०२

बहुव्रीहौ प्रकृत्या पूर्वपदम्॥ ६.२.१॥

पूर्वपदग्रहणमत्र पूर्वपदस्थे स्वर उदात्ते स्वरिते वा वर्तते। बहुब्रीहौ समासे पूर्वपदस्य यः स्वरः स प्रकृत्या भवति, स्वभावेनावतिष्ठते, न विकारमनुदात्तत्वमापद्यते। समासान्तोदात्तत्वे हि सति ‘अनुदात्तं पदमेकवर्जम्’ (६.१.१५८) इति सोऽनुदात्तः स्यादिति समासान्तोदात्तत्वापवादोऽयमारभ्यते। कार्ष्णो॑त्तरासङ्गाः। कृष्णो मृगस्तस्य विकारः कार्ष्णः। ‘प्राणिरजतादिभ्योऽञ्’ (४.३.१५४) इत्यञ्प्रत्ययान्तो ञित्स्वरेणाद्युदात्तः। यूप॑वलजः। यूपशब्द उणादिषु ‘कुसुयुभ्यश्च’ (द०उ० ७.५) इति पप्रत्ययान्तः। तत्र च दीर्घ इति निदिति च वर्तते, तेनाद्युदात्तः। ब्र॒ह्म॒चा॒रिप॑रिस्कन्दः। ब्रह्मचारिशब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः। स्नात॑कपुत्रः। स्नातकशब्दः कन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः। अ॒ध्याप॑कपुत्रः। लित्स्वरेणाध्यापकशब्दो मध्योदात्तः। श्रोत्रि॑यपुत्रः। श्रोत्रियशब्दो नित्त्वादाद्युदात्तः। म॒नु॒ष्य॑नाथः। मनुष्यशब्दः ‘तित् स्वरितम्’ (६.१.१८५) इति स्वरितान्तः। उदात्तग्रहणं स्वरितग्रहणं चात्रानुवर्तते, तेन सर्वानुदात्ते पूर्वपदे विधिरेव नास्तीति समासान्तोदात्तत्वं भवति-स॒म॒भा॒ग इति। समशब्दो हि सर्वानुदात्तः॥

तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः॥ ६.२.२॥

तत्पुरुषे समासे तुल्यार्थं तृतीयान्तं सप्तम्यन्तमुपमानवाच्यव्ययं द्वितीयान्तं कृत्यान्तं च यत्पूर्वपदं तत्प्रकृतिस्वरं भवति। तुल्यार्थ-तुल्य॑श्वेतः। तुल्य॑लोहितः। तुल्य॑महान्। स॒दृक्छ्वे॑तः। स॒दृग्लो॑हितः। स॒दृग्म॑हान्। स॒दृश॑श्वेतः। स॒दृश॑लोहितः। स॒दृश॑महान्। एते ‘कृत्यतुल्याख्या अजात्या’ (२.१.६८) इति कर्मधारयाः। तत्र तुल्यशब्दो ‘यतोऽनावः’(६.१.२१३) इत्याद्युदात्तः। सदृक्शब्दः ‘समानान्ययोश्च०’ (३.२.६० वा०) इति क्विन्प्रत्ययान्तः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः। सदृशशब्दोऽपि कञन्तो मध्योदात्तः। तुल्यार्थ। तृतीया-शङ्कुलया खण्डः, श॒ङ्कु॒लाख॑ण्डः। किरिणा काणः, कि॒रिका॑णः। शङ्कुपूर्वात् लातेः ‘घञर्थे कविधानम्०’ (३.३.५८ वा०) इति वा कप्रत्ययान्तः शङ्कुलाशब्दोऽन्तोदात्तः। किरिशब्दोऽपि किरतेः ‘कृगृशृपृकुटिभिदिच्छिदिभ्यश्च’ (प०उ०४.१४४) इतिकारप्रत्ययः किदौणादिकस्तेनासावन्तोदात्तः। तृतीया। सप्तमी-अक्षेषु शौण्डः, अ॒क्षशा॑ैण्डः। पान॑शौण्डः। ‘अशेर्देवने’ (प०उ० ३.६५) इति सप्रत्ययान्तोऽक्ष-शब्दोऽन्तोदात्तः। पानशब्दो ल्युडन्तो लित्स्वरेणाद्युदात्तः। सप्तमी। उपमान-श॒स्त्रीश्या॑मा। कु॒मु॒दश्ये॑नी। हं॒सग॑द्गदा। न्य॒ग्रोध॑परिमण्डला। दू॒र्वा॒काण्ड॑श्यामा। श॒र॒काण्ड॑गौरी। ‘उपमानानि सामान्यवचनैः’ (२.१.५५) इति समासः। शस्त्रीशब्दो ङीष्प्रत्ययान्तोऽन्तोदत्तः। कुमुदशब्दोऽपि कौ मोदत इति मूलविभुजादित्वात् (३.२.५ वा०) कप्रत्ययान्तो ‘नब्विषयस्यानिसन्तस्य’ (फिट् सू० २६) इति वाद्युदात्तः। हंसशब्दो ‘वृतृवदिहनिकमिकषिभ्यः सः (प०उ० ३.६२)’ इति सप्रत्ययान्तः। न्यग्रोहतीति न्यग्रोधः। पचादित्वादच्प्रत्ययान्तः, तस्य ‘न्यग्रोधस्य च केवलस्य’ (७.३.५) इति निपातनाद् हकारस्य धकारो मध्योदात्तत्वं च। दूर्वाकाण्डशरकाण्डशब्दौ षष्ठीतत्पुरुषावुत्तरपदाद्युदात्तौ (६.२.१३५)। उपमान। अव्यय-अब्रा॑ह्मणः। अवृ॑षलः। कुब्रा॑ह्मणः। कुवृ॑षलः। निष्का॑ैशाम्बिः। निर्वा॑राणसिः। अति॑खट्वः। अति॑मालः। एतान्यव्ययान्याद्युदात्तानि॥ अव्यये नञ्कुनिपातानामिति वक्तव्यम्॥ इह मा भूत्- स्ना॒त्वा॒का॒ल॒क इति। अव्यय। द्वितीया-मु॒हू॒र्तसु॑खम्। मु॒हू॒र्तर॑मणीयम्। स॒र्व॒रा॒त्रक॑ल्याणी। स॒र्व॒रा॒त्रशो॑भना। ‘अत्यन्तसंयोगे च’ (२.१.२९) इति द्वितीयासमासः। मुहूर्तशब्दः पृषोदरादिरन्तोदात्तः सर्वरात्रशब्दोऽप्यच्प्रत्ययान्तः। द्वितीया। कृत्य-भो॒ज्यो॑ष्णम्। भो॒ज्य॑लवणम्। पा॒नीय॑शीतम्। ह॒र॒णीय॑चूर्णम्। भोज्यशब्दो ण्यदन्तोऽन्तस्वरितः। पानीयहरणीयशब्दयोः ‘उपोत्तमं रिति’ (६.१.२१७) इति ईकार उदात्तः॥

वर्णो वर्णेष्वनेते॥ ६.२.३॥

प्रकृत्या पूर्वपदं तत्पुरुष इति च वर्तते। वर्णं वर्णवाचि पूर्वपदं वर्णवाचिष्वेवोत्तरपदेषु एतशब्दवर्जितेषु परतस्तत्पुरुषे समासे प्रकृतिस्वरं भवति। कृ॒ष्णसा॑रङ्गः, लोहि॑तसारङ्गः। कृष्णक॑ल्माषः। लोहि॑तकल्माषः। ‘कृषेर्वर्ण’ (प०उ० ३.४) इति कृष्णशब्दो नक्प्रत्ययान्तोऽन्तोदात्तः। लोहितशब्दोऽपि ‘रुहे रश्च लो वा’ (प०उ० ३.९४) इतीतन्प्रत्ययान्त आद्युदात्तः। वर्ण इति किम् ? प॒र॒म॒कृ॒ष्णः। वर्णेष्विति किम् ? कृ॒ष्ण॒ति॒लाः। अनेत इति किम् ? कृ॒ष्ण॒ैतः। लो॒हि॒त॒ैतः॥

गाधलवणयोः प्रमाणे॥ ६.२.४॥

प्रमाणवाचिनि तत्पुरुषे समासे गाध लवण इत्येतयोरुत्तरपदयोः पूर्वपदं प्रकृतिस्वरं भवति। शम्ब॑गाधमुदकम्। अ॒रित्र॑गाधमुदकम्। तत्प्रमाणमित्यर्थः। गोल॑वणम्। अश्व॑लवणम्। यावद् गवे दीयते तावदित्यर्थः। षष्ठीसमासा एते। तत्र ‘शमेर्बन्’ (प०उ० ४.९५) इति बन्प्रत्ययान्तत्वाच्छम्बशब्द आद्युदात्तः। अरित्रशब्दः ‘अर्तिलूधूसू०’(३.२.१८४) इतीत्रप्रत्ययान्तो मध्योदात्तः। गोशब्दो डोप्रत्ययान्तः (प०उ० २.६८) अन्तोदात्तः। अश्वशब्दः ‘अशूप्रुषि०’ (प०उ० १.१५१) इति क्वन्प्रत्ययान्त आद्युदात्तः। प्रमाणमियत्तापरिच्छेदमात्रमिह द्रष्टव्यम्, न पुनरायाम एव। स्वरव्यङ्ग्यं च प्रमाणविशेषविषयत्वमेतेषाम्। प्रमाण इति किम् ? प॒र॒म॒गा॒धम्। प॒र॒म॒ल॒व॒णम्॥

दायाद्यं दायादे॥ ६.२.५॥

तत्पुरुषे समासे दायादशब्द उत्तरपदे दायाद्यवाचि पूर्वपदं प्रकृतिस्वरं भवति। वि॒द्यादा॑यादः। धन॑दायादः। ‘संज्ञायां समजनिषद०’ (३.३.९९) इति विद्याशब्दः क्यप्प्रत्ययान्तः। उदात्त इति च तत्र वर्तते। तेनायमन्तोदात्तः ‘कृपृवृजिमन्दिनिधाञ्भ्यः क्युः’ (द०उ० ५.२६) इति बहुलवचनात् केवलादपि धाञः क्युप्रत्ययस्तेन धनशब्दः प्रत्ययस्वरेणाद्युदात्तः। अथ विद्यादायाद इति केन षष्ठी ? ‘स्वामीश्वराधिपतिदायाद०’ (२.३.३९) इति। यद्येवं ‘प्रतिपदविधाना च षष्ठी न समस्यते’ (२.२.१० वा०) इति समासप्रतिषेधः प्राप्नोति। एवं तर्हि शेषलक्षणैवात्र षष्ठी, तस्यास्तु सप्तमी विधीयमाना बाधिका मा विज्ञायीति पुनरभ्यनुज्ञायते। दायाद्यमिति किम् ? प॒र॒म॒दा॒या॒दः। अत्र समासान्तोदात्तत्वमेव भवति॥

प्रतिबन्धि चिरकृच्छ्रयोः॥ ६.२.६॥

तत्पुरुषे समासे चिरकृच्छ्रयोरुत्तरपदयोः प्रतिबन्धिवाचि पूर्वपदं प्रकृतिस्वरं भवति। गम॑नचिरम्। गम॑नकृच्छ्रम्। व्या॒हर॑णचिरम्। व्या॒हर॑णकृच्छ्रम्। गमनव्याहरणशब्दौ ल्युडन्तौ, तयोर्लित्स्वरः। गमनं च यत् चिरं चेति विशेषणसमासोऽयं मयूरव्यंसकादिर्वैष द्रष्टव्यः। गमनं हि कारणविकलतया चिरकालभावि कृच्छ्रयोगि वा प्रतिबन्धि जायते। प्रतिबन्धीति किम् ? मू॒त्र॒कृ॒च्छ्रम्॥

पदेऽपदेशे॥ ६.२.७॥

अपदेशो व्याजः, तद्वाचिनि तत्पुरुषे समासे पदशब्द उत्तरपदे पूर्वपदं प्रकृतिस्वरं भवति। मूत्र॑पदेन प्रस्थितः। उ॒च्चा॒रप॑देन प्रस्थितः। मूत्रशब्दः ‘सिविमुच्योष्टेरू च’ (प० उ० ४.१६४) इति ष्ट्रन्प्रत्ययान्तः, मूत्रयतेर्वा घञन्त आद्युदात्तः। उच्चारशब्दोऽपि घञन्तः। ‘थाथघञ्क्ताजबित्रकाणाम्’ (६.२.१४४) इत्यन्तोदात्तः। विशेषणसमासोऽयं मयूरव्यंसकादिर्वा। अपदेश इति किम् ? विष्णोः पदं वि॒ष्णु॒पदम्॥

निवाते वातत्राणे॥ ६.२.८॥

निवातशब्द उत्तरपदे वातत्राणवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। कुट्येव निवातं कु॒टीनि॑वातम्। श॒मीनि॑वातम्। कुड्य॑निवातम्। वातस्याभावो निवातम्, अर्थाभावः (२.१.५) इत्यव्ययीभावः। निरुद्धो वातोऽस्मिन्निति वा निवातमिति बहुव्रीहिः। तत्र कुड्यादिहेतुके निवाते कुड्यादयो वर्तमानाः समानाधिकरणेन निवातशब्देन सह समस्यन्ते। कुटीशमीशब्दौ गौरादिङीषन्तावन्तोदात्तौ। कुड्यशब्दोऽपि कवतेर्यत् डक् किच्च इति यत्प्रत्ययान्त आद्युदात्त इत्येके। ड्यक्प्रत्ययान्तोऽन्तोदात्त इत्यपरे। वातत्राण इति किम् ? रा॒ज॒नि॒वा॒ते वसति। सुखं मा॒तृ॒नि॒वा॒तम्। निवातशब्दोऽयं पार्श्ववाची रूढिशब्दस्तत्रोभयत्र षष्ठीसमासः॥

शारदेऽनार्तवे॥ ६.२.९॥

ऋतौ भवमार्तवम्। अनार्तववाचिनि शारदशब्द उत्तरपदे तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। रज्जु॑शारदमुदकम्। दृ॒षत्शा॑रदाः सक्त वः। शारदशब्दोऽयं प्रत्यग्रवाची, तस्य नित्यसमासोऽस्वपदविग्रह इष्यते। सद्यो रज्जूद्धृतमुदकं प्रत्यग्रमनुपहतं रज्जुशारदमुच्यते। रज्जुशब्दः ‘सृजेरसुम् च’ (प०उ० १.१५) इति उप्रत्ययान्त आदिलोपश्च। ‘धान्ये नित्’ (प०उ०१.९) इति च तत्र वर्तते, तेनाद्युदात्तः। दृषत्शब्द ‘दृणातेः षुग् ह्रस्वश्च’ (प० उ० १.१३१) इति अदिप्रत्ययान्तोऽन्तोदात्तः। अनार्तव इति किम् ? प॒र॒म॒शा॒र॒दम्। उ॒त्त॒म॒शा॒र॒दम्। शरदि ऋतुविशेषे भवं यत् तदिह शारदम्॥

अध्वर्युकषाययोर्जातौ॥ ६.२.१०॥

अध्वर्यु कषाय इत्येतयोर्जातिवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। प्राच्या॑ध्वर्युः। क॒ठाध्व॑र्युः। का॒ला॒पाध्व॑र्युः। एते समानाधिकरणसमासा जातिवाचिनो नियतविषयाः। तत्र प्राच्यशब्दो यत्प्रत्ययान्त आद्युदात्तः। कठशब्दः पचाद्यचि व्युत्पादितः, ततः कठेन प्रोक्तमिति ‘वैशम्पायनान्तेवासिभ्यश्च’ (४.३.१०४) इति णिनिस्तस्य ‘कठचरकाल्लुक्’ (४.३.१०७) इति लुक्। कलापिना प्रोक्तमिति ‘कलापिनोऽण्’ (४.३.१०८) तस्मिन् ‘इनण्यनपत्ये’ (६.४.१६४) इति प्रकृतिभावे प्राप्ते ‘नान्तस्य टिलोपे सब्रह्मचारिपीठ-सर्पिकलापिकौथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसंख्यानम्’ (६.४.१४४ वा०) इति टिलोपः। तदेवं कालापशब्दोऽन्तोदात्तः। स॒र्पि॒र्म॒ण्डक॑षायम्। उ॒मा॒पु॒ष्पक॑षायम्। दा॒ैवा॒रि॒कक॑षायम्। षष्ठीसमासव्युत्पादिता रूढिशब्दा एते। तत्र सर्पिर्मण्डशब्द उमापुष्पशब्दश्च षष्ठीसमासावन्तोदात्तौ। दौवारिकशब्दोऽपि द्वारे नियुक्त इति ठकि सत्यन्तोदात्त एव। जाताविति किम्? प॒र॒मा॒ध्व॒र्युः॒। प॒र॒म॒क॒ षा॒यः॥

सदृशप्रतिरूपयोः सादृश्ये॥ ६.२.११॥

सदृश प्रतिरूप इत्येतयोरुत्तरपदयोः सादृश्यवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। पि॒तृस॑दृशः। मा॒तृस॑दृशः। पितृमातृशब्दावुणादिष्वन्तोदात्तौ निपातितौ। षष्ठीसमासार्थं च सदृशग्रहणमिह तदलुकि षष्ठ्याः प्रयोजयति-दा॒स्याःस॑दृशः, वृ॒ष॒ल्याःस॑दृश इति। अत्र दासीवृषलीशब्दयोरन्तोदात्तत्वाद् ‘उदात्तयणो हल्पूर्वात्’ (६.१.१७४) इति विभक्ति रन्तोदात्ता। पि॒तृप्॑रतिरूपः। मा॒तृप्॑रतिरूपः। सादृश्य इति किम् ? प॒र॒म॒स॒दृ॒शः। उ॒त्त॒म॒स॒दृ॒शः। समासार्थोऽत्र पूज्यमानता, न सादृश्यम्॥

द्विगौ प्रमाणे॥ ६.२.१२॥

द्विगावुत्तरपदे प्रमाणवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। प्राच्य॑सप्तशमः। गान्धा॑रिसप्तशमः। सप्त शमाः प्रमाणमस्येति मात्रच उत्पन्नस्य ‘प्रमाणे लो द्विगोर्नित्यम्’ (५.२.३७ वा०) इति लुक्। प्राच्यश्चासौ सप्तशमश्चेति, प्राच्यसप्तशमः। प्राच्यशब्द आद्युदात्तः। गान्धारिशब्दः कर्दमादित्वाद् (फिट् सू० ५९) आद्युदात्तो मध्योदात्तो वा। द्विगाविति किम् ? व्री॒हि॒प्॒रस्थः। प्रमाण इति किम् ? प॒र॒म॒स॒प्त॒श॒मः॥

गन्तव्यपण्यं वाणिजे॥ ६.२.१३॥

वाणिजशब्द उत्तरपदे तत्पुरुषे समासे गन्तव्यवाचि पण्यवाचि च पूर्वपदं प्रकृतिस्वरं भवति। म॒द्रवा॑णिजः। का॒श्मीर॑वाणिजः। गान्धा॑रिवाणिजः। मद्रादिषु गत्वा व्यवहरन्तीत्यर्थः। सप्तसमीसमासा एते। तत्र मद्रशब्दो रक्प्रत्ययान्तत्वादन्तोदात्तः। काश्मीरशब्दोऽपि पृषोदरादिषु मध्योदात्तः। गान्धारिशब्दः कर्दमादिषु पठ्यते। तत्र ‘कर्दमादीनां च’ (फिट् सू० ५९) इति पक्ष आद्युदात्तो भवति द्वितीयो वा। पण्य-गोवा॑णिजः। अश्व॑वाणिजः। गोशब्दोऽन्तोदात्तः। अश्वशब्द आद्युदात्तः। गन्तव्यपण्यमिति किम्? प॒र॒म॒वा॒णि॒जः। उ॒त्त॒म॒वा॒णि॒जः॥

मात्रोपज्ञोपक्रमच्छाये नपुंसके॥ ६.२.१४॥

मात्र उपज्ञा उपक्रम छाया एतेषूत्तेरपदेषु नपुंसकवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। भि॒क्षामा॑त्रं न ददाति याचितः। स॒मु॒द्रमा॑त्रं न सरोऽस्ति किंचन। मात्रशब्दोऽयं वृत्तिविषय एव तुल्यप्रमाणे वर्तते। तत्र भिक्षायास्तुल्यप्रमाणमित्यस्वपदविग्रहः षष्ठीसमासः। तत्र भिक्षाशब्दो ‘गुरोश्च हलः’ (३.३.१०३) इत्यप्रत्ययान्तोऽन्तोदात्तः। समुद्रशब्दोऽपि फिषि ‘पाटलापालङ्काम्बासागरार्थानाम्’ (फिट् सू० २) इत्यन्तोदात्त एव। उपज्ञा-पा॒णि॒नोप॑ज्ञम् अकालकं व्याकरणम्। व्याड्यु॑पज्ञं दुष्करणम्। आपि॑शल्युपज्ञं गुरुलाघवम्। षष्ठीसमासा एते। तत्र पणिनोऽपत्यमित्यणन्तः। पाणिनशब्दः प्रत्ययस्वरेणान्तोदात्तः। व्याडिरिञन्तरत्वादाद्युदात्तः। तद्वदापिशलिः। उपक्रम-आ॒ढ्योप॑क्रमं प्रासादः। द॒र्श॒नीयो॑पक्रमम्। सु॒कु॒मा॒रोप॑क्रमम्। न॒न्दोप॑क्रमाणि मानानि। एतेऽपि षष्ठीसमासा एव। तत्रैत्यैनं ध्यायन्तीत्याढ्यः। ‘घञर्थे कविधानम्०’ (३.३.५८ वा०) इति कप्रत्ययः, आङ्पूर्वाद् ध्यायतेः पृषोदरादित्वाद् धस्य ढत्वम्। तदयमाढ्यशब्दस्थाथादिस्वरेणान्तोदात्तः (६.२.१४४)। दर्शनीयशब्दो रित्त्वादुपोत्तमोदात्तः। सुकुमारशब्दो ‘नञ्सुभ्याम्’ (६.२.१७२) इत्यन्तोदात्तः। नन्दशब्द पचाद्यचि व्युत्पादितः। उपज्ञोपक्रमान्तस्य तत्पुरुषस्य नपुंसकलिङ्गता ‘उपज्ञोपक्रमं तदाद्याचिख्यासायाम्’ (२.४.२१) इति। छाया-इषु॑च्छायम्। धनुश्छायम्। इषुशब्द ‘ईषेः किच्च’ (प०उ० १.१३) इत्युप्रत्ययान्तस्तत्र च ‘धान्ये नित्’ (प०उ० १.९) इति वर्तते, तेनाद्युदात्तः। धनुःशब्दोऽपि ‘नब्विषयस्यानिसन्तस्य’ (फिट् सू० २६) इत्याद्युदात्त एव। इषूणां छायेति षष्ठीसमासः। ‘छाया बाहुल्ये’ (२.४.२२) इति नपुंसकलिङ्गता। नपुंसक इति किम्? कु॒ड्य॒च्छा॒या॥

सुखप्रिययोर्हिते॥ ६.२.१५॥

सुख प्रिय इत्येतयोरुत्तरपदयोर्हितवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। गम॑नसुखम्। वच॑नसुखम्। व्या॒हर॑णसुखम्। सुख। प्रिय-गम॑नप्रियम्। वच॑नप्रियम्। व्या॒हर॑णप्रियम्। समानाधिकरणसमासा एते। तत्र सुखप्रियशब्दौ तद्धेतावायत्यां प्रीतिकरे वर्तेते। तद्धि हितं यदायत्यां प्रीतिं करोति। गमनादिषु ल्युडन्तेषु लित्स्वरः। हित इति किम् ? प॒र॒म॒सु॒खम्। प॒र॒म॒पि्॒रयम्॥

प्रीतौ च॥ ६.२.१६॥

प्रीतौ गम्यमानायां सुख प्रिय इत्येतयोरुत्तरपदयोस्तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। ब्रा॒ह्म॒णसु॑खं पायसम्। छा॒त्रपि्॑रयोऽनध्यायः। क॒न्या॑प्रियो मृदङ्गः। सुखप्रिययोः प्रीत्यव्यभिचारादिह प्रीतिग्रहणं तदतिशयप्रतिपत्त्यर्थम्। ब्राह्मणछात्रशब्दौ प्रत्ययस्वरेणान्तोदात्तौ। कन्याशब्दः स्वरितान्तः (फिट् सू० ७६)। प्रीताविति किम् ? रा॒ज॒सु॒खम्। रा॒ज॒पि्॒रयम्॥

स्वं स्वामिनि॥ ६.२.१७॥

स्वामिशब्द उत्तरपदे तत्पुरुषे समासे स्ववाचि पूर्वपदं प्रकृतिस्वरं भवति। गोस्वा॑मी। अश्व॑स्वामी। धन॑स्वामी। अश्वधनगवां कथित एव स्वरः। स्वमिति किम् ? प॒र॒म॒स्वा॒मी॥

पत्यावैश्वर्ये॥ ६.२.१८॥

पतिशब्द उत्तरपद ऐश्वर्यवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरं भवति। गृ॒हप॑तिः। सेना॑पतिः। नर॑पतिः। धा॒न्य॑पतिः। ‘गेहे कः’ (३.१.१४४) इति प्रत्ययस्वरेणान्तोदात्तो गृहशब्दः। सह इनेन वर्तत इति ‘बहुव्रीहौ प्रकृत्या पूर्वपदम्’ (६.२.१) इति सेनाशब्द आद्युदात्तः। ‘नृ नये’ एतस्माद् ‘ॠ दोरप्’ (३.३.५७) इत्यप्प्रत्ययान्त आद्युदात्तो नरशब्दः। धान्यमन्तस्वरितम् (फिट् सू० ७६)। ऐश्वर्य इति किम्? ब्राह्मणो वृ॒ष॒ली॒प॒तिः। वृषल्या भर्तेत्यर्थः॥

न भूवाक्चिद्दिधिषु॥ ६.२.१९॥

पतिशब्द उत्तरपद ऐश्वर्यवाचिनि तत्पुरुषे समासे भू वाक् चित् दिधिषू इत्येतानि पूर्वपदानि प्रकृतिस्वराणि न भवन्ति। पूर्वेण प्राप्तः स्वरः प्रतिषिध्यते। भू॒प॒तिः। वा॒क्प॒तिः। चि॒त्प॒तिः। दि॒धि॒षू॒प॒तिः। षष्ठीसमासा एते समासस्वरेणान्तोदात्ता भवन्ति॥

वा भुवनम्॥ ६.२.२०॥

पतिशब्द उत्तरपद ऐश्वर्यवाचिनि तत्पुरुषे समासे भुवनशब्दः पूर्वपदं वा प्रकृतिस्वरं भवति। भुव॑नपतिः, भु॒व॒न॒प॒तिः। पूर्वपदप्रकृतिस्वरपक्ष आदिरुदात्तः। ‘रञ्जेःक्युन्’ (प०उ० २.८०) इति वर्तमाने ‘भूसूधूभ्रस्जिभ्यश्छन्दसि’ (प० उ० २.८१) इति क्युन्प्रत्ययान्तो भुवनशब्द आद्युदात्तो व्युत्पादितः। कथं भुवनपतिरादित्य इति ? ‘उणादयो बहुलम्’ (३.३.१) इति बहुलवचनाद् भाषायामपि प्रयुज्यते॥

आशङ्काबाधनेदीयः सु संभावने॥ ६.२.२१॥

प्रकृत्या पूर्वपदं तत्पुरुष इति वर्तते। आशङ्क आबाध नेदीयस् इत्येतेषूत्तरपदेषु संभावनवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। अस्तित्वाध्यवसायः संभावनम्। गम॑नाशङ्कं वर्तते। गमनमाशङ्क्यत इति संभाव्यते। वच॑नाशङ्कम्। व्या॒हर॑णाशङ्कम्। आबाध-गम॑नाबाधम्। वच॑नाबाधम्। व्या॒हर॑णाबाधम्। गमनं बाध्यत इति संभाव्यते। नेदीयस्-गम॑ननेदीयः। व्या॒हर॑णनेदीयः। गमनमतिनिकटतरमिति संभाव्यते। संभावन इति किम् ? प॒र॒म॒ने॒दी॒यः। पूर्वपदानि ल्युडन्तान्युक्त स्वराणि॥

पूर्व भूतपूर्वे॥ ६.२.२२॥

पूर्वशब्द उत्तरपदे भूतपूर्ववाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। आढ्यो भूतपूर्व आ॒ढ्यपू॑र्वः। पूर्वशब्दो वृत्तिविषये भूतपूर्वे वर्तते। तत्र ‘विशेषणं विशेष्येण०’ (२.१.५७) इति समासः। मयूरव्यंसकादिर्वा द्रष्टव्यः। द॒र्श॒नीय॑पूर्वः। सु॒कु॒मा॒रपू॑र्वः। भूतपूर्व इति किम्? प॒र॒म॒पू॒र्वः। उ॒त्त॒म॒पू॒र्वः। अत्र परमश्चासौ पूर्वश्चेति समासः, न तु परमो भूतपूर्व इति। तथा च सत्युदाहरणमेव भवति ॥

सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये॥ ६.२.२३॥

सविध सनीड समर्याद सवेश सदेश इत्येतेषूत्तरपदेषु सामीप्यवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। म॒द्रस॑विधम्। गान्धा॑रिसविधम्। का॒श्मीर॑सविधम्। म॒द्रस॑नीडम्। गान्धा॑रिसनीडम्। का॒श्मीर॑सनीडम्। मद्रस॑मर्यादम्। गान्धा॑रिसमर्यादम्। का॒श्मीर॑समर्यादम्। म॒द्रस॑वेशम्। गान्धा॑रिसवेशम्। का॒श्मीर॑सवेशम्। म॒द्रस॑देशम्। गान्धा॑रिसदेशम्। का॒श्मीर॑सदेशम्। पूर्वपदान्युक्तस्वराणि। सविधादीनां सह विधयेत्येवमादिका व्युत्पत्तिरेव केवलम्। समीपवाचिनस्त्वेते समुदायाः। मद्राणां सविधं समीपमित्यर्थः। सामीप्य इति किम् ? सह मर्यादया वर्तते समर्यादं क्षेत्रम्। देवदत्तस्य समर्यादं दे॒व॒द॒त्त॒स॒म॒र्या॒दम्। सविधादिष्विति किम् ? दे॒व॒द॒त्त॒स॒म॒या॥

विस्पष्टादीनि गुणवचनेषु॥ ६.२.२४॥

विस्पष्टादीनि पूर्वपदानि गुणवचनेषूत्तरपदेषु प्रकृतिस्वराणि भवन्ति। विस्प॑ष्टकटुकम्। विचि॑त्रकटुकम्। व्य॑क्तकटुकम्। विस्प॑ष्टलवणम्। विचि॑त्रलवणम्। व्य॑क्तलवणम्। विस्पष्टं कटुकमिति विगृह्य सुप्सुपेति समासः। विस्पष्टादयो ह्यत्र प्रवृत्तिनिमित्तस्य विशेषणम्। कटुकादिभिश्च शब्दैर्गुणवद् द्रव्यमभिधीयत इत्यसामानाधिकरण्यमतो नास्ति कर्मधारयः। विस्पष्टशब्दो ‘गतिरनन्तरः’ (६.२.४९) इत्याद्युदात्तः। विचित्रशब्दोऽप्यव्ययस्वरेण। विचित्तशब्दमन्ये पठन्ति। सोऽपि बहुव्रीहिस्वरेणाद्युदात्त एव। व्यक्तशब्द ‘उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य’ (८.२.४) इत्यादिस्वरितः। ये चात्रापरे पठ्यन्ते तत्र संपन्नशब्दस्थाथादिस्वरेणान्तोदात्तः, पटुपण्डितशब्दौ प्रत्ययस्वरेण। कुशलशब्दः कृत्स्वरेणान्तोदात्तः। चपलशब्दश्चित्स्वरेणान्तोदात्तः। ‘चुपेरच्चोपधायाः’ (प० उ० १.१११) इत्यत्र हि चिदिति वर्तते। निपुणशब्दस्थाथादिस्वरेणान्तोदात्तः। पुणेरिगुपधलक्षणःकप्रत्ययोऽयम्। विस्पष्टादीनीति किम्? प॒र॒म॒ल॒व॒णम्। उ॒त्त॒म॒ल॒व॒णम्। गुणवचनेष्विति किम्? वि॒स्प॒ष्ट॒ब्रा॒ह्म्ाणः॥ विस्प॑ष्ट। विचि॑त्र। व्य॑क्त । सं॒प॒न्न। प॒टु। प॒ण्डि॒त। कु॒श॒ल। च॒प॒ल। नि॒पु॒ण। विस्पष्टादिः॥

श्रज्यावमकन्पापवत्सु भावे कर्मधारये॥ ६.२.२५॥

श्र ज्य अवम कन् इत्येतेषु पापशब्दवति चोत्तरपदे कर्मधारये समासे भाववाचि पूर्वपदं प्रकृतिस्वरं भवति। गम॑नश्रेष्ठम्। गम॑नश्रेयः। ज्य-वच॑नज्येष्ठम्। वच॑नज्यायः। अवम-गम॑नावमम्। वच॑नावमम्। कन्-गम॑नकनिष्ठम्। गम॑नकनीयः। पापवत्-गम॑नपापिष्ठम्। गम॑नपापीयः। ल्युडन्तान्येतानि पूर्वपदानि लित्स्वरेणाद्युदात्तानि। श्रज्यकनामादेशानां ग्रहणमिति सामर्थ्यात् तद्वदुत्तरपदं गृह्यते। श्रादिष्विति किम् ? ग॒म॒न॒शो॒भ॒नम्। भाव इति किम् ? गम्यतेऽनेनेति गमनम्, तत् श्रेयो ग॒म॒न॒श्रे॒यः। कर्मधारय इति किम् ? गमनस्य श्रेयो ग॒म॒न॒श्रे॒यः॥

कुमारश्च॥ ६.२.२६॥

कुमारशब्दः पूर्वपदं कर्मधारये समासे प्रकृतिस्वरं भवति। कु॒मा॒रश्र॑मणा। कु॒मा॒र॒कु॑लटा। कु॒मा॒रता॑पसी। कुमारशब्दोऽन्तोदात्तः। अत्र केचित् ‘लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्’ इति परिभाषया ‘कुमारः श्रमणादिभिः’ (२.१.७०) इत्यत्रैव समासे स्वरमेतमिच्छन्ति। केचित् पुनरविशेषेण सर्वत्रैव कर्मधारये॥

आदिः प्रत्येनसि ॥ ६.२.२७॥

कर्मधारय इति वर्तते। प्रतिगत एनसा, प्रतिगतमेनो वा यस्य स प्रत्येनाः। तस्मिन्नुत्तरपदे कर्मधारये कुमारस्यादिरुदात्तो भवति। कुमा॑रप्रत्येनाः। उदात्त इत्येतदत्र सामर्थ्याद् वेदितव्यम्। पूर्वपदप्रकृतिस्वर एव ह्ययमादेरुपदिश्यते॥

पूगेष्वन्यतरस्याम् ॥ ६.२.२८॥

पूगा गणाः तद्वाचिन्युत्तरपदे कर्मधारये समासे कुमारस्यान्यतरस्यामादिरुदात्तो भवति। कुमा॑रचातकाः, कु॒मा॒रचा॑तकाः, कु॒मा॒र॒चा॒त॒काः। कुमा॑रलोहध्वजाः, कु॒मा॒रलो॑हध्वजाः, कु॒मा॒र॒लो॒ह॒ध्व॒जाः। कुमा॑रबलाहकाः, कु॒मा॒रब॑लाहकाः,कु॒मा॒र॒ब॒ला॒ह॒काः। कुमा॑रजीमूताः, कु॒मा॒रजी॑मूताः, कु॒मा॒र॒जी॒मू॒ताः। चातकादयः पूगशब्दाः, तेभ्यः ‘पूगाञ्ञ्योऽग्रामणीपूर्वात्’ (५.३.११२) इति ञ्यः प्रत्ययः, तस्य ‘तद्राजस्य बहुषु०’ (२.४.६२) इति लुक्। अत्र यदाद्युदात्तत्वं न भवति, तदा ‘कुमारश्च’ (६.२.२६) इति पूर्वपदप्रकृतिस्वरत्वमेके कुर्वन्ति। ये तु तत्र प्रतिपदोक्त स्य ग्रहणमिच्छन्ति तेषां समासान्तोदात्तत्वमेव भवति॥

इगन्तकालकपालभगालशरावेषु द्विगौ ॥ ६.२.२९॥

इगन्त उत्तरपदे कालवाचिनि कपाल भगाल शराव इत्येतेषु च द्विगौ समासे पूर्वपदं प्रकृतिस्वरं भवति। इगन्त-पञ्चा॑रत्निः। दशा॑रत्निः। पञ्चारत्नयः प्रमाणमस्य, दशारत्नयः प्रमाणमस्येति तद्धितार्थे द्विगुः,‘प्रमाणे लो द्विगोर्नित्यम्’ (५.२.३७ वा०) इति मात्रचो लोपः। इगन्त। काल-पञ्च॑मास्यः। दश॑मास्यः। पञ्च मासान् भृतो भूतो भावी वा (५.१.८०) इति तद्धितार्थे ‘द्विगोर्यप्’ (५.१.८२)। पञ्च॑वर्षः। दश॑वर्षः। ‘वर्षाल्लुक् च’ (५.१.८८) इति ठञो लुक्। काल। कपाल-पञ्च॑कपालः। दश॑कपालः। कपाल। भगाल-पञ्च॑भगालः। दश॑भगालः। भगाल। शराव-पञ्च॑शरावः। दश॑शरावः। ‘संस्कृतं भक्षाः’ (४.२.१६) इति तद्धितार्थ एते समासा ‘द्विगोर्लुगनपत्ये’ (४.१.८८) इति कृताण्प्रत्ययलोपा द्रष्टव्याः। इगन्तादिष्विति किम् ? पञ्चभिरश्वैः क्रीतः प॒ञ्चा॒श्वः। द॒शा॒श्वः। द्विगाविति किम् ? प॒र॒मा॒र॒त्निः। प॒र॒म॒श॒रा॒वम्। पञ्चा॑रत्न्यो दशा॑रत्नय इति च यण्गुणयोर्बहिरङ्गलक्षणयोरसिद्धत्वात् स्थानिवद्भावाद् वा द्विगुस्वर इगन्तलक्षणः प्रवर्तते॥

बह्वन्यतरस्याम् ॥ ६.२.३०॥

बहुशब्दः पूर्वपदमिगन्तादिषूत्तरपदेषु द्विगौ समासेऽन्यतरस्यां प्रकृतिस्वरं भवति। पूर्वेण नित्ये प्राप्ते विकल्पः। ब॒ह्व॑रत्निः,ब॒ह्व॒र॒त्निः। ब॒हुमा॑स्यः, ब॒हु॒मा॒स्यः। ब॒हुक॑पालः,ब॒हु॒क॒पा॒लः। ब॒हुभ॑गालः, ब॒हु॒भ॒गा॒लः। ब॒हुश॑रावः, ब॒हु॒श॒रा॒वः। बहुशब्दोऽन्तोदात्तः, तस्य प्रकृतिस्वरे कृते यत्र यणादेशस्तत्र ‘उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य’ (८.२.४) इत्येष स्वरो भवति॥

दिष्टिवितस्त्योश्च ॥ ६.२.३१॥

दिष्टि वितस्ति इत्येतयोरुत्तरपदयोर्द्विगौ समासे पूर्वपदमन्यतरस्यां प्रकृतिस्वरं भवति। पञ्च॑दिष्टिः, प॒ञ्च॒दि॒ष्टिः। पञ्च॑वितस्तिः, प॒ञ्च॒वि॒त॒स्तिः। दिष्टिवितस्ती प्रमाणे, तेनात्र मात्रचो लुक्॥

सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात् ॥ ६.२.३२॥

सप्तम्यन्तं पूर्वपदं सिद्ध शुष्क पक्व बन्ध इत्येतेषूत्तरपदेषु प्रकृतिस्वरं भवति, सा चेत् सप्तमी कालाद् न भवति। सां॒का॒श्यसि॑द्घः। का॒म्पि॒ल्यसि॑द्घः। सांकाश्यकाम्पिल्यशब्दौ ण्यप्रत्ययान्तावन्तोदात्तौ। फिषि तु ‘सांकाश्यकाम्पिल्यनासिक्यदार्वाघाटानाम्’ (फिट् सू० ६५) अन्तः पूर्वं वेति पठ्यते। तत्र पक्षे मध्योदात्तावपि भवतः। शुष्क-ऊ॒कशु॑ष्कः। नि॒धन॑शुष्कः। ऊकशब्दो बहुलवचनादवतेः कक्प्रत्ययान्तोऽन्तोदात्तः। निधनशब्दो निधाञः क्युप्रत्यये मध्योदात्तः। पक्व-कु॒म्भी॑पक्वः। क॒ल॒सीप॑क्वः। भ्राष्ट्॑रपक्वः। कुम्भीकलसीशब्दौ ङीषन्तावन्तोदात्तौ। भ्राष्ट्रशब्दः ष्ट्रन्प्रत्ययान्त आद्युदात्तः। बन्ध-च॒क्रब॑न्धः। चार॑कबन्धः। चक्रशब्दोऽन्तोदात्तः। चारकशब्दो ण्वुलन्त आद्युदात्तः। अकालादिति किम् ? पू॒र्वा॒ह्ण॒सि॒द्धः। अ॒प॒रा॒ह्ण॒सि॒द्धः। सप्तमीस्वरः कृत्स्वरेण बाधितः पुनरयं विधीयते॥

परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु ॥ ६.२.३३॥

परि प्रति उप अप इत्येते पूर्वपदभूता वर्ज्यमानवाचिनि अहरवयववाचिनि रात्र्यवयववाचिनि चोत्तरपदे प्रकृतिस्वरा भवन्ति। परि॑त्रिगर्तं वृष्टो देवः। परि॑सौवीरम्। परि॑सार्वसेनि। प्रति-प्रति॑पूर्वाह्णम्। प्रत्य॑पराह्णम् प्रति॑पूर्वरात्रम्। प्रत्य॑पररात्रम्। उप-उप॑पूर्वाह्णम्। उपा॑पराह्णम् । उप॑पूर्वरात्रम्। उपा॑पररात्रम्। अप-अप॑त्रिगर्तं वृष्टो देवः। अप॑सौवीरम्। अप॑सार्वसेनि। निपाता आद्युदात्ता ‘उपसर्गाश्चाभिवर्जम्’ (फिट्० सू० ८०) इत्याद्युदात्तानि पूर्वपदानि। तत्पुरुषे बहुव्रीहौ च सिद्धत्वादव्ययीभावार्थोऽयमारम्भः। तत्रापपरी वर्जने (१.४.८८) वर्तेते इति तयोरेव वर्ज्यमानमुत्तरपदम् नेतरयोः। अहोरात्रावयवा अपि वर्ज्यमाना एव तयोर्भवन्तीति न पृथगुदाह्रियन्ते। वर्ज्यमानाहोरात्रावयवेष्विति किम्? प्॒रत्य॒ग्नि शलभाः पतन्ति। प॒रि॒व॒नमित्यत्र ‘वनं समासे’ (६.२.१७८) इत्येतद् भवति॥

राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु ॥ ६.२.३४॥

राजन्यवाचिनां बहुवचनान्तानां यो द्वन्द्वोऽन्धकवृष्णिषु वर्तते, तत्र पूर्वपदं प्रकृतिस्वरं भवति। श्वा॒फ॒ल्कच॑ैत्रकाः। च॒ैत्र॒करो॑धकाः। शिनि॑वासुदेवाः। श्वाफल्कशब्दश्चैत्रकशब्दश्च ‘ऋष्यन्धकवृष्णिकुरुभ्यश्च’ (४.१.११४) इत्यणन्तावन्तोदात्तौ। शिनिशब्द आद्युदात्तः, स तदपत्येष्वभेदेन वर्तते। राजन्य इति किम् ? द्व॒ैप्य॒ह॒ैमा॒य॒नाः। द्वीपे भवा इति ‘द्वीपादनुसमुद्रं यञ्’ (४.३.१०)। हैमेरपत्यं युवा हैमायनः। अन्धकवृष्णय एते न तु राजन्याः। राजन्यग्रहणमिहाभिषिक्तवंश्यानां क्षत्रियाणां ग्रहणार्थम्। एते च नाभिषिक्तवंश्याः। बहुवचनग्रहणं किम् ? सं॒क॒र्ष॒ण॒वा॒सु॒दे॒वौ। द्वन्द्व इति किम् ? वृष्णीनां कुमारा वृ॒ष्िणकु॒मा॒राः। अन्धकवृष्णिष्विति किम् ? कु॒रु॒प॒ञ्चा॒लाः (तै० ब्रा० १.८.४.१)॥

संख्या ॥ ६.२.३५॥

द्वन्द्वसमासे संख्यावाचि पूर्वपदं प्रकृतिस्वरं भवति। एका॑दश (तै० सं० ४.७.११.१)। द्वाद॑श। त्र॒योद॑श। ‘इण्भीकापाशल्यतिमर्चिभ्यः कन्’ (प०उ० ३.४३) इति नित्त्वादाद्युदात्त एकशब्दः। त्रेस्त्रयस् आदेशोऽन्तोदात्तो निपात्यते॥

आचार्योपसर्जनश्चान्तेवासी ॥ ६.२.३६॥

आचार्योपसर्जनान्तेवासिनां यो द्वन्द्वस्तत्र पूर्वपदं प्रकृतिस्वरं भवति। आ॒पि॒श॒लपा॑णिनीयाः। पा॒णि॒नीय॑रौढीयाः। रौ॒ढीय॑काशकृत्स्नाः। अपिशलस्यापत्यमापिशलिराचार्यः। ’अत इञ्’ (४.१.९५)। ‘तेन प्रोक्त म्’ (४.३.१०१) आपिशलम्। ‘इञश्च’ (४.२.११२) इत्यण्। तदधीयते येऽन्तेवासिनस्तेऽप्यापिशलाः, ‘प्रोक्ताल्लुक्’ (४.२.६४) इति तस्य तद्धितस्याध्येतरि विहितस्य लुक् क्रियते। आपिशलेर्वा छात्रा आपिशला इत्युभयथाप्याचार्योपसर्जनश्चान्तेवासी भवति। आचार्योपसर्जनग्रहणं द्वन्द्वविशेषणार्थम्, सकलो द्वन्द्व आचार्योपसर्जनो यथा विज्ञायेत। इह मा भूत्-पा॒णि॒नी॒य॒दे॒व॒द॒त्तौ। आचार्योपसर्जन इति किम् ? छा॒न्द॒स॒व॒ैया॒क॒र॒णाः। अन्तेवासीति किम् ? आ॒पि॒श॒ल॒पा॒ण्िानी॒ये शास्त्रे॥

कार्तकौजपादयश्च ॥ ६.२.३७॥

कार्तकौजपादयो ये द्वन्द्वास्तेषु पूर्वपदं प्रकृतिस्वरं भवति। प्रकृतिस्वरपूर्वपदाः कार्तकौजपादयो भवन्ति। विभक्त्यन्तानां पाठो वचनविवक्षार्थः। चकारो द्वन्द्वाधिकारानुवृत्त्यर्थः। का॒र्तका॑ैजपौ। कृतस्यापत्यं कुजपस्यापत्यम् इत्यणन्तावेतौ। साव॑र्णिमाण्डूकेयौ। सावर्णिरिञन्तः। अ॒व॒न्त्य॑श्मकाः। अवन्तेरपत्यानि बहूनि, तन्निवासो जनपदोऽवन्तयः। तथाश्मकाः। प॒ैलश्या॑पर्णेयाः। युवद्वन्द्वोऽयम्। पीलाया अपत्यं पैलः, तस्यापत्यं युवेति ‘अणो द्व्यचः’ (४.१.१५६) इति विहितस्य फिञः ‘पैलादिभ्यश्च’ (२.४.५९) इति लुक्। श्यापर्णशब्दो बिदादिः, तस्यापत्यं स्त्री श्यापर्णी, तदपत्यं युवा श्यापर्णेयः। बहुवचनमतन्त्रम्, तेन पै॒लश्या॑पर्णेयौ इत्यत्रापि भवति। क॒पिश्या॑पर्णेयाः। कपिरन्तोदात्तः, तस्यापत्यं बहुत्वे ‘कपिबोधादाङ्गिरसे’ (४.१.१०७) इत्युत्पन्नस्य यञो ‘यञञोश्च’ (२.४.६४) इति लुक्, तेनात्र बहुत्वमाश्रीयत एव। श॒ैति॒का॒क्षपा॑ञ्चालेयाः। शितिकाक्षो नाम ऋषिः, तस्यापत्यमिति ऋप्यण् तदपत्ये यूनि य इञ् तस्य ‘ण्यक्षत्रियार्षञितो यूनि लुक्०’ (२.४.५८) इति लुक्। पाञ्चालस्यापत्यं स्त्री पाञ्चाली, तदपत्यं युवा पाञ्चालेयः। अत्रापि बहुवचनमविवक्षितमिति श॒ैति॒का॒क्षपा॑ञ्चालेयौ इत्यत्रापि भवति। कटु॑कवार्चलेयाः। कटुकस्यापत्यमिति ‘अत इञ्’ (४.१.९५), तस्य ‘बह्वच इञः प्राच्यभरतेषु’ (२.४.६६) इति बहुषु लुक्। वर्चलाया अपत्यं वार्चलेयः। शा॒क॒लशु॑नकाः। शकलस्यापत्यं शाकल्यः, तस्य छात्राः शाकलाः। ‘कण्वादिभ्यो गोत्रे’ (४.२.१११) इत्यण्। शुनकस्यापत्यमिति बिदादिभ्योञ् (४.१.१०४) तस्य बहुषु लुक्। शाकलशणका इति केचित् पठन्ति। तेषां शणकशब्दादुत्पन्नस्येञो ‘बह्वच इञः प्राच्यभरतेषु’ (२.४.६६) इति बहुषु लुक्। शुन॑कधात्रेयाः। धात्र्या अपत्यं धात्रेयः। शण॑कबाभ्रवाः। बभ्रोरपत्यं बाभ्रवः। आ॒र्चा॒भिमा॑ैद्गलाः। ऋचाभेन प्रोक्तमधीयत आर्चाभिनः। वैशम्पायनान्तेवासित्वाद् णिनिः। मुद्गलः कण्वादिः। तदपत्यस्य छात्रा मौद्गलाः। कु॒न्तिसु॑राष्ट्राः। कुन्तेः सुराष्ट्रस्य चापत्येषु बहुषु तन्निवासे वा जनपदे द्वन्द्वोऽयम्। कुन्तिचिन्तिशब्दावन्तोदात्तौ। चि॒न्ति-सु॑राष्ट्राः। कुन्तिसुराष्ट्रवत्। त॒ण्डव॑तण्डाः। पचाद्यच्प्रत्ययान्तावन्तोदात्तावेतौ गर्गादिषु पठ्येते। तत्रापत्यबहुत्वे यञो लुक् क्रियते। ग॒र्गव॑त्साः। अत्राप्यपत्यबहुत्वे यञो लुक्। अवि॑मत्तकामविद्धाः। अविमत्तशब्दो नञ्स्वरेणाद्युदात्तः। द्वयोरप्येतयोरपत्येषु बहुषु इञो ’बह्वच इञः प्राच्यभरतेषु’ (२.४.६६) इति लुक् क्रियते। बा॒भ्॒रवशा॑लङ्कायनाः। बभ्रोरपत्यं बाभ्रवः। ‘शलङ्कु शलङ्कं च’ (४.१.९९ ग०सू०) इति शालङ्कायनः। बा॒भ्॒रवदा॑नच्युताः। दानच्युतशब्दादिञो ‘बह्वच०’ (२.४.६६) इति लुक्। क॒ठका॑लापाः। कठेन प्रोक्त मधीयते कठाः। वैशम्पायनान्तेवासित्वाद् णिनिः। तस्य ‘कठचरकाल्लुक्’ (४.३.१०७)। कलापिना प्रोक्तमधीयते कालापाः। ‘कलापिनोऽण्’ (४.३.१०८) इत्यण्प्रत्ययः, तस्मिन् ‘इनण्यनपत्ये’ (६.४.१६४) इति प्रकृतिभावे प्राप्ते नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पीत्यादिना (६.४.१४४ वा०) उपसंख्यानेन टिलोपः। क॒ठ का॑ैथुमाः। कुथुमिना प्रोक्त मधीयत इति ‘प्राग्दीव्यतोऽण्’ (४.१.८३)। तत्र पूर्ववत् टिलोपः। का॒ैथु॒मला॑ैकाक्षाः। लोकाक्षेण प्रोक्त मधीयते लौकाक्षाः। लोकाक्षस्य वापत्यं लौकाक्षिः। तस्य छात्रा लौकाक्षाः। स्त्रीकु॑मारम्। स्त्रीशब्दोऽन्तोदात्तः। मा॒ैदप॑ैप्पलादाः। मुदस्यापत्यं मौदिः। तस्य छात्रा मौदाः। तथा पैप्पलादाः। मौदपैप्पलादा इति द्विः पठ्यते तस्य प्रयोजनं पक्षे समासान्तोदात्तत्वमेव यथा स्यादिति। व॒त्सज॑रत्। वत्सश्च जरच्च। वत्सशब्दोऽन्तोदात्तः। सा॒ैश्रु॒तपा॑र्थवाः। सुश्रुतस्य पृथोश्च छात्राः। ‘प्राग्दीव्यतोऽण्’ (४.१.८३)। ज॒रामृ॑त्यू। या॒ज्या॑नुवाक्ये। यजेर्ण्यत्। ‘यजयाच०’ (७.३.६६) इति कुत्वाभावः। ‘तित् स्वरितम्’ (६.१.१८५) इत्यन्तस्वरितः। अनुवाक्येति वचेरनुपूर्वाद्ण्यत्। आचार्योपसर्जनान्तेवासिनामिह पाठः प्रपञ्चार्थः॥

महान् व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु ॥ ६.२.३८॥

प्रकृत्या पूर्वपदमिति वर्तते, द्वन्द्व इति निवृत्तम्। महानित्येतत् पूर्वपदं व्रीहि अपराह्ण गृष्टि इष्वास जाबाल भार भारत हैलिहिल रौरव प्रवृद्ध इत्येतेषूत्तरपदेषु प्रकृतिस्वरं भवति। म॒हाव्री॑हिः। म॒हाप॑राह्णः। म॒हागृ॑ष्टिः। म॒हेष्वा॑सः। म॒हाजा॑बालः। म॒हाभा॑रः। म॒हाभा॑रतः। म॒हाहै॑लिहिलः। म॒हारा॑ैरवः। म॒हाप्॑रवृद्धः। महच्छब्दोऽन्तोदात्तः। तस्य प्रतिपदोक्तो यः समासः ‘सन्महत्परमोत्तमोत्कृष्टाः०’ (२.१.६१) इति तत्रैव स्वरः। तेनैषां षष्ठीसमासोऽन्तोदात्त एव भवति-महतो व्रीहिः म॒ह॒द्व्री॒हिरिति। ‘कर्मधारयेऽनिष्ठा’ (६.२.४६) इत्ययमपि श्रेण्यादिसमासे (२.१.५९) विधिरिति प्रवृद्धशब्द इह पठ्यते॥

क्षुल्लकश्च वैश्वदेवे ॥ ६.२.३९॥

क्षुल्लक इत्येतत् पूर्वपदं महांश्च वैश्वदेव उत्तरपदे प्रकृतिस्वरं भवति। क्षु॒ल्ल॒कव॑ैश्वदेवम्। म॒हाव॑ैश्वदेवम्। क्षुयं लातीति क्षुल्लः। तस्मादज्ञातादिषु प्रागिवात् केऽन्तोदात्तः क्षुल्लकशब्दः॥

उष्ट्रः सादिवाम्योः ॥ ६.२.४०॥

उष्ट्रशब्दः पूर्वपदं सादिवाम्योरुत्तरपदयोः प्रकृतिस्वरं भवति। उष्ट्॑रसादि। उष्ट्र॑वामि। उष्ट्रशब्द उषेः ष्ट्रन्प्रत्ययान्तः (प० उ० ४.१६३) आद्युदात्तः। कर्मधारयोऽयं षष्ठीसमासो वा॥

गौः सादसादिसारथिषु ॥ ६.२.४१॥

गोशब्दः पूर्वपदं साद सादि सारथि इत्येतेषूत्तरपदेषु प्रकृतिस्वरं भवति। गोः सादो गोसा॑दः। गां सादयतीति वा गोसा॑दः। गोः सादिर्गोसा॑दिः। गोसा॑रथिः॥

कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपा पारेवडवा तैतिलकद्रूः पण्यकम्बलो दासीभाराणां च ॥ ६.२.४२॥

कुरुगार्हपत रिक्तगुरु असूतजरती अश्लीलदृढरूपा पारेवडवा तैतिलकद्रू पण्यकम्बल इत्येते समासास्तेषां दासीभारादीनां च पूर्वपदं प्रकृतिस्वरं भवति। कुरूणां गार्हपतं कु॒रुगा॑र्हपतम्। ‘कृग्रोरुच्च’ (प० उ० १.२४) इति कुरुशब्दः कुप्रत्ययान्तोऽन्तोदात्तः॥ कुरुवृज्योर्गार्हपत इति वक्त व्यम्॥ वृजीनां गार्हपतं वृजि॑गार्हपतम्। वृजिशब्द आद्युदात्तः। रिक्त ो गुरुः रिक्त॑ गुरुः, रि॒क्त गु॑रुः। ‘रिक्ते विभाषा’ (६.१.२०८) इति पूर्वपदमाद्युदात्तमन्तोदात्तं वा। असूता जरती असू॑तजरती। अश्लीला दृढरूपा अश्ली॑ल दृढरूपा। अश्लीलशब्दो नञ्समासत्वादाद्युदात्तः। श्रीर्यस्यास्ति तत् श्लीलम्। सिध्मादेराकृतिगणत्वाद् लच्। कपिलकादित्वात् च लत्वम्। अश्लीलदृढरूपेति हि संस्थानमात्रेण शोभना निःश्रीका लावण्यविरहितोच्यते। पारेवडवेव पा॒रेव॑डवा। निपातनादिवार्थे समासो विभक्त्यलोपश्च। पारशब्दो घृतादित्वाद् (फिट् सू० २१) अन्तोदात्तः। तैतिलानां कद्रूः त॒ैति॒लक॑द्रूः। तितिलिनोऽपत्यं छात्रो वा तैतिल इत्यणन्तः। पण्य॑कम्बलः। पण्यशब्दो यदन्त्वादाद्युदात्तः॥ पण्यकम्बलः संज्ञायामिति वक्त व्यम्॥ अन्यत्र पणितव्ये कम्बले समासान्तोदात्तत्वमेव। प्रतिपदोक्ते हि कृत्यानां समासे (२.१.६८) द्वितीयाकृत्याः (६.२.२) इत्येष विहितः स्वरः। दास्या भारो दा॒सीभा॑रः। दे॒वहू॑तिः। दे॒वजू॑तिः। दे॒वसू॑तिः। दे॒वनी॑तिः। अन्तोदात्तं पूर्वपदम्। वसु॑नीतिः। वसुशब्द आद्युदात्तः। ‘शृस्वृस्निहित्रप्यसिवसि०’ (प०उ० १.१०) इत्यत्र हि ‘धान्ये नित्’ (प०उ० १.९)‘ इति वर्तते। ओष॑धिः। ओषो धीयतेऽस्यामिति ‘कर्मण्यधिकरणे च’ (३.३.९३) इति किप्रत्ययः। ओषशब्दो घञन्तत्वादाद्युदात्तः। च॒न्द्रमाः॑। ‘चन्द्रे मो डित्’ (प०उ० ४.२२९) इत्यसिप्रत्ययान्तोऽयम्। चन्द्रशब्दस्तु रक्प्रत्ययान्तत्वादन्तोदात्तः। यस्य तत्पुरुषस्य पूर्वपदप्रकृतिस्वरत्वमिष्यते, न च विहितम्, स सर्वो दासीभारादिषु द्रष्टव्यः॥

चतुर्थी तदर्थे ॥ ६.२.४३॥

चतुर्थ्यन्तं पूर्वपदं तदर्थ उत्तरपदे तदभिधेयार्थं यत् तद्वाचिन्युत्तपदे प्रकृतिस्वरं भवति। तदिति चतुर्थ्यन्तस्यार्थः परामृश्यते। यूप॑दारु। कु॒ण्ड॒लहि॑रण्यम्। यूपशब्द आद्युदात्तः। ‘कुसुयुभ्यश्च’ (द०उ० ७.५) इत्यत्र निदिति वर्तते। कुण्डलशब्दोऽपि ‘वृषादिभ्यश्चित्’ (प०उ० १.१०६) इति कलप्रत्ययान्तोऽन्तोदात्तः। रथ॑दारु। व॒ल्लीहि॑रण्यम्। रथशब्द आद्युदात्तः। ‘हनिकुषि०’ (प०उ० २.२) इत्यादिना क्थन्प्रत्ययः। वल्लीशब्दो ङीषः स्वरेणान्तोदात्तः। तदर्थ इति किम्? कु॒बे॒र॒ब॒लिः। प्रकृतिविकारभावे स्वरोऽयमिष्यते॥

अर्थे ॥ ६.२.४४॥

चतुर्थीति वर्तते। अर्थशब्द उत्तरपदे चतुर्थ्यन्तं पूर्वपदं प्रकृतिस्वरं भवति। मात्र इदं मा॒त्र॑र्थम्। पि॒त्र॑र्थम्। दे॒वता॑र्थम्। अति॑थ्यर्थम्। मातृपितृशब्दावन्तोदात्तावुणादिषु निपातितौ। देवताशब्दो लित्स्वरेण मध्योदात्तः। अतिथिरिति ‘अतेरिथिन्’ (द०उ० १.४४) इतीथिन्प्रत्ययान्तः। तदर्थविशेषा एव दारुहिरण्यादयो भवन्ति, न त्वर्थशब्दवाच्यं सामान्यमित्यतदर्थार्थोऽयमारम्भः। केचित् पुनराहुः- ज्ञापकार्थमिदम्। एतदनेन ज्ञाप्यते- पूर्वो विधिः प्रकृतिविकृत्योः समासे भवति। अ॒श्व॒घा॒सः। श्व॒श्रू॒सु॒रम् इत्यत्र सत्यपि तादर्थ्ये न भवति॥

क्ते च ॥ ६.२.४५॥

क्तान्ते चोत्तरपदे चतुर्थ्यन्तं पूर्वपदं प्रकृतिस्वरं भवति। गोहि॑तम्। अश्व॑हितम्। म॒नु॒ष्य॑हितम्। गोर॑क्षितम्। अश्व॑रक्षितम्। वन॑ ताप॒सर॑क्षितम्। अश्वशब्द आद्युदात्तः। मनुष्यशब्दोऽन्तस्वरितः। परिशिष्टपूर्वपदमन्तोदात्तम्। गोभ्यो रक्षितमिति संप्रदाने चतुर्थी॥

कर्मधारयेऽनिष्ठा ॥ ६.२.४६॥

कर्मधारये समासे क्त ान्त उत्तरपदेऽनिष्ठान्तं पूर्वपदं प्रकृतिस्वरं भवति। श्रेणि॑कृताः। ऊ॒ककृ॑ताः। पू॒गकृ॑ताः। नि॒धन॑कृताः। श्रेणिशब्द आद्युदात्तः। ऊकपूगशब्दावन्तोदात्तौ। निधनशब्दोऽयं मध्योदात्तः। कर्मधारय इति किम्? श्रेण्या कृतं श्रे॒णि॒कृ॒तम्। अनिष्ठेति किम्? कृ॒ता॒कृ॒तम्॥

अहीने द्वितीया ॥ ६.२.४७॥

अहीनवाचिनि समासे क्तान्त उत्तरपदे द्वितीयान्तं पूर्वपदं प्रकृतिस्वरं भवति। क॒ष्टश्रि॑तः। त्रिश॑कलपतितः। ग्राम॑गतः। कष्टशब्दोऽन्तोदात्तः। त्रीणि शकलान्यस्येति त्रिशकलः। बहुब्रीहिस्वरेणाद्युदात्तः। ग्रामशब्दो नित्स्वरेणाद्युदात्तः। अहीन इति किम्? का॒न्ता॒रा॒ती॒तः। यो॒ज॒ना॒ती॒तः॥ द्वितीयानुपसर्ग इति वक्तव्यम्॥ इह मा भूत्-सु॒ख॒प्रा॒प्तः। दुः॒ख॒प्रा॒प्तः। सु॒खा॒प॒न्नः। दुः॒खा॒पन्नः। अन्तः ‘थाथ०’ (६.२.१४४) इत्यस्यापवादोऽयम्॥

तृतीया कर्मणि॥ ६.२.४८॥

कर्मवाचिनि क्तान्त उत्तरपदे तृतीयान्तं पूर्वपदं प्रकृतिस्वरं भवति। अ॒हिह॑तः, अहि॑हतः। व॒ज्रह॑तः। म॒हा॒रा॒जह॑तः। न॒खनि॑र्भिन्ना। दात्र॑लूना। ‘आङि श्रीहनिभ्यां ह्रस्वश्च’ (प०उ० ४.१३९) इति अहिरन्तोदात्तो व्युत्पादितः। केचिदाद्युदात्तमिच्छन्ति। वज्रो रक्प्रत्ययान्तः। महाराजष्टच्प्रत्ययान्तः। नास्य खमस्तीति बहुव्रीहौ नकुलनख० (६.३.७५) इति नखशब्दो निपातितः। तेन ‘नञ्सुभ्याम्’ (६.२.१७२) इत्यन्तोदात्तः। दात्रशब्दो ‘दाम्नीशस०’ (३.२.१८२) इति ष्ट्रन्प्रत्ययान्तः। कर्मणीति किम्? रथेन यातो र॒थ॒या॒तः। गत्यर्थत्वात् कर्तरि क्तः॥

गतिरनन्तरः॥ ६.२.४९॥

क्ते कर्मणीति वर्तते। कर्मवाचिनि क्तान्त उत्तरपदे गतिरनन्तरः पूर्वपदं प्रकृतिस्वरं भवति। प्रकृ॑तः। प्रहृ॑तः। अनन्तर इति किम् ? अ॒भ्युद्धृ॑तः। स॒मुद्धृ॑तः। स॒मु॒दाहृ॑तः। व्यवहितस्य गतेरयं स्वरो न भवति। अनन्तरे पुनरिष्यते। कारकपूर्वस्य तु सतिशिष्टत्वात् थाथादिस्वरः (६.२.१४४) एव भवति-दू॒रा॒दा॒ग॒त इति। अनन्तरग्रहणसामर्थ्यादेव ‘कृद्ग्रहणे गतिकारकपूर्वस्यापि०’ (परि० २८) इत्येतद् नाश्रीयते। कर्मणीत्येवप्॒रकृ॒तः कटं देवदत्तः। थाथादिस्वरापवादो योगः॥

तादौ च निति कृत्यतौ॥ ६.२.५०॥

तकारादौ च तुशब्दवर्जिते निति कृति परतो गतिरनन्तरः प्रकृतिस्वरो भवति। प्रक॑र्ता। प्रक॑र्तुम्। प्रकृ॑तिः। प्रकर्तेति तृन्नन्तः। कृत्स्वरबाधनार्थं वचनम्। तादाविति किम् ? प्र॒जल्पा॑कः। नितीति किम् ? प्र॒क॒र्ता। तृजन्तः। कृद्ग्रहणमुपदेशे ताद्यर्थम्। इहापि यथा स्यात्-प्रल॑पिता, प्रल॑पितुम् इति । अताविति किम् ? आ॒गन्तुः॑॥

तवै चान्तश्च युगपत्॥ ६.२.५१॥

तवैप्रत्ययस्यान्त उदात्तो भवति गतिश्चानन्तरः प्रकृतिस्वर इति एतदुभयं युगपद् भवति। अन्वे॑त॒वै (तै० सं० १.४.४५.१)। परि॑स्तरित॒वै। परि॑पात॒वै। त॑स्मा॒त् पि॒ता॑ नाभिच॑रित॒वै। उपसर्गा आद्युदात्ताः, अभिवर्जम् (फिट् सू० ८०,८१) इत्यभिरन्तोदात्तः। कृत्स्वरापवादो योगः॥

अनिगन्तोऽञ्चतौ वप्रत्यये॥ ६.२.५२॥

अनिगन्तो गतिः प्रकृतिस्वरो भवत्यञ्चतौ वप्रत्यये परतः। प्राङ् , प्राञ्चा॑ै, प्राञ्चः॑। प्रा॑ङ्, प्रा॑ञ्चौ, प्रा॑ञ्चः। ‘स्वरितो वानुदात्ते पदादौ’ (८.२.६) इत्ययमेकादेश उदात्तः स्वरितो वा । परा॑ङ् , परा॑ञ्चौ, परा॑ञ्चः॒ (तै०सं० ३.१.१०.३)। अनिगन्त इति किम् ? प्॒रत्यङ् ,प्॒रत्यञ्चा॑ै, प्॒रत्यञ्चः॑। कृदुत्तरपदप्रकृतिस्वर इह भवति। वप्रत्यय इति किम्? उ॒दञ्च॑नः। चोरनिगन्तोऽञ्चतौ वप्रत्यय इत्येष् स्वरो भवति विप्रतिषेधेन। परा॑चः। परा॑चा॥

न्यधी च॥ ६.२.५३॥

नि अधि इत्येतौ चाञ्चतौ वप्रत्यये परतः प्रकृतिस्वरौ भवतः। न्य॑ङ्, न्य॑ञ्चौ, न्य॑ञ्चः। ‘उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य’ (८.२.४) इत्यञ्चतेरकारः स्वरितः। अध्य॑ङ्, अध्य॑ञ्चौ, अध्य॑ञ्चः। अधी॑चः। अधी॑चा॥

ईषदन्यतरस्याम्॥ ६.२.५४॥

ईषदित्येतत् पूर्वपदमन्यतरस्यां प्रकृतिस्वरं भवर्ति। इ॒षत्क॑डार्रः, इ॒ष॒त्क॒डा॒र्रः। इ॒षत्पि॑ङ्गर्लः, इ॒ष॒त्पि॒ङ्ग॒लः। ईषदित्ययमन्तोदार्त्तः। इ॒ष॒द्भेद॑ इत्येवमादौ कृत्स्वर एव भवति॥

हिरण्यपरिमाणं धने॥ ६.२.५५॥

हिरण्यपरिमाणवाचि पूर्वपदं धनशब्द उत्तरपदेऽन्यतरस्यां प्रकृतिस्वरं भवति। द्वि॒सु॒व॒र्णध॑नम्, द्वि॒सु॒व॒र्ण॒ध॒नम्। द्वौ सुवणौ परिमाणमस्य द्विसुवर्णम्, तदेव धनमिति कर्मधारयः। बहुव्रीहावपि परत्वाद् विकल्प एव भवति। द्वि॒सु॒व॒र्णध॑नः, द्वि॒सु॒व॒र्ण॒ध॒नः। हिरण्यग्रहणं किम् ? प्र॒स्थ॒ध॒नम्। परिमाणग्रहणं किम्? का॒ञ्च॒न॒ध॒नम्। धन इति किम्? नि॒ष्क॒मा॒ला॥

प्रथमोऽचिरोपसंपत्तौ॥ ६.२.५६॥

प्रथमशब्दः पूर्वपदमचिरोपसंपत्तौ गम्यमानायामन्यतरस्यां प्रकृतिस्वरं भवति। अचिरोपसंपत्तिरचिरोपश्लेषोऽभिनवत्वम्। प्॒रथ॒मव॑ैयाकरणः, प्॒रथ॒म॒व॒ैया॒क॒र॒णः। अभिनववैयाकरणः, संप्रति व्याकरणमध्येतुं प्रवृत्त इत्यर्थः। प्रथमशब्दः ‘प्रथेरमच्’ (प०उ० ५.६८) इति चित्त्वादन्तोदात्तः। अचिरोपसंपत्ताविति किम्? प्॒रथ॒म॒व॒ैया॒क॒र॒णः। वैयाकरणानामाद्यो मुख्यो वा यः, स नित्यमन्तोदात्त एव॥

कतरकतमौ कर्मधारये॥ ६.२.५७॥

कतरशब्दः कतमशब्दश्च पूर्वपदं कर्मधारये समासेऽन्यतरस्यां प्रकृतिस्वरं भवति। क॒त॒रक॑ठः क॒त॒र॒क॒ठः। क॒त॒मक॑ठः, क॒त॒म॒क॒ठः। कर्मधारयग्रहणमुत्तरार्थम्, इह तु प्रतिपदोक्तत्वादेव सिद्धम्॥

आर्यो ब्राह्मणकुमारयोः॥ ६.२.५८॥

आर्यशब्दः पूर्वपदं ब्राह्मणकुमारशब्दयोः कर्मधारये समासेऽन्यतरस्यां प्रकृतिस्वरं भवति। आ॒॑र्यब्राह्मणः, आ॒र्य॒ब्रा॒ह्म॒णः। आ॒॑र्यकुमारः, आ॒र्य॒कु॒मा॒रः। आर्यशब्दो ण्यदन्तोऽन्तस्वरितः। आर्य इति किम्? प॒र॒म॒ब्रा॒ह्म॒णः। प॒र॒म॒कु॒मा॒रः। ब्राह्मणकुमारयोरिति किम् ? आ॒र्य॒क्ष॒त्रि॒यः। कर्मधारय इत्येव-आर्यस्य ब्राह्मणो आ॒र्य॒ब्रा॒ह्म॒णः॥

राजा च ॥ ६.२.५९॥

राजा च पूर्वपदं ब्राह्मणकुमारयोरुत्तरपदयोः कर्मधारये समासेऽन्यतरस्यां प्रकृतिस्वरं भवति। राज॑ब्राह्मणः,रा॒ज॒ब्रा॒ह्म॒णः। राज॑कुमारः, रा॒ज॒कु॒मा॒रः। कर्मधारय इत्येवराज्ञो ब्राह्मणो रा॒ज॒ब्रा॒ह्म॒णः। रा॒ज॒कु॒मा॒रः। पृथग्योगकरणमुत्तरार्थम्॥

षष्ठी प्रत्येनसि ॥ ६.२.६०॥

राजेति वर्तते, अन्यतरस्यामिति च। षष्ठ्यन्तो राजशब्दः पूर्वपदं प्रत्येनस्युत्तरपदेऽन्यतरस्यां प्रकृतिस्वरं भवति। राज्ञः प्रत्येना राज॑प्रत्येनाः, रा॒ज॒प्॒रत्ये॒नाः। षष्ठीति किम् ? राजा चासौ प्रत्येनाश्च रा॒ज॒प्॒रत्ये॒नाः॥

क्ते नित्यार्थे ॥ ६.२.६१॥

क्तान्त उत्तरपदे नित्यार्थे समासे पूर्वपदमन्यतरस्यां प्रकृतिस्वरं भवति। नित्य॑प्रहसितः, नि॒त्य॒प्॒रह॒सि॒तः। स॒त॒तप्॑रहसितः, स॒त॒त॒प्॒रह॒सि॒तः। ‘कालाः’ (२.१.२८) इति द्वितीयासमासोऽयम्। नित्यशब्दः ‘त्यब्नेर्ध्रुवे’ (४.२.१०४ वा०) इति त्यबन्त आद्युदात्तः। सततम् इति यदा भावे क्त स्तदा थाथादिस्वरेणान्तोदात्तः। नित्यार्थ इति किम् ? मु॒हू॒र्त॒प्॒रह॒सि॒तः॥

ग्रामः शिल्पिनि ॥ ६.२.६२॥

ग्रामशब्दः पूर्वपदं शिल्पिवाचिन्युत्तरपदेऽन्यतरस्यां प्रकृतिस्वरं भवति। ग्राम॑नापितः, ग्रा॒म॒ना॒पि॒तः। ग्राम॑कुलालः, ग्रा॒म॒कु॒ला॒लः। ग्रामशब्द आद्युदात्तः। ग्राम इति किम्? प॒र॒म॒ना॒पि॒तः। शिल्पिनीति किम्? ग्रा॒म॒र॒थ्या॥

राजा च प्रशंसायाम् ॥ ६.२.६३॥

राजशब्दः पूर्वपदं शिल्पिवाचिन्युत्तरपदे प्रशंसायां गम्यमानायामन्यतरस्यां प्रकृतिस्वरं भवति। राज॑नापितः, रा॒ज॒ना॒पि॒तः। राज॑कुलालः, रा॒ज॒कु॒ला॒लः। कर्मधारये राजगुणाध्यारोपेणोत्तरपदार्थस्य प्रशंसा। षष्ठीसमासे च राजयोग्यतया तस्य। राजेति किम्? प॒र॒म॒ना॒पि॒तः। प्रशंसायामिति किम्? रा॒ज॒ना॒पि॒तः। शिल्पिनीत्येव-रा॒ज॒ह॒स्ती॥

आदिरुदात्तः॥ ६.२.६४॥

आदिरुदात्त इत्येतदधिकृतम्। इत उत्तरं यद् वक्ष्यामस्तत्र पूर्वपदस्यादिरुदात्तो भवतीत्येवं तद् वेदितव्यम्। वक्ष्यति-‘सप्तमीहारिणौ धर्म्येऽहरणे’ (६.२.६५) इति। स्तूपे॑शाणः। मुकु॑टेकार्षापणम्। याज्ञि॑काश्वः। वैया॑करणहस्ती। दृष॑दिमाषकः। आदिरिति प्रागन्ताधिकारात् (६.२.९२)। उदात्त इति ‘प्रकृत्या भगालम्’ (६.२.१३७) इति यावत्॥

सप्तमीहारिणौ धर्म्यऽहरणे ॥ ६.२.६५॥

सप्तम्यन्तं हारिवाचि च पूर्वपदं धर्म्यवाचिनि हरणशब्दादन्यस्मिन्नुत्तरपद आद्युदात्तं भवति। हारीति देयं यः स्वीकारोति सोऽभिधीयते। धर्म्यमित्याचारनियतं देयमुच्यते, धर्मो ह्यनुवृत्त आचारस्तस्मादनपेतं तेन वा प्राप्यमिति। स्तूपे॑शाणः। मुकु॑टेकार्षापणम्। हले॑द्विपदिका। हले॑त्रिपदिका। दृष॑दिमाषकः। ‘संज्ञायाम्’ (२.१.४४) इति सप्तमी समासः,‘कारनाम्नि च०’ (६.३.१०) इति विभक्ते रलुक्। हारिणी-याज्ञि॑काश्वः। वैया॑करणहस्ती। मातु॑लाश्वः। पितृ॑व्यगवः। क्वचिदयमाचारो व्यवस्थितः- स्तूपादिषु शाणादि दातव्यम्, याज्ञिकादीनामश्वादीति। धर्म्य इति किम्? स्त॒म्बे॒र॒मः। क॒र्म॒क॒र॒व॒र्धि॒त॒कः। अहरण इति किम्? वा॒ड॒व॒ह॒र॒णम्। वडवाया अयं वाडवः। तस्य बीजनिषेकादुत्तरकालं शरीरपुष्ट्यर्थं यद् दीयते हरणमिति तदुच्यते। परोऽपि कृत्स्वरो हारिस्वरेण बाध्यते विप्रतिषेधेनेत्येतदहरण इत्यनेन ज्ञाप्यते, तेन वाड॑वहार्यम् इति हारिस्वरः सिद्धो भवति॥

युक्ते च ॥ ६.२.६६॥

युक्तवाचिनि च समासे पूर्वपदमाद्युदात्तं भवति। गोब॑ल्लवः। अश्व॑बल्लवः। गोम॑णिन्दः। अश्व॑मणिन्दः। गोसं॑ख्यः। अश्व॑संख्यः। युक्त इति समाहितः, कर्तव्ये तत्परो यः स उच्यते॥

विभाषाध्यक्षे ॥ ६.२.६७॥

अध्यक्षशब्द उत्तरपदे विभाषा पूर्वपदमाद्युदात्तं भवति। गवा॑ध्यक्षः,ग॒वा॒ध्य॒क्षः। अश्वा॑ध्यक्षः, अ॒श्वा॒ध्य॒क्षः॥

पापं च शिल्पिनि ॥ ६.२.६८॥

पापशब्दः शिल्पिवाचिन्युत्तरपदे विभाषाद्युदात्तो भवति। पाप॑नापितः, पा॒प॒ना॒पि॒तः। पाप॑कुलालः, पा॒प॒कु॒ला॒लः। ‘पापाणके कुत्सितैः’ (२.१.५४) इति पापशब्दस्य प्रतिपदोक्तः समानाधिकरणसमास इति षष्ठीसमासे न भवति। पापस्य नापितः पा॒प॒ना॒पि॒त इति॥

गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे ॥ ६.२.६९॥

गोत्रवाचिन्यन्तेवासिवाचिनि चोत्तरपदे माणवब्राह्मणयोश्च क्षेपवाचिनि समासे पूर्वपदमाद्युदात्तं भवति। जङ्घा॑वात्स्यः। यो जङ्घादानं ददान्यहमिति वात्स्यः संपद्यते, स जङ्घावात्स्य इति क्षिप्यते। भार्या॑सौश्रुतः। सुश्रुतापत्यस्य भार्याप्रधानतया क्षेपः। वशा॑ब्रह्मकृतेयः। ब्रह्मकृतशब्दः शुभ्रादिषु पठ्यते। गोत्र। अन्तेवासि-कुमा॑रीदाक्षाः। कम्ब॑लचारायणीयाः। घृत॑रौढीयाः। ओद॑नपाणिनीयाः। कुमार्यादिलाभकामा ये दाक्ष्यादिभिः प्रोक्त ानि शास्त्राण्यधीयते तच्छिष्यतां वा प्रतिपद्यन्ते त एवं क्षिप्यन्ते। अन्तेवासि। माणव-भिक्षा॑माणवः। भिक्षां लष्स्येऽहमिति माणवो भवति। माणय। ब्राह्मण-दासी॑ब्राह्मणः। वृष॑लीब्राह्मणः। भय॑ब्राह्मणः। यो भयेन ब्राह्मणः संपद्यते। अत्र यस्यान्यत् समासलक्षणं नास्ति, सुप्सुपेत्येव तत्र समासः कर्तव्यः। गोत्रादिष्विति किम्? दा॒सी॒श्रो॒त्रि॒यः। क्षेप इति किम् ? म॒हा॒ब्रा॒ह्म॒णः॥

अङ्गानि मैरेये ॥ ६.२.७०॥

मैरेयशब्द उत्तरपदे तदङ्गवाचीनि पूर्वपदान्याद्युदात्तानि भवन्ति। गुड॑मैरेयः। मधु॑मैरेयः। मद्यविशेषो मैरेयः, तस्य गुडविकारस्य गुडोऽङ्गं भवति, मधुविकारस्य तस्य मध्वङ्गम्। अङ्गानीति किम्? प॒र॒म॒म॒ैरे॒यः। मैरेय इति किम्? पु॒ष्पा॒स॒वः। फ॒ला॒स॒वः॥

भक्त ाख्यास्तदर्थेषु ॥ ६.२.७१॥

भक्तमन्नम्, तदाख्यास्तद्वाचिनः शब्दाः, तदर्थेषूत्तरपदेषु आद्युदात्ता भवन्ति। भिक्षा॑कंसः। श्राणा॑कंसः। भाजी॑कंसः। भिक्षादयोऽन्नवचनाः। भक्ताख्या इति किम् ? स॒मा॒श॒शा॒ल॒यः। समशनं समाश इति क्रियामात्रमुच्यते, न द्रव्यम्। तदर्थेष्विति किम् ? भि॒क्षापि्॑रयः। बहुव्रीहिरयमत्र पूर्वपदमन्तोदात्तम्॥

गोबिडालसिंहसैन्धवेषूपमाने ॥ ६.२.७२॥

गवादिषूपमानवाचिषूत्तरपदेषु पूर्वपदमाद्युदात्तं भवति। धान्य॑गवः। हिर॑ण्यगवः। भिक्षा॑बिडालः। श्राणा॑बिडालः। तृण॑सिंहः। काष्ठ॑सिंहः। सक्तु॑ सैन्धवः। पान॑सैन्धवः। धान्यं गौरिवेति विगृह्य व्याघ्रादेराकृतिगणत्वाद् ‘उपमितं व्याघ्रादिभिः०’ (२.१.५६) इति समासः। उपमानार्थोऽपि यथासंभवं यथाप्रसिद्धि च योजयितव्यः। गवाकृत्या संनिवेशितं धान्यं धान्यगवशब्देनोच्यते। उपमान इति किम्? प॒र॒म॒सिं॒हः॥

अके जीविकार्थे ॥ ६.२.७३॥

अकप्रत्ययान्त उत्तरपदे जीविकार्थवाचिनि समासे पूर्वपदमाद्युदात्तं भवति। दन्त॑लेखकः। नख॑लेखकः। अव॑स्करशोधकः। रम॑णीयकारकः। दन्तलेखनादिभिर्येषां जीविका, त एवमुच्यन्ते। ‘नित्यं क्रीडाजीविकयोः’ (२.२.१७) इति समासः। अक इति किम्? र॒म॒णी॒य॒क॒र्ता। जीविकार्थ इति किम्? इ॒क्षु॒भ॒क्षि॒कां मे धारयसि॥

प्राचां क्रीडायाम् ॥ ६.२.७४॥

प्राग्देशवर्तिनां या क्रीडा तद्वाचिनि समासेऽकप्रत्ययान्त उत्तरपदे पूर्वपदमाद्युदात्तं भवति। उद्दा॑लकपुष्पभञ्जिका। वीर॑णपुष्पप्रचायिका। शाल॑भञ्जिका। ताल॑भञ्जिका। ‘संज्ञायाम्’ (३.३.१०९) इति ण्वुल, ‘नित्यं क्रीडाजीविकयोः’ (२.२.१७) इति षष्ठीसमासः। प्राचामिति किम्? जी॒व॒पु॒त्र॒प्॒रचायि॑का। इयमुदीचां क्रीडा। क्रीडायामिति किम्? तव पु॒ष्प॒प्॒रचा॒यि॒का। पर्याये ण्वुच्प्रत्ययो भवति॥

अणि नियुक्ते ॥ ६.२.७५॥

अणन्त उत्तरपदे नियुक्तवाचिनि समासे पूर्वपदमाद्युदात्तं भवति। छत्र॑धारः। तूणी॑रधारः। कम॑ण्डलुग्राहः। भृङ्गा॑रधारः। नियुक्त ोऽधिकृतः, स च कस्मिंश्चित् कर्तव्ये तत्परो न भवतीति नियुक्ते (६.२.६६) इत्यनेन न सिध्यति। नियुक्त इति किम् ? का॒ण्ड॒ला॒वः। श॒र॒ला॒वः॥

शिल्पिनि चाकृञः॥ ६.२.७६॥

शिल्पिवाचिनि समासेऽणन्त उत्तरपदे पूर्वपदमाद्युदात्तं भवति, स चेदण् कृञो न भवति। तन्तु॑वायः। तुन्न॑वायः। वाल॑वायः। शिल्पिनीति किम् ? का॒ण्ड॒ला॒वः। अकृञ इति किम् ? कु॒म्भ॒का॒रः। अ॒य॒स्का॒रः॥

संज्ञायां च॥ ६.२.७७॥

संज्ञायां विषयेऽणन्त उत्तरपदेऽकृञः पूर्वपदमाद्युदात्तं भवति। तन्तु॑वायो नाम कीटः। वाल॑वायो नाम पर्वतः। अकृञ इत्येव-र॒थ॒का॒रो नाम ब्राह्मणः॥

गोतन्तियवं पाले॥ ६.२.७८॥

गो तन्ति यव इत्येतानि पूर्वपदानि पालशब्द उत्तरपद आद्युदात्तानि भवन्ति। गोपा॑लः। तन्ति॑पालः। यव॑पालः। अनियुक्त ार्थ आरम्भः। गोतन्तियवमिति किम्? व॒त्स॒पा॒लः। पाल इति किम्? गो॒र॒क्षः॥

णिनि॥ ६.२.७९॥

णिनन्त उत्तरपदे पूर्वपदमाद्युदात्तं भवति। पुष्प॑हारी। फल॑हारी। पर्ण॑हारी॥

उपमानं शब्दार्थप्रकृतावेव॥ ६.२.८०॥

उपमानवाचि पूर्वपदं शब्दार्थप्रकृतावेव णिनन्त उत्तरपद आद्युदात्तं भवति। उपमानं नियम्यते। उष्ट्र॑क्रोशी। ध्वाङ्क्ष॑रावी। खर॑नादी। उपमानग्रहणमस्य पूर्वस्य च योगस्य विषयविभागार्थम्। शब्दार्थप्रकृताविति किम्? वृ॒क॒व॒ञ्ची। वृ॒क॒प्॒रेक्षी। प्रकृतिग्रहणं किम्? प्रकृतिरेव यत्रोपसर्गनिरपेक्षा शब्दार्था भवति, तत्रैव यथा स्यात्। इह मा भूत्-ग॒र्द॒भो॒च्चा॒री, को॒कि॒ला॒भि॒व्या॒हा॒री इति। एवकारकरणमुपमानावधारणार्थम्। शब्दार्थप्रकृतौ त्वनुपमानमुपमानं चाद्युदात्तं भवति। सिंह॑विनर्दी। पुष्क॑लजल्पी॥

युक्त ारोह्यादयश्च॥ ६.२.८१॥

युक्तारोह्यादयः समासा आद्युदात्ता भवन्ति। युक्त ा॑रोही। आग॑तरोही। आग॑तयोधी। आग॑तवञ्ची। आग॑तनर्दी। आग॑तप्रहारी। एते णिन्नन्ता ‘णिनि’ (६.२.७९) इत्यस्यैवोदाहरणार्थं पठ्यन्ते। पूर्वोत्तरपदनियमार्था इति केचित्। इह मा भूत्-वृ॒क्षा॒रो॒ही, यु॒क्ता॒ध्या॒यी इति। आग॑तमत्स्या। क्षीर॑होता। भगि॑नीभर्ता। याजकादित्वात् षष्ठी समासावेतौ। ग्राम॑गोधुक्। अश्व॑त्रिरात्रः। गर्ग॑त्रिरात्रः। व्युष्ट॑त्रिरात्रः। शण॑पादः। सम॑पादः। षष्ठीसमासा एते। एक॑शितिपात्। एकः शितिः पादोऽस्येति त्रिपदोबहुव्रीहिः। तत्रैकशितिशब्दः ‘तद्धितार्थोत्तरपद०’ (२.१.५१) इति तत्पुरुषसंज्ञः, तस्य निमित्तिस्वरबलीयस्त्वाद् (महाभाष्य १.३७३) अन्तोदात्तत्वं प्राप्तमित्याद्युदात्तत्वं विधीयते। एवमपि नार्थ एतेन, ‘इगन्त० द्विगौ’ (६.२.२९) इति सिद्धत्वात्। एवं तर्हि ज्ञापकार्थम्, एतज् ज्ञापयति-शित्यन्तस्योत्तरपदे द्विगुस्वरो न भवतीति। तेन द्वि॒शि॒तिपा॑द् इत्यत्र तिशब्द उदात्तो भवति। निमित्तिस्वरबलीयस्त्वस्याप्येकशितिपात्स्वरवचनमेव ज्ञापकं वर्णयन्ति (महाभाष्य १.३७३)। पात्रेसमितादयश्च (ग०सू० १७४)। ‘पात्रेसमितादयश्च’ (२.१.४८) युक्तारोह्यादयस्ततस्तेऽप्याद्युदात्ता भवन्ति॥

दीर्घकाशतुषभ्राष्ट्रवटं जे॥ ६.२.८२॥

दीर्घान्तं पूर्वपदं काश तुष भ्राष्ट्र वट इत्येतानि च ज उत्तरपद आद्युदात्तानि भवन्ति। कुटी॑जः। शमी॑जः। काश॑जः। तुष॑जः। भ्राष्ट्॑रजः। वट॑जः॥

अन्त्यात् पूर्वं बह्वचः॥ ६.२.८३॥

ज उत्तरपदे बह्वचः पूर्वपदस्यान्त्यात् पूर्वमुदात्तं भवति। उ॒प॒सर॑जः। म॒न्दुर॑जः। आ॒म॒लकी॑जः। व॒डवा॑जः। बह्वच इति किम्? द॒ग्ध॒जा॑नि तृणानि॥

ग्रामेऽनिवसन्तः॥ ६.२.८४॥

ग्रामशब्द उत्तरपदे पूर्वपदमाद्युदात्तं भवति, न चेद् निवसद्वाचि भवति। मल्ल॑ग्रामः। वणि॑ग्ग्रामः। ग्रामशब्दोऽत्र समूहवाची। देव॑ग्रामः। देवस्वामिक इत्यर्थः। अनिवसन्त इति किम्? दा॒क्षि॒ग्रा॒मः। मा॒ह॒कि॒ग्रा॒मः। दाक्ष्यादयो निवसन्ति यस्मिन् ग्रामे, स तेषामिति व्यपदिश्यते॥

घोषादिषु च ॥ ६.२.८५॥

घोषादिषु चोत्तरपदेषु पूर्वपदमाद्युदात्तं भवति। दाक्षि॑घोषः। दाक्षि॑कटः। दाक्षि॑पल्वलः। दाक्षि॑ह्रदः। दाक्षि॑बदरी। दाक्षि॑पिङ्गलः। दाक्षि॑पिशङ्गः। दाक्षि॑शालः। दाक्षि॑रक्षा। दाक्षि॑शिल्पी। दाक्ष्य॑श्वत्थः। कुन्द॑तृणम्। दाक्षि॑शाल्मली। आश्र॑ममुनिः। शाल्म॑लिमुनिः। दाक्षि॑पे्रक्षा। दाक्षि॑कूटः। यान्यत्र निवासनामधेयानि तेषु निवसद्वाचीन्यपि पूर्वपदान्याद्युदात्तानि भवन्ति। अनिवसन्त इति नानुवर्तयन्ति केचित्। अपरे पुनरनुवर्तयन्ति॥

छात्र्यादयः शालायाम् ॥ ६.२.८६॥

शालायामुत्तरपदे छात्र्यादय आद्युदात्ता भवन्ति। छात्रि॑शाला। ऐलि॑शाला। भाण्डि॑शाला॥ छात्रि। ऐलि। भाण्डि। व्याडि। आपिशलि। आखण्डि। आपारि। गौमि। यदा शालान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति, तदापि ‘तत्पुरुषे शालायां नपुंसके’ (६.२.१२३) इत्येतस्मात् पूर्वविप्रतिषेधेन पूर्वपदमाद्युदात्तं भवति। छात्रि॑शालम्। ऐलि॑शालम्॥

प्रस्थेऽवृद्धमकर्क्यादीनाम् ॥ ६.२.८७॥

प्रस्थशब्द उत्तरपदे कर्क्यादिवर्जितमवृद्धं पूर्वपदमाद्युदात्तं भवति। इन्द्॑रप्रस्थः। कुण्ड॑प्रस्थः। ह्रद॑प्रस्थः।सुव॑र्णप्रस्थः। अवृद्धमिति किम्? दा॒क्षि॒प्॒रस्थः। मा॒ह॒कि॒प्॒रस्थः। अकर्क्यादीनामिति किम्? क॒र्की॒प्॒रस्थः। म॒घी॒प्र॒स्थ॥ कर्की। मघी। मकरी। कर्कन्धू। शमी। करीर। कटुक। कुरल। बदर। कर्क्यादिः॥

मालादीनां च ॥ ६.२.८८॥

प्रस्थ इति वर्तते। प्रस्थ। उत्तरपदे मालादीनामादिरुदात्तो भवति। माला॑प्रस्थः। शाला॑प्रस्थः॥ माला। शाला। शोणा। द्राक्षा। क्षौमा। क्षामा। काञ्ची। एक। काम। मालादिः। वृद्धार्थ आरम्भः। एकशोणाशब्दयोः ‘एङ् प्राचां देशे’ (१.१.७५) इति वृद्धसंज्ञा॥

अमहन्नवं नगरेऽनुदीचाम् ॥ ६.२.८९॥

नगरशब्द उत्तरपदे महन्नवशब्दवर्जितं पूर्वपदमाद्युदात्तं भवति, तत् चेदुदीचां न भवति। सुह्म॑नगरम्। पुण्ड्॑रनगरम्। अहमन्नवमिति किम्? म॒हा॒न॒ग॒रम्। न॒व॒न॒ग॒रम्। अनुदीचामिति किम्? न॒दी॒न॒ग॒रम्। का॒न्ती॒न॒ग॒रम्॥

अर्मे चावर्णं द्व्यच् त्र्यच् ॥ ६.२.९०॥

अर्मशब्द उत्तरपदे द्व्यच् त्र्यच् पूर्वपदमवर्णान्तमाद्युदात्तं भवति। दत्ता॑र्मम्। गुप्ता॑र्मम्। कुक्कु॑टार्मम्। वाय॑सार्मम्। अवर्णमिति किम्? बृ॒ह॒द॒र्मम्। द्व्यच्त्र्यजिति किम् ? क॒पि॒ञ्ज॒ला॒र्मम्। अमहन्नवमित्येव-म॒हा॒र्मम्। न॒वा॒र्मम्॥

न भूताधिकसंजीवमद्राश्मकज्जलम् ॥ ६.२.९१॥

भूत अधिक संजीव मद्र अश्मन् कज्जल इत्येतानि पूर्वपदानि अर्मशब्द उत्तरपदे नाद्युदात्तानि भवन्ति। भू॒ता॒र्मम्। अ॒धि॒का॒र्मम्। सं॒जी॒वा॒र्मम्। मद्राश्मग्रहणं संघातविगृहीतार्थम्। म॒द्रा॒र्मम्। अ॒श्मा॒र्मम्। म॒द्रा॒श्मा॒र्मम्। क॒ज्ज॒ला॒र्मम्। समासान्तोदात्तत्वमेवात्र भवति॥ आद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम्॥ दिवो॑दासं वध्र्य॒श्वाय॑ दा॒शुषे॑ (ऋ० ६.६१.१)॥

अन्तः ॥ ६.२.९२॥

अन्त इत्यधिकृतम्। इत उत्तरं यद् वक्ष्यामस्तत्र पूर्वपदस्यान्त उदात्तो भवतीत्येवं वेदितव्यम्। वक्ष्यति-‘सर्वं गुणकार्त्स्न्ये’(६.२.९३)- स॒र्वश्वे॑तः। स॒र्वकृ॑ष्णः। प्राग् ‘उत्तरपदादिः’ (६.२.१११) इत्येतस्मादयमधिकारो वेदितव्यः॥

सर्वं गुणकार्त्स्न्ये ॥ ६.२.९३॥

सर्वशब्दः पूर्वपदं गुणकार्त्स्न्ये वर्तमानमन्तोदात्तं भवति। स॒र्वश्वे॑तः। स॒र्वकृ॑ष्णः। स॒र्वम॑हान्। सर्वमिति किम्? प॒र॒म॒श्वे॒तः। आश्रयव्याप्त्या परमत्वं श्वेतत्वस्येति गुणकार्त्स्न्ये वर्तते। गुणग्रहणं किम्? स॒र्व॒सा॒ैव॒र्णः। स॒र्व॒रा॒ज॒तः। कार्त्स्न्य इति किम्? सर्वेषां श्वेततरः स॒र्व॒श्वे॒तः। ‘गुणात्तरेण समासस्तरलोपश्च वक्तव्यः’ (२.२.९ वा०) इत्येवमत्र समासस्तरब्लोपश्च॥

संज्ञायां गिरिनिकाययोः ॥ ६.२.९४॥

संज्ञायां विषये गिरि निकाय इत्येतयोरुत्तरपदयोः पूर्वपदमन्तोदात्तं भवति। अ॒ञ्ज॒नागि॑रिः। भ॒ञ्ज॒नागि॑रिः। निकाये-शा॒पि॒ण्डिनि॑कायः। मा॒ैण्डिनि॑कायः। चि॒खि॒ल्लिनि॑कायः। संज्ञायामिति किम्? प॒र॒म॒गि॒रिः। ब्रा॒ह्म॒ण॒नि॒का॒यः॥

कुमार्यां वयसि ॥ ६.२.९५॥

कुमार्यामुत्तरपदे वयसि गम्यमाने पूर्वपदमन्तोदात्तं भवति। वृ॒द्धकु॑मारी॥ ज॒रत्कु॑मारी। कुमारीशब्दः पुंसा सहासंप्रयोगमात्रं प्रवृत्तिनिमित्तमुपादाय प्रयुक्तो वृद्धादिभिर्वयोविशेषवचनैः समानाधिकरणो भवति। तच्च वय इह गृह्यते, न कुमारत्वमेव। वयसीति किम्? प॒र॒म॒कु॒मा॒री॥

उदकेऽकेवले ॥ ६.२.९६॥

अकेवलं मिश्रम्, तद्वाचिनि समास उदकशब्द उत्तरपदे पूर्वपदमन्तोदात्तं भवति। गुडमिश्रमुदकं गु॒डोद॑कम्, गु॒डो॑दकम्। ति॒लोद॑कम्, ति॒लो॑दकम्। स्वरे कृत एकादेशः ‘स्वरितो वानुदात्ते पदादौ’ (८.२.६) इति पक्षे स्वरितो भवति। अकेवल इति किम्? शी॒तो॒द॒कम्। उ॒ष्णो॒द॒कम्॥

द्विगौ क्रतौ ॥ ६.२.९७॥

द्विगावुत्तरपदे क्रतुवाचिनि समासे पूर्वपदमन्तोदात्तं भवति। ग॒र्गत्रि॑रात्रः। च॒र॒कत्रि॑रात्रः। कु॒सु॒र॒वि॒न्दस॑प्तरात्रः। गर्गाणां त्रिरात्रो ग॒र्गत्रि॑रात्रः। द्विगाविति किम्? अ॒ति॒रा॒त्रः। अचश्चित्त्वादन्तोदात्तः। क्रताविति किम्? बि॒ल्व॒स॒प्त॒रा॒त्रः। बिल्वशतस्य बिल्वहोमस्य वा सप्तरात्रो बिल्वसप्तरात्रः॥

सभायां नपुंसके ॥ ६.२.९८॥

सभाशब्द उत्तरपदे नपुंसकलिङ्गे समासे पूर्वपदमन्तोदात्तं भवति। गो॒पा॒लस॑भम्। प॒शु॒पा॒लस॑भम्। स्त्रीस॑भम्। दा॒सीस॑भम्। सभायामिति किम्? ब्रा॒ह्म॒ण॒से॒नम्। नपुंसक इति किम्? रा॒ज॒स॒भा ब्रा॒ह्म॒ण॒स॒भा। सभायां प्रतिपदोक्त मिह नपुंसकलिङ्गं गृह्यत इति र॒म॒णीय॑सभं ब्राह्मणकु॒लम् इत्यत्र न भवति॥

पुरे प्राचाम् ॥ ६.२.९९॥

पुरशब्द उत्तरपदे प्राचां देशे पूर्वपदमन्तोदात्तं भवति। ल॒ला॒टपु॑रम्। का॒ञ्चीपु॑रम्। शि॒व॒द॒त्तपु॑रम्। का॒र्णिपु॑रम्। ना॒र्मपु॑रम्। प्राचामिति किम्? शि॒व॒पु॒रम्॥

अरिष्टगौडपूर्वे च ॥ ६.२.१००॥

अरिष्ट गौड इत्येवंपूर्वे समासे पुरशब्द उत्तरपदे पूर्वपदमन्तोदात्तं भवति। अ॒रि॒ष्टपु॑रम्। गा॒ैडपु॑रम्। पूर्वग्रहणं किम्? इहापि यथा स्यात्-अ॒रि॒ष्ट॒श्र्िातपु॑रम्। गा॒ैड॒भृ॒त्यपु॑रम्॥

न हास्तिनफलकमार्देयाः ॥ ६.२.१०१॥

हास्तिन फलक मार्देय इत्येतानि पूर्वपदानि पुरशब्द उत्तरपदे नान्तोदात्तानि भवन्ति। ‘पुरे प्राचाम्’ (६.२.९९) इति प्राप्तिः प्रतिषिध्यते। हा॒स्ति॒न॒पु॒रम्। फ॒ल॒क॒पु॒रम्। मा॒र्दे॒य॒पु॒रम्। मृदोरपत्यं मार्देयः। शुभ्रादित्वाद् ढक् (४.१.१२३)॥

कुसूलकूपकुम्भशालं बिले ॥ ६.२.१०२॥

कुसूल कूप कुम्भ शाला इत्येतानि पूर्वपदानि बिलशब्द उत्तरपदेऽन्तोदात्तानि भवन्ति। कु॒सू॒लबि॑लम्। कू॒पबि॑लम्। कु॒म्भबि॑लम्। शा॒लाबि॑लम्। कुसूलादिग्रहणं किम् ? स॒र्प॒बि॒लम्। बिल इति किम्? कु॒सू॒ल॒स्वा॒मी॥

दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु ॥ ६.२.१०३॥

दिक्शब्दाः पूर्वपदान्यन्तोदात्तानि भवन्ति ग्रामजनपदाख्यानवाचिषूत्तरपदेषु, चानराटशब्दे च। पू॒र्वेषु॑कामशमी, पू॒र्वे॑षुकामशमी। अ॒प॒रेषु॑कामशमी, अ॒प॒रे॑षुकामशमी। पू॒र्वकृ॑ष्णमृत्तिका। अ॒प॒रकृ॑ष्णमृत्तिका। जनपद-पू॒र्वप॑ञ्चालाः। अ॒प॒रप॑ञ्चालाः। आख्यान- पू॒र्वाधि॑रामम्, पू॒र्वा॑धिरामम्। पू॒र्वया॑यातम्। अ॒प॒रया॑यातम्। अधिराममधिकृत्य कृतो ग्रन्थ आधिरामम्। तथा यायातम्। चानराट- पू॒र्वचा॑नराटम्। अ॒प॒रचा॑नराटम्। शब्दग्रहणं कालवाचिनोऽपि दिक्शब्दस्य परिग्रहार्थम्॥

आचार्योपसर्जनश्चान्तेवासिनि॥ ६.२.१०४॥

आचार्योपसर्जनान्तेवासिवाचिन्युत्तरपदे दिक्शब्दा अन्तोदात्ता भवन्ति। पू॒र्वपा॑णिनीयाः। अ॒प॒रपा॑णिनीयाः। पू॒र्वका॑शकृत्स्नाः। अ॒प॒रका॑शकृत्स्नाः। आचार्योपसर्जन इति किम्? पू॒र्व॒श्िाष्याः। अन्तेवासिनीति किम्? पू॒र्व॒पा॒ण्िानी॒यं शास्त्रम्॥

उत्तरपदवृद्धौ सर्वं च॥ ६.२.१०५॥

‘उत्तरपदस्य’ (७.३.१०) इत्यधिकृत्य या विहिता वृद्धिः, तद्वत्युत्तरपदे सर्वशब्दो दिक्शब्दाश्चान्तोदात्ता भवन्ति। स॒र्वपा॑ञ्चालकः। पू॒र्वपा॑ञ्चालकः। उ॒त्त॒रपा॑ञ्चालकः। ‘सुसर्वार्धदिक्शब्देभ्यो जनपदस्य’ (महाभाष्य १.१८६) इति तदन्तविधिना जनपदलक्षणो (४.२.१२५) वुञ्प्रत्ययः। ‘सुसर्वार्धाज्जनपदस्य’ (७.३.१२) ‘दिशोऽमद्राणाम्’ (७.३.१३) इति चोत्तरपदवृद्धिः। अधिकारलक्षणादिह न भवति-स॒र्व॒भा॒सः, स॒र्व॒का॒र॒क इति॥

बहुब्रीहौ विश्वं संज्ञायाम्॥ ६.२.१०६॥

बहुब्रीहौ समासे विश्वशब्दः पूर्वपदं संज्ञायां विषयेऽन्तोदात्तं भवति। वि॒श्वदे॑वः। वि॒श्वय॑शाः। वि॒श्वम॑हान्। पूर्वपदप्रकृतिस्वरत्वेनाद्युदात्तत्वं प्राप्तम्। बहुब्रीहाविति किम्? विश्वे च ते देवा वि॒श्व॒दे॒वाः। संज्ञायामिति किम्? विश्वे देवा अस्य विश्व॑देवः। वि॒श्व॒मि॒त्रः, वि॒श्वा॒जि॒न इत्यत्र ‘संज्ञायां मित्राजिनयोः’ (६.२.१६५) इत्येतद् भवति परत्वात्। बहुब्रीहावित्येतदधिक्रियते प्रागव्ययीभावसंज्ञानात् (६.२.१२१)॥

उदराश्वेषुषु॥ ६.२.१०७॥

उदर अश्व इषु इत्येतेषूत्तरपदेषु बहुव्रीहौ समासे संज्ञायां विषये पूर्वपदमन्तोदात्तं भवति। वृ॒कोद॑रः। दा॒मोद॑रः। ह॒र्य॑श्वः। या॒ैव॒नाश्वः॑। सु॒व॒र्ण॒पु॒ङ्खेषुः॑। म॒हेषुः॑॥

क्षेपे॥ ६.२.१०८॥

क्षेपे गम्यमान उदरादिषूत्तरपदेषु बहुव्रीहौ समासे संज्ञायां विषये पूर्वपदमन्तोदात्तं भवति। कु॒ण्डोद॑रः। घ॒टोद॑रः। क॒टु॒काश्वः॑। स्प॒न्दि॒ताश्वः॑। अ॒नि॒घा॒तेषुः॑। च॒ला॒च॒लेषुः॑। अ॒नु॒द॒रः, सू॒द॒र इत्यत्र ‘नञ्सुभ्याम्’ (६.२.१७२) इत्येतद् भवति विप्रतिषेधेन॥

नदी बन्धुनि॥ ६.२.१०९॥

बहुब्रीहौ समासे बन्धुन्युत्तरपदे नद्यन्तं पूर्वपदमन्तोदात्तं भवति। गा॒र्गीब॑न्धुः। वा॒त्सीब॑न्धुः। नदीति किम्? ब्रह्म॑बन्धुः। ब्रह्मशब्द आद्युदात्तः। बन्धुनीति किम्? गार्गी॑प्रियः॥

निष्ठोपसर्गपूर्वमन्यतरस्याम्॥ ६.२.११०॥

बहुव्रीहौ समासे निष्ठान्तमुपसर्गपूर्वं पूर्वपदमन्यतरस्यामन्तोदात्तं भवति। प्॒रधा॒ैतमु॑खः, प्॒रधा॒ैत॒मु॒खः, प्रधा॑ैतमुखः। प्॒रक्षा॒लि॒तपा॑दः, प्रक्षा॑लितपादः। यदि मुखशब्दः स्वाङ्गवाची तदा पक्षे ‘मुखं स्वाङ्गम्’ (६.२.१६७) इत्येतद् भवति, न चेत् पूर्वपदप्रकृतिस्वरत्वेन ‘गतिरनन्तरः’ (६.२.४९) इत्येतद् भवति। निष्ठेति किम्? प्॒रसेच॑कमुखः। उपसर्गपूर्वमिति किम्? शुष्क॑मुखः॥

उत्तरपदादिः॥ ६.२.१११॥

उत्तरपदादिरित्येतदधिकृतम्। यदित ऊर्ध्वमनुक्रमिष्याम उत्तरपदस्यादिरुदात्तो भवतीत्येवं तद् वेदितव्यम्। वक्ष्यति-‘कर्णो वर्णलक्षणात्’ (६.२.११२)- शु॒क्ल॒कर्णः॑। कृ॒ष्ण॒कर्णः॑। उत्तरपदस्येत्येतदा पादपरिसमाप्तेः। आदिरिति ‘प्रकृत्या भगालम्’ (६.२.१३७) इति यावत्॥

कर्णो वर्णलक्षणात्॥ ६.२.११२॥

बहुब्रीहौ समासे वर्णवाचिनो लक्षणवाचिनश्च कर्णशब्द उत्तरपदमाद्युदात्तं भवति। शु॒क्ल॒कर्णः॑। कृ॒ष्ण॒कर्णः॑। लक्षणात्- दा॒त्रा॒कर्णः॑। श॒ङ्कू॒कर्णः॑। लक्षणस्य०(६.३.११५) इति दीर्घत्वम्। पशूनां विभागज्ञापनार्थं दात्रशङ्कुप्रतिरूपकं कर्णादिषु चिह्नं यत् क्रियते तदिह लक्षणं गृह्यते, तेन स्थू॒लक॑र्ण इत्यत्र न भवति। कर्ण इति किम्? श्वे॒तपा॑दः। कू॒टश्ृ॑ङ्गः। वर्णलक्षणादिति किम्? शो॒भ॒नक॑र्णः॥

संज्ञौपम्ययोश्च॥ ६.२.११३॥

संज्ञायामौपम्ये च यो बहुव्रीहिर्वर्तते, तत्र कर्णशब्द उत्तरपदमाद्युदात्तं भवति। संज्ञायाम्-कु॒ञ्चि॒कर्णः॑। म॒ण्िाकर्णः॑। औपम्ये-गो॒कर्णः॑। ख॒र॒कर्णः॑॥

कण्ठपृष्ठग्रीवाजङ्घं च॥ ६.२.११४॥

कण्ठ पृष्ठ ग्रीवा जङ्घा इत्येतान्युत्तरपदानि बहुव्रीहौ समासे संज्ञौपम्ययोराद्युदात्तानि भवन्ति। कण्ठः संज्ञायाम्-शि॒ति॒कण्ठाः॑ (तै०सं० ४.५.११.१)। नी॒ल॒कण्ठः॑। औपम्ये-ख॒र॒कण्ठः॑। उ॒ष्ट्॒रकण्ठः॑। पृष्ठः संज्ञायाम्-का॒ण्ड॒पृष्ठः॑। ना॒क॒पृष्ठः॑। औपम्ये-गो॒पृष्ठः॑। अ॒ज॒पृष्ठः॑। ग्रीवा संज्ञायाम्-सु॒ग्रीवः॑। नी॒ल॒ग्रीवः॑। द॒श॒ग्रीवः॑। औपम्ये-गो॒ग्रीवः॑। अ॒श्व॒ग्रीवः॑। जङ्घा संज्ञायाम्-ना॒डी॒जङ्घः॑। ता॒ल॒जङ्घः॑। औपम्ये-गो॒जङ्घः॑। अ॒श्व॒जङ्घः॑। ए॒णी॒जङ्घः॑॥

शृङ्गमवस्थायां च॥ ६.२.११५॥

शृङ्गशब्द उत्तरपदमवस्थायां संज्ञौपम्ययोश्च बहुव्रीहावाद्युदात्तं भवति। उ॒द्ग॒त॒शृङ्गः॑। द्व्य॒ङ्गु॒ल॒शृङ्गः॑। त्र्य॒ङ्गु॒ल॒शृङ्गः॑।अत्र शृङ्गोद्गमनादिकृतो गवादेर्वयोविशेषोऽवस्था। संज्ञायाम्-ऋ॒ष्य॒शृङ्गः॑। औपम्ये-गो॒शृङ्गः॑। मे॒ष॒शृङ्गः॑। अवस्थादिष्विति किम्? स्थू॒लशृङ्गः॑॥

नञो जरमरमित्रमृताः॥ ६.२.११६॥

नञ उत्तरे जरमरमित्रमृता बहुव्रीहौ समास आद्युदात्ता भवन्ति। अ॒जरः॑। अ॒मरः॑। अ॒मित्रः॑। अ॒मृतः॑। नञ इति किम् ? ब्रा॒ह्म॒णमि॑त्रः। जरादय इति किम् ? अ॒श॒त्रुः। ‘नञ्सुभ्याम्’ (६.२.१७२) इति उत्तरपदान्तोदात्तत्वमेवात्र भवति॥

सोर्मनसी अलोमोषसी॥ ६.२.११७॥

सोरुत्तरं मनन्तमसन्तं च बहुव्रीहौ समास आद्युदात्तं भवति लोमोषसी वर्जयित्वा। सु॒कर्मा॑। सु॒धर्मा॑। सु॒प्रथि॑मा। असन्तम्-सु॒पयाः॑। सु॒यशाः॑. सु॒स्रोताः॑। सु॒स्रत्। सु॒ध्वत्। सोरिति किम्? कृ॒तक॑र्मा। कृ॒तय॑शाः। मनसी इति किम् ? सु॒रा॒जा। सु॒त॒क्षा। अलोमोषसी इति किम् ? सु॒लो॒मा। सू॒षाः। ‘अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च०’ इत्यनर्थकयोरपि मनसोरिह ग्रहणम्। ‘नञ्सुभ्याम्’ (६.२.१७२) इत्यस्यायमपवादः। कपि तु परत्वात् ‘कपि पूर्वम्’ (६.२.१७३) इत्येतद् भवति। सु॒क॒र्मकः॑। सु॒स्रो॒तस्कः॑॥

क्रत्वादयश्च॥ ६.२.११८॥

क्रत्वादयः सोरुत्तरे बहुव्रीहौ समास आद्युदात्ता भवन्ति। सु॒क्रतुः॑(तै०सं० १.२.६.१)। सु॒दृशी॑कः (तै०सं०३.४.११.१)॥ क्रतु। दृशीक। प्रतीक। प्रतूर्ति। हव्य। भग। क्रत्वादिः॥

आद्युदात्तं द्व्यच् छन्दसि॥ ६.२.११९॥

यदाद्युदात्तं द्व्यच् उत्तरपदं बहुव्रीहौ समास सोरुत्तरं तदाद्युदात्तमेव भवति छन्दसि विषये। स्वश्वा॑स्त्वा सु॒रथा॑ मर्जयेम (तै०सं० १.२.१४.४)। नित्स्वरेणाश्वरथशब्दावाद्युदात्तौ। आद्युदात्तमिति किम्? या सु॑बा॒हुः स्व॑ङ्गु॒रिः (ऋ० २.३२.७)। बाहुशब्दः प्रत्ययस्वरेणान्तोदात्तः। द्व्यजिति किम्? सु॒गुर॑सत् सुहिर॒ण्यः (ऋ० १.१२५.२)। छन्दसीति किम्? स्व॒श्वः। ‘नञ्सुभ्याम्’ (६.२.१७२) इत्यस्यायमपवादः॥

वीरवीर्यौ च॥ ६.२.१२०॥

वीर वीर्य इत्येतौ च शब्दौ सोरुत्तरौ बहुव्रीहौ समासे छन्दसि विषय आद्युदात्तौ भवतः। सु॒वीर॑स्ते (ऋ० ४.१७.४)। सु॒वीर्य॑स्य॒ पत॑यः स्याम (तै०सं० १.७.१३.४)। वीर्यमिति यत्प्रत्ययान्तं तत्र ‘यतोऽनावः’ (६.१.२१३) इत्याद्युदात्तत्वं न भवतीत्येतदेव वीर्यग्रहणं ज्ञापकम्। तत्र हि सति पूर्व्ेणैव सिद्धं स्यात्॥

कूलतीरतूलमूलशालाक्षसममव्ययीभावे॥ ६.२.१२१॥

कूल तीर तूल मूल शाला अक्ष सम इत्येतान्युत्तरपदानि। अव्ययीभावसमास आद्युदात्तानि भवन्ति। प॒रि॒कूल॑म्। उ॒प॒कूल॑म्। प॒रि॒तीर॑म्। उ॒प॒तीर॑म्। प॒रि॒तूल॑म्। उ॒प॒तूल॑म्। प॒रि॒मूल॑म्। उ॒प॒मूल॑म्। प॒रि॒शाल॑म्। उ॒प॒शाल॑म्। प॒र्यक्ष॑म्। उ॒पाक्ष॑म्। सु॒षम॑म्। वि॒षम॑म्। नि॒षम॑म्। दुः॒षम॑म्। तिष्ठद्गुप्रभृतिषु (२.१.१७) एते पठ्यन्ते। कूलादिग्रहणं किम्? उ॒प॒कु॒म्भम्। अव्ययीभाव इति किम् ? प॒र॒मकू॑लम्। उ॒त्त॒मकू॑लम्। पर्यादिभ्यः(६.२.३३) कूलादीनामाद्युदात्तत्वं विप्रतिषेधेन भवति। प॒रि॒कूल॑म्। उ॒प॒कूल॑म्॥

कंसमन्थशूर्पपाय्यकाण्डं द्विगौ॥ ६.२.१२२॥

कंस मन्थ शूर्प पाय्य काण्ड इत्येतान्युत्तरपदानि द्विगौ समास आद्युदात्तानि भवन्ति। द्वि॒कंसः॑। त्र्िाकंसः॑। द्वि॒मन्थः॑। त्र्िामन्थः॑। द्वि॒शूर्पः॑। त्र्िाशूर्पः॑। द्वि॒पाय्यः॑। त्रि॒पाय्यः॑। द्वि॒काण्डः॑। त्रि॒काण्डः॑। द्विगाविति किम् ? प॒र॒म॒कं॒सः। उ॒त्त॒म॒कं॒सः॥

तत्पुरुषे शालायां नपुंसके॥ ६.२.१२३॥

शालाशब्दान्ते तत्पुरुषे समासे नपुंसकलिङ्ग उत्तरपदमाद्युदात्तं भवति। ब्र्रा॒ह्म॒ण॒शाल॑म्। क्ष॒त्र्िाय॒शाल॑म्। ‘विभाषा सेनासुराच्छायाशालानिशानाम्’ (२.४.२५) इति नपुंसकलिङ्गता। तत्पुरुष इति किम्? दृ॒ढशा॑लं ब्राह्मणकुलम्। शालायामिति किम्? ब्रा॒ह्म॒ण॒से॒नम्। नपुंसक इति किम्? ब्रा॒ह्म॒ण॒शा॒ला॥

कन्था च॥ ६.२.१२४॥

तत्पुरुषे समासे नपुंसकलिङ्गे कन्थाशब्द उत्तरपदमाद्युदात्तं भवति। सा॒ैश॒मि॒ कन्थ॑म्। आ॒ह्व॒कन्थ॑म्। च॒प्प॒कन्थ॑म्। ‘संज्ञायां कन्थोशीनरेषु’ (२.४.२०) इति नपुंसकलिङ्गता। षष्ठीसमासा एते। नपुंसक इत्येव-दा॒क्षि॒क॒न्था॥

आदिश्चिहणादीनाम् ॥ ६.२.१२५॥

कन्थान्ते तत्पुरुषे समासे नपुंसकलिङ्गे चिहणादीनामादिरुदात्तो भवति। चिह॑णकन्थम्। मड॑रकन्थम्। मडुर इति केचित् पठन्ति। मडु॑रकन्थम्॥ चिहण। मडर। मड्डर। वैतुल। पटत्क। चैत्तालिकर्णः। चैत्तालिकर्णिः इत्यन्ये पठन्ति। कुक्कुट। चिक्कण। चित्कण इत्यपरे। पठन्ति। आदिरिति वर्तमाने पुनरादिग्रहणं पूर्वपदाद्युदात्तार्थम्॥

चेलखेटकटुककाण्डं गर्हायाम् ॥ ६.२.१२६॥

चेल खेट कटुक काण्ड इत्येतान्युत्तरपदानि तत्पुरुषे समासे गर्हायां गम्यमानायामाद्युदात्तानि भवन्ति। पु॒त्र॒चेल॑म्। भा॒र्या॒चेल॑म्। उ॒पा॒न॒त्खेट॑म्। न॒ग॒र॒खेट॑म्। द॒धि॒कटु॑कम्। उ॒द॒श्वि॒त्कटु॑कम्। भू॒त॒काण्ड॑म्। प्॒रजा॒काण्ड॑म्। चेलादीनां सादृश्येन पुत्रादीनां गर्हा। तत्र पुत्रश्चेलमिवेति विगृह्य व्याघ्रादेराकृतिगणत्वाद् ‘उपमितं व्याघ्रादिभिः०’(२.१.५६) इति समासः। गर्हायामिति किम्? प॒र॒म॒चे॒लम्॥

चीरमुपमानम् ॥ ६.२.१२७॥

चीरमुत्तरपदमुपमानवाचि तत्पुरुषे समास आद्युदात्तं भवति। वस्त्रं चीरमिव व॒स्त्र॒चीर॑म्। प॒ट॒चीर॑म्। क॒म्ब॒ल॒चीर॑म्। उपमानमिति किम्? प॒र॒म॒ची॒रम्॥

पललसूपशाकं मिश्रे॥ ६.२.१२८॥

पलल सूप शाक इत्येतान्युत्तरपदानि मिश्रवाचिनि तत्पुरुषे समास आद्युदात्तानि भवन्ति। गु॒ड॒पल॑लम्। घ्ाृत॒पल॑लम्। घ्ाृत॒सूपः॑। मू॒ल॒क॒सूपः॑। घ्ाृत॒शाक॑म्। मु॒द्ग॒शाक॑म्। गुडेन मिश्रं पललं गुडपललम्। ‘भक्ष्येण मिश्रीकरणम्’(२.१.३५) इति समासः। मिश्र इति किम् ? प॒र॒म॒प॒ल॒लम्॥

कूलसूदस्थलकर्षाः संज्ञायाम्॥ ६.२.१२९॥

कूल सूद स्थल कर्ष इत्येतान्युत्तरपदानि तत्पुरुषे समासे संज्ञायां विषय आद्युदात्तानि भवन्ति। दा॒क्ष्िाकूल॑म्। मा॒ह॒कि॒कूल॑म्। दे॒व॒सूद॑म्। भा॒जी॒सूद॑म्। दा॒ण्डा॒य॒न॒स्थली॑। मा॒ह॒कि॒स्थली॑। दा॒क्षि॒कर्षः॑। ग्रामनामधेयान्येतानि। स्थलग्रहणे लिङ्गविशिष्टत्वात् स्थलीशब्दोऽपि गृह्यते। ‘जानपदकुण्ड०’(४.१.४२) इत्यनेन ङीष्। संज्ञायामिति किम्? प॒र॒म॒कू॒लम्॥

अकर्मधारये राज्यम्॥ ६.२.१३०॥

कर्मधारयवर्जिते तत्पुरुषे समासे राज्यमित्येतदुत्तरपदमाद्युदात्तं भवति। ब्रा॒ह्म॒ण॒राज्य॑म्। क्ष॒त्रि॒य॒राज्य॑म्। अकर्मधारय इति किम्? प॒र॒म॒रा॒ज्यम्। चेलराज्यादिस्वरादव्ययस्वरो भवति पूर्वविप्रतिषेधेन। कुचे॑लम्। कुरा॑ज्यम्॥

वर्ग्यादयश्च ॥ ६.२.१३१॥

वर्ग्य इत्येवमादीन्युत्तरपदानि अकर्मधारये तत्पुरुषे समास आद्युदात्तानि भवन्ति। वा॒सु॒दे॒व॒वर्ग्यः॑। वा॒सु॒दे॒व॒पक्ष्यः॑। अ॒र्जु॒न॒वर्ग्यः॑। अ॒र्जु॒न॒पक्ष्यः॑। अकर्मधारय इत्येव-प॒र॒म॒व॒र्ग्यः। वर्ग्यादयः प्रातिपदिकेषु न पठ्यन्ते। दिगादिषु (४.३.५४) तु वर्ग पूग गण पक्ष इत्येवमादयो ये पठिताः, त एव यत्प्रत्ययान्ता वर्ग्यादय इह प्रतिपत्तव्याः॥

पुत्रः पुम्भ्यः ॥ ६.२.१३२॥

पुत्रशब्दः पुंशब्देभ्य उत्तरस्तत्पुरुष आद्युदात्तो भवति। कौ॒न॒टि॒पुत्रः॑। दा॒म॒क॒पुत्रः॑। मा॒हि॒ष॒क॒पुत्रः॑। पुत्र इति किम्? कौ॒न॒टि॒मा॒तु॒लः। पुम्भ्य इति किम्? गा॒र्गी॒पु॒त्रः। वा॒त्सी॒पु॒त्रः॥

नाचार्यराजर्त्विक्संयुक्त ज्ञात्याख्येभ्यः ॥ ६.२.१३३॥

आचार्य उपाध्यायः। राजा ईश्वरः। ऋत्विजो याजकाः। संयुक्ताःस्त्रीसंबन्धिनः श्यालादयः। ज्ञातयो मातृपितृसंबन्धिनो बान्धवाः। आचार्याद्याख्येभ्यः परः पुत्रशब्दो नाद्युदात्तो भवति। आख्याग्रहणात् स्वरूपस्य पर्यायाणां विशेषाणां च ग्रहणं भवति। आ॒चा॒र्य॒पु॒त्रः। उ॒पा॒ध्या॒य॒पु॒त्रः। शा॒क॒टा॒य॒न॒पु॒त्रः। रा॒ज॒पु॒र्त्रः। इ॒श्व॒र॒पु॒त्रः। न॒न्द॒पु॒त्रः। ऋ॒त्वि॒क्पु॒त्रः। या॒ज॒क॒पु॒त्रः। हो॒तुः॒पु॒त्रः। सं॒यु॒क्त॒पु॒त्रः। सं॒ब॒न्धि॒पु॒त्रः। श्या॒ल॒पु॒त्रः। ज्ञा॒ति॒पु॒त्रः। भ्रा॒तु॒ष्पु॒त्रः। ‘ऋतो विद्यायोनिसंबन्धेभ्यः’(६.३.२३) इति षष्ठ्या अलुक् । पुत्रस्वरे प्रतिषिद्धे समासान्तोदात्तत्वमेव भवित॥

चूर्णादीन्यप्राणिषष्ठ्याः ॥ ६.२.१३४॥

उत्तरपदादिरिति वर्तते, तत्पुरुष इति च। चूर्णादीन्युत्तरपदानि अप्राणिवाचिनः षष्ठ्यन्तात् पराणि तत्पुरुषे समास आद्युदात्तानि भवन्ति। मु॒द्ग॒चूर्ण॑म्। म॒सू॒र॒चूर्ण॑म्। अप्राणिषष्ठ्या इति किम्? म॒त्स्य॒चू॒र्णम्। षष्ठ्या इति किम्? प॒र॒म॒चू॒र्णम्॥ चूर्ण। करिप। करिव। शाकिन। शाकट। द्राक्षा। तूस्त। कुन्दम। दलप। चमसी। चक्कन। चौल। चूर्णादिः। चूर्णादीन्यप्राण्युपग्रहादिति सूत्रस्य पाठान्तरम्। तत्रोपग्रह इति षष्ठ्यन्तमेव पूर्वाचार्योपचारेण गृह्यते॥

षट् च काण्डादीनि ॥ ६.२.१३५॥

षट् पूर्वोक्तानि काण्डादीन्युत्तरपदान्यप्राणिषष्ठ्या आद्युदात्तानि भवन्ति। ‘॰काण्डं गर्हायाम्’(६.२.१२६) इत्युक्तमगर्हायामपि भवति। द॒र्भ॒काण्ड॑म्। श॒र॒काण्ड॑म्। ‘चीरमुपमानम्’ (६.२.१२७) इत्युक्त मनुपमानमपि भवति। द॒र्भ॒चीर॑म्। कु॒श॒चीर॑म्। ‘पललसूपशाकं मिश्रे’ (६.२.१२८) इत्युक्त ममिश्रेऽपि भवति। ति॒ल॒पल॑लम्। मु॒द्ग॒सूपः॑। मू॒ल॒क॒शाक॑म्। ‘कूलं संज्ञायाम्’ (६.२.१२९) इत्युक्त मसंज्ञायामपि भवति। न॒दी॒कूल॑म्। स॒मु॒द्॒रकूल॑म्। षडिति किम्? रा॒ज॒सू॒दः॥

कुण्डं वनम् ॥ ६.२.१३६॥

कुण्डशब्दोऽत्र कुण्डसादृश्येन वने वर्तते। कुण्डमित्येतदुत्तरपदं वनवाचि तत्पुरुषे समास आद्युदात्तं भवति। द॒र्भ॒कुण्ड॑म्। श॒र॒कुण्ड॑म्। वनमिति किम्? मृ॒त्कु॒ण्डम्॥

प्रकृत्या भगालम्॥ ६.२.१३७॥

भगालवाच्युत्तरपदं तत्पुरुषे समासे प्रकृतिस्वरं भवति। कु॒म्भी॒भ॒गाल॑म्। कु॒म्भी॒क॒पाल॑म्। कु॒म्भी॒न॒दाल॑म्। भगालादयो मध्योदात्ताः। प्रकृत्येत्येतदधिकृतम् ‘अन्तः’(६.२.१४३) इति यावद् वेदितव्यम्॥

शितेर्नित्याबह्वज् बहुव्रीहावभसत्॥ ६.२.१३८॥

शितेरुत्तरपदं नित्यं यदबह्वज् भसच्छब्दवर्जितं बहुव्रीहौ समासे तत् प्रकृतिस्वरं भवति। शि॒ति॒पादः॑। शि॒त्यंसः॑। शि॒त्योष्ठः॑ (तै०सं० ५.६.१४.१)। पादशब्दो वृषादित्वादाद्युदात्तः। अंसौष्ठशब्दौ च प्रत्ययस्य नित्त्वात्। शितेरिति किम्? द॒र्श॒नीय॑पादः। नित्यग्रहणं किम्? शिति॑ककुत् (तै०सं० ५.६.१४.१)। ‘ककुदस्यावस्थायां लोपः’(५.४.१४६) विधीयते। तत्रावस्थाया अन्यत्र शितिककुद इति बह्वजुत्तरपदं भवतीति तेन न नित्याबह्वच्। अबह्वजिति किम्? शिति॑ललाटः। बहुव्रीहाविति किम्? शितेः पादः शि॒ति॒पा॒दः। अभसदिति किम्? शिति॑भस॒द् (तै०सं० ५.६.१४.१)। शितिशब्द आद्युदात्तः। पूर्वपदप्रकृतिस्वरापवादो योगः॥

गतिकारकोपपदात् कृत् ॥ ६.२.१३९॥

तत्पुरुष इति वर्तते, न बहुव्रीहाविति। गतेः कारकादुपपदात् च कृदन्तमुत्तरपदं तत्पुरुषे समासे प्रकृतिस्वरं भवति। प्र॒कार॑कः। प्॒रकर॑णम्। प्॒रहार॑कः। प्र॒हर॑णम्। कारकात्- इ॒ध्म॒प्॒रव्रश्च॑नः। प॒ला॒श॒शात॑नः। श्म॒श्रु॒कल्प॑नः। उपपदार्त्-इ॒ष॒त्करः॑। दु॒ष्करः॑। सु॒करः॑। सर्वत्रैवात्र लित्स्वरः। गतिकारकोपपदादिति किम्? देवदत्तस्य कारको दे॒व॒द॒त्त॒का॒र॒कः। देवदत्तस्येति शेषलक्षणा षष्ठी। कृद्ग्रहणं विस्पष्टार्थम्। प्र॒प॒च॒ति॒त॒राम्, प्॒रप॒च॒ति॒त॒माम् इत्यत्र तरबाद्यन्तेन समासे कृते पश्चादाम्। तत्र सतिशिष्टत्वादाम एव स्वरो भवतीत्येके। प्रपचतिदेश्याद्यर्थं तु कृद्ग्रहणं दृश्यत एव॥

उभे वनस्पत्यादिषु युगपत् ॥ ६.२.१४०॥

प्रकृत्येति वर्तते। वनस्पत्यादिषु समासेषु उभे पूर्वोत्तरपदे युगपत् प्रकृतिस्वरे भवतः। वन॒स्पतिः॑ (तै०सं० १.२.२.३)। वनपतिशब्दावाद्युदात्तौ पारस्करप्रभृतित्वात् सुट्। बृह॒स्पतिः॑ (तै०सं० ६.४.१०.१)। बृहतां पतिः। तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च (ग० सू० १६३) इति सुट् तकारलोपश्च। बृहदित्येतदन्तोदात्तं निपातयन्ति। तस्य केचिदाद्युदात्तत्वं वर्णयन्ति। शची॒पतिः॑ (तै०सं० ४.४.८.१)। शचीशब्दः ‘कृदिकारादक्ति नः’ (ग०सू० ४९) इति ङीषन्तत्वादन्तोदात्तः। केचित् तु शार्ङ्गरवादिषु पठन्ति, तेषामाद्युदात्तः। तनू॒नपा॒त् (तै०सं० ४.१.८.१) तनोतेरौणादिक ऊप्रत्ययस्तेन तनूशब्दोन्तोदात्तः। न पाति न पालयति वा नपात् क्विबन्तः। ‘नभ्राण्नपात्०’(६.३.७५) इत्यादिनाद्युदात्तो निपातितः। तन्वा नपात् तनूनपात्। नरा॒शंसः॑ (तै०सं० ४.१.८.१)। नरा अस्मिन्नासीनाः शंसन्ति, नरा एनं शंसन्तीति वा नराशंसः। ‘नृनये’ । अबन्तो नरशब्द आद्युदात्तः। शंसशब्दोऽपि घञन्तः। ‘अन्येषामपि दृश्यते’(६.३.१३७) इति दीर्घत्वम्। शुनः॒शेपः॑ (तै०सं० ५.२.१.३)। शुन इव शेपोऽस्येति बहुव्रीहिः। तत्र ‘शेपपुच्छलाङ्गूलेषु शुनः संज्ञायाम्’ (६.३.२१ वा०) इति षष्ठ्या अलुक् । उभावाद्युदात्तौ। शण्डा॒मर्कौ॑ (तै०सं० ६.४.१०.१)। शण्डमर्कशब्दौ घञन्तत्वादाद्युदात्तौ। तयोर्द्वन्द्वे ‘अन्येषामपि दृश्यते’ (६.३.१३७) इति दीर्घत्वम्। तृष्णा॑वरू॒त्री। तृष्णशब्द आद्युदात्तः। वरूत्रीशब्दो ग्रसितादिसूत्रे (७.२.३४) निपातितोऽन्तोदात्तः। तत्र द्वन्द्वे दीर्घत्वं पूर्ववत्। ब॒म्बावि॒श्वव॑यसौ (तै०सं० ६.६.८.४)। बम्बशब्दोऽन्तोदात्तः। विश्ववयःशब्दोऽपि ‘बहुव्रीहौ विश्वं संज्ञायाम्’ (६.२.१०६) इति विश्वशब्दोऽन्तोदात्तः। तयोर्द्वन्द्वे दीर्घत्वं पूर्ववत्। मर्मृ॒त्युः। मरिति मृञो विच्प्रत्ययः। मृत्युशब्दोऽन्तोदात्तः। द्वन्द्वानामदेवताद्वन्द्वार्थोऽनुदात्ताद्युत्तरपदार्थश्च वनस्पत्यादिषु पाठः॥

देवताद्वन्द्वे च॥ ६.२.१४१॥

देवतावाचिनां यो द्वन्द्वस्तत्र युगपदुभे पूर्वोत्तरपदे प्रकृतिस्वरे भवतः। इन्द्रा॒सोमौ॑। इन्द्रा॒वरु॑णौ। इन्द्॒राबृह॒स्पती॑। ‘ऋजेन्द्राग्र०’ (प०उ० २.२९) इति इन्द्रशब्द आद्युदात्तो निपातितः। सोम इति मन्प्रत्ययान्तः। वरुण उनन्प्रत्ययान्तः, तेनाद्युदात्तः। बृहस्पतिशब्दे वनस्पत्यादित्वाद् द्वावुदात्तौ, तेनेन्द्राबृहस्पती इत्यत्र त्रय उदात्ता भवन्ति। देवताग्रहणं किम्? प्ल॒क्ष॒न्य॒ग्रो॒धौ। द्वन्द्वग्रहणं किम्? अ॒ग्नि॒ष्टो॒मः॥

नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु॥ ६.२.१४२॥

उत्तरपदेऽनुदात्तादौ पृथिवीरुद्रपूषमन्थिवर्जिते देवताद्वन्द्वे नोभे युगपत् प्रकृतिस्वरे भवतः। इ॒न्द्रा॒ग्नी (तै०सं० २.२.१.२)। इ॒न्द्॒रवा॒यू (तै०सं० ६.६.८.३)। अग्निवायुशब्दावन्तोदात्तौ। उत्तरपदग्रहणमनुदात्तादावित्युत्तरपदविशेषणं यथा स्याद्, द्वन्द्वविशेषणं मा भूदिति। अनुदात्तादाविति विधिप्रतिषेधयोर्विषयविभागार्थम्। अपृथिव्यादिष्विति किम्? द्यावा॑पृथि॒व्यौ (तै०सं० २.६.९.५)। द्यावाशब्द आद्युदात्तो निपातितः। पृथिवीशब्दो ङीष्प्रत्ययान्तत्वादन्तोदात्तः। रुद्र-सो॑मा॒रु॒द्रौ॑ (मै०सं० २.१.५)। ‘रोदेर्णिलुक्०’ (प०उ० २.२२) इति रुद्रशब्दो रक्प्रत्ययान्तोऽन्तोदात्तः। पूषन्-इन्द्रा॑पू॒षणौ॑। ‘श्वन्नुक्षन्पूषन्॰’ (प० उ० १.१५९) इति पूषान्तोदात्तो निपात्यते। मन्थिन्-शु॒क्राम॒न्थिनौ॑ (तै०सं० ६.४.१०.३)। मन्थोऽस्यास्तीति मन्थी। इन्नन्तत्वादन्तोदात्तः। पृथिव्यादिषु तु उभे युगपत् प्रकृतिस्वरे भवत एव॥

अन्तः॥ ६.२.१४३॥

अन्त इत्यधिकारः। यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र समासस्योत्तरपदस्यान्त उदात्तो भवतीत्येवं तद् वेदितव्यम्। वक्ष्यति-‘थाथघञ्क्त ाजबित्रकाणाम्’(६.२.१४४) इति। सु॒नी॒थः। अ॒व॒भृ॒थः॥

थाथघञ्क्त ाजबित्रकाणाम्॥ ६.२.१४४॥

थ अथ घञ् क्त अज् अप् इत्र क इत्येवमन्तानामुत्तरपदानां गतिकारकोपपदात् परेषामन्त उदात्तो भवति। सु॒नी॒थः। अ॒व॒भृ॒थः(तै०सं० १.७.५.३)। ‘हनिकुषिनीरमिकाशिभ्यः क्थन्’ (प०उ० २.२) इति ‘अवे भृञः’ (प०उ० २.३) इति च क्थन्प्रत्ययान्तावेतौ। तत्र कुदुत्तरपदप्रकृतिस्वरत्वेनाद्युदात्तमुत्तरपदं स्यात्। अथ-आ॒व॒स॒थः (शौ०सं० ९.६.७)। उ॒प॒व॒स॒थः। ‘उपसर्गे वसेः’ (प०उ० ३.११६) इत्यथन्प्रत्ययः। घञ्-प्॒रभे॒दः। का॒ष्ठ॒भे॒दः। र॒ज्जु॒भे॒दः। क्त-दू॒रा॒दा॒ग॒तः। वि॒शु॒ष्कः। आ॒त॒प॒श्ाुष्कः। अच्-प्र॒क्ष॒यः। प्॒रज॒यः। ‘क्षयो निवासे’ (६.१.२०१) ‘जयः करणम्’ (६.१.२०२) इति चाद्युदात्तौ क्षयजयशब्दौ प्रयोजयतः। अप्-प्र॒ल॒वः(तै० आ० ५.४.५)। प्र॒स॒वः (तै०सं० १.७.८.३)। इत्र-प्॒रल॒वि॒त्रम्। प्॒रस॒वि॒त्रम्। क-गो॒वृ॒षः। ख॒री॒वृ॒षः। गां वर्षति, खरीं वर्षतीति मूलविभुजादित्वात् (३.२.५ वा०) कप्रत्ययः। प्र॒वृ॒षः। प्॒रहृ॒षः। इगुपधात् (३.१.१३५) इति कप्रत्ययः। ‘वृषादीनां च’ (६.१.२०३) इति वृषशब्द आद्युदात्तः। गतिकारकोपपदादित्येव-सुस्तु॑तं भवता। कर्मप्रवचनीयेऽव्ययस्वर एव भवति॥

सूपमानात् क्त ः॥ ६.२.१४५॥

सु इत्येतस्मादुपमानात् च परं क्तान्तमुत्तरपदमन्तोदात्तं भवति। सु॒कृ॒तम् (तै०सं० ४.७.२.२)। सु॒भु॒क्त म्। सु॒पी॒तम्। उपमानात्-वृ॒का॒व॒लु॒प्तम्। श॒श॒प्लु॒तम्। सिं॒ह॒वि॒न॒र्दि॒तम्। सुशब्दाद् ‘गतिरनन्तरः’ (६.२.४९) इति प्राप्त उपमानादपि ‘तृतीया कर्मणि’ (६.२.४८) इत्ययमपवादः। गतिकारकोपपदादित्येव-सुस्तु॑तं भवता॥

संज्ञायामनाचितादीनाम् ॥ ६.२.१४६॥

संज्ञायां विषये गतिकारकोपपदात् क्तान्तमुत्तरपदमन्तोदात्तं भवति आचितादीन् वर्जयित्वा। सं॒भू॒तो रामायणः। उ॒प॒हू॒तः शाकल्यः। प॒रि॒ज॒ग्धः कौण्डिन्यः। संभूत इति प्राप्त्यर्थाद् भवतेः कर्मणि क्त ः। ‘गतिरनन्तरः’ (६.२.४९) इत्यत्र हि कर्मणीत्यनुवर्तते, तद्बाधनार्थं चेदम्। ध॒नु॒ष्खा॒ता नदी। कु॒द्दा॒ल॒खा॒तं नगरम्। ह॒स्ति॒मृ॒दि॒ता भूमिः। ‘तृतीया कर्मणि’ (६.२.४८) इति प्राप्तिरिह बाध्यते। अनाचितादीनामिति किम्? आचि॑तम्। पर्या॑चितम्। आस्था॑पितम्। परि॑गृहीतम्। निरु॑क्तम्। प्रति॑पन्नम्। प्रश्लि॑ष्टम्। उप॑हतम्। उप॑स्थितम्। संहितागवि (ग०सू० १७५)। संहिताशब्दो यदा गोरन्यस्य संज्ञा तदान्तोदात्तो न भवति। यदा तु गोः संज्ञा तदान्तोदात्त एव॥

प्रवृद्धादीनां च ॥ ६.२.१४७॥

प्रवृद्धादीनां च क्त ान्तमुत्तरपदमन्तोदात्तं भवति। प्॒रवृ॒द्धं यानम्। प्॒रवृ॒द्धो वृषलः। प्॒रयु॒क्ताः सक्त वः। आकर्षे अ॒व॒हि॒तः। अ॒व॒हि॒तो भोगेषु। ख॒ट्वा॒रू॒ढः। क॒वि॒श॒स्तः (तै०सं० २.५.९.२)। यानादीनामत्र गणे पाठः प्रायोवृत्तिप्रदर्शनार्थः, न विषयनियमार्थः। यानादिभ्योऽन्यत्रापि तेषामन्तोदात्तत्वं भवत्येव। विषयनियमार्थ एवेत्येके। असंज्ञार्थोऽयमारम्भः। आकृतिगणश्च प्रवृद्धादिर्द्रष्टव्यः। तेन पुनरुत्स्यू॒तं॑ वा॑सो॒ दे॑य॒म् (मै०सं० १.७.२), पु॒न॒र्नि॒ष्कृ॒तो रथः॒ (तै०सं० १.५.२.४) इत्येवमादि सिद्धं भवति॥

कारकाद्दत्तश्रुतयोरेवाशिषि ॥ ६.२.१४८॥

संज्ञायामिति वर्तते, क्त इति च। संज्ञायां विषय आशिषि गम्यमानायां कारकादुत्तरयोर्दत्तश्रुतयोरेव क्त ान्तयोरन्त उदात्तो भवति। देवा एनं देयासुर्दे॒व॒द॒त्तः। विष्णुरेनं श्रुयाद् वि॒ष्णुु॒श्रु॒तः। कारकादिति किम्? कारकाद् नियमो मा भूत्। सं॒भू॒तो रामायणः। दत्तश्रुतयोरिति किम्? दे॒वपा॑लितः। एतस्माद् नियमादत्र ‘संज्ञायामनाचितादीनाम्’ (६.२.१४६) इत्यन्तोदात्तत्वं न भवति। ‘तृतीया कर्मणि’ (६.२.४८) इत्येवात्र भवति। एवकारकरणं किम्? कारकावधारणं यथा स्याद्, दत्तश्रुतावधारणं मा भूत्। अकारकादपि दत्तश्रुतयोरन्त उदात्तो भवति। सं॒श्रु॒तः। वि॒श्र्ाुतः। आशिषीति किम्? अनाशिषि नियमो मा भूत्। देवैः खाता दे॒व॒खा॒ता। कारकाद् दत्तश्रुतयोराशिष्येवेत्येवमत्र नियम इष्यते। तेनाहतो नदति दे॒वद॑त्त इत्यत्र न भवति। देवदत्त इति कस्यचित् शङ्खस्य नाम। तत्र ‘तृतीया कर्मणि’(६.२.४८) इति पूर्वपदप्रकृतिस्वरत्वमेव भवति॥

इत्थंभूतेन कृतमिति च ॥ ६.२.१४९॥

इमं प्रकारमापन्न इत्थंभूतः। इत्थंभूतेन कृतमित्येतस्मिन्नर्थे यः समासो वर्तते, तत्र क्तान्तमुत्तरपदमन्तोदात्तं भवति। सु॒प्त॒प्॒रल॒पि॒तम्। उ॒न्म॒त्त॒प्॒रल॒पि॒तम्। प्॒रम॒त्त॒गी॒तम्। वि॒प॒न्न॒श्र्ाुतम्। कृतमिति क्रियासामान्ये करोतिर्वर्तते, नाभूतप्रादुर्भाव एव। तेन प्रलपिताद्यपि कृतं भवति। ‘तृतीया कर्मणि’ (६.२.४८) इत्यस्यायमपवादः। भावे तु यदा प्रलपितादयस्तदा थाथादिस्वरेणैव (६.२.१४४) सिद्धमन्तोदात्तत्वं भवति॥

अनो भावकर्मवचनः ॥ ६.२.१५०॥

अनप्रत्ययान्तमुत्तरपदं भाववचनं कर्मवचनं च कारकात् परमन्तोदात्तं भवति। ओ॒द॒न॒भो॒ज॒नं सुखम्। प॒यः॒पा॒नं सुखम्। च॒न्द॒न॒पि्॒रय॒ङ्गु॒का॒ले॒प॒नं सुखम्। कर्मवचनरा॒ज॒भो॒ज॒नाः शालयः। रा॒जा॒च्छा॒द॒नानि॑ वासांसि। ‘कर्मणि च येन संस्पर्शात् कर्तुः शरीरसुखम्’(३.३.११६) इत्ययं योग उभयथा वर्ण्यते-कर्मण्युपपदे भावे ल्युड् भवति, कर्मण्यभिधेये ल्युड् भवतीति। तत्र पूर्वस्मिन् सूत्रार्थे भाववचनोदाहरणानि, उत्तरत्र कर्मवचनोदाहरणानि। अन इति किम्? ह॒स्त॒हा॒र्य॑मुदश्वित्। भावकर्मवचन इति किम्? द॒न्त॒धाव॑नम्। करणे ल्युट्। कारकादित्येव-नि॒दर्श॑नम्। अ॒व॒लेख॑नम्। सर्वेषु प्रत्युदाहरणेषु प्रकृतिस्वरो भवति॥

मन्क्ति न्व्याख्यानशयनासनस्थानयाजकादिक्रीताः ॥ ६.२.१५१॥

मन्नन्तं क्तिन्नन्तं व्याख्यान शयन आसन स्थान इत्येतानि याजकादयः क्रीतशब्दश्चोत्तरपदमन्तोदात्तं भवति। मन्-र॒थ॒व॒र्त्म। श॒क॒ट॒व॒र्त्म। क्तिन्-पा॒ण्िानि॒कृ॒तिः। आ॒पि॒श॒लि॒कृ॒तिः। व्याख्यान-ऋ॒ग॒य॒न॒व्या॒ख्या॒नम्। छ॒न्दो॒व्या॒ख्या॒नम्। शयन-रा॒ज॒श॒य॒नम्। ब्रा॒ह्म्ाण्ाश्ाय॒नम्। आसन-रा॒जा॒स॒नम्। ब्॒राह्म्ाणा॒स॒नम्। स्थान-गो॒स्था॒नम्। अ॒श्व॒स्था॒नम्। याजकादि-ब्रा॒ह्म्ाण॒या॒ज॒कः। क्षत्रि॒॒य॒या॒ज॒कः। ब्॒राह्म्ाण्ापू॒ज॒कः। क्ष॒त्र्िाय॒पू॒ज॒कः। याजकादयो ये ‘याजकादिभिश्च’(२.२.९) इति षष्ठीसमासार्थाः पठ्यन्ते, त एवेह गृह्यन्ते। क्रीत-गो॒क्री॒तः। अ॒श्व॒क्री॒तः। कृत्स्वरापवादोऽयं योगः। क्रीतशब्दे तु ‘तृतीया कर्मणि’(६.२.४८) इत्यस्यापवादः। व्याख्यानशयनासनस्थानानामभावकर्मार्थं ग्रहणम्। कारकादित्येव-प्रकृ॑तिः। प्रहृ॑तिः॥

सप्तम्याः पुण्यम् ॥ ६.२.१५२॥

सप्तम्यन्तात् परं पुण्यमित्येतदुत्तरपदमन्तोदात्तं भवति। अध्ययने पुण्यम् अ॒ध्य॒य॒न॒पु॒ण्यम्। वेदे पुण्यं वे॒द॒पु॒ण्यम्। ‘सप्तमी०’(२.१.४०) इति योगविभागात् समासः। ‘तत्पुरुषे तुल्यार्थ०’(६.२.२) इति पूर्वपदप्रकृतिस्वरत्वं प्राप्तमित्यन्तोदात्तत्वं विधीयते। उणादीनां तु व्युत्पत्तिपक्षे (प०उ० ५.१५) कृत्स्वरेणाद्युदात्तः पुण्यशब्दः स्यादिति। सप्तम्या इति किम्? वेदेन पुण्यं वे॒दपु॑ण्यम्॥

ऊनार्थकलहं तृतीयायाः ॥ ६.२.१५३॥

ऊनार्थान्युत्तरपदानि कलहशब्दश्च तृतीयान्तात् पराण्यन्तोदात्तानि भवन्ति। मा॒षो॒नम्। का॒र्षा॒प॒णो॒नम्। मा॒ष॒वि॒क॒लम्। का॒र्षा॒प॒ण॒वि॒क॒लम्। कलह-अ॒सि॒क॒ल॒हः। वा॒क्क॒ल॒हः। तृतीयापूर्वपदप्रकृतिस्वरापवादो योगः। अत्र केचिदर्थ इति स्वरूपग्रहणमिच्छन्ति। धान्येनार्थो धा॒न्या॒र्थः। ऊनशब्देनैव त्वर्थनिर्देशार्थेन तदर्थानां ग्रहणमिति प्रतिपदोक्तत्वादेव तृतीयासमासपरिग्रहे सिद्धे तृतीयाग्रहणं विस्पष्टार्थम्॥

मिश्रं चानुपसर्गमसंधौ ॥ ६.२.१५४॥

तृतीयेति वर्तते। मिश्र इत्येतदुत्तरपदमनुपसर्गं तृतीयान्तात् परमन्तोदात्तं भव्यत्यसंधौ गम्यमाने। गु॒ड॒मि॒श्राः। ति॒ल॒मि॒श्राः। स॒र्पि॒र्मि॒श्राः। मिश्रमिति किम्? गु॒डधा॑नाः। अनुपसर्गमिति किम्? गु॒डसं॑मिश्राः। इहानुपसर्गग्रहणं ज्ञापकमन्यत्र मिश्रग्रहणे सोपसर्गग्रहणस्य। तेन मिश्रश्लक्ष्णैः (२.१.३१) इति सोपसर्गेणापि मिश्रशब्देन तृतीयासमासो भवति। असंधाविति किम्? ब्रा॒ह्म॒णमि॑श्रो राजा। ब्राह्मणैः सह संहित ऐकार्थ्यमापन्नः। संधिरिति हि पणबन्धेनैकार्थ्यमुच्यते। केचित् पुनराहुर्गृह्यमाणविशेषा प्रत्यासत्तिः संधिरिति। अत्र राज्ञो ब्राह्मणैः सह देशप्रत्यासत्तावपि सत्यां मूर्त्तिविभागो गृह्यत इति ब्राह्मणमिश्रो राजेति प्रत्युदाह्रियते। उदाहरणेष्वविभागापत्तिरेव गुडमिश्रा इति॥

नञो गुणप्रतिषेधे संपाद्यर्हहितालमर्थास्तद्धिताः ॥ ६.२.१५५॥

संपादि अर्ह हित अलम् इत्येवमर्था ये तद्धितास्तदन्तान्युत्तरपदानि नञो गुणप्रतिषेधे वर्तमानात् पराण्यन्तोदात्तानि भवन्ति। संपादि-कर्णवेष्टकाभ्यां संपादि मुखं कार्णवेष्टकिकम्, न कार्णवेष्टकिकम् अ॒का॒र्ण्ावे॒ष्ट॒कि॒कम्। अर्ह-छेदमर्हति छैदिकः, न छैदिकः अ॒च्छ॒ैदि॒कः हित-वत्सेभ्यो हितो वत्सीयः, न वत्सीयः अ॒व॒त्सी॒यः। अलमर्थ-संतापाय प्रभवति सांतापिकः। न सांतापिकः अ॒सां॒ता॒पि॒कः। नञ इति किम्? गर्दभरथमर्हति गार्दभरथिकः। विगा॑र्दभरथिकः। गुणप्रतिषेध इति किम्? गार्दभरथिकादन्यः अगा॑र्दभरथिकः। गुण इति तद्धितार्थप्रवृत्तिनिमित्तं संपादित्वाद्युच्यते। तत्प्रतिषेधो यत्रोच्यते समासे, तत्रायं विधिः-कर्णवेष्टकाभ्यां न संपादि मुखमिति। संपाद्यर्हहितालमर्था इति किम्? पाणिनीयमधीते पाणिनीयः, न पाणिनीयः अपा॑णिनीयः। तद्धिता इति किम्? कन्यां वोढुमर्हति कन्याया वोढा, न वोढा अवो॑ढा। ‘अर्हे कृत्यतृचश्च’(३.३.१६९) इति तृच्॥

ययतोश्चातदर्थे ॥ ६.२.१५६॥

य यत् इत्येतौ यौ तद्धितावतदर्थे वर्तेते, तदन्तस्योत्तरपदस्य नञो गुणप्रतिषेधविषयादन्त उदात्तो भवति। पाशानां समूहः पाश्या, न पाश्या अ॒पा॒श्या। अ॒तृ॒ण्या। यत्-दन्तेषु भवं दन्त्यम्, न दन्त्यम् अ॒द॒न्त्यम्। अ॒क॒र्ण्यम्। अतदर्थ इति किम्? पादार्थमुदकं पाद्यम्, न पाद्यम् अपा॑द्यम्। तद्धिता इत्येव-अदे॑यम्। गुणप्रतिषेध इत्येव-दन्त्यादन्यद् अद॑न्त्यम्। निरनुबन्धकैकानुबन्धकयोः (सीर०प० ५०.५१) ययतोर्ग्रहणादिह न भवति-‘वामदेवाड् ड्यड्ड्यौ’ (४.२.९)-वामदेव्यम्, न वामदेव्यम् अवा॑मदेव्यम् इति॥

अच्कावशक्त ौ ॥ ६.२.१५७॥

अच् क इत्येवमन्तमशक्त ौ गम्यमानायामुत्तरपदं नञः परमन्तोदात्तं भवति। अ॒प॒चो यः पक्तुं न शक्नोति। अ॒ज॒यः। कः खल्वपि-अ॒वि॒क्ष्िापः। अ॒वि॒लि॒खः। अशक्त ाविति किम्? अप॑चो दीक्षितः। अप॑चः परिव्राजकः॥

आक्रोशे च ॥ ६.२.१५८॥

आक्रोशे च गम्यमाने नञ उत्तरमच्कान्तमन्तोदात्तं भवति। अ॒प॒चोऽयं जाल्मः। अ॒प॒ठोऽयं जाल्मः। पक्तुं पठितुं शक्त ोऽप्येवमाक्रुश्यते। अ॒वि॒क्ष्िापः। अ॒वि॒लि॒खः॥

संज्ञायाम् ॥ ६.२.१५९॥

आक्रोशे गम्यमाने नञः परमुत्तरपदं संज्ञायां वर्तमानमन्तोदात्तं भवति। अ॒दे॒व॒द॒त्तः अ॒य॒ज्ञ्ाद॒त्तः। अ॒वि॒ष्ण्ाुमि॒त्रः॥

कृत्योकेष्णुच्चार्वादयश्च ॥ ६.२.१६०॥

कृत्य उक इष्णुच् इत्येवमन्ताश्चार्वादयश्च नञ उत्तरेऽन्तोदात्ता भवन्ति। कृत्य-अ॒क॒र्त॒व्यम्। अ॒क॒र॒णी॒यम्। उक-अ॒ना॒गा॒मु॒कम्। अ॒न॒प॒ला॒षु॒कम्। इष्णुच्-अ॒न॒लं॒क॒रि॒ष्णुः। अ॒नि॒रा॒क॒रि॒ष्णुः। इष्णुज्ग्रहणे ‘कर्तरि भुवः खिष्णुच्०’(३.२.५७) इत्यस्य द्व्यनुबन्धकस्यापि ग्रहणमिकारादेर्विधानसामर्थ्याद् भवति। अ॒ना॒ढ्यं॒भ॒वि॒ष्णुः। अ॒सु॒भ॒गं॒भ॒वि॒ष्णुः। चार्वादयः- अ॒चा॒रुः। अ॒सा॒धुः। अ॒यौ॒धि॒कः। अ॒व॒दा॒न्यः॥ चारु। साधु। यौधिक। अनङ्गमेजय। अत्र द्वितीये नञ्समासेऽन्तोदात्तत्वम्। अ॒न॒न॒ङ्ग॒मे॒ज॒यः। वदान्य। अकस्मात्। अत्रापि द्वितीये नञ्समासेऽन्तोदात्तत्वम्। अ॒न॒क॒स्मात्। वर्तमानवर्धमानत्वरमाणध्रियमाणक्रियमाणरोचमानशोभमानाः संज्ञायाम् (ग०सू० १७६)। एते वर्तमानादयः संज्ञायां द्रष्टव्याः। विकारसदृशे व्यस्तसमस्ते (ग०सू० १७७)। अ॒वि॒का॒रः। अ॒स॒दृ॒शः। अ॒वि॒का॒र॒स॒दृशः। गृहपति। गृहपतिक। राजाह्नोश्छन्दसि (ग०सू० १७८)। अ॒रा॒जा। अ॒न॒हः। भाषायां नञ्स्वर एव भवति॥

विभाषा तृन्नन्नतीक्ष्णशुचिषु ॥ ६.२.१६१॥

तृन्नन्त अन्न तीक्ष्ण शुचि इत्येतेषु नञ उत्तरेषु विभाषान्त उदात्तो भवति। अ॒क॒र्ता, अक॑र्ता। अन्न-अ॒न॒न्नम्, अन॑न्नम्। तीक्ष्ण-अ॒ती॒क्ष्णम्, अती॑क्ष्णम्। शुचि-अ॒शु॒चिः, अशु॑चिः। पक्षेऽव्ययस्वर एव भवति॥

बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने ॥ ६.२.१६२॥

बहुव्रीहौ समास इदम् एतद् तदित्येतेभ्य उत्तरस्य प्रथमशब्दस्य पूरणप्रत्ययान्तस्य च क्रियागणने वर्तमानस्यान्त उदात्तो भवति। इदं प्रथमं गमनं भोजनं वा यस्य स इ॒दं॒प्॒रथ॒मः। इ॒दं॒द्वि॒ती॒यः। इ॒दं॒तृ॒ती॒यः। ए॒त॒त्प्॒रथ॒मः। ए॒त॒द्द्वि॒ती॒यः। ए॒त॒त्तृ॒ती॒यः। त॒त्प्॒रथ॒मः। त॒द्द्वि॒ती॒यः। त॒त्त्ाृती॒यः। बहुव्रीहाविति किम्? अनेन प्रथम इ॒दंप्॑रथमः। तृतीयेति योगविभागात् समासः। इदमेतत्तद्भ्य इति किम्? यत्प्॑रथमः। प्रथमपूरणयोरिति किम्? तानि बहून्यस्य तद्ब॑हुः। क्रियागणन इति किम्? अयं प्रथम एषां त इ॒दंप्॑रथमाः। द्रव्यगणनमेतत्। गणन इति किम्? अयं प्रथम एषां त इ॒दंप्॑रथमाः। इदंप्रधाना इत्यर्थः। उत्तरपदस्य कार्यित्वात् कपि पूर्वमन्तोदात्तं भवति। इ॒दं॒प्॒रथ॒मकाः॑। बहुव्रीहावित्येतद् ‘वनं समासे’(६.२.१७८) इति प्रागेतस्मादधिकृतं वेदितव्यम्॥

संख्यायाः स्तनः ॥ ६.२.१६३॥

संख्यायाः परः स्तनशब्दो बहुव्रीहौ समासेऽन्तोदात्तो भवति। द्वि॒स्त॒ना। त्र्िास्त॒ना च॒तुः॒स्त॒ना। संख्याया इति किम् ? द॒र्श॒नीय॑स्तना। स्तन इति किम्? द्विशि॑राः॥

विभाषा छन्दसि ॥ ६.२.१६४॥

छन्दसि विषये बहुव्रीहौ समासे संख्यायाः परः स्तनशब्दो विभाषान्तोदात्तो भवति। द्विस्त॑नां कुर्याद्वामदेवः। द्वि॒स्त॒नां क॑रोति॒ द्यावा॑पृथि॒व्योर्दोहा॑य॒ चतुः॑स्तनां करोति पश्ाूनां दोहा॑य॒ (तै०सं० ५.१.६.४)। च॒तुः॒स्त॒नां करोति॥

संज्ञायां मित्राजिनयोः ॥ ६.२.१६५॥

संज्ञायां विषये बहुव्रीहौ समासे मित्र अजिन इत्येतयोरुत्तरपदयोरन्त उदात्तो भवति। दे॒व॒मि॒त्रः। ब्॒रह्म्ामि॒त्रः। वृ॒का॒जि॒नः। कू॒ला॒जि॒नः। कृ॒ष्णा॒जि॒नः। संज्ञायामिति किम् ? प्रि॒यमि॑त्रः। म॒हाजि॑नः॥ ऋषिप्रतिषेधो मित्रे॥ वि॒श्वामि॑त्र॒ ऋषिः॑ (तै०सं० ४.३.२.२)॥

व्यवायिनोऽन्तरम् ॥ ६.२.१६६॥

व्यवायी व्यवधाता, तद्वाचिनः परमन्तरं बहुव्रीहौ समासेऽन्तोदात्तं भवति। व॒स्त्रा॒न्त॒रः। प॒टा॒न्त॒रः। क॒म्ब॒ला॒न्त॒रः। वस्त्रमन्तरं व्यवधायकं यस्य स वस्त्रान्तरः। वस्रव्यवधायक इत्यर्थः। व्यवायिन इति किम् ? आ॒त्मान्त॑रः। आत्मा स्वाभावोऽन्तरोऽन्यो यस्यासावात्मान्तरः॥

मुखं स्वाङ्गम्॥ ६.२.१६७॥

मुखमुत्तरपदं स्वाङ्गवाचि बहुव्रीहौ समासेऽन्तोदात्तं भवति। गौ॒र॒मु॒खः। भ॒द्॒रमु॒खः। स्वाङ्गमिति किम्? दी॒र्घमु॑खा शाला। स्वाङ्गमद्रवादिलक्षणम् (४.१.५४ का०) इह गृह्यते॥

नाव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः ॥ ६.२.१६८॥

अव्यय दिक्शब्द गो महत् स्थूल मुष्टि पृथु वत्स इत्येतेभ्यः परं मुखं स्वाङ्गवाचि बहुव्रीहौ समासे नान्तोदात्तं भवति। अव्यय-उ॒च्चैर्मु॑खः। नी॒चैर्मु॑खः। दिक् शब्द-प्राङ्मु॑खः। प्र॒त्यङ्मु॑खः। गो-गोमु॑खः। महत्-म॒हामु॑खः। स्थूल-स्थू॒लमु॑खः। मुष्टि-मु॒ष्टिमु॑खः। पृथु-पृथुमु॑खः। वत्स - व॒त्समु॑खः। पूर्वपदप्रकृतिस्वरो यथायोगमेषु भवति। गोमुष्टिवत्सपूर्वस्योपमानलक्षणो विकल्पः पूर्वविप्रतिषेधेन बाध्यते॥

निष्ठोपमानादन्यतरस्याम्॥ ६.२.१६९॥

निष्ठान्तादुपमानवाचिनश्च मुखं स्वाङ्गमुत्तरपदमन्यतरस्यां बहुव्रीहौ समासेऽन्तोदात्तं भवति। प्॒रक्षा॒लि॒त॒मु॒खः, प्॒रक्षा॒लि॒तमु॑खः, प्रक्षा॑लितमुखः। यदैतदुत्तरपदान्तोदात्तत्वं न भवति तदा ‘निष्ठोपसर्गपूर्वमन्यतरस्याम्’ (६.२.११०) इति पक्षे पूर्वपदान्तोदात्तत्वम्, तदभावपक्षेऽपि पूर्वपदप्रकृतिस्वरत्वेन गतिस्वर इति त्रीण्युदाहरणानि भवन्ति। उपमानात्-सिं॒ह॒मु॒खः, सिं॒हमु॑खः। व्या॒घ्॒रमु॒खः, व्या॒घ्रमु॑खः॥

जातिकालसुखादिभ्योऽनाच्छादनात् क्त ोऽकृतमितप्रतिपन्नाः ॥ ६.२.१७०॥

जातिवाचिन आच्छादनवर्जितात् कालवाचिनः सुखादिभ्यश्च परं क्तान्तं कृतमितप्रतिपन्नान् वर्जयित्वा बहुव्रीहौ समासेऽन्तोदात्तं भवति। सा॒र॒ङ्ग॒ज॒ग्धः। प॒ला॒ण्डु॒भ॒क्ष्िातः। सु॒रा॒पी॒तः। काल-मा॒स॒जा॒तः। सं॒व॒त्स॒र॒जा॒तः। द्व्य॒ह॒जा॒तः। त्र्य॒ह॒जा॒तः। सुखादिभ्यः-सु॒ख॒जा॒तः। दुः॒ख॒जा॒तः। तृ॒प्र॒जा॒तः। जात्यादिभ्य इति किम् ? पु॒त्रजा॑तः। आहिताग्न्यादित्वात् परनिपातः। अनाच्छादनादिति किम्? वस्त्र॑च्छन्नः। वस॑नच्छन्नः। अकृतमितप्रतिपन्ना इति किम्? कुण्ड॑कृतः। कुण्ड॑मितः। कुण्ड॑प्रतिपन्नः। एतेषु बहुव्रीहिषु निष्ठान्तस्य पूर्वनिपातो न भवत्यस्मादेव ज्ञापकात्। प्रत्युदाहरणेषु पूर्वपदप्रकृतिस्वरो योजयितव्यः। सुखादयस्तृतीयेऽध्याये (३.१.१८) पठ्यन्ते॥

वा जाते ॥ ६.२.१७१॥

जातशब्द उत्तरपदे वान्त उदात्तो भवति बहुव्रीहौ समासे जातिकालसुखादिभ्यः। द॒न्त॒जा॒तः, दन्त॑जातः। स्त॒न॒जा॒तः, स्तन॑जातः। कालात्- मा॒स॒जा॒तः, मास॑जातः। सं॒व॒त्स॒र॒जा॒तः, सं॒व॒त्स॒रजा॑तः। सुखादिभ्यः- सु॒ख॒जा॒तः, सु॒खजा॑तः। दुः॒ख॒जा॒तः, दुः॒खजा॑तः॥

नञ्सुभ्याम् ॥ ६.२.१७२॥

नञ्सुभ्यां परमुत्तरपदं बहुव्रीहौ समासेऽन्तोदात्तं भवति। अ॒य॒वो देशः। अ॒व्री॒हिः। अ॒मा॒षः। सु॒य॒वः। सु॒व्री॒हिः। सु॒मा॒षः। समासस्यैतदन्तोदात्तत्वमिष्यते। समासान्ताश्चावयवा भवन्तीति अ॒नृ॒चो ब॒ह्वृ॒च इत्यत्र कृते समासान्तेऽन्तोदात्तत्वं भवति॥

कपि पूर्वम्॥ ६.२.१७३॥

नञ्सुभ्यां कपि परतः पूर्वमन्तोदात्तं भवति। अ॒कु॒मा॒रीको॑ देशः। अ॒वृ॒ष॒लीकः॑। अ॒ब्॒रह्म्ाब॒न्धूकः॑। सु॒कु॒मा॒रीकः॑। सु॒वृ॒ष॒लीकः॑। सु॒ब्॒रह्म॒ब॒न्धूकः॑॥

ह्रस्वान्तेऽन्त्यात् पूर्वम्॥ ६.२.१७४॥

ह्रस्वोऽन्तो यस्य तदिदं ह्रस्वान्तमुत्तरपदं समासो वा, तत्रान्त्यात् पूर्वमुदात्तं भवति कपि परतो नञ्सुभ्यां परं बहुव्रीहौ समासे। अ॒यव॑को देशः। अ॒व्रीहि॑कः। अ॒माष॑कः। सु॒यव॑कः। सु॒व्रीहि॑कः। सु॒माष॑कः। पूर्वमिति वर्तमाने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमप्रतिपत्त्यर्थम्-ह्रस्वान्तेऽन्त्यादेव पूर्वमुदात्तं भवति, न कपि पूर्वमिति। तेन अ॒ज्ञ॒कः सु॒ज्ञ॒क इत्यत्र कबन्तस्यैवान्तोदात्तत्वं भवति॥

बहोर्नञ्वदुत्तरपदभूम्नि ॥ ६.२.१७५॥

उत्तरपदार्थबहुत्वे यो बहुशब्दो वर्तते, तस्मान् नञ इव स्वरो भवति। ‘नञ्सुभ्याम्’ (६.२.१७२) इत्युक्त म्, बहोरपि तथा भवति। ब॒हु॒य॒वो देशः। ब॒हु॒व्री॒हिः। ब॒हु॒ति॒लः। ‘कपि पूर्वम्’ (६.२.१७३) इत्युक्त म्, बहोरपि तथा भवति। ब॒हु॒कु॒मा॒रीको॑ देशः। ब॒हु॒वृ॒ष॒लीकः॑। ब॒हु॒ब्॒रह्म्ाब॒न्धूकः॑। ‘ह्रस्वान्तेऽन्त्यात् पूर्वम्’ (६.२.१७४) इत्युक्त म्, बहोरपि तथा भवति। ब॒हु॒यव॑को देशः। ब॒हु॒व्रीहि॑कः। ब॒हु॒माष॑कः। ‘नञो जरमरमित्रमृताः’ (६.२.११६) इत्युक्तम्, बहोरपि तथा भवति। ब॒हु॒जरः॑। ब॒हु॒मरः॑। ब॒हु॒मित्रः॑। ब॒हु॒मृतः॑। उत्तरपदभूम्नीति किम्? बहुषु मनोऽस्य ब॒हुम॑ना अयम्॥

न गुणादयोऽवयवाः॥ ६.२.१७६॥

गुणादयोऽवयववाचिनो बहोरुत्तरे बहुव्रीहौ नान्तोदात्ता भवन्ति। ब॒हुगु॑णा रज्जुः। ब॒ह्व॑क्षरं पदम्। ब॒हुच्छ॑न्दोमानम्। ब॒हुसू॑क्त ः। ब॒ह्व॑ध्यायः। गुणादिराकृतिगणो द्रष्टव्यः। अवयवा इति किम् ? ब॒हु॒गु॒णो ब्राह्मणः। अध्ययनश्रुतसदाचारादयोऽत्र गुणाः॥

उपसर्गात् स्वाङ्गं ध्रुवमपर्शु॥ ६.२.१७७॥

उपसर्गात् स्वाङ्गं ध्रुवं पर्शुवर्जितमन्तोदात्तं भवति बहुव्रीहौ समासे। प्॒रपृ॒ष्ठः। प्रो॒द॒रः। प्॒रल॒ला॒टः। ध्रुवमित्येकरूपमुच्यते। ध्रुवमस्य शीलम् इति यथा। सततं यस्य प्रगतं पृष्ठं भवति स प्रपृष्ठः। उपसर्गादति किम् ? द॒र्शनीय॑ललाट स्वाङ्गमिति किम् ? प्रशा॑खो वृक्षः। ध्रुवमिति किम्? उद्बा॑हुः क्रोशति। अपर्श्विति किम् ? उत्प॑र्शुः। विप॑र्शुः॥

वनं समासे ॥ ६.२.१७८॥

समासमात्रे वनमित्येतदुत्तरपदमुपसर्गात् परमन्तोदात्तं भवति। प्॒रव॒णे यष्टव्यम्। नि॒र्व॒णे प्रणिधीयते। ‘प्रनिरन्तः०’ (८.४.५) इति णत्वम्। समासग्रहणं समासमात्रपरिग्रहार्थम्, बहुव्रीहावेव हि स्यात्॥

अन्तः ॥ ६.२.१७९॥

अन्तश्शब्दादुत्तरं वनमन्तोदात्तं भवति। अ॒न्त॒र्व॒णो देशः। अनुपसर्गार्थ आरम्भः॥

अन्तश्च ॥ ६.२.१८०॥

अन्तश्शब्दश्चोत्तरपदमुपसर्गादन्तोदात्तं भवति। प्॒रान्तः। प॒र्य॒न्तः। बहुव्रीहिरयं प्रादिसमासो वा॥

न निविभ्याम् ॥ ६.२.१८१॥

नि वि इत्येताभ्यामुत्तरोऽन्तश्शब्दो नान्तोदात्तो भवति। न्य॑न्तः। व्य॑न्तः (तै०ब्रा० २.१.३.१)। पूर्वपदप्रकृतिस्वरत्वे कृते यणादेशः। तत्र ‘उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य’ (८.२.४) इति स्वरितो भवति॥

परेरभितोभावि मण्डलम् ॥ ६.२.१८२॥

परेरुत्तरमभितोभाविवचनं मण्डलं चान्तोदात्तं भवति। प॒रि॒कू॒लम्। प॒रि॒ती॒रम्। प॒रि॒म॒ण्ड॒लम्। बहुव्रीहिरयं प्रादिसमासोऽव्ययीभावो वा। अव्ययीभावपक्षेऽपि हि ‘ परिप्रत्युपापावर्ज्यमानाहोरात्रावयवेषु’ (६.२.३३) इति पूर्वपदप्रकृतिस्वरत्वं प्राप्तमनेन बाध्यते। अभित इत्युभयतः। अभितो भावोऽस्यास्तीति तदभितोभावि। यच्चैवंस्वभावं कूलादि तदभितोभाविग्रहणेन गृह्यते॥

प्रादस्वाङ्गं संज्ञायाम् ॥ ६.२.१८३॥

प्रादुत्तरपदमस्वाङ्गवाचि संज्ञायां विषयेऽन्तोदात्तं भवति। प्॒रको॒ष्ठम्। प्॒रगृ॒हम्। प्॒रद्वा॒रम्। अस्वाङ्गमिति किम्? प्रह॑स्तम्। प्रप॑दम्। संज्ञायामिति किम् ? प्रपी॑ठम्॥

निरुदकादीनि च ॥ ६.२.१८४॥

निरुदकादीनि च शब्दरूपाण्यन्तोदात्तानि भवन्ति। नि॒रु॒द॒कम्। नि॒रु॒ल॒पम्। नि॒रु॒प॒लम्। इत्यन्ये पठन्ति। नि॒र्म॒श॒कम्। नि॒र्म॒क्ष्िाकम्। एषां प्रादिसमासो बहुव्रीहिर्वा। अव्ययीभावे तु समासान्तोदात्तत्वेनैव सिद्धम्। नि॒ष्का॒ल॒कः। निष्क्रान्तः कालकादिति कन्प्रत्ययान्तेन कालशब्देन प्रादिसमासः। नि॒ष्का॒लि॒क इत्यन्ये पठन्ति। नि॒ष्पे॒षः। दु॒स्त॒री॒पः। ‘अवितृस्तृतन्त्रिभ्य ईः’ (प० उ० ३.१५८)- तरीः। तां पातीति तरीपः। कुत्सितस्तरीपो दुस्तरीपः। नि॒स्त॒री॒प इति केचित् पठन्ति। अपरे नि॒स्त॒री॒क इति। ते तरीशब्दान्ते बहुव्रीहौ कपं कुर्वन्ति। नि॒र॒जि॒नम्। उ॒द॒जि॒नम्। उ॒पा॒जि॒नम्। परेर्हस्तपादकेशकर्षाः (ग०सू० १७९)। प॒रि॒ह॒स्तः। प॒रि॒पा॒दः। प॒रि॒के॒शः। प॒रि॒क॒र्षः। निरुदकादिराकृतिगणः॥

अभेर्मुखम् ॥ ६.२.१८५॥

अभेरुत्तंर मुखमन्तोदात्तं भवति। अ॒भि॒मु॒खः। बहुव्रीहिरयं प्रादिसमासो वा। अव्ययीभावे तु समासान्तोदात्तत्वेनैव सिद्धम्। ‘उपसर्गात् स्वाङ्गम्०’(६.२.१७७) इति सिद्धे वचनमबहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थं च। अ॒भि॒मु॒खा शाला॥

अपाच्च ॥ ६.२.१८६॥

अपात् चोत्तरं मुखमन्तोदात्तं भवति। अ॒प॒मु॒खः। अ॒प॒मु॒खम्। अव्ययीभावेऽप्यत्र प्रयोजयति। तत्रापि हि ‘परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु’ (६.२.३३) इत्युक्तम्। योगविभाग उत्तरार्थः॥

स्फिगपूतवीणाञ्जोऽध्वकुक्षिसीरनामनाम च ॥ ६.२.१८७॥

स्फिग पूत वीणा अञ्जस् अध्वन् कुक्षि इत्येतान्युत्तरपदानि सीरनामानि च नामशब्दश्चापादुत्तराण्यन्तोदात्तानि भवन्ति। अ॒प॒स्फि॒गम्। अ॒प॒पू॒तम्। अ॒प॒वी॒णम्। अ॒पा॒ञ्जः। अ॒पा॒ध्वा। ‘उपसर्गादध्वनः’ (५.४.८५) इति यदा समासान्तो नास्ति, तदानेनान्तोदात्तत्वं भवति। तस्मिन् हि सत्यच्प्रत्ययस्य चित्त्वादेव सिद्धम्। अनित्यश्च समासान्तः (परि० ८४) इत्येतदेव ज्ञापकम्। अ॒प॒कु॒क्षिः। अ॒प॒सी॒रः। अ॒प॒ह॒लम्। अ॒प॒ला॒ङ्ग॒लम्। अ॒प॒ना॒म। सर्वत्र प्रादिसमासो बहुव्रीहिरव्ययीभावो वा। स्फिगपूतकुक्षीणां ग्रहणमबहुव्रीह्यर्थम-ध्रुवार्थमस्वाङ्गार्थं च॥

अधेरुपरिस्थम् ॥ ६.२.१८८॥

अधेरुत्तरमुपरिस्थवाचि अन्तोदात्तं भवति। अ॒धि॒द॒न्तः। अ॒धि॒क॒र्णः। अ॒धि॒के॒शः। अध्यारूढो दन्त इति प्रादिसमासः। अध्यारूढो वा दन्त इति समानाधिकरण उत्तरपदलोपी समासः। दन्तस्योपरि योऽन्यो दन्तो जायते, स उच्यतेऽधिदन्त इति। उपरिस्थमिति किम्? अ॒धि॒कर॑णम्॥

अनोरप्रधानकनीयसी ॥ ६.२.१८९॥

अनोरुत्तरमप्रधानवाचि कनीयश्चान्तोदात्तं भवति। अनुगतो ज्येष्ठम् अ॒नु॒ज्ये॒ष्ठः। अ॒नु॒म॒ध्य॒मः। पूर्वपदार्थप्रधानः प्रादिसमासोऽयम्। अनुगतः कनीयान् अ॒नु॒क॒नी॒यान्। उत्तरपदार्थप्रधानोऽयम्। प्रधानार्थं च कनीयोग्रहणम्। अप्रधानकनीयसी इति किम्? अनुगतो ज्येष्ठो अनु॑ज्येष्ठः॥

पुरुषश्चान्वादिष्टः ॥ ६.२.१९०॥

पुरुषशब्दोऽन्वादिष्टवाची चानोरुत्तरोऽन्तोदात्तो भवति। अन्वादिष्टः पुरुषः अ॒नु॒पु॒रु॒षः। अन्वादिष्टोऽन्वाचितः कथितानुकथितो वा। अन्वादिष्ट इति किम् ? अनुगतः पुरुषः अनु॑पुरुषः॥

अतेरकृत्पदे ॥ ६.२.१९१॥

अतेःपरमकृदन्तं पदशब्दश्चान्तोदात्तो भवति। अ॒त्य॒ङ्कु॒शो नागः। अ॒ति॒क॒शोऽश्वः। पदशब्दःखल्वपि-अ॒ति॒प॒दा शक्वरी। अकृत्पद इति किम्? अति॑कारकः॥ अतेर्धातुलोप इति वक्त व्यम्॥ इह मा भूत्-शोभनो गार्ग्यः अति॑गार्ग्यः। इह च यथा स्यात्-अतिक्रान्तः कारकाद् अ॒ति॒का॒र॒क इति॥

नेरनिधाने ॥ ६.२.१९२॥

नेः परमुत्तरपदमन्तोदात्तं भवत्यनिधाने। निधानमप्रकाशता। नि॒मू॒लम्। न्य॒क्षम्। नि॒तृ॒णम्। बहुव्रीहिरयं प्रादिसमासो वा। अव्ययीभावे तु समासान्तोदात्तत्वेनैव सिद्धम्। अनिधान इति किम् ? निवा॑ग् वृषलः। निद॑ण्डः। निहितवाक्, निहितदण्ड इत्यर्थः। निशब्दोऽत्र निधानार्थं ब्रवीति। प्रादयो हि वृत्तिविषये ससाधनां क्रियामाहुः॥

प्रतेरंश्वादयस्तत्पुरुषे ॥ ६.२.१९३॥

प्रतेरंश्वादयस्तत्पुरुषे समासेऽन्तोदात्ता भवन्ति। प्रतिगतः अंशुः प्॒रत्यं॒शुः। प्॒रति॒ज॒नः। प्॒रति॒रा॒जा। राजशब्दः समासान्तस्यानित्यत्वाद् यदा टज् नास्ति, तदा प्रयोजयति। तस्मिन् हि सति चित्त्वादेवान्तोदात्तत्वं सिद्धम्। तत्पुरुष इति किम् ? प्रतिगता अंशवोऽस्य प्रत्यं॑शुः अयमुष्ट्रः॥ अंशु। जन। राजन्। उष्ट्र। खेटक। अजिर। आर्द्रा। श्रवण। कृत्तिका। अर्ध। पुर॥

उपाद् द्व्यजजिनमगौरादयः ॥ ६.२.१९४॥

उपादुत्तरं द्व्यजजिनं चान्तोदात्तं भवति तत्पुरुषे समासे गौरादीन् वर्जयित्वा। उपगतो देवम् उ॒प॒दे॒वः। उ॒प॒सो॒मः। उ॒पे॒न्द्रः। उ॒प॒ह॒ोडः। अजिन-उ॒पा॒जि॒नम्। अगौरादय इति किम् ? उप॑गौरः। उप॑तैषः। तत्पुरुष इत्येव-उपगतः सोमोऽस्य उप॑सोमः॥ गौर। तैष। तैट। लट। लोट। जिह्वा। कृष्णा। कन्या। गुड। कल्प। पाद। गौरादिः॥

सोरवक्षेपणे ॥ ६.२.१९५॥

सुशब्दात् परमुत्तरपदं तत्पुरुषे समासेऽन्तोदात्तं भवत्यवक्षेपणे गम्यमाने। अवक्षेपणं निन्दा। इह खल्विदानीं सुस्थण्डिले सुस्फिगाभ्यां सु॒प्॒रत्य॒व॒सि॒तः। सुशब्दोऽत्र पूजायामेव। वाक्यार्थस्तु अवक्षेपणमसूयया तथाभिधानात्। सोरिति किम्? कुब्रा॑ह्मणः। अवक्षेपण इति किम् ? शोभनेषु तृणेषु सुतृ॑णेषु॥

विभाषोत्पुच्छे ॥ ६.२.१९६॥

उत्पुच्छशब्दे तत्पुरुषे विभाषान्त उदातो भवति। उत्क्रान्तः पुच्छाद् उ॒त्पु॒च्छः, उत्पु॑च्छः। यदा तु पुच्छमुदस्यति उत्पुच्छयति, उत्पुच्छयतेरच्, उत्पुच्छः, तदा थाथादिसूत्रेण (६.२.१४४) नित्यमन्तोदात्तत्वे प्राप्ते विकल्पोऽयमिति सेयमुभयत्रविभाषा भवति। तत्पुरुष इत्येव-उदस्तं पुच्छमस्य उत्पु॑च्छः॥

द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ ॥ ६.२.१९७॥

द्वि त्रि इत्येताभ्यामुत्तरेषु पाद् दत् मूर्धन् इत्येतेषूत्तरपदेषु यो बहुव्रीहिस्तत्र विभाषान्त उदात्तो भवति। द्वौ पादावस्य द्वि॒पात् (तै०सं० २.६.८.४), द्विपा॑त्। त्र्िापात्, त्रिपा॑त्। द्वि॒दन्, द्विद॑न्। त्रि॒दन्,त्रिद॑न्। द्वि॒मू॒र्धा, द्विमू॑र्धा। त्रि॒मू॒र्धा, त्रिमू॑र्धा। पादिति कृताकारलोपः पादशब्दो गृह्यते। ददिति कृतददादेशो दन्तशब्दः। मूर्धन्निति त्वकृतसमासान्तो नान्त एव मूर्धन्शब्दः। तस्यैतत् प्रयोजनमसत्यपि समासान्तेऽन्तोदात्तत्वं यथा स्यात्। एतदेव ज्ञापकमनित्यः समासान्तः (परि० ८४) भवतीति। यदापि समासान्तः क्रियते, तदापि बहुव्रीहेः कार्यित्वात् तदेकदेशत्वात् च समासान्तस्यान्तोदात्तत्वं पक्षे भवत्येव। द्वि॒मू॒र्धः। त्रि॒मू॒र्धः। द्वित्रिभ्यामिति किम्? क॒ल्याण॑मूर्धा। पादादिष्विति किम्? द्विह॑स्तम्। बहुव्रीहाविति किम्? द्वयोर्मूर्धा द्वि॒मू॒र्धा॥

सक्थं चाक्रान्तात् ॥ ६.२.१९८॥

सक्थमिति कृतसमासान्तः सक्थिशब्दोऽत्र गृह्यते, सोऽक्रान्तात् परो विभाषान्तोदात्तो भवति। गौ॒र॒स॒क्थः, गौ॒र॒स॑क्थः। श्ल॒क्ष्ण॒स॒क्थः, श्ल॒क्ष्णस॑क्थः। अक्रान्तादिति किम् ? च॒क्॒रस॒क्थः। षचश्चित्त्वाद् नित्यमन्तोदात्तत्वं भवति॥

परादिश्छन्दसि बहुलम् ॥ ६.२.१९९॥

छन्दसि विषये परादिरुदात्तो भवति बहुलम्। परशब्देनात्र सक्थशब्द एव गृह्यते। अ॒ञ्जि॒सक्थ॑मालभेत। त्वा॒ष्ट्रौ लो॑मशस॒क्थौ (तै०सं० ५.५.२३.१)। ऋ॒जु॒बाहुः॑। वा॒क्पतिः॑। चि॒त्पतिः॑।

परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते।

पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं ततः॥

परादिरुदाहृतः। परान्तः॥ अन्तोदात्तप्रकरणे त्रिचक्रादीनां छन्दस्युपसंख्यानम्॥ त्रि॒ब॒न्धु॒रेण॑। त्रि॒वृ॒ता॒ रथे॑न त्रिच॒क्रेण॑ (ऋ० १.११८.२)। पूर्वान्तः॥ पूर्वपदान्तोदात्त प्रकरणे मरुद्वृधादीनां छन्दस्युपसंख्यानम्॥ म॒रुद्वृ॒धः (ऋ० ३.१३.६)। पूर्वादिः॥ पूर्वपदाद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम्॥ दिवो॑दासाय सामगाय ते इत्येवमादि सर्वं संगृहीतं भवति॥

॥ इति श्रीवामनविरचितायां काशिकायां वृत्तौ षष्ठाध्यायस्य द्वितीयः पादः॥