अङ्गस्य ॥ ६.४.१॥
अधिकारोऽयमा सप्तमाध्यायपरिसमाप्तेः। यदित ऊर्ध्वमनुक्रमिष्यामोऽङ्गस्येत्येवं तद् वेदितव्यम्। वक्ष्यति- ‘हलः’ (६.४.२)-हूतः। जीनः। संवीतः। अङ्गस्येति किम्? निरुतम्। दुरुतम्। ‘नामि’ (६.४.३) दीर्घः-अग्नीनाम्। वायूनाम्। अङ्गस्येति किम्? क्रिमिणां पश्य। पामनां पश्य। ‘अतो भिस ऐस्’ (७.१.९)-वृक्षैः। प्लक्षैः। अङ्गस्येति किम्? ब्राह्मणभिस्सा। ओदनभिस्सिटा। अङ्गाधिकारः कृतोऽन्यार्थो नामि दीर्घत्वाद्यपि व्यवस्थापयतीति तदर्थम् अर्थवद्ग्रहणपरिभाषा (परि०१४) नाश्रयितव्या भवति। अङ्गस्येति संबन्धसामान्य एषा षष्ठी यथायोगं विशेषेष्ववतिष्ठते। अथवा प्रातिपदिकार्थमात्रमविवक्षितविभक्त्यर्थमधिक्रियते। तदुत्तरत्र यथायोगं विपरिणम्यते। ततोऽकारान्तादङ्गाद् भिस ऐसित्येवमाद्यपि सम्यक् संपन्नं भवति॥
हलः ॥ ६.४.२॥
अङ्गावयवाद्धलो यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति। हूतः। जीनः। संवीतः। हल इति किम्? उतः। उतवान्। अङ्गावयवादिति किम्? निरुतम्। तदन्तस्येति किम्? विद्धः। विचितः। अण इत्येव-तृतीयः। ‘०तृतीया’ (२.३.१८) इति वा निपातनादत्र दीर्घाभावः। अङ्गग्रहणमावर्तयितव्यं हल्विशेषणार्थम्, अङ्गकार्यप्रतिपत्त्यर्थं च॥
नामि ॥ ६.४.३॥
नामित्येतत् षष्ठीबहुवचनमागतनुट्कं गृह्यते। तस्मिन् परतोऽङ्गस्य दीर्घो भवति। अग्नीनाम्। वायूनाम्। कर्तृृणाम्। हर्तृृणाम्। अण इत्येतदत्र निवृत्तम्। आगतनुट्कग्रहणमुत्तरार्थम्, कृते च नुटि दीर्घप्रतिपत्त्यर्थम्। अन्यथा हि नुडेव न स्यात्।
नामि दीर्घ आमि चेत्स्यात् कृते दीर्घे न नुड् भवेत्।
वचनाद् यत्र तन्नास्ति नोपधायाश्च चर्मणाम्॥
न तिसृचतसृ ॥ ६.४.४॥
तिसृ चतसृ इत्येतयोर्नामि दीर्घो न भवति। तिसृणाम्। चतसृणाम्। इदमेव नामीति दीर्घप्रतिषेधवचनं ज्ञापकम्- ‘अचि र ऋतः’ (७.२.१००) इत्येतस्मात् पूर्वविप्रतिषेधेन नुडागमो भवतीति॥
छन्दस्युभयथा ॥ ६.४.५॥
छन्दसि विषये तिसृचतस्रोर्नामि परत उभयथा दृश्यते, दीर्घश्चादीर्घश्च। तिसृणां मध्यन्दिने (काठ० सं० २७.९), तिसृ॒णां (ऋ० ५.६९.२) मध्यदिने। चतसृणां (काठ० सं० २७.९) मध्यदिने, चतसृणां मध्यदिने॥
नृ च ॥ ६.४.६॥
नृ इत्येतस्य नामि पर उभयथा भवति। त्वं नृणां (पै० सं० २.१०.४) नृपते। त्वं नृ॒णां नृ॑पते (ऋ० २.१.१)। केचिदत्र छन्दसीति नानुवर्तयन्ति। तेन भाषायामपि विकल्पो भवति॥
नोपधायाः ॥ ६.४.७॥
नान्तस्याङ्गस्योपधाया नामि परतो दीर्घो भवति। पञ्चानाम्। सप्तानाम्। नवानाम्। दशानाम्। न इति किम्? चतुर्णाम्। नामीत्येव-चर्मणाम्॥
सर्वनामस्थाने चासंबुद्धौ ॥ ६.४.८॥
सर्वनामस्थाने च परतोऽसंबुद्धौ नोपधाया दीर्घो भवति। राजा, राजानौ, राजानः। राजानम्, राजानौ। सामानि तिष्ठन्ति। सामानि पश्य। सर्वनामस्थान इति किम्? राजनि। सामनि। असंबुद्धाविति किम्? हे राजन्। हे तक्षन्॥
वा षपूर्वस्य निगमे ॥ ६.४.९॥
षपूर्वस्याचो नोपधाया निगमविषये सर्वनामस्थाने परतोऽसंबुद्धौ वा दीर्घो भवति। स॑॑ त॑क्षा॒णं॒ ति॑ष्ठ॒न्तमब्रवी॒त् (मै० सं० २.४.१), स तक्षणं तिष्ठन्तमब्रवीत्। ऋभुक्षाणमिन्द्रम्, ऋ॒भु॒क्षण॒मिन्द्॒रम् (ऋ० १.१११.४)। निगम इति किम्? तक्षा, तक्षाणौ, तक्षाणः॥
सान्तमहतः संयोगस्य ॥ ६.४.१०॥
सकारान्तस्य संयोगस्य यो नकारः महतश्च तस्योपधाया दीर्घो भवति सर्वनामस्थाने परतोऽसंबुद्धौ। श्रेयान्, श्रेयांसौ, श्रेयांसः। श्रेयांसि। पयांसि। यशांसि। महतः खल्वपि-महान्, महान्तौ, महान्तः। असंबुद्धाविति किम्? हे श्रेयन्। हे महन्॥
अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तृणाम् ॥ ६.४.११॥
अप् इत्येतस्य तृनन्तस्य स्वसृ नप्तृ नेष्टृ त्वष्टृ क्षत्तृ होतृ पोतृ प्रशास्तृ इत्येतेषां चाङ्गानामुपधाया दीर्घो भवति सर्वनामस्थाने परतोऽसंबुद्धौ। अप्-आपः। बह्वाम्पि तडागानीति केचिदिच्छन्ति। तत्र ‘समासान्तो विधिरनित्यः’ (परि० ८४) इति समासान्तो न क्रियते। नित्यमपि च नुममकृत्वा दीर्घत्वमिष्यते। तृन्-कर्तारौ कटान्। वदितारौ जनापवादान्। कर्तारः। तृच्-कर्तारौ कटस्य। कर्तारः। हर्तारौ भारस्य। हर्तारः। स्वसृ-स्वसा, स्वसारौ, स्वसारः। नप्तृ-नप्ता, नप्तारौ, नप्तारः। नेष्टृ-नेष्टा, नेष्टारौ, नेष्टारः। त्वष्टृ-त्वष्टा, त्वष्टारौ, त्वष्टारः। क्षत्तृ-क्षत्ता, क्षत्तारौ, क्षत्तारः। होतृ-होता, होतारौ, होतारः। पोतृ-पोता, पोतारौ, पोतारः। प्रशास्तृ-प्रशास्ता, प्रशास्तारौ, प्रशास्तारः। नप्त्रादीनां ग्रहणमव्युत्पत्तिपक्षे विध्यर्थम्। व्युत्पत्तिपक्षे नियमार्थम्, एवंभूतानामन्येषां संज्ञाशब्दानां दीर्घो मा भूदिति। पितरौ, पितरः। मातरौ, मातरः। असंबुद्धाविति किम्? हे कर्तः। हे स्वसः॥
इन्हन्पूषार्यम्णां शौ ॥ ६.४.१२॥
इन् हन् पूषन् अर्यमन् इत्येवमन्तानामङ्गानां शौ परत उपधाया दीर्घो भवति। बहुदण्डीनि। बहुच्छत्रीणि। बहुवृत्रहाणि। बहुभ्रूणहानि। बहुपूषाणि। बह्वर्यमाणि। सिद्धे सत्यारम्भो नियमार्थः-इन्हन्पूषार्यम्णामुपधायाः शावेव दीर्घो भवति नान्यत्र। दण्डिनौ। छत्रिणौ। वृत्रहणौ। पूषणौ। अर्यमणौ।
दीर्घविधिर्य इहेन्प्रभृतीनां तं विनियम्य सुटीति सुविद्वान्।
शौ नियमं पुनरेव विदध्याद् भ्रूणहनीति तथास्य न दुष्येत्॥
शास्मि निवर्त्य सुटीत्यविशेषे शौ नियमं कुरु वाप्यसमीक्ष्य।
दीर्घविधेरुपधानियमान्मे हन्त यि दीर्घविधौ च न दोषः॥
सुट्यपि वा प्रकृतेऽनवकाशः शौ नियमोऽप्रकृतप्रतिषेधे।
यस्य हि शौ नियमः सुटि नैतत्तेन न तत्र भवेद्विनियम्यम्॥
हन्तेः ‘अनुनासिकस्य क्विझलोः क्ङिति’ (६.४.१५) इति दीर्घत्वं यत्, तदपि नियमेन बाध्यते-वृत्रहणि, भ्रूणहनीति। कथम्? योगविभागः क्रियते। इन्हन्पूषार्यम्णां सर्वनामस्थान एव दीर्घो भवति, नान्यत्रेति। ततः शाविति द्वितीयो नियमः। शावेव सर्वनामस्थाने दीर्घो भवति, नान्यत्रेति। सर्वस्योपधालक्षणस्य दीर्घस्य नियमेन निवृत्तिः क्रियते। यस्तु न उपधालक्षणः स भवत्येव। वृत्रहायते। भ्रूणहायते। अथ वानुवर्तमानेऽपि सर्वनामस्थानग्रहणे सामर्थ्यादयमविशेषेण नियमः। शिशब्दो हि सर्वनामस्थानं नपुंसकस्य, न च तस्यान्यत् सर्वनामस्थानमस्तीत्यविशेषेण नियमः। तत्र तु नपुंसकस्येत्येतद् नाश्रीयते तेनानपुंसकस्यापि दीर्घो न भवति। सर्वनामस्थानसंज्ञाविधाने तु नपुंसकस्य व्यापारोऽस्तीति तत्र नियमः क्रियमाणो नपुंसकस्य स्यात्॥
सौ च ॥ ६.४.१३॥
सावसंबुद्धौ परत इन्हन्पूषार्यम्णामुपधाया दीर्घो भवति। दण्डी। वृत्रहा। पूषा अर्यमा। असंबुद्धाविति किम्? हे दण्डिन्। हे वृत्रहन्। हे पूषन् । हे अर्यमन्॥
अत्वसन्तस्य चाधातोः ॥ ६.४.१४॥
अतु अस् इत्येवमन्तस्य अधातोरुपधायाः सावसंबुद्धौ परतो दीर्घो भवति। डवतुभवान्। क्तवतु-कृतवान्। मतुप्-गोमान्। यवमान् । अत्र कृते दीर्घे नुमागमः कर्तव्यः। यदि हि परत्वाद् नित्यत्वात् च नुम् स्यात्, दीर्घस्य निमित्तमजुपधा विहन्येत। असन्तस्य-सुपयाः। सुयशाः। सुस्रोताः। अधातोरिति किम्? पिण्डं ग्रसत इति पिण्डग्रः। चर्म वस्त इति चर्मवः। अनर्थकोऽप्यस्शब्दो गृह्यते, ‘अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति’ (परि० १६) इति। अन्तग्रहणमुपदेशप्रयोगैकदेशस्याप्यत्वन्तस्य परिग्रहार्थम्। अन्यथा मतुपो ग्रहणं न स्यात्, उपदेशे रूपनिर्ग्रहहेतौ नायमत्वन्त इति। असंबुद्धावित्येव-हे गोमन्। हे सुपयः॥
अनुनासिकस्य क्विझलोः क्ङिति ॥ ६.४.१५॥
अनुनासिकान्तस्याङ्गस्य उपधाया दीर्घो भवति क्विप्रत्यये परतो झलादौ च क्ङिति। प्रशान्। प्रतान्। झलादौ किति-शान्तः। शान्तवान्। शान्त्वा। शान्तिः। ङिति खल्वपि-शंशान्तः। तन्तान्तः। यङ्लुगन्तादयं तस्। अनुनासिकस्येति किम्? ओदनपक् । पक्वः। पक्ववान्। क्विझलोरिति किम्? गम्यते। रम्यते। क्ङितीति किम्? गन्ता। रन्ता॥
अज्झनगमां सनि ॥ ६.४.१६॥
अजन्तानामङ्गानां हनिगम्योश्च सनि झलादौ परे दीर्घो भवति। अजन्तानाम्-विवीषति। तुष्टूषति। चिकीर्षति। जिहीर्षति। हन्-जिघांसति। गम्-अधिजिगांसते ॥गमेरिङादेशस्येति वक्तव्यम्॥ इह मा भूत्-संजिगंसते वत्सो मात्रेति। स्वर्गं लोकं समजिगांसद् इति छन्दसि यदनिङादेशस्यापि दीर्घत्वं दृश्यते, तद् ‘अन्येषामपि दृश्यते’ (६.३.१३७) इत्यनेन भवति। अथ वा इहाज्ग्रहणं न कर्तव्यम्। सनि दीर्घो भवतीत्येतावदेव सूत्रं कर्तव्यम्, तत्राचा गृह्यमाणस्य विशेषणे सति सिद्धमजन्तस्य दीर्घत्वम्। तत् क्रियते प्रवृत्तिभेदेन गमेरपि विशेषणार्थम्-अजन्तस्याङ्गस्य दीर्घो भवति, अजादेशस्य गमेरिति। ततो न वक्तव्यमिदं गमेरिङादेशस्येति॥
तनोतेर्विभाषा ॥ ६.४.१७॥
तनोतेरङ्गस्य सनि झलादौ विभाषा दीर्घो भवति। तितांसति, तितंसति। झलीत्येव-तितनिषति। ‘सनीवन्तर्ध०’ (७.२.४९) इत्यत्र तनोतेरुपसंख्यानादिडागमो भवति विकल्पेन॥
क्रमश्च क्त्वि ॥ ६.४.१८॥
क्रम उपधाया विभाषा दीर्घो भवति क्त्वाप्रत्यये झलादौ परतः। क्रन्त्वा, क्रान्त्वा। झलीत्येव-क्रमित्वा। प्रक्रम्य, उपक्रम्येति ‘बहिरङ्गोऽपि ल्यबादेशोऽन्तरङ्गानपि विधीन् बाधते’ इति पूर्वमेव दीर्घत्वं न प्रवर्तते॥
च्छ्वोः शूडनुनासिके च ॥ ६.४.१९॥
छ इत्येतस्य सतुक्कस्य वकारस्य च स्थाने यथासंख्यं श् ऊठ् इत्येतावादेशौ भवतः, अनुनासिकादौ प्रत्यये परतः क्वौ झलादौ च क्ङिति। प्रश्नः। विश्नः। अन्तरङ्गत्वाच् ‘छे च’ (६.१.७३) इति तुकि कृते सतुक्कस्य शादेशः। वकारस्य ऊठ्-स्योनः। सिवेरौणादिके नप्रत्यये (प० उ० ३.९) लघूपधगुणात् पूर्वमूठ् क्रियते। तत्र कृतेऽन्तरङ्गत्वाद् यणादेशो नानाश्रयत्वात् च न ‘वार्णादाङ्गं बलीयः’ (परि० ५५) भवति। क्वौ छस्य-शब्दप्राट्। ‘क्विब् वचि०’ (प०उ० २.५८) इत्यादिनौणादिकः क्विप् दीर्घश्च। गोविट्। वकारस्य-अक्षद्यूः। हिरण्यष्ठ्यूः। ‘असिद्धं बहिरङ्गमन्तरङ्गे’ इति ‘नाजानन्तर्ये०’ इति प्रतिषिध्यते। झलादौ छस्य-पृष्टः। पृष्टवान्। पृष्ट्वा। वकारस्य-द्यूतः। द्यूतवान्। द्यूत्वा। क्ङितीत्येव - द्युभ्याम्। द्युभिः। केचिदत्र क्ङितीति नानुवर्तयन्ति। कथं द्युभ्यां द्युभिरिति? ऊठि कृते, ‘दिव उत्’ (६.१.१३१) इति तपरत्वाद् मात्राकालो भविष्यति। छशां षः (८.२.३६) इत्यत्र छग्रहणं न कर्तव्यम्, अनेनैव हि सर्वत्र शकारो विधीयते। ऊठष्ठित्करणम् ‘एत्येधत्यूठ्सु’ (६.१.८९) इति विशेषणार्थम्। ‘वाह ऊठ्’ (६.४.१३२) इत्ययमपि ठिदेव॥
ज्वरत्वरस्रिव्यविमवामुपधायाश्च ॥ ६.४.२०॥
ज्वर त्वर स्रिवि अव मव इत्येतेषामङ्गानां वकारस्य उपधायाश्च स्थान ऊडित्ययमादेशो भवति क्वौ परतोऽनुनासिके झलादौ च क्ङिति। जूः, जूरौ, जूरः। जूर्तिः। त्वर-तूः, तूरौ, तूरः। तूर्तिः। स्रिवि-स्रूः, स्रुवौ, स्रुवः। स्रूतः। स्रूतवान्। स्रूतिः। अव-ऊः, उवौ, उवः। ऊतिः। मव-मूः, मुवौ, मुवः। मूतिः। ज्वरत्वरोरुपधा वकारात् परा, स्रिव्यवमवां पूर्वा॥
राल्लोपः ॥ ६.४.२१॥
रेफादुत्तरयोश्छ्वोर्लोपो भवति क्वौ परतो झलादौ क्ङिति च परतः। मुर्छा-मूः, मुरौ, मुरः। मूर्तः। मूर्तवान्। मूर्तिः। ‘न ध्याख्यापृमूर्च्छिमदाम् (८.२.५७) इति निष्ठानत्वाभावः। हुर्छा-हूः, हुरौ, हुरः। हूर्णः। हूर्णवान्। हूर्तिः। राल्लोपे सतुक्कस्य छस्याभावात् केवलो गृह्यते। वकारस्य-तुर्वी-तूः, तुरौ, तुरः। तूर्णः। तूर्णवान्। तूर्तिः। धुर्वी-धूः, धुरौ, धुरः। धूर्णः। धूर्णवान्। धूर्तिः॥
असिद्धवदत्रा भात् ॥ ६.४.२२॥
असिद्धवदित्ययमधिकारः। यदित ऊर्ध्वमनुक्रमिष्याम आ अध्यायपरिसमाप्तेस्तद् असिद्धवद् भवतीत्येवं वेदितव्यम्। आ भादिति विषयनिर्देशः। आ भसंशब्दनाद् यदुच्यते तत्र कर्तव्ये। अत्रेति समानाश्रयत्वप्रतिपत्त्यर्थम्। तच्चेदत्र भवति, यत्र तदाभाच्छास्त्रीयं विधीयते तदाश्रयमेव भवति। व्याश्रयं तु नासिद्धवद् भवतीत्यर्थः। असिद्धवचनमुत्सर्गलक्षणभावार्थम्, आदेशलक्षणप्रतिषेधार्थं च। एधि, शाधीत्यत्र एत्वशाभावयोः कृतयोर्झल्लक्षणं धित्वं न प्राप्नोति, असिद्धत्वाद् भवति। आगहि, जहीत्यत्रानुनासिकलोपे जभावे च ‘अतो हेः’ (६.४.१०५) इति लुक् प्राप्नोति, असिद्धत्वाद् न भवति। आ भादिति किम्? अभाजि। रागः। ‘अत उपधायाः’ (७.२.११६) इति वृद्धौ कर्तव्यायां नलोपो नासिद्धो भवति। अत्रग्रहणं किम् ? पपुषः पश्य। चिच्युषः पश्य। लुलुवुषः पश्य। वसुसंप्रसारणमाल्लोपे यणादेश उवङादेशे च कर्तव्ये नासिद्धं भवति। आल्लोपादीनि वसौ, वस्वन्तस्य विभक्तौ संप्रसारणमिति समानाश्रयत्वं नास्ति। ‘असिद्धं बहिरङ्गमन्तरङ्गे’ इत्येतदप्यत्र न भवति। किं कारणम्? एषा हि परिभाषा आभाच्छास्त्रीया। तस्यां प्रवर्तमानायां वसुसंप्रसारणादीनामाभाच्छास्त्रीयाणामेवासिद्धत्वादन्तरङ्गबहिरङ्गयोर्युगपत् समुपस्थानं नास्तीति परिभाषा न प्रवर्तते॥ वुग्युटावुवङ्यणोः सिद्धौ भवत इति वक्तव्यम्॥ वुग् उवङादेशे-बभूव, बभूवतुः, बभुवुः। युट् यणादेशे-उपदिदीये, उपदिदीयाते, उपदिदीयिरे। आ भादित्ययमभिविधावाङ्। तेन भाधिकारेऽप्यसिद्धवद् भवति॥
श्नान्नलोपः ॥ ६.४.२३॥
श्नादिति श्नमयमुत्सृष्टकारो गृह्यते। तत उत्तरस्य नकारस्य लोपो भवति। अनक्ति। भनक्ति। हिनस्ति। शकारवतो ग्रहणं किम्? यज्ञानाम्। यत्नानाम्। ‘सुपि च’ (७.३.१०२) इति परत्वात् कृतेऽपि दीर्घत्वे स्थानिवद्भावाद् नलोपः स्यादेव। विश्नानां प्रश्नानामित्यत्र ‘लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव०’ इत्येवं न भवति॥
अनिदितां हल उपधायाः क्ङिति ॥ ६.४.२४॥
अनिदितामङ्गानां हलन्तानामुपधाया नकारस्य लोपो भवति क्ङिति प्रत्यये परतः। स्रस्तः। ध्वस्तः। स्रस्यते। ध्वस्यते। सनीस्रस्यते। दनीध्वस्यते। अनिदितामिति किम्? नन्द्यते। नानन्द्यते। हल इति किम्? नीयते। नेनीयते। उपधाया इति किम्? नह्यते । नानह्यते। क्ङितीति किम्? स्रंसिता। ध्वसिता॥ अनिदितां नलोपे लङ्गिकम्प्योरुपतापशरीरविकारयोरुपसंख्यानं कर्तव्यम्॥ विलगितः। विकपितः। उपतापशरीरविकारयोरिति किम्? विलङ्गितः। विकम्पितः॥ रञ्जेर्णौ मृगरमण उपसंख्यानं कर्तव्यम्॥ रजयति मृगान्। ‘जनीजृष्क्नसुरञ्जोऽमन्ताश्च’ इति मित्त्वादुपधाह्रस्वत्वम्। मृगरमण इति किम्? रञ्जयति वस्त्राणि॥ घिनुणि च रञ्जेरुपसंख्यानं कर्तव्यम्॥ रागी। त्यजरजभज० (३.२.१४२) इति निपातनाद् वा सिद्धम्॥ रजकरजनरजःसूपसंख्यानं कर्तव्यम्॥ रजकः। रजनम्। रजः॥
दंशसञ्जस्वञ्जां शपि॥ ६.४.२५॥
दंश सञ्ज ष्वञ्ज इत्येतेषामङ्गानां शपि परत उपधाया नकारस्य लोपो भवति। दशति। सजति। परिष्वजते॥
रञ्जेश्च॥ ६.४.२६॥
रञ्जेश्च शपि परत उपधाया नकारस्य लोपो भवति। रजति, रजतः, रजन्ति। पृथग्योगकरणमुत्तरार्थम्॥
घञि च भावकरणयोः॥ ६.४.२७॥
भावकरणवाचिनि घञि परतो रञ्जेरुपधाया नकारस्य लोपो भवति। भावे-आश्चर्यो रागः। विचित्रो रागः। करणे-रज्यतेऽनेनेति रागः। भावकरणयोरिति किम्? रजन्ति तस्मिन्निति रङ्गः॥
स्यदो जवे॥ ६.४.२८॥
जवेऽभिधेये स्यद इति घञि निपात्यते। स्यन्देर्नलोपो वृद्ध्यभावश्च। इक्प्रकरणाद् ‘न धातुलोप०’ (१.१.४) इति प्रतिषेधो नास्ति। गोस्यदः। अश्वस्यदः। जव इति किम्? तैलस्यन्दः। घृतस्यन्दः॥
अवोदैधौद्मप्रश्रथहिमश्रथाः॥ ६.४.२९॥
अवोद एध ओद्म प्रश्रथ हिमश्रथ इत्येते निपात्यन्ते। अवोद इत्युन्देरवपूर्वस्य घञि नलोपो निपात्यते। अवोदः। एध इति इन्धेर्घञि नलोपो गुणश्च निपात्यते। ‘न धातुलोप आर्धधातुके’ (१.१.४) इति हि प्रतिषेधः स्यात्। एधः। ओद्म इति उन्देरौणादिके मन्प्रत्यये नलोपो गुणश्च निपात्यते। प्रश्रथः। हिमश्रथ इति हिमपूर्वस्य श्रन्थेर्घञ्येव निपातनम्। हिमश्रथः॥
नाञ्चेः पूजायाम्॥ ६.४.३०॥
अञ्चेः पूजायामर्थे नकारस्य लोपो न भवति। अञ्चिता अस्य गुरवः। अञ्चितमिव शिरो वहति। ‘अञ्चेः पूजायाम्’ (७.२.५३) इति इडागमः। पूजायामिति किम्? उदक्तमुदकं कूपात्। उद्धृतमित्यर्थः। ‘यस्य विभाषा’ (७.२.१५) इतीट्प्रतिषेधः॥
क्त्वि स्कन्दिस्यन्दोः॥ ६.४.३१॥
क्त्वाप्रत्यये परतः स्कन्द स्यन्द इत्येतयोर्नकारलोपो न भवति। स्कन्त्वा। स्यन्त्वा। स्यन्देरूदित्त्वात् पक्ष इडागमः(७.२.४४)। स्यन्दित्वा। तत्र यदा इडागमस्तदा ‘न क्त्वा सेट्’ (१.२.१८) इति कित्त्वप्रतिषेधादेव नलोपाभावः॥
जान्तनशां विभाषा॥ ६.४.३२॥
जान्तानामङ्गानां नशेश्च क्त्वाप्रत्यये परतो विभाषा नकारलोपो न भवति। रङ्क्त्वा, रक्त्वा। भङ्क्त्वा, भक्त्वा। नशः- नंष्ट्वा,नष्ट्वा। इट्पक्षे नशित्वा॥
भञ्जेश्च चिणि॥ ६.४.३३॥
भञ्जेश्च चिणि परतो विभाषा नकारलोपो भवति। अभाजि, अभञ्जि। अप्राप्तोऽयं नलोपः पक्षे विधीयते। ततो नेति नानुवर्तते॥
शास इदङ्हलोः॥ ६.४.३४॥
शास उपधाया इकारादेशो भवति अङि परतो हलादौ च क्ङिति। अन्वशिषत्, अन्वशिषताम्, अन्वशिषन्। हलादौ किति-शिष्टः। शिष्टवान्। ङिति- आवां शिष्वः। वयं शिष्मः। इत्वे कृते ‘शासिवसिघसीनां च’ (८.३.६०) इति षत्वम्। अङ्हलोरिति किम्? शासति। शशासतुः, शशासुः॥ क्वौ च शास इत्त्वं भवतीति वक्तव्यम्॥ आर्यान् शास्तीति। मित्रशीः। यस्मात् शासेरङ् विहितः ‘शासु अनुशिष्टौ’ इति तस्यैवेदं ग्रहणमिष्यते। ‘आङः शासु इच्छायाम्’ इत्यस्य न भवति। आशास्ते। आशास्यमानः॥ क्विप्प्रत्यये तु तस्यापि भवतीति वक्तव्यम्॥ आशीः, आशिषौ, आशिषः। ‘क्षियाशीःप्रैषेषु तिङाकाङ्क्षम्’ (८.२.१०४) इति निपातनाद् वा सिद्धम्॥
शा हौ॥ ६.४.३५॥
शासो हौ परतःशा इत्ययमादेशो भवति। अनुशाधि। प्रशाधि। उपधाया इति निवृत्तम्, ततः शास इति स्थानेयोगा (१.१.४९) षष्ठी भवति। क्ङितीत्येतदपि निवृत्तम्। तेन यदा ‘वा छन्दसि’ (३.४.८८) इति पित्त्वं हिशब्दस्य, तदाप्यादेशो भवत्येव। शाधीत्याद्युदात्तमपि छन्दसि दृश्यते॥
हन्तेर्जः॥ ६.४.३६॥
हन्तेर्धातोर्ज इत्ययमादेशो भवति हौ परतः। ज॒हि शत्रू॒न् (ऋ० ३.४७.२)॥
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति॥ ६.४.३७॥
अनुदात्तोपदेशानाम् अनुनासिकान्तानाम् अङ्गानां वनतेस्तनोत्यादीनां च लोपो भवति झलादौ क्ङिति प्रत्यये परतः। यमु-यत्वा। यतः। यतवान्। यतिः। रमु-रत्वा। रतः। रतवान्। रतिः। अनुदात्तोपदेशा अनुनासिकान्ता यमिरमिनमिगमिहनिमन्यतयः। वनति-वतिः। क्ति नो रूपमेतत्। क्तिचि तु ‘न क्तिचि दीर्घश्च’ (६.४.३९) इति भवति। अन्यत्र झलादाविटा भवितव्यम्। तनोत्यादयः- ततः। ततवान्। सनोतेरात्वं वक्ष्यति (६.४.४२)। क्षणु-क्षतः। क्षतवान्। ऋणु-ऋतः। ऋतवान्। तृणु-तृतः। तृतवान्। घृणु-घृतः। घृतवान्। वनु-वतः। वतवान्। मनु-मतः। मतवान्। ङिति-अतत। अतथाः। अनुदात्तोपदेशवनतितनोत्यादीनामिति किम्? शान्तः। शान्तवान्। तान्तः। तान्तवान्। दान्तः। दान्तवान्। अनुनासिकस्येति किम्? पक्वः। पक्ववान्। झलीति किम्? गम्यते। रम्यते। क्ङितीति किम्? यन्ता। यन्तव्यम्। उपदेशग्रहणं किम्? इह च यथा स्यात्-गतिः। इह च मा भूत्-शान्तः। शान्तवानिति॥
वा ल्यपि॥ ६.४.३८॥
ल्यपि परतोऽनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो वा भवति। व्यवस्थितविभाषा (परि०९९) चेयम्। तेन मकारान्तानां विकल्पो भवति, अन्यत्र नित्यमेव लोपः। प्रयत्य, प्रयम्य। प्ररत्य, प्ररम्य। प्रणत्य, प्रणम्य। आगत्य, आगम्य। आहत्य। प्रमत्य। प्रवत्य। प्रक्षत्य॥
न क्तिचि दीर्घश्च॥ ६.४.३९॥
क्ति चि परतोऽनुदात्तोपदेशादीनामनुनासिकलोपो दीर्घश्च न भवति। यन्तिः। वन्तिः। तन्तिः। अनुनासिकलोपे प्रतिषद्धे ‘अनुनासिकस्य क्विझलोः क्ङिति’ (६.४.१५) इति दीर्घः प्राप्नोति, सोऽपि प्रतिषिध्यते॥
गमः क्वौ॥ ६.४.४०॥
गमः क्वौ परतोऽनुनासिकलोपो भवति। अङ्गगत्। कलिङ्गगत्। अ॒ध्व॒गतो॒ हर॑यः (शौ०सं०१३.१.३६)॥ गमादीनामिति वक्त व्यम्॥ इहापि यथा स्यात्-संयत्। परीतत् ॥ ऊ च गमादीनामिति वक्तव्यम्॥ अ॒ग्रे॒गूः (तै०सं० १.१.५.१)। अग्रेभूः॥
विड्वनोरनुनासिकस्यात्॥ ६.४.४१॥
विटि वनि च प्रत्यये परतोऽनुनासिकान्तस्याङ्गस्याकार आदेशो भवति। अ॒ब्जा गो॒जा ऋ॑त॒जा अ॑दि्॒रजाः (ऋ० ४.४०.५) । गो॒षा इ॑न्दो नृ॒षा अ॑सि (ऋ० सं० ९.२.१०)। कूपखाः। शतखाः। सहस्रखाः। दधिक्राः। अग्रेगा उन्नेतृणाम्। ‘जनसनखनक्रमगमो विट्’ (३.२.६७) इति विट् प्रत्ययः। ‘सनोतेरनः’ (८.३.१०६) इति षत्वं गो॒षा इ॑न्दो नृ॒षा अ॑सीत्यत्र। वन् विजावा। अग्रेजावा। ‘अन्येभ्योऽपि दृश्यन्ते’ (३.२.७५) इति वनिप् प्रत्ययः। अनुनासिकस्येति वर्तमाने पुनरनुनासिकग्रहणमनुनाकिमात्रपरिग्रहार्थम्, अन्यथा ह्यनुदात्तोपदेशवनतितनोत्यादीनामेव स्यात्॥
जनसनखनां सञ्झलोः ॥ ६.४.४२॥
झलि क्ङिति इति चानुवर्तते। जन सन खन इत्येतेषामङ्गानां सनि झलादौ क्ङिति झलादौ प्रत्यये परत आकार आदेशो भवति। जन्-जातः। जातवान्। जातिः। सन्-सनि-सिषासति। सातः। सातवान्। सातिः। खन्-खात्ः। खातवान्। खातिः। झल्ग्रहणं सन्विशेषणार्थं किमर्थमनुवर्त्यते? इह मा भूत्- जिजनिषति। सिसनिषति। चिखनिषति। सनोतेः ‘सनीवन्तर्ध०’ (७.२.४९) इति पक्ष इडागमः। तदिह सनोत्यर्थमेव सन्ग्रहणम्। अत्र झलादौ क्ङिति सनोतेर्विप्रतिषेधाद् आत्वमनुनासिकलोपं बाधते। ‘घुमास्थागापाजहातिसां हलि’ (६.४.६६) इति हल्ग्रहणं ज्ञापकम्-अस्मिन्नसिद्धप्रकरणे विप्रतिषेधो भवतीति॥
ये विभाषा ॥ ६.४.४३॥
यकारादौ क्ङिति प्रत्यये परतो जनसनखनामाकार आदेशो भवति विभाषा। जायते, जन्यते। जाजायते, जञ्जन्यते। सायते, सन्यते। सासायते, संसन्यते। खायते, खन्यते। चाखायते, चङ्खन्यते। जनेः श्यनि ‘ज्ञाजनोर्जा’ (७.३.७९) इति नित्यं जादेशो भवति॥
तनोतेर्यकि ॥ ६.४.४४॥
तनोतेर्यकि परतो विभाषा आकार आदेशो भवति। तायते, तन्यते। यकीति किम्? तन्तन्यते॥
सनः क्ति चि लोपश्चास्यान्यतरस्याम् ॥ ६.४.४५॥
सनोतेरङ्गस्य क्ति चि प्रत्यये परत आकार आदेशो भवति, लोपश्चास्यान्यतरस्याम्। सातिः, सन्तिः, सतिः। अन्यतरस्यांग्रहणं विस्पष्टार्थम्। येसंबद्धं हि विभाषाग्रहणमिह निवृत्तमित्याशङ्क्येत॥
आर्धधातुके॥ ६.४.४६॥
आर्धधातुक इत्यधिकारः। ‘न ल्यपि’ (६.४.६९) इति प्रागेतस्माद् यदित ऊर्ध्वमनुक्रमिष्याम आर्धधातुक इत्येवं तद् वेदितव्यम्। वक्ष्यति-‘अतो लोपः’ (६.४.८)- चिकीर्षिता । जिहीर्षिता। आर्धधातुक इति किम्? भवति, भवतः। अदिप्रभृतिभ्यः शपो लुग्वचनं (२.४.७२) प्रत्ययलोपलक्षणप्रतिषेधार्थं स्यादित्येतद् न ज्ञापकं शपो लोपाभावस्य। ‘यस्य हलः’ (६.४.४९)- बेभिदिता। बेभिदितुम्। बेभिदितव्यम् आर्धधातुक इति किम्? बेभिद्यते। ‘णेरनिटि’ (६.४.५१)-कारणा। हारणा। आर्धधातुक इति किम्? कारयति। हारयति। ‘आतो लोप इटि च’ (६.४.६४) ययतुः, ययुः। ववतुः, ववुः। आर्धधातुक इति किम्? यान्ति। वान्ति। ‘घुमास्थागापाजहातिसां हलि’ (६.४.६६)- दीयते। धीयते। आर्धधातुक इति किम्? अदाताम्। अधाताम्। ‘वान्यस्य संयोगादेः’ (६.४.६८)- स्नेयात् स्नायात्। आर्धधातुक इति किम्? स्नायात्। आशीर्लिङोऽन्यत्र न भवति। ‘स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च’ (६.४.६२)- कारिषीष्ट। हारिषीष्ट। आर्धधातुक इति किम्? क्रि येत। ह्रियेत। यगन्तस्याजन्तत्वात् चिण्वद्भावे सति वृद्धिः स्यात्, ततश्च युक् प्रसज्येत।
अतो लोपो यलोपश्च णिलोपश्च प्रयोजनम्।
आल्लोप ईत्वमेत्वं च चिण्वद्भावश्च सीयुटि॥
भ्रस्जो रोपधयो रमन्यतरस्याम्॥ ६.४.४७॥
भ्रस्जो रेफस्योपधायाश्च रमन्यतरस्यां भवति। रोपधयोरिति स्थानषष्ठीनिर्देशादुपधा रेफश्च निवर्तेते, मित्त्वात् चायमचोऽन्त्यात् परो भवति।भ्रष्टा, भर्ष्टा। भ्रष्टुम्, भर्ष्टुम्। भ्रष्टव्यम्, भर्ष्टव्यम्। भ्रज्जनम्, भर्जनम्। भृष्टः, भृष्टवानित्यत्र पूर्वविप्रतिषेधेन संप्रसारणं भवति। उपदेश इत्येव-बरीभृज्ज्यते॥
अतो लोपः॥ ६.४.४८॥
अकारान्तस्यार्धधातुके लोपो भवति। चिकीर्षिता। चिकीर्षितुम्। चिकीर्षितव्यम्। धिनुतः। कृणुतः। अत इति किम्? चेता। स्तोता। तपरकरणं किम्? याता। वाता। आर्धधातुक इति किम्? वृक्षत्वम्। वृक्षता। वृद्धिदीर्घाभ्यामतो लोपः पूर्वविप्रतिषेधेन। चिकीर्षकः। जिहीर्षकः। चिकीर्ष्यते। जिहीर्ष्यते॥
यस्य हलः॥ ६.४.४९॥
हल उत्तरस्य यशब्दस्यार्धधातुके लोपो भवति। बेभिदिता। बेभिदितुम्। बेभिदितव्यम्। यस्येति संघातग्रहणमेतत्। तत्र ‘अलोऽन्त्यस्य’ (१.१.५२) इत्येतद् न भवति, ‘अतो लोपः’ (६.४.४८) इत्यनेनैव तस्य सिद्धत्वात्। हल इति वा पञ्चमीनिर्देशः, तत्र ‘आदेः परस्य’ (१.१.५४) इति यकारोऽनेन लुप्यते। संघातग्रहणं किम्? ईर्ष्यिता। मव्यिता। हल इति किम्? लोलूयिता। पोपूयिता॥
क्यस्य विभाषा॥ ६.४.५०॥
क्यस्य हल उत्तरस्य विभाषा लोपो भवत्यार्धधातुके। समिध्यिता, समिधिता। दृषद्यिता, दृषदिता। समिधमात्मन इच्छति, समिद् इवाचरति इति वा क्यच्क्यङौ यथायोगं कर्तव्यौ॥
णेरनिटि॥ ६.४.५१॥
अनिडादावार्धधातुके णेर्लोपो भवति। इयङ्यण्गुणवृद्धिदीर्घाणामपवादः। अततक्षत्। अररक्षत्। आशिशत्। आटिटत्। कारणा। हारणा। कारकः। हारकः। कार्यते। हार्यते। ज्ञीप्सति। अनिटीति किम्? कारयिता। हारयिता॥
निष्ठायां सेटि॥ ६.४.५२॥
निष्ठायां सेटि परतो णेर्लोपो भवति। कारितम्। हारितम्। गणितम्। लक्षितम्। सेटीति किम्? संज्ञपितः पशुः। सेड्ग्रह्णसामर्थ्यादिह पूर्वेणापि न भवति। ‘सनीवन्तर्ध०’ (७.२.४९) इति ज्ञपेरिटि विकल्पिते ‘यस्य विभाषा’ (७.२.१५) इति निष्ठायां प्रतिषेधः। अथ पुनरेकाच इति तत्रानुवर्तते। तदा नित्यमत्र भवितव्यमेवेडागमेनेति सेड्ग्रहणमनर्थकम्? तत् क्रियते कालावधारणार्थम्, इडागमे कृते णिलोपो यथा स्यात्। अकृते हि तत्र णिलोपे सति कारितमित्यत्र ‘एकाच उपदेशेऽनुदात्तात्’(७.२.१०) इतीटः प्रतिषेधः प्रसज्येत॥
जनिता मन्त्रे॥ ६.४.५३॥
जनितेति मन्त्रविषय इडादौ णिलोपो निपात्यते। यो नः पिता जनिता (ऋ० १०.८२.३)। मन्त्र इति किम् ? जनयिता॥
शमिता यज्ञे॥ ६.४.५४॥
यज्ञकर्मणि शमितेति इडादौ तृचि णिलोपो निपात्यते। शृ॒तं ह॒वि३ः श॑मितः (तै०सं० ६.३.१०.१)। तृचि संबुध्यन्तमेतत्। यज्ञ इति किम्? शृतं हविः शमयितः॥
अयामन्ताल्वाय्येत्न्विष्णुषु॥ ६.४.५५॥
आम् अन्त आलु आय्य इत्नु इष्णु इत्येतेषु परतो णेरयादेशो भवति। कारयांचकार। हारयांचकार। अन्त-गण्डयन्तः। मण्डयन्तः। आलु-स्पृहयालुः। गृहयालुः। आय्य-स्पृ॒ह॒याय्यः॑ (ऋ० ६.१५.१२)। गृहयाय्यः। इत्नु-स्तनयित्नुः। इष्णु-पोषयिष्णवः। पारयिष्णवः। नेति वक्त व्येऽयादेशवचनमुत्तरार्थम्॥
ल्यपि लघुपूर्वात्॥ ६.४.५६॥
ल्यपि परतो लघुपूर्वाद् वर्णाद् उत्तरस्य णेरयादेशो भवति। प्रणमय्य, प्रतमय्य, प्रदमय्य, प्रशमय्य, संदमय्य गतः। प्रबेभिदय्य गतः। प्रगणय्य गतः। ह्रस्वयलोपाल्लोपानामसिद्धत्वं न भवत्यसमानाश्रयत्वात् ह्रस्वादयो हि णौ, ल्यपि णेरयादेशो भवति। लघुपूर्वादिति किम् ? प्रपात्य गतः॥
विभाषापः॥ ६.४.५७॥
आप उत्तरस्य णेर्ल्यपि परतो विभाषायादेशो भवति। प्रापय्य गतः, प्राप्य गतः। इङादेशस्य लाक्षणिकत्वाद् न भवति। अध्याप्य गतः॥
युप्लुवोर्दीर्घश्छन्दसि॥ ६.४.५८॥
यु प्लु इत्येतयोर्ल्यपि परतश्छन्दसि विषये दीर्घो भवति। दान्त्य॑नुपू॒र्वं वि॒यूय॑ (ऋ० १०.१३.१.२)। यत्रापो दक्षिणा परिप्लूय (काठ० सं० २५.३) छन्दसीति किम्? संयुत्य। आप्लुत्य॥
क्षियः॥ ६.४.५९॥
क्षियश्च दीर्घो भवति ल्यपि परतः। प्रक्षीय॥
निष्ठायामण्यदर्थे॥ ६.४.६०॥
ण्यतः कृत्यस्यार्थो भावकर्मणी, ताभ्यामन्यत्र या निष्ठा, तस्यां क्षियो दीर्घो भवति। आक्षीणः। प्रक्षीणः। परिक्षीणः। अकर्मकत्वात् क्षियः कर्तरि क्तः। प्रक्षीणमिदं देवदत्तस्येति ‘क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः’(३.४.७६) इत्यधिकरणे क्त ः। अण्यदर्थ इति किम्? अक्षि॑तमसि॒ मा मे॑क्षेष्ठाः (तै०सं० १.६.५.१)। क्षितमिति भावे दीर्घाभावात् ‘क्षियो दीर्घात्’ (८.२.४६) इति निष्ठानत्वमपि न भवति॥
वाक्रोशदैन्ययोः॥ ६.४.६१॥
आक्रोशे गम्यमाने दैन्ये च क्षियो निष्ठायामण्यदर्थे वा दीर्घो भवति। क्षितायुरेधि, क्षीणायुरेधि। दैन्ये-क्षितकः, क्षीणकः। क्षितोऽयं तपस्वी, क्षीणोऽयं तपस्वी॥
स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वटिट् च ॥ ६.४.६२॥
स्य सिच् सीयुट् तासि इत्येतेषु भावकर्मविषयेषु परत उपदेशेऽजन्तानामङ्गानां हन् ग्रह दृश् इत्येतेषां च चिण्वत् कार्यं भवति वा। यदा चिण्वत् तदेडागमो भवति। कस्य? स्यसिच्सीयुट्तासीनामेवेति वेदितव्यम्। ते हि प्रकृ ताः। अङ्गस्य तु लक्ष्यविरोधाद् न क्रियते। कानि पुनरस्य योगस्य प्रयोजनानि ?
चिण्वद् वृद्धिर्युक्च हन्तेश्च घत्वं दीर्घश्चोक्तो यो मितां वा चिणीति।
इट् चासिद्धस्तेन में लुप्यते णिर्नित्यश्चायं वल्निमित्तो विघाती॥
अजन्तानां तावत्- चायिष्यते, चेष्यते। अचायिष्यत, अचेष्यत। दायिष्यते, दास्यते। अदायिष्यत, अदास्यत। शामिष्यते, शमिष्यते, शमयिष्यते। अशामिष्यत, अशमिष्यत, अशमयिष्यत। हन्- घानिष्यते, हनिष्यते। अघानिष्यत, अहनिष्यत। ग्रह-ग्राहिष्यते, ग्रहीष्यते। अग्राहिष्यत,अग्रहीष्यत। ‘ग्रहोऽलिटि दीर्घः’ (७.२.३७) इति प्रकृतस्येटो दीर्घत्वम्। दृश्-दर्शिष्यते, द्रक्ष्यते। अदर्शिष्यत, अद्रक्ष्यत। सिच्यजन्तानाम्- अचायिषाताम् अचेषाताम्। अदायिषाताम्, अदिषाताम्। अशामिषाताम्, अशमिषाताम्, अशमयिषाताम्। हन्-अघानिषाताम् ,अवधिषाताम्,अहसाताम्। ग्रह-अग्राहिषाताम्,अग्रहीषाताम्। दृश- अदर्शिषाताम्, अदृक्षाताम्। सीयुट्यजन्तानाम्- चायिषीष्ट, चेषीष्ट। दायिषीष्ट, दासीष्ट। शामिषीष्ट। शमिषीष्ट, शमयिषीष्ट। हन्-घानिषीष्ट ,वधिषीष्ट।ग्रह-ग्राहिषीष्ट,ग्रहीषीष्ट। दृश्-दर्शिषीष्ट,दृक्षीष्ट। तासावजन्तानाम्-चायिता,चेता। दायिता,दाता। शामिता,शमिता,शमयिता। हन् - घानिता, हन्ता। ग्रह-ग्राहिता,ग्रहीता। दृश्-दर्शिता, द्रष्टा। स्यसिच्सीयुट्तासिष्विति किम् ? चेतव्यम्। दातव्यम्। भावकर्मणोरिति किम्? चेष्यति। दास्यति। उपदेश इति किम्? कारिष्यत इति गुणे कृते रपरत्वे च न प्राप्नोति, उपदेशग्रहणाद् भवति। अज्झनग्रहदृशामिति किम्? पठिष्यते। अङ्गाधिकारविहितं कार्यमिहातिदिश्यते । तेन हनिणिङामादेशा न भवन्ति। हनिष्यते,घानिष्यते। एष्यते, आयिष्यते। अध्येष्यते, अध्यायिष्यते। ‘हनो वध लिङि’, ‘लुङि च’ (२.४.४२,४३), ‘इणो गा लुङि’ (२.४.४५), ‘विभाषा लुङ्ऌङोः’ (२.४.५०) इत्येते विधयो न भवन्ति ॥
दीङो युडचि क्ङिति ॥ ६.४.६३॥
दीङो युडागमो भवत्यजादौ क्ङिति प्रत्यये परतः। उपदिदीये, उपदिदीयाते, उपदिदीयिरे। दीङ इति पञ्चमीनिर्देशादजादेर्युडागमो भवति। विधानसामर्थ्यात् च ‘एरनेकाचः०’ (६.४.८२) इति यणादेशे कर्तव्ये तस्यासिद्धत्वं न भवति। अचीति किम्? उपदेदीयते। क्ङितीति किम्? उपदानम्॥
आतो लोप इटि च ॥ ६.४.६४॥
इट्यजादावार्धधातुके क्ङिति चाकारान्तस्याङ्गस्य लोपो भवति। इटि-पपिथ। तस्थिथ। किति-पपतुः, पपुः। तस्थतुः, तस्थुः। गोदः। कम्बलदः। ङिति-प्रदा। प्रधा। आर्धधातुक इत्येव-यान्ति। वान्ति। व्यत्यरे। व्यत्यले। रातेर्लातेश्च लङीटि रूपम्। अचीत्येव-ग्लायते। दासीय॥
ईद्यति ॥ ६.४.६५॥
ईकार आदेशो भवत्याकारान्तस्याङ्गस्य यति परतः। देयम्। धेयम्। हेयम्। स्तेयम्॥
घुमास्थागापाजहातिसां हलि ॥ ६.४.६६॥
घुसंज्ञकानामङ्गानां मा स्था गा पा जहाति सा इत्येतेषां हलादौ क्ङिति प्रत्यये परत ईकारादेशो भवति। दीयते। धीयते। देदीयते। देधीयते। मीयते। मेमीयते। स्थीयते। तेष्ठीयते। गीयते। जेगीयते। अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत। पीयते। पेपीयते। पातेरिह ग्रहणं नास्ति, लुग्विकरणत्वात् । पायत इत्येव तस्य भवति। हीयते। जेहीयते। जहातेरिह निर्देशाद् जिहातेर्ग्रहणं न भवति। हायते। ‘षोऽन्तकर्मणि’-अवसीयते। अवसेषीयते। हलीति किम्? ददतुः। ददुः। आतोलोपाद्धि परत्वादीत्वं स्यात्। एतदेव हल्ग्रहणं ज्ञापकमस्मिन् प्रकरणे विप्रतिषेधे नासिद्धत्वं भवति। क्ङितीत्येव-दाता। धाता॥
एर्लिङि॥ ६.४.६७॥
घुमास्थागापाजहातिसामङ्गानां लिङि परत एकारादेशो भवति। देयात्। धेयात्। मेयात्। स्थेयात्। गेयात्। पेयात्। हेयात्। अवसेयात्। क्ङितीत्येव-दासीष्ट। धासीष्ट॥
वान्यस्य संयोगादेः॥ ६.४.६८॥
घ्वादिभ्योऽन्यस्य संयोगादेराकारान्तस्य वैकारादेशो भवति लिङि परतः। ग्लेयात्,ग्लायात्। म्लेयात्,म्लायात्। अन्यस्येति किम् ? स्थेयात्। संयोगादेरिति किम् ? यायात्। क्ङितीत्येव-ग्लासीष्ट। अङ्गस्येत्येव-निर्वायात्॥
न ल्यपि॥ ६.४.६९॥
ल्यपि प्रत्यये परतो घुमास्थागापाजहातिसां यदुक्त ं तद् न भवति। प्रदाय। प्रधाय। प्रमाय। प्रस्थाय। प्रगाय। प्रपाय। प्रहाय। अवसाय॥
मयतेरिदन्यतरस्याम्॥ ६.४.७०॥
मयतेरिकारादेशो वा भवति ल्यपि परतः। अपमित्य, अपमाय ॥
लुङ्लङ्लृङ्क्ष्वडुदात्तः ॥ ६.४.७१॥
लुङ् लङ् लृङ् इत्येतेषु परतोऽङ्गस्याडागमो भवति, उदात्तश्च स भवति । लुङ्-अकार्षीत्। अहार्षीत्। लङ्-अकरोत्। अहरत्। लृङ्-अकरिष्यत्। अहरिष्यत्॥
आडजादीनाम् ॥ ६.४.७२॥
आडागमो भवत्यजादीनां लुङ्लङ्ऌङ्क्षु परतः, उदात्तश्च स भवति। ऐक्षिष्ट। ऐहिष्ट। औब्जीत्। औम्भीत्। लङ्-ऐक्षत। ऐहत। औब्जत्। औम्भत्। लृङ्-ऐक्षिष्यत। ऐहिष्यत। औब्जिष्यत्। औम्भिष्यत्। इह ऐज्यत औप्यत औह्यतेति लङि कृते लावस्थायामडागमादन्तरङ्गत्वाद् लादेशः क्रियते। तत्र कृते विकरणो नित्यत्वादडागमं बाधते। शब्दान्तरप्राप्तेरडागमस्यानित्यत्वम्, कृते हि विकरणान्तस्याङ्गस्य तेन भवितव्यम्,अकृते तु धातुमात्रस्य। ‘शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति’(परि०४२), न तु शब्दान्तरादिति विकरणो नित्यः। विकरणे कृते संप्रसारणमडागमाद् नित्यत्वादेव भवति, संप्रसारणे च कृतेऽजाद्यङ्गं जातमिति आडजादीनामित्याडागमः॥
छन्दस्यपि दृश्यते ॥ ६.४.७३॥
छन्दसि विषय आडागमो दृश्यते। यत्र हि विहितस्ततोऽन्यत्रापि दृश्यते। ‘आडजादीनाम्’ (६.४.७२) इत्युक्त मनजादीनामपि दृश्यते। सु॒रुचो॑ वे॒न आ॑वः (मा०सं० १३.३)। आनक्। आयुनक्। आव इति वृञो लुङि ‘मन्त्रे घसह्वर०’ (२.४.८०) इति लेर्लुकि कृते च भवति। तथा आनगिति नशेः। आयुनगिति युजेर्लङि॥
न माङ्योगे ॥ ६.४.७४॥
माङ्योगे लुङ्लङ्लृङ्क्षु यदुक्त ं तन्न भवति। मा भवान् कार्षीत्। मा भवान् हार्षीत्। मा स्म करोत्। मा स्म हरत् । मा भवानीहिष्ट। मा भवानीक्षिष्ट। मा स्म भवानीहत। मा स्म भवानीक्षत ॥
बहुलं छन्दस्यमाङ्योगेऽपि ॥ ६.४.७५॥
छन्दसि विषये माङ्योगेऽपि बहुलमडाटौ भवतः, अमाङ्योगेऽपि न भवतः। अमाङ्योगे तावत्-जनि॑ष्ठा उ॒ग्रः (ऋ० १०.७३.१)। काम॑मूनयीः(ऋ० १.५३.३)। काममर्दयीत्। माङ्योगेऽपि भवतः। मा वः क्षेत्रे परबीजान्यवाप्सुः (आप०ध० २.६.१३.६)। मा अभित्थाः। मा आवः॥
इरयो रे ॥ ६.४.७६॥
इर इत्येतस्य छन्दसि विषये बहुलं रे इत्ययमादेशो भवति। गभ॑ ᐀्ं प्रथ॒मं द॑ध्॒र आपः॒ (ऋ० १०.८२.५)। या॑श्च॒ परि॒द॑दृ॒श्रे (मै०सं० ४.४.१)। धाञो रेभावस्यासिद्धत्वादातो लोपः (६.४.६४) भवति। न च भवति-परमाया धियोऽग्निकर्माणि चक्रिरे। अत्र रेशब्दस्य सेटां धातूनामिटि कृते पुना रेभावः क्रियते, तदर्थं च इरयोरित्ययं द्विवचननिर्देशः॥
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ॥ ६.४.७७॥
श्नुप्रत्ययान्तस्याङ्गस्य धातोरिवर्णोवर्णान्तस्य भ्रू इत्येतस्य च इयङ् उवङ् इत्येतावादेशौ भवतोऽजादौ प्रत्यये परतः। आप्नुवन्ति। राध्नुवन्ति। शक्नुवन्ति। धातोः-चिक्षियतुः, चिक्षियुः। लुलुवतुः, लुलुवः। नियौ,नियः।लुवौ,लुवः। भ्रुवौ, भ्रुवः। अचीति किम्? आप्नुयात्। शक्नुयात्। राध्नुयात्। श्नुधातुभ्रुवामिति किम् ? लक्ष्म्यै। वध्वै। य्वोरिति किम्? चक्रतुः, चक्रुः। इयङुवङ्भ्यां गुणवृद्धी भवतो विप्रतिषेधेन। चयनम्। चायकः।लवनम्। लावकः॥ इयङुवङ्प्रकरणे तन्वादीनां छन्दसि बहुलमुपसंख्यानं कर्तव्यम्॥ त॒न्वं॑ (शौ० सं० ५.३.१) पुषेम। त॒नुवं॑ (तै० सं० १.५.५.४) पुषेम। विष्वं पुषेम। विषुवं पुषेम। स्वर्गो लोकः। सु॒व॒र्गः (तै०सं० १.५.७.१) लोकः। त्र्य॑म्बकं यजामहे (तै०सं० १.८.६.२)। त्रियम्बकं यजामहे॥
अभ्यासस्यासवर्णे ॥ ६.४.७८॥
अभ्यासस्येवर्णोवर्णान्तस्यासवर्णेऽचि परत इयङ् उवङ् इत्येतावादेशौ भवतः। इयेष। उवोष। इयर्ति। असवर्ण इति किम्? ईषतुः, ईषुः। ऊषतुः, ऊषुः। अचीत्येव-इयाज। उवाप॥
स्त्रियाः ॥ ६.४.७९॥
स्त्री इत्येतस्याजादौ प्रत्यये परत इयङादेशो भवति। स्त्री, स्त्रियौ, स्त्रियः। स्त्रीणामित्यत्र परत्वाद् नुडागमः। पृथग्योगकरणमुत्तरार्थम्॥
वाम्शसोः ॥ ६.४.८०॥
अमि शसि परतः स्त्रिया वेयङादेशो भवति। स्त्रीं पश्य, स्त्रियं पश्य। स्त्रीः पश्य, स्त्रियः पश्य॥
इणो यण् ॥ ६.४.८१॥
इणोऽङ्गस्य यणादेशो भवत्यचि परतः। यन्ति। यन्तु। आयन्। इयङादेशापवादोऽयम्। ‘मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते’ इति गुणवृद्धिभ्यां परत्वादयं बाध्यते। अयनम्। आयकः॥
एरनेकाचोऽसंयोगपूर्वस्य ॥ ६.४.८२॥
धातोरिति वर्तते, तेन संयोगो विशेष्यते। धातोरवयवः संयोगः पूर्वो यस्मादिवर्णाद् न भवत्यसावसंयोगपूर्वः, तदन्तस्याङ्गस्यानेकाचोऽचि परतो यणादेशो भवति। निन्यतुः, निन्युः। उन्न्यौ, उन्न्यः। ग्रामण्यौ, ग्रामण्यः। एरिति किम्? असंयोगपूर्वग्रहणमिवर्णविशेषणं यथा स्याद्, अङ्गविशेषणं मा भूदिति। लुलुवतुः, लुलुवुः इत्येतत् तु ‘ओः सुपि’ (६.४.८३) इति नियमादपि सिध्यति। अनेकाच इति किम्? नियौ, नियः। असंयोगपूर्वस्येति किम्? यवक्रियौ, यवक्रियः। धातुना संयोगविशेषणं किम् ? इहापि न स्याद्। उन्न्यौ, उन्न्य इति । गतिकारकाभ्यामन्यपूर्वस्य नेष्यते। परमनियौ, परमनिय इति॥
ओः सुपि ॥ ६.४.८३॥
धात्ववयवः संयोगः पूर्वो यस्मादुवर्णाद् न भवति, तदन्तस्याङ्गस्यानेकाचोऽजादौ सुपि परतो यणादेशो भवति। खलप्वौ, खलप्वः। शतस्वौ, शतस्वः. सकृल्ल्वौ, सकृल्ल्वः। सुपीति किम्? लुलुवतुः, लुलुवुः। अनेकाच इत्येव-लुवौ, लुवः। असंयोगपूर्वस्येत्येव- कटप्रुवौ, कटप्रुवः। गतिकारकाभ्यामन्यपूर्वस्य नेष्यत इत्येव-परमलुवौ, परमलुवः॥
वर्षाभ्वश्च॥ ६.४.८४॥
वर्षाभू इत्येतस्याजादौ सुपि परतो यणादेशो भवति। वर्षाभ्वौ, वर्षाभ्वः॥ पुनर्भ्वश्चेति वक्त व्यम् ॥ पुनर्भ्वौ, पुनर्भ्वः। कारापूर्वस्यापीष्यते। काराभ्वौ, काराभ्वः॥
न भूसुधियोः॥ ६.४.८५॥
भू सुधी इत्येतयोर्यणादेशो न भवति। प्रतिभुवौ, प्रतिभुवः। सुधियौ, सुधियः॥
छन्दस्युभयथा॥ ६.४.८६॥
छन्दसि विषये भू सुधी इत्येतयोरुभयथा दृश्यते। वने॑षु चि॒त्रं वि॒भ्वं॑ वि॒शे (ऋ० ४.७.१)। वि॒भुवं॑ वि॒शे (तै०सं० १.५.५.१)। सु॒ध्यो॒३॒॑नव्य॑मग्ने (ऋ० ६.१.७)। सु॒धियो॒ नव्य॑मग्ने (तै० ब्रा० ३.६.१०.३)॥
हुश्नुवोः सार्वधातुके॥ ६.४.८७॥
हु इत्येतस्याङ्गस्य श्नुप्रत्ययान्तस्य चानेकाचोऽसंयोगपूर्वस्याजादौ सार्वधातुके परतो यणादेशो भवति। जुह्वति। जुह्वतु। जुह्वत्। सुन्वन्ति। सुन्वन्तु। असुन्वन्। हुश्नुवोरिति किम्? योयुवति। रोरुवति। इदमेव हुश्नुग्रहणं ज्ञापकं भाषायामपि यङ्लुगस्तीति। छन्दसि ‘छन्दस्युभयथा’ (३.४.११७) इत्यार्धधातुकत्वादेव यणादेशस्याप्रसङ्गः। न च यङ्लुगन्तादन्यत् प्रत्युदाहरणमुवर्णान्तमनेकाजसंयोगपूर्वं सार्वधातुके विद्यते। सार्वधातुक इति किम्? जुहुवतुः जुहुवुः। असंयोगपूर्वस्येत्येव-आप्नुवन्ति। राध्नुवन्ति॥
भुवो वुग् लुङ्लिटोः॥ ६.४.८८॥
भुवो वुगागमो भवति लुङि लिटि चाजादौ परतः। अभूवन्। अभूवम्। लिटि-बभूव, बभूवतुः, बभूवुः॥
ऊ दुपधाया गोहः॥ ६.४.८९॥
गोहोऽङ्गस्योपधाया ऊ कारादेशो भवत्यजादौ प्रत्यये परतः। निगूहयति। निगूहकः। साधुनिगूही। निगूहंनिगूहम्। निगूहन्ति। गूहो वर्तते। उपाधाया इति किम् ? अलोऽन्त्यस्य (१.१.५२) मा भूत्। गोह इति विकृतग्रहणं विषयार्थम्। यत्रास्यैतद्रूपं तत्रैव यथा स्याद्, इह मा भूत्-निजुगुहतुः, निजुगुहुः। अयादेशप्रतिषेधार्थं च केचिदिच्छन्ति। निगूह्य गत इत्यूत्त्वस्यासिद्धत्वाद् ‘ल्यपि लघुपूर्वात्’ (६.४.५६) इति णेरयादेशः स्यात्। व्याश्रयत्वादेवासिद्धत्वमत्र नास्ति। णावूत्त्वम् ण्यन्तस्य च ल्यप्ययादेश इति। अचीत्येव-निगोढा। निगोढुम्॥
दोषो णौ॥ ६.४.९०॥
दोष उपधाया ऊकार आदेशो भवति णौ परतः। दूषयति, दूषयतः, दूषयन्ति। विकृतग्रहणं प्रक्रमाभेदार्थम्। पूर्वत्र हि गोह इत्युक्त म्। णाविति किम् ? दोषो वर्तते।
वा चित्तविरागे॥ ६.४.९१॥
चित्तविकारार्थे दोष उपधाया वा ऊकारादेशो भवति णौ परतः। चित्तं दूषयति, चित्तं दोषयति। प्रज्ञां दूषयति, प्रज्ञां दोषयति॥
मितां ह्रस्वः॥ ६.४.९२॥
मितो धातवो ‘घटादयो मितः’ इत्येवमादयो ये प्रतिपादिताः, तेषामुपधाया ह्रस्वो भवति णौ परतः। घटयति। व्यथयति। जनयति। रजयति। शमयति। ज्ञपयति। केचिदत्र वेत्यनुवर्तयन्ति। सा च व्यवस्थितविभाषा । तेन उत्क्रामयति, संक्रामयतीत्येवमादि सिद्धं भवति॥
चिण्णमुलोर्दीर्घोऽन्यतरस्याम्॥ ६.४.९३॥
चिण्परे णमुल्परे च णौ परतो मितामङ्गानामुपधाया दीर्घो भवत्यन्यतरस्याम्। अशमि, अशामि। अतमि, अतामि। शमंशमम्, शामंशामम्। तमंतमम् ,तामंतामम्। दीर्घग्रहणं किम्, न ह्रस्वविकल्प एव विधीयते ? नैवं शक्यम्, शमयन्तं प्रयुङ्क्त इति द्वितीये णिचि ह्रस्वविकल्पो न स्यात्, णिलोपस्य स्थानिवद्भावात्, दीर्घविधौ त्वजादेशो न स्थानिवत्। शमयन्तं प्रयुक्तवान्। अशमि,अशामि। शमंशमम्, शामंशामम्। शंशमयतेः-अशंशमि, अशंशामि। शंशमंशंशमम्, शंशामंशंशामम् । योऽसौ णौ णिर्लुप्यते, यश्च यङकारः, तयोर्दीर्घविधावादेशो न स्थानिवत् (१.१.५८) भवतीत्यस्थानिवद्भावाद् दीर्घः सिद्धो भवति। ह्रस्वविकल्पे तु विधीयमाने स्थानिवद्भावः स्यात्। णिण्यन्ते यङ्ण्यन्ते त्वसिद्धिरेव। व्याश्रयत्वादसिद्धत्वमपि नास्ति। णौ हि णियङोर्लोपः, चिण्णमुल्परे णावङ्गस्य दीर्घत्वम् ॥
खचि ह्रस्वः॥ ६.४.९४॥
खच्परे णौ परतो ह्रस्वो भवत्यङ्गस्योपधायाः। द्विषंतपः। परंतपः पुरंदरः॥
ह्लादो निष्ठायाम्॥ ६.४.९५॥
ह्लादोऽङ्गस्योपधाया ह्रस्वो भवति निष्ठायां परतः। प्रह्लन्नः। प्रह्लन्नवान्। निष्ठायामिति किम्? प्रह्लादयति। ह्लाद इति योगविभागः क्रियते, क्ति न्यपि यथा स्यात् प्र्रह्लत्तिरिति॥
छादेर्घेऽद्व्युपसर्गस्य॥ ६.४.९६॥
छादेरङ्गस्याद्व्युपसर्गस्य घप्रत्यये परत उपधाया ह्रस्वो भवति। उरश्छदः। प्रच्छदः। दन्तच्छदः। णिलोपस्यासिद्धत्वं स्थानिवद्भावो वा वचनसामर्थ्यादत्र न भवतीति ह्रस्वभाविन्युपधा भवति। अद्व्युपसर्गस्येति किम्? समुपच्छादः॥ अद्विप्रभृत्युपसर्गस्येति वक्तव्यम्॥ समुपातिच्छादः उत्तरा हि संख्या पूर्वसंख्याकृतं व्यपदेशं निवर्तयति। न हि त्रिपुत्रो द्विपुत्र इति व्यपदिश्यते॥
इस्मन्त्रन्क्विषु च॥ ६.४.९७॥
इस् मन् त्रन् क्वि इत्येतेषु परतश्छादेरुपधाया ह्रस्वो भवति। छदिः। छद्म। छत्त्रम्। धामच्छत्। उपच्छत्॥
गमहनजनखनघसां लोपः क्ङित्यनङि॥ ६.४.९८॥
गम हन जन खन घस इत्येतेषामङ्गानामुपधाया लोपो भवत्यजादौ प्रत्यये क्ङित्यनङि परतः। जग्मतुः, जग्मुः। जघ्नतुः, जघ्नुः। जज्ञे, जज्ञाते, जज्ञिरे। चख्नतुः, चख्नुः। जक्षतुः, जक्षुः। अक्ष॑न् पि॒तरोऽमी॑मदन्त पि॒तरः॑ (मा०सं० १९.३६)। क्ङितीति किम्? गमनम्। हननम्। अनङीति किम्। अगमत्। अघसत्। अचीत्येव-गम्यते। हन्यते॥
तनिपत्योश्छन्दसि॥ ६.४.९९॥
तनि पति इत्येतयोश्छन्दसि विषय उपधाया लोपो भवत्यजादौ क्ङिति प्रत्यये परतः। वित॑त्निरे क॒वयः॑ (ऋ० १.१६४.५)। श॒कु॒ना इ॑व पप्तिम (ऋ० ९.१०७.२०)। छन्दसीति किम्? वितेनिरे। पेतिम॥
घसिभसोर्हलि च॥ ६.४.१००॥
घसि भस इत्येतयोश्छन्दसि उपधाया लोपो भवति हलादावजादौ च क्ङिति प्रत्यये परतः। सग्धि॑श्च मे॒ सपी॑तिश्च मे (मा०सं० १८.९)। ब॒ब्धां ते॒ हरी॑ धा॒नाः (निरु० ५.१२)। सग्धिरित्यदेः क्ति नि ‘बहुलं छन्दसि’ (२.४.३९) इति घस्लादेश उपधाया लोपे च कृते ‘झलो झलि’ (८.२.२६) इति सकारलोपः। धत्वं तकारस्य, जश्त्वं घकारस्य। ततः समाना ग्धिः सग्धिरिति समासे कृते समानस्य सभावः (६.३.८४)। बब्धामिति भसेर्लोटि तामि श्लौ द्विर्वचने कृत उपधालोपसलोपधत्वजश्त्वानि कर्तव्यानि। द्विर्वचनात् परत्वाद् नित्यत्वात् चोपधालोपः प्राप्नोति, छान्दसत्वात् स तथा न क्रियते। अजादौ-बप्सति। क्ङितीत्येव-अं॒शून् ब॑भस्ति (शौ० सं० ६.४९.२)॥
हुझल्भ्यो हेर्धिः॥ ६.४.१०१॥
हु इत्येतस्माद् झलन्तेभ्यश्चोत्तरस्य हलादेर्हेः स्थाने धिरादेशो भवति। जुहुधि। झलन्तेभ्यः-भिन्द्धि। छिन्द्धि। हुझल्भ्य इति किम्? क्रीणीहि। प्रीणीहि। हेरिति किम्? जुहुताम्। हलीत्येव- रुदिहि। स्वपिहि। इह जुहुतात्, भिन्तात् त्वमिति परत्वात् तातङि कृते ‘सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेव’ इति पुनर्धिभावो न भवति। भिन्द्धकि छिन्द्धकीत्यत्र परत्वाद् धिभावे कृते ‘पुनः प्रसङ्गविज्ञानाद्’ अकच् क्रियते॥
श्रुशृणुपृकृवृभ्यश्छन्दसि॥ ६.४.१०२॥
श्रु शृणु पृ कृ वृ इत्येतेभ्य उत्तरस्य हेर्धिरादेशो भवति छन्दसि विषये। श्रु॒धी हव॑मिन्द्॒र (ऋ० २.११.१)। गिरः॑ शृणु॒धी (ऋ० ८.१३.७)। पू॒र्धि (ऋ० ८.७८.१०)। उ॒रु ण॑स्कृधि (ऋ० ८.७५.११)। अपा॑ वृधि (ऋ० १.७.६)। शृणुधीत्यत्र धिभावविधानसामर्थ्याद् ‘उतश्च प्रत्ययाद्०’ (६.४.१०६) इति हेर्लुग् न भवति। ‘अन्येषामपि दृश्यते’ (६.३.१३७) इति दीर्घत्वम्। अतोऽन्यत्र ‘व्यत्ययो बहुलम्’ (३.१.८५) इति शप्, तस्य ‘बहुलं छन्दसि’ (२.४.७३) इति लुक्॥
अङितश्च॥ ६.४.१०३॥
अङितश्च हेर्धिरादेशो भवति। ‘वा छन्दसि’ (३.४.८८) इति पित्त्वेनास्याङित्त्वम्। सोम॑ रार॒न्धि (ऋ० १.९१.१३)। अ॒स्मभ्यं॒ तद्ध॑र्यश्व॒ प्रय॑न्धि (ऋ० ३.३६.९)। यु॒यो॒ध्य१॒॑स्मज्जु॑हुरा॒णमेनः॑ (ऋ० १.१८९.१)। अङित इति किम् ? हव्यं प्रीणीहि (काठ०सं० ४०.१२)। रारन्धीति रमेर्व्यत्ययेन परस्मैपदम्, शपः श्लुरभ्यासदीर्घत्वं छान्दसत्वात्। मलोपाभावस्तु अङित्त्वादेव. प्रयन्धीति यमेः शपो लुक्। युयोधीति यौतेः शपः श्लुः॥
चिणो लुक्॥ ६.४.१०४॥
चिण उत्तरस्य प्रत्ययस्य लुग् भवति। अकारि। अहारि। अलावि। अपाचि। अकारितराम् अहारितमामित्यत्र तलोपस्यासिद्धत्वात् तरप्तमपोर्न लुग् भवति, चिणो लुगित्येतद् विषयभेदाद् भिद्यते॥
अतो हेः॥ ६.४.१०५॥
अकारान्तादङ्गादुत्तरस्य हेर्लुग् भवति। पच। पठ। गच्छ। धाव। अत इति किम्? युहि। रुहि। तपरकरणं किम् ? लुनीहि। पुनीहि। ईत्वस्यासिद्धत्वादाकार एव भवति॥
उतश्च प्रत्ययादसंयोगपूर्वात्॥ ६.४.१०६॥
उकारो योऽसंयोगपूर्वस्तदन्तात् प्रत्ययादुत्तरस्य हेर्लुग् भवति। चिनु। सुनु। कुरु। उत इति किम् ? लुनीहि। पुनीहि। प्रत्ययादिति किम्? युहि। रुहि। असंयोगपूर्वादिति किम् ? प्राप्नुहि। राध्नुहि। तक्ष्णुहि॥ उतश्च प्रत्ययाच्छन्दोवावचनम् ॥ उतश्च प्रत्ययादित्यत्र छन्दसि वेति वक्त व्यम्। आतनुहि यातुधानान् । धिनुहि यज्ञपतिम् (काठ० सं० १.६)। तेन॑ मा भ॒गिनं॑ कृ॒णु (शौ० सं० ६.१२९.२)॥
लोपश्चास्यान्यतरस्यां म्वोः॥ ६.४.१०७॥
योऽयमुकारोऽसंयोगपूर्वस्तदन्तस्य प्रत्ययस्यान्यतरस्यां लोपो भवति वकारमकारादौ प्रत्यये परतः। सुन्वः, सुनुवः। सुन्मः, सुनुमः।तन्वः, तनुवः। तन्मः, तनुमः। प्रत्ययस्येत्येव- युवः। युमः। असंयोगपूर्वस्येत्येव-शक्नुवः, शक्नुमः। लुगिति वर्तमाने लोपग्रहणमन्त्यलोपार्थम्॥
नित्यं करोतेः ॥ ६.४.१०८॥
करोतेरुत्तरस्योकारप्रत्ययस्य वकारमकारादौ प्रत्यये परतो नित्यं लोपो भवति। कुर्वः, कुर्मः। उकारलोपस्य दीर्घविधावस्थानिवद्भावाद् (१.१.५८) ‘हलि च’ (८.२.७७) इति दीर्घत्वं प्राप्तं ‘न भकुर्छुराम्’ (८.२.७९) इति प्रतिषिध्यते॥
ये च ॥ ६.४.१०९॥
यकारादौ च प्रत्यये परतः करोतेरुत्तरस्योकारप्रत्ययस्य नित्यं लोपो भवति। कुर्यात्, कुर्याताम् ,कुर्युः॥
अत उत् सार्वधातुके ॥ ६.४.११०॥
उकारप्रत्ययान्तस्य करोतेरकारस्य स्थान उकार आदेशो भवति सार्वधातुके क्ङिति परतः। कुरुतः, कुर्वन्ति। सार्वधातुकग्रहणं किम्? भूतपूर्वेऽपि सार्वधातुके यथा स्यात्-कुरु। तपरकरणं लघूपधस्य गुणनिवृत्त्यर्थम्। क्ङितीत्येव-करोति। करोषि। करोमि॥
श्नसोरल्लोपः ॥ ६.४.१११॥
श्नस्यास्तेश्चाकारस्य लोपो भवति सार्वधातुके क्ङिति परतः। रुन्धः, रुन्धन्ति। भिन्तः, भिन्दन्ति। अस्तेः-स्तः, सन्ति। क्ङितीत्येव-भिनत्ति। अस्ति। श्नसोरित्यकारस्य पररूपत्वं ‘शकन्ध्वादिषु०’ (६.१.९४ वा०) द्रष्टव्यम्॥
श्नाभ्यस्तयोरातः ॥ ६.४.११२॥
श्ना इत्येतस्याभ्यस्तानां चाङ्गानामाकारस्य लोपो भवति सार्वधातुके क्ङिति परतः। लुनते । लुनताम् ।अलुनत। अभ्यस्तानाम् -मिमते। मिमताम्। अमिमत। संजिहते। संजिहताम्। समजिहत। श्नाभ्यस्तयोरिति किम्? यान्ति। वान्ति। आत इति किम् ? बिभ्रति। क्ङितीत्येव-अलुनात्। अजहात्। आद्ग्रहणं स्पष्टार्थम्॥
ई हल्यघोः ॥ ६.४.११३॥
श्नान्तानामङ्गानामभ्यस्तानां च घुवर्जितानामात ईकारादेशो भवति इलादौ सार्वधातुके क्ङिति परतः। लुनीतः। पुनीतः। लुनीथः। पुनीथः। लुनीते। पुनीते। अभ्यस्तानाम्-मिमीते। मिमीषे। मिमीध्वे। संजिहीते। संजिहीषे। संजिहीध्वे। हलीति किम्? लुनन्ति। मिमते। अघोरिति किम्? दत्तः। धत्तः। क्ङितीत्येव-लुनाति। जहाति॥
इद् दरिद्रस्य ॥ ६.४.११४॥
दरिद्रातेर्हलादौ सार्वधातुके क्ङिति परत इकारादेशो भवति। दरिद्रितः। दरिद्रिथः। दरिद्रिवः। दरिद्रिमः। हलीत्येव-दरिद्रति। क्ङितीत्येव-दरिद्राति॥ दरिद्रातेरार्धधातुके लोपो वक्त व्यः॥ सिद्धश्च प्रत्ययविधौ भवतीति वक्त व्यम्॥ दरिद्रातीति दरिद्रः। आकारान्तलक्षणो णप्रत्ययः (३.१.१४१) न भवति, पचादित्वादज् (३.१.१३४) एव भवति।
न दरिद्रायके लोपो दरिद्राणे च नेष्यते।
दिदरिद्रासतीत्येके दिदरिद्रिषतीति वा॥
॥ अद्यतन्यां वेति वक्त व्यम्॥ अदरिद्रीत्, अदरिद्रासीत्। दरिद्रस्येति निर्देशे छान्दसं ह्रस्वत्वं द्रष्टव्यम्॥
भियोऽन्यतरस्याम् ॥ ६.४.११५॥
भी इत्येतस्याङ्गस्यान्यतरस्यामिकारादेशो भवति हलादौ क्ङिति सार्वधातुके परतः। बिभितः, बिभीतः। बिभिथः, बिभीथः। बिभिवः, बिभीवः। बिभिमः, बिभीमः। हलादावित्येव-बिभ्यति। क्ङितीत्येव-बिभेति। सार्वधातुक इत्येव-भीयते॥
जहातेश्च ॥ ६.४.११६॥
जहातेश्चेकारादेशो भवत्यन्यतरस्यां हलादौ क्ङिति सार्वधातुके परतः। जहितः, जहीतः। जहिथः, जहीथः। हलादावित्येव-जहति। क्ङितीत्येव-जहाति। सार्वधातुक इत्येव-हीयते। जेहीयते। पृथग्योगकरणमुत्तरार्थम्॥
आ च हौ ॥ ६.४.११७॥
जहातेराकारश्चान्तादेशो भवतीकारश्चान्यतरस्यां हौ परतः। जहाहि, जहिहि, जहीहि॥
लोपो यि॥ ६.४.११८॥
लोपो भवति जहातेर्यकारादौ क्ङिति सार्वधातुके परतः। जह्यात्, जह्याताम्, जह्युः॥
घ्वसोरेद्धावभ्यासलोपश्च ॥ ६.४.११९॥
घुसंज्ञकानामङ्गानामस्तेश्च एकारादेशो भवति हौ परतोऽभ्यासलोपश्च। देहि। धेहि। अस्तेः-‘श्नसोरल्लोपः’ (६.४.१११) इत्यकारलोपः। एधि। शिदयं लोपः। तेन सर्वस्याभ्यासस्य भवति॥
अत एकहल्मध्येऽनादेशादेर्लिटि ॥ ६.४.१२०॥
लिटि परत आदेश आदिर्यस्याङ्गस्य नास्ति तस्यैकहल्मध्येऽसहाययोर्हलोर्मध्ये योऽकारस्तस्यैकारादेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतः। रेणतुः, रेणुः। येमतुः, येमुः। पेचतुः, पेचुः। देमतुः, देमुः। अत इति किम्? दिदिवतुः, दिदिवुः। तपरकरणं किम्? ररासे, ररासाते, ररासिरे। एकहल्मध्य इति किम्? शश्रमतुः। शश्रमुः। तत्सरतुः, तत्सरुः। अनादेशादेरिति किम्? चकणतुः, चकणुः। जगणतुः, जगणुः। बभणतुः, बभणुः। लिट आदेशविशेषणं किम्? इहापि यथा स्यात्-नेमतुः, नेमुः। सेहे, सेहाते, सेहिरे। अनैमित्तिके नत्वसत्वे, तदादिर्लिट्यादेशादिर्न भवति। इहाभ्यासजश्त्वचर्त्वयोरसिद्धत्वं नास्ति। तेन तदादिरप्यादेशादिर्भवति। तथा च फलिभजोरेत्वं विधीयते। रूपाभेदे चादेशादिर्नाश्रीयत इति शसिदद्योः प्रतिषेधवचनं ज्ञापकम्। अन्यथा हि पेचतुः, पेचुः, देमतुः, देमुरित्येवमादीनामपि प्रकृतिजश्चरादीनामेत्वं न स्यात्। क्ङितीत्येव-अहं पपच। अहं पपठ॥ दम्भेरेत्वं वक्त व्यम्॥ देभतुः, देभुः। नलोपस्यासिद्धत्वाद् न प्राप्नोति॥ नशिमन्योरलिट्येत्वं वक्त व्यम्॥ अनेशम्। मेनका। अनेशमिति नशेर्लुङि पुषादित्वादङ्। मेनकेति मनेः ‘आशिषि च’ (३.१.१५०) इति वुन्। क्षिपकादिषु (७.३.४५ वा०) प्रक्षेपादित्वं न क्रियते॥ छन्दस्यमिपचोरप्यलिटि एत्वं वक्तव्यम्॥ व्येमानम्। अमेर्विपूर्वस्य चानशि मुक् न क्रियते। लिङि-पेचिरन्। पचेरन्नित्येतस्य छान्दसं ह्रस्वत्वम्॥ यजिवप्योश्च॥ आयेजे। आवेपे। यजेर्वपेश्च लङीटि ‘छन्दस्यपि दृश्यते’ (६.४.७३) इत्यनजादेरप्याडागमः॥
थलि च सेटि ॥ ६.४.१२१॥
थलि च सेटि परतोऽनादेशादेरङ्गस्यैकहल्मध्यगतस्यातः स्थान एकारादेशो भवति, अभ्यासलोपश्च। पेचिथ। शेकिथ। सेटीति किम्? पपक्थ। थल्ग्रहणं विस्पष्टार्थम्। अक्ङिदर्थमेतद् वचनमित्यन्यस्येटोऽसंभवात्। अत इत्येव-दिदेविथ। एकहल्मध्यगतस्येत्येव-शश्रमिथ। तत्सरिथ। अनादेशादेरित्येव-चकणिथ। बभणिथ॥
तृफलभजत्रपश्च ॥ ६.४.१२२॥
तृ फल भज त्रप इत्येतेषामङ्गानामत एकारादेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतस्थलि च सेटि। तेरतुः, तेरुः। तेरिथ। फेलतुः, फेलुः। फेलिथ। भेजतुः, भेजुः। भेजिथ। त्रेपे, त्रेपाते, त्रेपिरे। तरतेर्गुणार्थं वचनम्। फलिभजोरादेशाद्यर्थम्। त्रपेरनेकहल्मध्यार्थम्॥ श्रन्थेश्चेति वक्त व्यम्॥ श्रेथतुः, श्रेथुः॥
राधो हिंसायाम् ॥ ६.४.१२३॥
राधो हिंसायामर्थेऽवर्णस्यैकार आदेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतस्थलि च सेटि। अपरेधतुः, अपरेधुः। अपरेधिथ। हिंसायामिति किम्? रराधतुः, रराधुः। रराधिथ। अत इत्येतदिहोपस्थितं तपरत्वकृतमपास्य कालविशेषमसंभवादवर्णमात्रं प्रतिपादयति। अथ वा ‘श्नाभ्यस्तयोरातः’ (६.४.११२) इत्यत आत इत्यनुवर्तत इति व्याख्येयम्। एकहल्मध्ये वा यः स स्थानी भविष्यति॥
वा जृभ्रमुत्रसाम् ॥ ६.४.१२४॥
जृ भ्रमु त्रस इत्येतेषामङ्गानामतः स्थाने वा एकार आदेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतस्थलि च सेटि। जेरतुः, जेरुः। जेरिथ। जजरतुः, जजरुः। जजरिथ। भ्रेमतुः, भ्रेमुः। भ्रेमिथ। बभ्रमतुः, बभ्रमुः। बभ्रमिथ। त्रेसतुः, त्रेसुः। त्रेसिथ। तत्रसतुः, तत्रसुः। तत्रसिथ॥
फणां च सप्तानाम्॥ ६.४.१२५॥
फणादीनां सप्तानां धातूनामवर्णस्य स्थाने वैकार आदेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतस्थलि च सेटि। फेणतुः, फेणुः। फेणिथ। पफणतुः, पफणुः। पफणिथ। रेजतुः, रेजुः। रेजिथ। रराजतुः, रराजुः। रराजिथ। भ्रेजे, भ्रेजाते, भे्रजिरे। बभ्राजे, बभ्राजाते, बभ्राजिरे। भ्रेशे, भ्रेशाते, भ्रेशिरे। बभ्राशे, बभ्राशाते, बभ्राशिरे। भ्लेशे, भ्लेशाते, भ्लेशिरे। बभ्लाशे, बभ्लाशाते, बभ्लाशिरे। स्येमतुः, स्येमुः। स्येमिथ। सस्यमतुः, सस्यमुः। सस्यमिथ। स्वेनतुः, स्वेनुः। स्वेनिथ। सस्वनतुः, सस्वनुः। सस्वनिथ। सप्तानामिति किम्? दध्वनतुः, दध्वनुः। दध्वनिथ॥
न शसददवादिगुणानाम् ॥ ६.४.१२६॥
शस दद इत्येतयोर्वकारादीनां च धातूनां गुण इत्येवमभिनिर्वृत्तस्य च योऽकारस्तस्य स्थान एकारादेशो न भवति, अभ्यासलोपश्च। विशशसतुः, विशशसुः। विशशसिथ। दददे, दददाते, दददिरे। वादीनाम्-ववमतुः, ववमुः। ववमिथ। गुणस्य-विशशरतुः, विशशरुः। विशशरिथ। लुलविथ। पुपविथ। गुणशब्दाभिनिर्वृत्तस्यार्शब्दस्यौकारस्य चायमकार इत्येत्वं प्रतिषिध्यते॥
अर्वणस्त्रसावनञः ॥ ६.४.१२७॥
अर्वन्नित्येतस्याङ्गस्य तृ इत्ययमादेशो भवति, सुश्चेत् ततः परो न भवति, स च नञ उत्तरो न भवति। अर्वन्तौ, अर्वन्तः। अर्वन्तम्, अर्वन्तौ, अर्वतः। अर्वता, अर्वद्भ्याम्, अर्वद्भिः। अर्वती। आर्वतम्। असाविति किम्? अर्वा। अनञ इति किम्? अनर्वाणौ, अनर्वाणः। अ॒न॒र्वाणं॑ वृष॒भं म॒न्द्रजि॑ह्व॒म् (ऋ॰ १.१९०.१)॥
मघवा बहुलम् ॥ ६.४.१२८॥
मघवन्नित्येतस्याङ्गस्य बहुलं तृ इत्ययमादेशो भवति। मघवान्, मघवन्तौ, मघवन्तः। मघवन्तम्, मघवन्तौ, मघवतः। मघवता। मघवती। माघवतम्। न च भवति-मघवा, मघवानौ, मघवानः। मघवानम्, मघवानौ, मघोनः। मघोना, मघवभ्याम्, मघवभिः। म॒घोनी॑ (ऋ० १.४८.८)। माघवनम्॥
भस्य ॥ ६.४.१२९॥
भस्येत्ययमधिकारः, आ अध्यायपरिसमाप्तेः। यदित ऊर्ध्वमनुक्रमिष्यामो भस्येत्येवं तद् वेदितव्यम्। वक्ष्यति-‘पादःपत्’ (६.४.१३०)- द्विपदः पश्य। द्विपदा कृतम्। भस्येति किम्? द्विपादौ, द्विपादः॥
पादः पत् ॥ ६.४.१३०॥
पाद इति पादशब्दो लुप्ताकारो गृह्यते। तदन्तस्याङ्गस्य भस्य पदित्ययमादेशो भवति। स च ‘निर्दिश्यमानस्यादेशा भवन्ति’ इति पाच्छब्दस्यैव भवति, न तदन्तस्य सर्वस्य। द्विपदःपश्य। द्विपदा। द्विपदे। द्विपदिकां ददाति। त्रिपदिकां ददाति। वैयाघ्रपद्यः॥
वसोःसंप्रसारणम् ॥ ६.४.१३१॥
वस्वन्तस्य भस्य संप्रसारणं भवति। विदुषः पश्य। विदुषा। विदुषे। पेचुषःपश्य। पेचुषा। पेचुषे। पपुषः पश्य। आकारलोपे कर्तव्ये वसुसंप्रसारणस्य व्याश्रयत्वादसिद्धत्वं न भवति। वसुग्रहणे क्वसोरपि ग्रहणमिष्यते॥
वाह ऊठ् ॥ ६.४.१३२॥
वाह इत्येवमन्तस्य भस्य ऊठ् इत्येतत् संप्रसारणं भवति। प्रष्ठौहः। प्रष्ठौहा। प्रष्ठौहे। दित्यौहः। दित्यौहा। दित्यौहे। ‘एत्येधत्यूठ्सु’ (६.१.८९) इति वृद्धिः। अथ किमर्थमूठ् क्रियते, संप्रसारण एव कृते गुणे च ‘वृद्धिरेचि’ (६.१.८८) इति वृद्धौ सत्यां सिद्धं रूपं भवति प्रष्ठौह इति, अनकारान्ते चोपपदे वहेर्ण्विर्न दृश्यते? ज्ञापनार्थम्। एतज् ज्ञापयति भवत्येषा परिभाषा-‘असिद्धं बहिरङ्गमन्तरङ्गे’ इति। तस्यां हि सत्यां बहिरङ्गस्य संप्रसारणस्यासिद्धत्वाद् अन्तरङ्गो गुणो न स्यात्॥
श्वयुवमघोनामतद्धिते ॥ ६.४.१३३॥
श्वन् युवन् मघवन् इत्येतेषामङ्गानामतद्धिते प्रत्यये परतः संप्रसारणं भवति। शुनः। शुना। शुने। यूनः। यूना। यूने। मघोनः। मघोना। मघोने। अतद्धित इति किम्? शौवनं मांसम्। यौवनं वर्तते। माघवनः स्थालीपाकः। शुनो विकारे ‘प्राणिरजतादिभ्योऽञ्’ (४.३.१५४), द्वारादित्वाद् (७.३.४) ऐजागमः। श्वादीनामेतत् संप्रसारणं नकारान्तानामिष्यते। इह न भवति-युवतीः पश्य। मघवतः। मघवता। मघवते। तदर्थमुत्तरत्र योगविभागं कुर्वन्ति। अल्लोपः। अनः। अन इत्युभयोः शेष इति॥
अल्लोपोऽनः ॥ ६.४.१३४॥
अनित्येवमन्तस्य भस्याकारलोपो भवति। राज्ञः पश्य। राज्ञा। राज्ञे। तक्ष्णः पश्य। तक्ष्णा। तक्ष्णे। अनो नकारान्तस्यायं लोप इष्यते। इह न भवति-राजकीयमिति॥
षपूर्वहन्धृतराज्ञामणि ॥ ६.४.१३५॥
षकारपूर्वो योऽन् हनो धृतराज्ञश्च तस्याकारलोपो भवत्यणि परतः। औक्ष्णः। ताक्ष्णः। भ्रौणघ्नः। धार्तराज्ञः। षपूर्वहन्धृतराज्ञामिति किम्? सामनः। वैमनः। ‘अन्’ (६.४.१६७) इति प्रकृतिभावेनाल्लोपटिलोपावुभावपि न भवतः। अणीति किम्? ताक्षण्यः॥
विभाषा ङिश्योः ॥ ६.४.१३६॥
ङौ परतः शीशब्दे चानो विभाषाकारलोपो भवति। राज्ञि, राजनि। साम्नि, सामनि। साम्नी, सामनी॥
न संयोगाद्वमन्तात्॥ ६.४.१३७॥
वकारमकारान्तात् संयोगादुत्तरस्यानोऽकारस्य लोपो न भवति। पर्वणा। पर्वणे। अथर्वणा। अथर्वणे। चर्मणा। चर्मणे। संयोगादिति किम्? प्रतिदीव्ना। प्रतिदीव्ने। साम्ना। साम्ने। वमन्तादिति किम्? तक्ष्णा। तक्ष्णे॥
अचः ॥ ६.४.१३८॥
अच इत्ययमञ्चतिर्लुप्तनकारो गृह्यते। तदन्तस्य भस्याकारस्य लोपो भवति। दधीचः पश्य। दधीचा। दधीचे। मधूचः पश्य। मधूचा। मधूचे॥
उद ईत्॥ ६.४.१३९॥
उद उत्तरस्याच ईकारादेशो भवति। उदीचः। उदीचा। उदीचे॥
आतो धातोः ॥ ६.४.१४०॥
आकारान्तस्य धातोर्भस्य लोपो भवति। कीलालपः पश्य। कीलालपा। कीलालपे। शुभंयः पश्य। शुभंया। शुभंये। आत इति किम्? निया। निये। धातोरिति किम्? खट्वाः पश्य। मालाःपश्य। आत इति योगविभागः। तेन ‘०क्त्वो ल्यप्’ (७.१.३७) ‘हलः श्नः शानच्०’ (३.१.८३) इत्येवमादि सिद्धं भवति॥
मन्त्रेष्वाङ्यादेरात्मनः ॥ ६.४.१४१॥
मन्त्रेषु आङि परत आत्मन आदेर्लोपो भवति। त्मना देवेभ्यः। त्मना सोमेषु। मन्त्रेष्विति किम्? आत्मना कृतम्। आङीति किम्? यदात्मनस्तन्नो वरिष्ठा॥ आङोऽन्यत्रापि दृश्यते॥ त्मन्या॑ सम॒ञ्जन् (ऋ० १०.११०.१०)॥
ति विंशतेर्डिति ॥ ६.४.१४२॥
भस्य विंशतेस्तिशब्दस्य डिति प्रत्यये परतो लोपो भवति। विंशत्या क्रीतो विंशकः। विशं शतम्। विंशतेः पूरणो विंशः। एकविंशः। डितीति किम्? विंशत्या॥
टेः ॥ ६.४.१४३॥
टिसंज्ञकस्य डिति प्रत्यये परतो लोपो भवति। कुमुद्वान्। नड्वान्। वेतस्वान्। उपसरजः। मन्दुरजः। त्रिंशता क्रीतः त्रिंशकः। डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् टिलोपो भवति॥
नस्तद्धिते ॥ ६.४.१४४॥
नकारान्तस्य भस्य टेर्लोपो भवति तद्धिते परतः। आग्निशर्मिः। औडुलोमिः। बाह्वादित्वाद् (४.१.९६) इञ्प्रत्ययः। न इति किम्? सात्वतः। तद्धित इति किम्? शर्मणा। शर्मणे॥ नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकुथुमितैतिलिजाजलिलाङ्गलि-शिलालिशिखण्डिसूकर-सद्मसुपर्वणामुपसंख्यानं कर्तव्यम्॥ अत्र य इन्नन्तास्तेषाम् ‘ इनण्यनपत्ये’ (६.४.१६४) इति प्रकृतिभावः प्राप्तः, ये त्वन्नन्तास्तेषाम् ‘अन्’ (६.४.१६७) इति। सब्रह्मचारिण इमे साब्रह्मचाराः। पीठसर्पिणः पैठसर्पाः। कलापिना प्रोक्तमधीयते कालापाः। कुथुमिनः कौथुमाः। तैतिलिजाजलिनावाचार्यौ, तत्कृतो ग्रन्थ उपचारात् तैतिलिजाजलिशब्दाभ्यामभिधीयते। तं ग्रन्थमधीयते तैतिलाः, जाजलाः। शैषिकेष्वर्थेषु वृद्धत्वादत्र छः प्राप्नोति। एवं लाङ्गलाः। शैलालाः। शिखण्डिनः शैखण्डाः। सूकरसद्मनः सौकरसद्माः। सुपर्वणः सौपर्वाः॥ अश्मनो विकार उपसंख्यानम्॥ अश्मनो विकार आश्मः। आश्मनोऽन्यत्र॥ चर्मणःकोश उपसंख्यानम्॥ चार्मः कोशः। चार्मणोऽन्यः॥ शुनः संकोच उपसंख्यानम्॥ शौवः संकोचः। शौवनोऽन्यः॥ अव्ययानां च सायंप्रातिकाद्यर्थमुपसंख्यानम्॥ के पुनः सायंप्रातिकादयः? येषामव्ययानामविहितष्टिलोपः, प्रयोगे च दृश्यते, ते सायंप्रातिकप्रकारा ग्रहीतव्याः। सायंप्रातर्भवः सायंप्रातिकः। पौनःपुनिकः। बाह्यः। कौतस्कुतः। ‘कालाट् ठञ्’ (४.३.११) इति ठञ्प्रत्ययः। ट्युट्युलौ तु नेष्येते। आरातीयः, शाश्वतिकः, शाश्वत इत्येवमादिषु न दृश्यते टिलोपः॥
अह्नष्टखोरेव ॥ ६.४.१४५॥
अहन्नित्येतस्य टखोरेव परतष्टिलोपो भवति। द्वे अहनी समाहृते द्व्यहः। त्र्यहः। द्वे अहनी अधीष्टो भृतो भूतो भावी वा द्व्यहीनः। त्र्यहीनः। अह्नां समूहः क्रतुः अहीनः। ‘अह्नः समूहे खो वक्तव्यः’ (४.२.४२ वा०)। सिद्धे सत्यारम्भो नियमार्थः। इह मा भूत्-अह्ना निर्वृत्तम् आह्निकम्। एवकारकरणं विस्पष्टार्थम्। अह्न एव टखोरित्येवं नियमो न भविष्यति, ‘आत्माध्वानौ खे’ (६.४.१६९) इति प्रकृतिभावविधानात्॥
ओर्गुणः ॥ ६.४.१४६॥
उवर्णान्तस्य भस्य गुणो भवति तद्धिते परतः। बाभ्रव्यः। माण्डव्यः। शङ्कव्यं दारु। पिचव्यः कार्पासः। कमण्डलव्या मृत्तिका। परशव्यमयः। औपगवः। कापटवः। ओरोदिति वक्त व्ये गुणग्रहणं संज्ञापूर्वको विधिरनित्यः यथा स्यात्। तेन स्वायंभुव इति सिद्धं भवति॥
ढे लोपोऽकद्र्वाः ॥ ६.४.१४७॥
ढे परत उवर्णान्तस्य भस्याकद्र्वा लोपो भवति। कामण्डलेयः। शैतवाहेयः। जाम्बेयः। माद्रबाहेयः। अकद्र्वा इति किम्? काद्रवे॒यो मन्त्र॑मपश्यत् (तै०सं०१.५.४.१)॥
यस्येति च ॥ ६.४.१४८॥
इवर्णान्तस्यावर्णान्तस्य च भस्य ईकारे परे तद्धिते च लोपो भवति। इवर्णान्तस्येकारेदाक्षी। प्लाक्षी। सखी। सवर्णदीर्घत्वे हि सत्यतिसखेरागच्छतीत्यत्रैकादेशस्यान्तवत्त्वाद् (६.१.८५) असखि (१.४.७) इति घिसंज्ञायाः प्रतिषेधः स्यात्। इवर्णान्तस्य तद्धिते-दुलि-दौलेयः। वलि-वालेयः। अत्रि-आत्रेयः। अवर्णान्तस्य ईकारे-कुमारी। गौरी। शार्ङ्गरवी। अवर्णान्तस्य तद्धिते-दाक्षिः। प्लाक्षिः। चौडिः। बालाकिः। सौमित्रिः॥ यस्तेत्यौङः श्यां प्रतिषेधो वक्तव्यः॥ काण्डे। कुड्ये। सौर्ये हिमवतः शृङ्गे। औङः शीभावे (७.१.१९) कृते यस्येति चेति ‘सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः’ (६.४.१४९) इति च लोपः प्राप्नोति॥ इयङुवङ्भ्यां लोपो भवति विप्रतिषेधेन॥ वत्सान् प्रीणाति वत्सप्रीः, तस्यापत्यं वात्सप्रेयः। ‘चतुष्पाद्भ्यो ढञ्’ (४.१.१३५) इति ढञ् प्रत्ययः। लेखाभ्रूः शुभ्रादिः (४.१.१२३), तस्या अपत्यं लैखाभ्रेयः॥
सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः ॥ ६.४.१४९॥
सूर्य तिष्य अगस्त्य मत्स्य इत्येतेषां यकारस्य उपधाया भस्य लोपो भवतीति परतस्तद्धिते च। सूर्येणैकदिक् सौरी बलाका। अणि यो यस्येति लोपस्तस्यासिद्धत्वं नास्ति, व्याश्रयत्वात्। ईकारे तु यस्तस्यासिद्धत्वाद् उपधायकारो भस्याणन्तस्य सूर्यस्य संबन्धीति लुप्यते। तिष्य-तैषमहः। तैषी रात्रिः। अगस्त्यस्यापत्यं स्त्री, ऋषित्वाद् (४.१.११४) अणि कृत आगस्ती। आगस्तीयः। मत्स्य-गौरादित्वाद् (४.१.४१) ङीषु, मत्सी। उपधाया इति किम्? मत्स्यचरी। यग्रहणमुत्तरार्थम्। विषयपरिगणनमत्र कर्तव्यम्॥ मत्स्यस्य ङ्यामिति वक्तव्यम्॥ इह मा भूत्- मत्स्यस्येदं मांसं मात्स्यम्॥ सूर्यागस्त्ययोश्छे च ङ्यां च॥ सौरीयः। सौरी। आगस्तीयः। आगस्ती। इह मा भूत्-सौर्यं चरुं निर्वपेत्। आगस्त्यः॥ तिष्यपुष्ययोर्नक्षत्राणि॥ तिष्येण नक्षत्रेण युक्त ः कालः तैषः। पौषः॥ अन्तिकस्य तसि कादिलोप आद्युदात्तं च॥ अन्तिकशब्दस्य तसिप्रत्यये परतः ककारादेः शब्दस्य लोपो वक्तव्यः, आद्युदात्तत्वं च। अन्ति॑तो न दू॒राद् (ऋ० २.२७.१३)॥ तमे तादेश्च॥ तमप्रत्ययेऽन्तिकशब्दस्य तकारादेः ककारादेश्च लोपो वक्त व्यः। तत्र तादिलोपे-अन्त॑मः (ऋ० ५.२४.१)। कादिलोपे-अन्तितमः॥ कादिलोपे बहुलमिति वक्तव्यम्॥ अन्यत्रापि हि दृश्यते। अन्तिके सीदतीति अन्तिषत्। ‘पूर्वपदात्’ (८.३.१०४) इति षत्वम्॥ ये च॥ अन्तियः॥
हलस्तद्धितस्य ॥ ६.४.१५०॥
तद्धित इति निवृत्तम्। हल उत्तरस्य तद्धितयकारस्य उपधाया ईति परतो लोपो भवति। गार्गी। वात्सी। हल इति किम्? कारिकेयी। तद्धितस्येति किम्? वैद्यस्य भार्या वैद्यी॥
आपत्यस्य च तद्धितेऽनाति ॥ ६.४.१५१॥
आपत्ययकारस्य हल उत्तरस्य तद्धितेऽनाकारादौ लोपो भवति। गर्गाणां समूहो गार्गकम्। वात्सकम्। आपत्यस्येति किम्? सांकाश्यकः। काम्पिल्यकः। तद्धितग्रहणमीत्यनापत्यस्यापि लोपार्थम्। सौमी इष्टिः। अनातीति किम्? गार्ग्यायणः। वात्स्यायनः। हल इत्येव-कारिकेयस्यापत्यं कारिकेयिः॥
क्यच्व्योश्च ॥ ६.४.१५२॥
क्य च्वि इत्येतयोश्च परत आपत्ययकारस्य हल उत्तरस्य लोपो भवति। वात्सीयति। गार्गीयति। वात्सायते। गार्गायते। च्वौ-गार्गीभूतः। वात्सीभूतः। आपत्यस्येत्येवसांकाश्यायते। सांकाश्यीभूतः। हल इत्येव-कारिकेयीयति। कारिकेयीभूतः॥
बिल्वकादिभ्यश्छस्य लुक् ॥ ६.४.१५३॥
नडादिषु बिल्वादयः। पठ्यन्ते। ‘नडादीनां कुक् च’ (४.२.९१) इति कृतकुगागमा बिल्वकादयो भवन्ति। तेभ्य उत्तरस्य छस्य भस्य तद्धिते परतो लुग् भवति। बिल्वा यस्यां सन्ति बिल्वकीया, तस्यां भवा बैल्वकाः। वेणुकीया-वैणुकाः। वेत्रकीया-वैत्रकाः। वेतसकीया-वैतसकाः। तृणकीया-तार्णकाः। इक्षुकीया-ऐक्षुकाः। काष्ठकीया-काष्ठकाः। कपोतकीया-कापोतकाः। ‘क्रुञ्चाया ह्रस्वत्वं च’ (ग०सू० ९०)। क्रुञ्चकीया-क्रौञ्चकाः। छग्रहणं किम्? छमात्रस्य लुग् यथा स्यात्, कुको निवृत्तिर्मा भूदिति। अन्यथा हि ‘संनियोगशिष्टानामन्यतरापाये उभयोरप्यभावः’ इति कुगपि निवर्तेत। लुग्ग्रहणं सर्वलोपो यथा स्याद्, यकारमात्रस्य मा भूत्॥
तुरिष्ठेमेयःसु ॥ ६.४.१५४॥
इष्ठन् इमनिच् ईयसुन् इत्येतेषु परतः तृशब्दस्य लोपो भवति। आसु॒तिं करि॑ष्ठः (ऋ० ७.९७.७)। विजयिष्ठः। वहिष्ठः। दोहीयसी धेनुः। सर्वस्य तृशब्दस्य लोपार्थं वचनम्। अन्त्यस्य हि ‘टेः’ (६.४.१५५) इत्येव सिद्धः। लुगित्येतदत्र नानुवर्तते। तथाहि सति ‘न लुमताङ्गस्य’ (१.१.६३) इति प्रतिषेधाद् गुणो न स्यात्। इमनिज्ग्रहणमुत्तरार्थम्। इतरौ तु ‘तुश्छन्दसि’ (५.३.५९) इति भवतः॥
टेः ॥ ६.४.१५५॥
भस्य टेर्लोपो भवतीष्ठेमेयस्सु परतः। पटु-पटिष्ठः। पटिमा। पटीयान्। लघु-लघिष्ठः। लघिमा। लघीयान्। णाविष्ठवत् प्रातिपदिकस्य कार्यं भवतीति वक्त व्यम्॥ किं प्रयोजनम्? पुंवद्भावरभावटिलोपयणादिपरार्थम्। पुंवद्भावः-एनीमाचष्ट एतयति। श्येतयति। ‘तसिलादिष्वा कृत्वसुचः’ (६.३.३५) इति इष्ठे पुंवद्भाव उक्त ः। रभावः-पृथुमाचष्टे प्रथयति। म्रदयति। टिलोपः- पटुमाचष्टे पटयति। लघयति। यणादिपरम्-स्थूलमाचष्टे स्थवयति। भारद्वाजीयास्तु पठन्ति-णाविष्ठवत् प्रातिपदिकस्य पुंवद्भावर- भावटिलोपयणादिपरविन्मतोर्लुक्कनर्थमिति। स्रग्विणमाचष्टे स्रजयति। वसुमन्तमाचष्टे वसयति। युवानमाचष्टे यवयति, कनयति। एतदुभयमप्युदाहरणमात्रम्, न परिगणनम्। प्रादयोऽपि हीष्यन्ते। प्रियमाचष्टे प्रापयति॥
स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः ॥ ६.४.१५६॥
स्थूल दूर युव ह्रस्व क्षिप्र क्षुद्र इत्येतेषां यणादिपरं लुप्यत इष्ठेमेयस्सु परतः, पूर्वस्य च गुणो भवति। स्थूल-स्थविष्ठः। स्थवीयान्। दूर-दविष्ठः। दवीयान्। युवन्-यविष्ठः। यवीयान्। ह्रस्व-ह्रसिष्ठः। ह्रसिमा। ह्रसीयान्। क्षिप्र-क्षेपिष्ठः। क्षेपिमा। क्षेपीयान्। क्षुद्र-क्षोदिष्ठः। क्षोदिमा। क्षोदीयान्। ह्रस्वक्षिप्रक्षुद्रशब्दाः पृथ्वादिषु पठ्यन्ते। परग्रहणं किम्? यविष्ठः, यवीयान्, ह्रसिष्ठः, ह्रसीयान् इत्यत्र पूर्वस्य यणादेर्लोपो मा भूत्। पूर्वग्रहणं विस्पष्टार्थम्॥
प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षि-त्रब्द्राघिवृन्दाः ॥ ६.४.१५७॥
प्रिय स्थिर स्फिर उरु बहुल गुरु वृद्ध तृप्र दीर्घ वृन्दारक इत्येतेषां प्र स्थ स्फ वर् बंहि गर् वर्षि त्रप् द्राघि वृन्द इत्येते यथासंख्यमादेशा भवन्ति इष्ठेमेयस्सु परतः। प्रिय-प्रेष्ठः। प्रेमा। प्रेयान्। स्थिर-स्थेष्ठः। स्थेयान्। स्फिर-स्फेष्ठः। स्फेयान्। उरु-वरिष्ठः। वरिमा। वरीयान्। बहुल-बंहिष्ठः। बंहिमा। बंहीयान्। गुरु-गरिष्ठः। गरिमा। गरीयान्। वृद्ध-वर्षिष्ठः। वर्षीयान्। तृप्र-त्रपिष्ठः। त्रपीयान्। दीर्घ-द्राघिष्ठः। द्राघिमा। द्राघीयान्। वृन्दारक-वृन्दिष्ठः। वृन्दीयान्। प्रियोरुगुरुबहुलदीर्घाः पृथ्वादिषु पठ्यन्ते। तेनान्येषामिमनिज् न भवतीति नोदाह्रियते॥
बहोर्लोपो भू च बहोः ॥ ६.४.१५८॥
बहोरुत्तरेषामिष्ठेमेयसां लोपो भवति, तस्य च बहोः स्थाने भू इत्ययमादेशो भवति। भूमा। भूयान्। बहुशब्दः पृथ्वादिषु पठ्यते। बहोरिति पुनर्ग्रहणं स्थानित्वप्रतिपत्त्यर्थम्, अन्यथा हि प्रत्ययानामेव भूभावः स्यात्॥
इष्ठस्य यिट् च॥ ६.४.१५९॥
बहोरुत्तरस्येष्ठस्य यिडागमो भवति, बहोश्च भूरादेशो भवति। भूयिष्ठः। लोपापवादो यिडागमः, तस्मिन्निकार उच्चारणार्थः॥
ज्यादादीयसः ॥ ६.४.१६०॥
ज्यादुत्तरस्येयस आकार आदेशो भवति। ज्यायान्। लोपस्य यिटा व्यवहितत्वादादित्युच्यते। लोपे हि सति अकृद्यकारे (७.४.२५) इति दीर्घत्वेन ज्यायानिति सिध्यति॥
र ऋतो हलादेर्लघोः ॥ ६.४.१६१॥
रशब्द आदेशो भवति ऋकारस्य हलादेर्लघोरिष्ठेमेयस्सु परतः। प्रथिष्ठः। प्रथिमा। प्रथीयान्। म्रदिष्ठः। म्रदिमा। म्रदीयान्। ऋत इति किम्? पटिष्ठः। पटिमा। पटीयान्। हलादेरिति किम्? ऋजिष्ठः। ऋजिमा। ऋजीयान्। लघोरिति किम्? कृष्ण-कृष्णिष्ठः। कृष्णिमा। कृष्णीयान्। परिगणनमत्र कर्तव्यम्।
पृथुं मृदुं भृशं चैव कृशं च दृढमेव च।
परिपूर्वं वृढं चैव षडेतान् रविधौ स्मरेत्॥
तत इह न भवति-कृतमाचष्टे कृतयति। मातरमाचष्टे मातयति। भ्रातयति॥
विभाषर्जोश्छन्दसि ॥ ६.४.१६२॥
ऋजु इत्येतस्य ऋतः स्थाने विभाषा रेफ आदेशो भवतीष्ठेमेयस्सु परतश्छन्दसि विषये। रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था॑म् (ऋ० १.९१.१)। त्वमृजिष्ठः॥
प्रकृत्यैकाच् ॥ ६.४.१६३॥
एकाज् यद् भसंज्ञकं तदिष्ठेमेयस्सु परतः प्रकृत्या भवति। स्रग्विन्नित्येतस्य विन्नन्तस्य स्रजिष्ठः, स्रजीयान्, स्रजयति। स्रुग्वदित्येतस्य मत्वन्तस्य स्रुचिष्ठः, स्रुचीयान्, स्रुचयति। एकाजिति किम्? वसुमदित्येतस्य वसिष्ठः, वसीयान्॥ प्रकृत्याके राजन्यमनुष्ययुवानः॥ अके प्रत्यये परतो राजन्य मनुष्य युवन्नित्येते प्रकृत्या भवन्ति। राजन्यानां समूहो राजन्यकम्। मनुष्याणां समूहो मानुष्यकम्। ‘आपत्यस्य च तद्धितेऽनाति’ (६.४.१५१) इति यलोपः प्रकृतिभावेन न भवति। यूनो भावो यौवनिका। मनोज्ञादित्वाद् (५.१.१३३) वुञ्। तस्य ‘नस्तद्धिते’ (६.४.१४४) इति टिलोपो न भवति॥
इनण्यनपत्ये ॥ ६.४.१६४॥
इन्नन्तमनपत्यार्थेऽणि परतः प्रकृत्या भवति। सांकूटिनम्। सांराविणम्। सांमार्जिनम्। ‘अभिविधौ भाव इनुण्’ (३.३.४४), ‘अणिनुणः’ (५.४.१५) इत्यण्। स्रग्विण इदं स्राग्विणम्। अणीति किम्? दण्डिनां समूहो दाण्डम्। ‘अनुदात्तादेरञ्’ (४.२.४४) इत्यञ्प्रत्ययः। अनपत्य इति किम्? मेधाविनोऽपत्यं मैधावः॥
गाथिविदथिकेशिगणिपणिनश्च ॥ ६.४.१६५॥
गाथिन् विदथिन् केशिन् गणिन् पणिन् इत्येते चाणि प्रकृत्या भवन्ति। गाथिनोऽपत्यं गाथिनः। वैदथिनः। कैशिनः। गाणिनः। पाणिनः। अपत्यार्थोऽयमारम्भः॥
** संयोगादिश्च ॥ ६.४.१६६॥**
संयोगादिश्चेनणि प्रकृत्या भवति। शङ्खिनोऽपत्यं शाङ्खिनः। माद्रिणः। वाज्रिणः॥
अन् ॥ ६.४.१६७॥
अन्नन्तमणि प्रकृत्या भवत्यपत्ये चानपत्ये च। सामनः। वैमनः। सौत्वनः। जैत्वनः॥
** ये चाभावकर्मणोः ॥ ६.४.१६८॥**
यकारादौ च तद्धितेऽभावकर्मणोरर्थयोरन् प्रकृत्या भवति। सामसु साधुः सामन्यः। वेमन्यः। अभावकर्मणोरिति किम्? राज्ञो भावः कर्म वा राज्यम्। राजन्निति पुरोहितादिषु (५.१.१२८) पठ्यते। ततोऽयं यक् प्रत्ययः॥
** आत्माध्वानौ खे ॥ ६.४.१६९॥**
आत्मन् अध्वन् इत्येतौ खे परतः प्रकृत्या भवतः। आत्मने हित आत्मनीनः। अध्वानमलङ्गामी अध्वनीनः। ख इति किम्? प्रत्यात्मम्। प्राध्वम्। प्रत्यात्ममित्यव्ययीभावे ‘अनश्च’ (५.४.१०८) इति समासान्तष्टच्प्रत्ययः। प्राध्वमिति ‘उपसर्गादध्वनः’ (५.४.८५) इत्यच्प्रत्ययः॥
** न मपूर्वोऽपत्येऽवर्मणः॥ ६.४.१७०॥**
मपूर्वोऽन् अवर्मणोऽणि परतोऽपत्येऽर्थे न प्रकृत्या भवति। सुषाम्णोऽपत्यं सौषामः। चान्द्रसामः। मपूर्व इति किम्? सौत्वनः। अपत्य इति किम्? चर्मणा परिवृतो रथः चार्मणः। अवर्मण इति किम्? चक्रवर्मणोऽपत्यं चाक्रवर्मणः॥ मपूर्वप्रतिषेधे वा हितनाम्न इति वक्तव्यम्॥ हितनाम्नोऽपत्यं हैतनामः, हैतनामनः॥
** ब्राह्मोऽजातौ ॥ ६.४.१७१॥**
योगविभागोऽत्र क्रियते। ब्राह्म इत्येतदपत्याधिकारेऽपि सामर्थ्यादपत्यादन्यत्राणि टिलोपार्थं निपात्यते। ब्राह्मो गर्भः। ब्राह्ममस्त्रम्। ब्राह्मं हविः। ततोऽजातौ। अपत्य इत्येव। अपत्ये जातावणि ब्रह्मणष्टिलोपो न भवति। ब्रह्मणोऽपत्यं ब्राह्मणः। अपत्य इत्येव-ब्राह्मी ओषधिः॥
कार्मस्ताच्छील्ये ॥ ६.४.१७२॥
कार्म इति ताच्छील्ये टिलोपो निपात्यते। कर्मशीलः कार्मः। ‘शीलम्’, ‘छत्रादिभ्योणः’ (४.४.६१,६२) इति णप्रत्ययः। यद्येवम्, किमर्थमिदम्, ‘नस्तद्धिते’ (६.४.१४४) इत्येव टिलोपः सिद्धः? सत्यमेतत्। ज्ञापकार्थं तु। एतज् ज्ञापयति- ‘ताच्छीलिके णेऽण्कृतानि भवन्ति’ इति। तेन चौरी, तापसीति णान्तादपीकारः सिद्धो भवति। ताच्छील्य इति किम्? कर्मण इदं कार्मणम्॥
औक्षमनपत्ये ॥ ६.४.१७३॥
औक्षमित्यनपत्येऽणि टिलोपो निपात्यते। औक्षं पदम्। अनपत्य इति किम्? उक्ष्णोऽपत्यमौक्ष्णः। ‘षपूर्वहन्धृतराज्ञामणि’ (६.४.१३५) इत्यलोपः॥
दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवासिनायनिभ्रौणहत्यधैवत्य-सारवैक्ष्वाकमैत्रेयहिरण्मयानि॥ ६.४.१७४॥
दाण्डिनायन हास्तिनायन आथर्वणिक जैह्माशिनेय वासिनायनि भ्रौणहत्य धैवत्य सारव ऐक्ष्वाक मैत्रेय हिरण्मय इत्येतानि निपात्यन्ते। दण्डिन् हस्तिन् इत्येतौ नडादिषु (४.१.९९) पठ्येते, तयोरायने परतः प्रकृतिभावो निपात्यते। केषांचित् तु हस्तिन्निति नडादिषु न पठ्यते। तेषामत एव निपातनात् फगपि भवति। दण्डिनोऽपत्यं दाण्डिनायनः। हस्तिनोऽपत्यं हास्तिनायनः। अथर्वन्निति वसन्तादिषु (४.२.६३) पठ्यते। अथर्वणा प्रोक्तो ग्रन्थोऽपि उपचाराद् अथर्वन्नित्युच्यते। तमधीते यः स आथर्वणिकः। इके प्रकृतिभावो निपात्यते। जिह्माशिन्निति शुभ्रादिषु (४.१.१२३) पठ्यते। तस्य एये परतः प्रकृतिभावो निपात्यते। जिह्माशिनोऽपत्यं जैह्माशिनेयः। वासिनोऽपत्यम्,‘उदीचां वृद्धादगोत्रात्’ (४.१.१५७) इति फिञ्। तत्र प्रकृतिभावो निपात्यते। वासिनायनिः। भ्रूणहन् धीवन् इत्येतयोः ष्यञि परतस्तकारादेशो निपात्यते। भ्रूणघ्नो भावो भ्रौणहत्यम्। धीव्नो भावो धैवत्यम्। ‘हनस्तोऽचिण्णलोः’ (७.३.३२) इति यत् तत्वं तद् धातुप्रत्यये एवेति भ्रौणघ्नो वार्त्रघ्न इत्यत्र न भवति, अतो भ्रौणहत्ये तत्वं निपात्यते। सारव इति सरयू इत्येतस्याणि परतोऽय्शब्दलोपो निपात्यते। सरय्वां भवं सारवमुदकम्। ऐक्ष्वाक इति स्वरसर्वनाम्ना एकश्रुत्या पठ्यते। ततोऽयमाद्युदात्तोऽन्तोदात्तश्च निपात्यते। इक्ष्वाकोरपत्यं ‘जनपदशब्दात् क्षत्रियादञ्’ (४.१.१६८) इत्यञ्, तत्रोकारलोपो निपात्यते। ऐक्ष्वा॑कः। इक्ष्वाकुषु जनपदेषु भवः ‘कोपधादण्’ (४.२.१३२) इत्यण्। एे॒क्ष्वा॒कः। मैत्रेय इति मित्रयुशब्दो गृष्ट्यादिषु (४.१.१३६) पठ्यते, ततो ढञि कृते यादेरियादेशापवादो युशब्दलोपो निपात्यते। मित्रयोरपत्यं मैत्रेयः। अथ किमर्थं मित्रयुशब्दो बिदादिषु (४.१.१०४) एव न पठ्यते, तत्राञि कृते यादेः (७.३.२) इति इयादेशेनैव सिद्धम्, एवं च युलोपार्थं निपातनं कर्तव्यं न भवति, यस्कादिषु (२.४.६३) च बहुषु लुगर्थः पाठो न कर्तव्यो भवति, मित्रयव इत्यञः (२.४.६४) इत्येव हि लुकः सिद्धत्वात्? नैतदस्ति। मित्रयूणां संघ इत्यत्र गोत्रचरणाद् (४.३.१२६) वुञं बाधित्वा मैत्रेयकः सङ्घ इत्यत्र ‘सङ्घाङ्कलक्षणेष्वञ्यञिञामण्’ (४.३.१२७) इत्यण् प्राप्नोति। हिरण्मयमिति हिरण्यस्य मयटि यादिलोपो निपात्यते, हिरण्यस्य विकारो हिरण्मयः॥
ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानिच्छन्दसि ॥ ६.४.१७५॥
ऋत्व्य वास्त्व्य वास्त्व माध्वी हिरण्यय इत्येतानि निपात्यन्ते छन्दसि विषये। ऋतु वास्तु इत्येतयोर्यति यणादेशो निपात्यते। ऋतौ भवम् ऋत्व्यम् (पै०सं० १९.२५.१४)। वास्तौ भवं वास्त्व्यम्। वस्तुशब्दस्याणि यणादेशो निपात्यते। वस्तुनि भवो वा॒स्त्व॑म् (मै०सं० २.२.४)। मधुशब्दस्याणि स्त्रियां यणादेशो निपात्यते। माध्वी॑र्नः स॒न्त्वोष॑धीः(ऋ०१.९०.६)। हिरण्यशब्दाद् विहितस्य मयटो मशब्दस्य लोपो निपात्यते। हि॒र॒ण्ययम् (ऋ०१.२५.१३)॥
॥ इति श्रीवामनविरचितायां काशिकायां वृत्तौ षष्ठाध्यायस्य चतुर्थः पादः॥