त्रि चतुर् इत्येतयोःस्त्रियां वर्तमानयोस्तिसृ चतसृ इत्येतावादेशौ भवतो विभक्तौ परतः। तिस्रः। चतस्रः। तिसृभिः। चतसृभिः। स्त्रियामिति किम्? त्रयः। चत्वारः। त्रीणि। चत्वारि। स्त्रियामिति चैतत् त्रिचतुरोरेव विशेषणं नाङ्गस्य। तेन यदा त्रिचतुःशब्दौ स्त्रियाम्, अङ्गं तु लिङ्गान्तरे, तदाप्यादेशौ भवत एव। प्रियास्तिस्रो ब्राह्मण्योऽस्य ब्राह्मणस्य प्रियतिसा ब्राह्मणः, प्रियतिस्रौ, प्रियतिस्रः। प्रियतिसृ ब्राह्मणकुलम्, प्रियतिसृणी, प्रियतिसृणि। प्रियचतसा, प्रियचतस्रौ, प्रियचतस्रः। प्रियचतसृ, प्रियचतसृणी, प्रियचतसृणि। ‘नद्यृतश्च’ (५.४.१५३) इति समासान्तो न भवति, विभक्त्याश्रयत्वेन तिसृभावस्य बहिरङ्गलक्षणत्वात्। यता तु त्रिचतुःशब्दौ लिङ्गान्तरे, स्त्रियामङ्गम्, तदादेशौ न भवतः। प्रियास्त्रयोऽस्याः, प्रियाणि त्रीणि वा अस्या ब्राह्मण्याः, सा प्रियत्रिः, प्रियत्री, प्रियत्रयः, प्रियचत्वाः, प्रियचत्वारौ, प्रियचत्वारः॥ तिसृभावे संज्ञायां कन्युपसंख्यान कर्तव्यम्॥ तिसृका नाम ग्रामः॥ चतसर्याद्युदात्तनिपातनं कर्तव्यम्॥ चत॑स्रः पश्येत्यत्र ‘चतुरः शसि’ (६.१.१६७) इत्येष स्वरो मा भूत्। च॒त॒सृ॒णामित्यत्र तु ‘षट्त्रिचतुर्भ्यो हलादिः’ (६.१.१७९) इत्येव स्वरो भवति। हलादिग्रहणसामर्थ्याद् निपातनस्वरो बाध्यते॥
अचि र ऋतः ॥ ७.२.१००॥
तिसृ चतसृ इत्येतयोर्ऋतः स्थाने रेफादेशो भवत्यजादौ विभक्तौ परतः। तिस्रस्तिष्ठन्ति। तिस्रः पश्य। चतस्रस्तिष्ठन्ति। चतस्रः पश्य। प्रियतिस्र आनय। प्रियचतस्र आनय। प्रियतिस्रः स्वम्। प्रियचतस्रः स्वम्। प्रियतिस्रि निधेहि। प्रियचतस्रि निधेहि। पूर्वसवर्णोत्त्वङिसर्वनामस्थानगुणानामपवादः। परमपि ङिसर्वनामस्थानगुणं पूर्वविप्रतिषेधेन बाधते। अचीति किम्? तिसृभिः। चतसृभिः। ऋत इति किम्? तिसृचतस्रोः प्रतिपत्त्यर्थम्, अन्यथा हि तदपवादस्त्रिचतुरोरेवायमादेशो विज्ञायेत॥
जराया जरसन्यतरस्याम् ॥ ७.२.१०१॥
जरा इत्येतस्य जरसित्ययमादेशो भवत्यन्यतरस्यामजादौ विभक्तौ परतः। जरसा दन्ताः शीर्यन्ते, जरया दन्ताः शीर्यन्ते। जरसे त्वा परिदद्युः, जरायै त्वा परिदद्युः। अचीत्येव-जराभ्याम्। जराभिः। नुमो विधानाद् जरसादेशो भवति विप्रतिषेधेन। अतिजरांसि ब्राह्मणकुलानि। इहातिजरसं ब्राह्मणकुलं पश्येति लुग् न भवति, आनुपूर्व्या सिद्धत्वात्। अतिजर अम् इति स्थिते लुगम्भावो जरस्भाव इति त्रीणि कार्याणि युगपत् प्राप्नुवन्ति। तत्र लुक् तावदपवादत्वादम्भावेन बाध्यते, अम्भावोऽपि परत्वाद् जरसादेशेन। न च पुनर्लुक्शास्त्रं प्रवर्तते, भ्रष्टावसरत्वाद्, इत्येवमेव भवति अतिजरसं ब्राह्मणकुलं पश्येति। प्रथमैकवचने तृतीयाबहुवचने चातिजरं ब्राह्मणकुलं तिष्ठति, अतिजरैरिति च भवितव्यमिति गोनर्दीयमतेन। किं कारणम्? ‘संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य’इति। अन्ये त्वनित्यत्वादस्याः परिभाषाया अतिजरसं ब्राह्मणकुलं तिष्ठति, अतिजरसैरित्येवं भवितव्यमिति मन्यन्ते॥
त्यदादीनामः ॥ ७.२.१०२॥
त्यदित्येवमादीनामकारादेशो भवति विभक्तौ परतः। त्यद्- स्यः, त्यौ, त्ये। तद्-सः, तौ, ते। यद्-यः, यौ, ये। एतद्- एषः, एतौ, एते। इदम्-अयम्, इमौ, इमे। अदस्- असौ, अमू, अमी। द्वि-द्वौ, द्वाभ्याम्। द्विपर्यन्तानां त्यदादीनामत्वमिष्यते। इह न भवति- भवत्- भवान्। संज्ञोपसर्जनीभूतास्त्यदादयः पाठादेव पर्युदस्ता इतीह न भवति- त्यद्, त्यदौ, त्यदः। अतित्यद्, अतित्यदौ, अतित्यदः। त्यदादिप्रधाने तु शब्दे भवत्येव। परमसः, परमतौ, परमते॥
किमः कः ॥ ७.२.१०३॥
किम् इत्येतस्य क इत्ययमादेशो भवति विभक्तौ परतः। कः,कौ, के। साकच्कस्याप्ययमादेशो भवति, तेनाकार एव किमो न विधीयते- किमोऽदिति॥
कु तिहोः ॥ ७.२.१०४॥
तकारादौ हकारादौ च विभक्तौ परतः किमित्येतस्य कु इत्ययमादेशो भवति। कुतः। कुत्र। कुह। तिहोरितीकार उच्चारणार्थः॥
क्वाति ॥ ७.२.१०५॥
अतीत्येतस्यां विभक्तौ परतः किमित्येतस्य क्व इत्ययमादेशो भवति। क्व गमिष्यसि। क्व भोक्ष्यते। आदेशान्तरवचनम् ओर्गुण- (६.४.१४६)- निवृत्त्यर्थम्। किमो ड्वदिति प्रत्ययान्तरं न विधीयते, साकच्कार्थम्॥
तदोः सः सावनन्त्ययोः ॥ ७.२.१०६॥
त्यदादीनां तकारदकारयोरनन्त्ययोः सकारादेशो भवति सौ परतः। त्यद्-स्यः। तद्-सः। एतद्-एषः। अदस्- असौ। अनन्त्ययोरिति किम्? हे स। सा॥
अदस औ सुलोपश्च ॥ ७.२.१०७॥
अदसः सौ परतः सकारस्य औकारादेशो भवति, सोश्च लोपो भवति। असौ॥ औत्वप्रतिषेधः साकच्काद् वा वक्तव्यः सादुत्वं च॥ यदा चौत्वप्रतिषेधः तदा सकारादुत्तरस्योत्वं भवति। असुकः। असकौ॥ उत्तरपदभूतानां त्यदादीनामकृतसन्धीनामादेशा वक्तव्याः॥ परमाहम्। परमायम्। परमानेन।
अदसः सोर्भवेदौत्वं किं सुलोपो विधीयते।
ह्रस्वाल्लुप्येत संबुद्धिर्न हलः प्रकृतं हि तत् ॥ १॥
आप एत्वं भवेत्तस्मिन्न झलीत्यनुवर्तनात्।
प्रत्ययस्थाच्च कादित्वं शीभावश्च प्रसज्यते॥ २॥
इदमो मः ॥ ७.२.१०८॥
इदमः सौ परतो मकारोऽन्तादेशो भवति। इयम्। अयम्। इदमो मकारस्य मकारवचनं त्यदाद्यत्वबाधनार्थम्॥
दश्च ॥ ७.२.१०९॥
इदमो दकारस्य स्थाने मकारादेशो भवति विभक्तौ परतः। इमौ, इमे। इमम्, इमौ, इमान्॥
यः सौ ॥ ७.२.११०॥
इदमो दकारस्य यकारादेशो भवति सौ परतः। इयम्। उत्तरसूत्रे पुंसीति वचनात् स्त्रियामयं यकारः॥
इदोऽय् पुंसि ॥ ७.२.१११॥
इदम इद्रूपस्य पुंसि सौ परतोऽय् इत्ययमादेशो भवति। अयं ब्राह्मणः। पुंसीति किम्? इयं ब्राह्मणी॥
अनाप्यकः ॥ ७.२.११२॥
इदमोऽककारस्येद्रूपस्य स्थानेऽन् इत्ययमादेशो भवत्यापि विभक्तौ परतः। अनेन। अनयोः। अक इति किम्? इमकेन। इमकयोः। आपीति प्रत्याहारः तृतीयैकवचनात् प्रभृति सुपः पकारेण॥
हलि लोपः ॥ ७.२.११३॥
हलादौ विभक्तौ परत इदमोऽककारस्येद्रूपस्य लोपो भवति। आभ्याम्। एभिः। एभ्यः। एषाम्। एषु। ‘नानर्थकेऽलोन्त्यविधिः०’ इति सर्वस्यायमिद्रूपस्य लोपः। अथ वा नायमिल्लोपः। ‘अनाप्यकः’ (७.२.११२) इत्यन्ग्रहणमनुवर्तते॥
मृजेर्वृद्धिः ॥ ७.२.११४॥
विभक्ताविति निवृत्तम्। मृजेरङ्गस्येको वृद्धिर्भवति। मार्ष्टा। मार्ष्टुम्। मार्ष्टव्यम्। मृजेरिति धातुग्रहणमिदम्, ‘धातोश्च कार्यमुच्यमानं धातुप्रत्यय एव वेदितव्यम्’। तेन कंसपरिमृड्भ्याम्, कंसपरिमृड्भिरित्यत्र न भवति॥
अचो ञ्णिति ॥ ७.२.११५॥
अजन्तस्याङ्गस्य ञिति णिति च प्रत्यये वृद्धिर्भवति। ञिति- एकस्तण्डुलनिश्चायः। द्वौ शूर्पनिष्पावौ। कारः। हारः। णिति-गौः, गावौ, गावः। सखायौ, सखायः। जैत्रम्। यौत्रम्। च्यौत्नः जयतेर्यौतेश्च ‘उणादयो बहुलम्’ (३.३.१) इति ष्ट्रण् प्रत्ययः। च्यवतेरपि त्नण्॥
अत उपधायाः ॥ ७.२.११६॥
अङ्गोपधाया अकारस्य स्थाने ञिति णिति च प्रत्यये वृद्धिर्भवति। पाकः। त्यागः। यागः। पाचयति। पाचकः। पाठयति। पाठकः। अत इति किम्? भेदयति। भेदकः। उपधाया इति किम्? चकासयति। तक्षकः॥
तद्धितेष्वचामादेः ॥ ७.२.११७॥
तद्धिते ञिति णिति च प्रत्यये परतोऽङ्गस्याचामादेरचः स्थाने वृद्धिर्भवति। गार्ग्यः। वात्स्यः। दाक्षिः। प्लाक्षिः। णिति- औपगवः। कापटवः। त्वाष्ट्रः, जागत इत्यत्राचामादेर्वृद्धिरन्त्योपधालक्षणां वृद्धिं बाधते॥
किति च ॥ ७.२.११८॥
किति च तद्धिते परतोऽङ्गस्याचामादेरचः स्थाने वृद्धिर्भवति। ‘नडादिभ्यः फक्’ (४.१.९९)- नाडायनः। चारायणः। ‘प्राग् वहतेष्ठक्’ (४.४.१)- आक्षिकः। शालाकिकः॥
॥ इति श्रीवामनविरचितायां काशिकायां वृत्तौ सप्तमाध्यायस्य द्वितीयः पादः॥