धान्यानां भवने क्षेत्रे खञ्॥ ५.२.१॥
निर्देशादेव समर्थविभक्तिः। धान्यविशेषवाचिभ्यः षष्ठीसमर्थेभ्यो भवनेऽभिधेये खञ् प्रत्ययो भवति, तच्चेद् भवनं क्षेत्रं भवति। भवनमिति भवन्ति जायन्तेऽस्मिन्निति भवनम्। मुद्गानां भवनं क्षेत्रं मौद्गीनम्। कौद्रवीणम्। कौलत्थीनम्। धान्यानामिति किम् ? तृणानां भवनं क्षेत्रमित्यत्र न भवति। क्षेत्रमिति किम् ? मुद्गानां भवनं कुसूलम्। बहुवचनं स्वरूपविधिनिरासार्थम्॥
व्रीहिशाल्योर्ढक्॥ ५.२.२॥
व्रीहिशालिशब्दाभ्यां ढक् प्रत्ययो भवति भवने क्षेत्रेऽभिधेये। खञोऽपवादः। व्रीहीणां भवनं क्षेत्रं वै्रहेयम्। शालेयम्॥
यवयवकषष्टिकाद् यत्॥ ५.२.३॥
यवादिभ्यः शब्देभ्यो यत् प्रत्ययो भवति भवने क्षेत्रेऽभिधेये। खञोऽपवादः। यवानां भवनं क्षेत्रं यव्यम्। यवक्यम्। षष्टिक्यम्॥
विभाषा तिलमाषोमाभङ्गाणुभ्यः॥ ५.२.४॥
तल माष उमा भङ्गा अणु इत्येतेभ्यो विभाषा यत् प्रत्ययो भवति भवने क्षेत्रेऽभिधेये। खञि प्राप्ते वचनम्, पक्षे सोऽपि भवति। उमाभङ्गयोरपि धान्यत्वमाश्रितमेव। तिल माष उमा भङ्गा अणु-एषां भवनं क्षेत्रं तिल्यम्, तैलीनम्। माष्यम्, माषीणम्। उम्यम्, औमीनम्। भङ्ग्यम्, भाङ्गीनम्। अणव्यम्, आणवीनम्॥
सर्वचर्मणः कृतः खखञौ॥ ५.२.५॥
सर्वचर्मन्शब्दात् तृतीयासमर्थात् कृत इत्यस्मिन्नर्थे खखञौ प्रत्ययौ भवतः। सर्वशब्दश्चात्र प्रत्ययार्थेन कृतेन संबध्यते, न चर्मणा। तत्रायमसमर्थसमासो द्रष्टव्यः। सर्वश्चर्मणा कृत इत्येतस्मिन् वाक्यार्थे वृत्तिः। सर्वचर्मीणः। सार्वचर्मीणः॥
यथामुखसंमुखस्य दर्शनः खः॥ ५.२.६॥
यथामुखशब्दात् संमुखशब्दात् षष्ठीसमर्थाद् दर्शन इत्येतस्मिन्नर्थे खः प्रत्ययो भवति। दृश्यतेऽस्मिन्निति दर्शनः, आदर्शादिः प्रतिबिम्बाश्रय उच्यते। निपातनात् सादृश्येऽव्ययीभावः। यथामुखं दर्शनो यथामुखीनः। सर्वस्य मुखस्य दर्शनः सम्मुखीनः॥
तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति॥ ५.२.७॥
तदिति द्वितीया समर्थविभक्तिः। व्याप्नोतीति प्रत्ययार्थः। परिशिष्टं प्रकृतिविशेषणम्। सर्वादेः प्रातिपदिकात् पथिन् अङ्ग कर्मन् पत्र पात्र इत्येवमन्ताद् द्वितीयासमर्थाद् व्याप्नोतीत्यस्मिन्नर्थे खः प्रत्ययो भवति। सर्वपथं व्याप्नोति सर्वपथीनो रथः। सर्वाङ्गीणस्तापः। सर्वकर्मीणः पुरुषः। सर्वपत्रीणः सारथिः। सर्वपात्रीण ओदनः॥
आप्रपदं प्राप्नोति॥ ५.२.८॥
प्रपदमिति पादस्याग्रमुच्यते। आङ् मर्यादायाम्। तयोरव्ययीभावः। आप्रपदशब्दात् तदिति द्वितीयासमर्थात् प्राप्नोतीत्यस्मिन्नर्थे खः प्रत्ययो भवति। आप्रपदं प्राप्नोति आप्रपदीनः पटः। शरीरेणासंबद्धस्यापि पटस्य प्रमाणमाख्यायते॥
अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु॥ ५.२.९॥
अनुपदादिभ्यः शब्देभ्यस्तदिति द्वितीयासमर्थेभ्यो यथासंख्यं बद्धा भक्षयति नेय इत्येतेष्वर्थेषु खः प्रत्ययो भवति। अनुरायामे सादृश्ये वा। अनुपदं बद्धा उपानत् अनुपदीना। पदप्रमाणेत्यर्थः। सर्वान्नानि भक्षयति सर्वान्नीनो भिक्षुः। अयः प्रदक्षिणम्, अनयः प्रसव्यम्। प्रदक्षिणप्रसव्यगामिनां शाराणां यस्मिन् परशारैः पदानामसमावेशः सोऽयानयः। अयानयं नेयः अयानयीनः शारः। फलकशिरसि स्थित इत्यर्थः॥
परोवरपरंपरपुत्रपौत्रमनुभवति॥ ५.२.१०॥
परोवर परम्पर पुत्रपौत्र इत्येतेभ्यस्तदिति द्वितीयासमर्थेभ्योऽनुभवतीत्यस्मिन्नर्थे खः प्रत्ययो भवति। परोवरेति परस्योत्वं प्रत्ययसंनियोगेन निपात्यते। परांश्चावरांश्चानुभवति परोवरीणः। परपरतराणां च परम्परभावो निपात्यते। परांश्च परतरांश्चानुभवति परम्परीणः। पुत्रपौत्राननुभवति पुत्रपौत्रीणः। परम्परशब्दो विनापि प्रत्ययेन दृश्यते-मन्त्रिपरम्परा मन्त्रं भिनत्तीति। तच्छब्दान्तरमेव द्रष्टव्यम्॥
अवारपारात्यन्तानुकामं गामी॥ ५.२.११॥
अवारपार अत्यन्त अनुकाम इत्येतेभ्यो द्वितीयासमर्थेभ्यो गामीत्येतस्मिन्नर्थे खः प्रत्ययो भवति। गमिष्यतीति गामी, ‘भविष्यति गम्यादयः’ (३.३.३) इति। ‘अकेनोर्भविष्यदाधमर्ण्ययोः’ (२.३.७०) इति षष्ठीप्रतिषेधः। अवारपारं गामी अवारपारीणः॥ विगृहीतादपीष्यते॥ अवारीणः, पारीणः॥ विपरीताच्च॥ पारावारीणः। अत्यन्तं गामी अत्यन्तीनः। भृशं गन्तेत्यर्थः। अनुकामं गामी अनुकामीनः। यथेष्टं गन्तेत्यर्थः॥
समांसमां विजायते॥ ५.२.१२॥
समांसमामिति वीप्सा। सुबन्तसमुदायः प्रकृतिः। विजायते गर्भं धारयतीति प्रत्ययार्थः। गर्भधारणेन सकलापि समा व्याप्यत इति अत्यन्तसंयोगे द्वितीया (२.१.२९)। समांसमां विजायते समांसमीना गौः। समांसमीना वडवा॥ पूर्वपदे सुपोऽलुग् वक्तव्यः॥ केचित् तु समायांसमायां विजायत इति विगृह्णन्ति, गर्भविमोचने तु विजनिर्वर्तत इत्याहुः॥ तेषां पूर्वपदे यलोपमात्रं निपात्यते, परिशिष्टस्यालुग् वक्तव्यः॥ अनुत्पत्तावुत्तरपदस्य च वा यलोपो वक्तव्यः॥ समांसमां विजायते, समायांसमायां विजायत इति वा॥
अद्यश्वीनावष्टब्धे॥ ५.२.१३॥
विजायत इति वर्तते। अद्यश्वीन इति निपात्यत अवष्टब्धे विजने, आसन्ने प्रसवे। आविदूर्ये हि मूर्धन्यो विधीयते, ‘अवाच्चालम्बनाविदूर्ययोः’ (८.३.६८) इति। अद्य वा श्वो वा विजायते अद्यश्वीना गौः। अद्यश्वीना वडवा। केचित् तु विजायत इति नानुवर्तयन्ति, अवष्टब्धमात्रे निपातनमित्याहुः। अद्यश्वीनं मरणम्। अद्यश्वीनो वियोग इति॥
आगवीनः॥ ५.२.१४॥
आगवीन इति निपात्यते। गोराङ्पूर्वाद् आ तस्य गोः प्रतिदानात् कर्मकारिणि खः प्रत्ययो निपात्यते। आगवीनः कर्मकरः। यो गवा भृतः कर्म करोति आ तस्य गोः प्रत्यर्पणात्॥
अनुग्वलंगामी॥ ५.२.१५॥
गोः पश्चाद् अनुगु। अनुगुशब्दादलंगामीत्यस्मिन्नर्थे खः प्रत्ययो भवति। अनुगु पर्याप्तं गच्छति अनुगवीनो गोपालकः॥
अध्वनो यत्खौ॥ ५.२.१६॥
तदिति द्वितीया समर्थविभक्तिरनुवर्तते। अलंगामीति च प्रत्ययार्थः। अध्वन्शब्दाद् द्वितीयासमर्थादलंगामीत्येतस्मिन्नर्थे यत्खौ प्रत्ययौ भवतः। अध्वानमलंगामी अध्वन्यः, अध्वनीनः। ‘ये चाभावकर्मणोः’ (६.४.१६८), ‘आत्माध्वानौ खे’ (६.४.१६९) इति प्रकृतिभावः॥
अभ्यमित्राच्छ च॥ ५.२.१७॥
अभ्यमित्रशब्दाद् द्वितीयासमर्थादलंगामीत्यस्मिन्नर्थे छः प्रत्ययो भवति, चकाराद् यत्खौ च। अभ्यमित्रमलंगामी अभ्यमित्रीयः, अभ्यमित्र्यः, अभ्यमित्रीणः। अमित्राभिमुखं सुष्ठु गच्छतीत्यर्थः॥
गोष्ठात् खञ् भूतपूर्वे॥ ५.२.१८॥
गावस्तिष्ठन्त्यस्मिन्निति गोष्ठम्। गोष्ठशब्देन सन्निहितगोसमूहो देश उच्यते। भूतपूर्वग्रहणं तस्यैव विशेषणम्। गोष्ठशब्दाद् भूतपूर्वोपाधिकात् स्वार्थे खञ् प्रत्ययो भवति। गोष्ठो भूतपूर्वो गौष्ठीनो देशः। भूतपूर्वग्रहणं किम्? गोष्ठो वर्तते॥
अश्वस्यैकाहगमः॥ ५.२.१९॥
निर्देशादेव समर्थविभक्तिः। अश्वशब्दात् षष्ठीसमर्थादेकाहगम इत्येतस्मिन्नर्थे खञ् प्रत्ययो भवति। एकाहेन गम्यत इत्येकाहगमः। अश्वस्यैकाहगमोऽध्वा आश्वीनः। आश्वीनानि (तां०ब्रा० २१.१.९) शतं पतित्वा॥
शालीनकौपीने अधृष्टाकार्ययोः॥ ५.२.२०॥
शालीनकौपीनशब्दौ निपात्येते यथासंख्यमधृष्टेऽकार्ये चाभिधेये। अधृष्टोऽप्रगल्भः। अकार्यमकरणार्हं विरुद्धम्। शालीनकौपीने अधृष्टाकार्ययोः पर्यायौ यथाकथंचिद् व्युत्पादयितव्यौ। शालाप्रवेशनमर्हति कूपावतारमर्हति इति खञ् प्रत्यय उत्तरपदलोपश्च निपात्यते। शालीनो जडः। कौपीनं पापम्॥
व्रातेन जीवति॥ ५.२.२१॥
निर्देशादेव तृतीया समर्थविभक्तिः। व्रातशब्दात् तृतीयासमर्थाद् जीवतीत्यस्मिन्नर्थे खञ् प्रत्ययो भवति। नानाजातीया अनियतवृत्तय उत्सेधजीविनः संघा व्राताः। उत्सेधः शरीरम्, तदायास्य ये जीवन्ति, त उत्सेधजीविनः, तेषां कर्म व्रातम्। तेन व्रातेन जीवति व्रातीनः। तेषामेव व्रातानामन्यतम उच्यते। यस्त्वन्यस्तदीयेन जीवति, तत्र नेष्यते॥
साप्तपदीनं सख्यम्॥ ५.२.२२॥
साप्तपदीनमिति निपात्यते सख्येऽभिधेये। सप्तभिः पदैरवाप्यते साप्तपदीनम्। सख्यं जनाः साप्तपदीनमाहुः। कथं साप्तपदीनः सखा, साप्तपदीनं मित्रमिति ? यदा गुणप्रधानः साप्तपदीनशब्दः सखिभावे तत्कर्मणि च वर्तते, तदा सख्यशब्देन सामानाधिकरण्यं भवति, यदा तु लक्षणया वर्तते, तदा पुरुषेण सामानाधिकरण्यं भवति॥
हैयङ्गवीनं संज्ञायाम्॥ ५.२.२३॥
हैयङ्गवीनं निपात्यते संज्ञायां विषये। ह्योगोदोहस्य हियङ्ग्वादेशः, तस्य विकारे खञ् प्रत्ययो भवति संज्ञायाम्। ह्योगोदोहस्य विकारो हैयङ्गवीनम्। घृतस्य संज्ञा। तेनेह न भवति- ह्योगोदोहस्य विकार उदश्वित्॥
तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ॥ ५.२.२४॥
तस्येति षष्ठीसमर्थेभ्यः पील्वादिभ्यः कर्णादिभ्यश्च यथासंख्यं पाकमूलयोरर्थयोः कुणब् जाहच् इत्येतौ प्रत्ययौ भवतः। पीलूनां पाकः पीलुकुणः। कर्कन्धुकुणः। कर्णादिभ्यः-कर्णस्य मूलं कर्णजाहम्॥ पीलु। कर्कन्धु। शमी। करीर। कुवल। बदर। अश्वत्थ। खदिर। पील्वादिः॥ कर्ण। अक्षि। नख। मुख। मख। केश। पाद। गुल्फ। भ्रूभङ्ग। दन्त। ओष्ठ। पृष्ठ। अङ्गुष्ठ। कर्णादिः॥
पक्षात् तिः॥ ५.२.२५॥
तस्येत्येव। तस्येति षष्ठीसमर्थात् पक्षशब्दाद् मूलेऽभिधेये तिः प्रत्ययो भवति। मूलग्रहणमनुवर्तते, न पाकग्रहणम्, ‘एकयोगनिर्दिष्टानामप्येकदेशोऽनुवर्तते’ इति। पक्षस्य मूलं पक्षतिः प्रतिपत्॥
तेन वित्तश्चुञ्चुप्चणपौ॥ ५.२.२६॥
तेनेति तृतीयासमर्थाद् वित्त इत्येतस्मिन्नर्थे चुञ्चुप् चणप् इत्येतौ प्रत्ययौ भवतः। वित्तः प्रतीतो ज्ञात इत्यर्थः। विद्यया वित्तो विद्याचुञ्चुः। विद्याचणः॥
विनञ्भ्यां नानाञौ न सह॥ ५.२.२७॥
वि नञ् इत्येताभ्यां यथासंख्यं ना नाञ् इत्येतौ प्रत्ययौ भवतः। न सहेति प्रकृतिविशेषणम्। असहार्थे पृथग्भावे वर्तमानाभ्यां विनञ्भ्यां स्वार्थे नानाञौ प्रत्ययौ भवतः। विना। नाना॥
वेः शालच्छङ्कटचौ॥ ५.२.२८॥
विशब्दात् शालच् शङ्कटज् इत्येतौ प्रत्ययौ भवतः। ससाधनक्रियावचनादुपसर्गात् स्वार्थे प्रत्ययौ भवतः। विगते शृङ्गे विशाले। विशङ्कटे। तद्योगाद् गौरपि विशालो विशङ्कट इत्युच्यते। परमार्थतस्तु गुणशब्दा एते यथाकथंचिद् व्युत्पाद्यन्ते। नात्र प्रकृतिप्रत्ययार्थयोरभिनिवेशः॥
संप्रोदश्च कटच्॥ ५.२.२९॥
सम् प्र उद् इत्येतेभ्यः कटच् प्रत्ययो भवति। चकाराद् वेश्च। संकटम्। प्रकटम्। उत्कटम्। विकटम्॥ कटच्प्रकरणेऽलाबूतिलोमाभङ्गाभ्यो रजस्युपसंख्यानम्॥ अलाबूनां रजोऽलाबूकटम्। तिलकटम्। उमाकटम्। भङ्गाकटम्॥ गोष्ठादयः स्थानादिषु पशुनामादिभ्य उपसंख्यानम्॥ गवां स्थानं गोगोष्ठम्। महिषीगोष्ठम्॥ संघाते कटज् वक्तव्यः॥ अवीनां संघातोऽविकटम्॥ विस्तारे पटज् वक्तव्यः॥ अविपटम्॥ द्वित्वे गोयुगच्॥ उष्ट्रगोयुगम्। अश्वगोयुगम्॥ प्रकृत्यर्थस्य षट्त्वे षड्गवच्॥ हस्तिषड्गवम्। अश्वषड्गवम्॥ विकारे स्नेहे तैलच्॥ एरण्डतैलम्। इङ्गुदतैलम्। तिलतैलम्॥ भवने क्षेत्र इक्ष्वादिभ्यः शाकटशाकिनौ॥ इक्षुशाकटम्। इक्षुशाकिनम्। मूलशाकटम्। मूलशाकिनम्॥
अवात् कुटारच्च॥ ५.२.३०॥
अवशब्दात् कुटारच् प्रत्ययो भवति, चकारात् कटच्। अवकुटारम्। अवकटम्॥
नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः॥ ५.२.३१॥
अवादित्येव। नमनं नतम्। नासिकायाः संबन्धिनि नतेऽभिधेये टीटच् नाटच् भ्रटच् इत्येते प्रत्यया भवन्ति संज्ञायां विषये। नासिकाया नतम् अवटीटम्। अवनाटम्। अवभ्रटम्। तद्योगाद् नासिकापि, पुरुषोऽपि तथोच्यते, अवटीटः। अवनाटः। अवभ्रट इति॥
नेर्बिडज्बिरीसचौ॥ ५.२.३२॥
नते नासिकाया इत्यनुवर्तते, संज्ञायामिति च । निशब्दाद् नासिकाया नतेऽभिधेये बिडज् बिरीसच् इत्येयौ प्रत्ययौ भवतः। निबिडम्। निबिरीसम्। तद्योगाद् नासिकापि, पुरुषोऽपि निबिडः, निबिरीसः। कथं निबिडाः केशाः, निबिडं वस्त्रम्? उपमानाद् भविष्यति॥
इनच्पिटच्चिकचि च॥ ५.२.३३॥
नेरित्येव, नते नासिकाया इति च। निशब्दाद् नासिकाया नतेऽभिधेय इनच् पिटच् इत्येतौ प्रत्ययौ भवतः, तत्संनियोगेन च निशब्दस्य यथासंख्यं चिक चि इत्येतावादेशौ भवतः। चिकिनः। चिपिटः॥ ककारः प्रत्ययो वक्तव्यश्चिक् च प्रकृत्यादेशः॥ चिक्कः । तथा चोक्तम्-‘इनच्पिटच्काश्चिकचिचिकादेशाश्च’ (महाभाष्य ५.२.३३) वक्तव्या इति॥ क्लिन्नस्य चिल्पिल्लश्चास्य चक्षुषी॥ क्लिन्नस्य चिल् पिल् इत्येतावादेशौ भवतो लश्च प्रत्ययोऽस्य चक्षुषी इत्येतस्मिन्नर्थे। क्लिन्ने अस्य चक्षुषी चिल्लः। पिल्लः॥ चुलादेशो वक्तव्यः॥ चुल्लः। अस्येत्यनेन नार्थः। चक्षुषोरेवाभिधाने प्रत्यय इष्यते। क्लिन्ने चक्षुषी चिल्ले। पिल्ले। चुल्ले। तद्योगात् तु पुरुषस्तथोच्यते॥
उपाधिभ्यां त्यकन्नासन्नारूढयोः॥ ५.२.३४॥
उप अधि इत्येताभ्यां यथासंख्यमासन्नारूढयोर्वर्तमानाभ्यां स्वार्थे त्यकन् प्रत्ययो भवति। संज्ञाधिकारात् च नियतविषयमासन्नारूढं गम्यते। पर्वतस्यासन्नमुपत्यका। तस्यैवारूढम् अधित्यका। ‘प्रत्ययस्थात् कात् पूर्वस्या०’ (७.३.४४) इतीत्वमत्र न भवति, संज्ञाधिकारादेव॥
कर्मणि घटोऽठच्॥ ५.२.३५॥
निर्देशादेव समर्थविभक्तिः। कर्मशब्दात् सप्तमीसमर्थाद् घट इत्येतस्मिन्नर्थेऽठच् प्रत्ययो भवति। घटत इति घटः। कर्मणि घटते कर्मठः पुरुषः॥
तदस्य संजातं तारकादिभ्य इतच्॥ ५.२.३६॥
तदिति प्रथमासमर्थेभ्यस्तारकादिभ्यः शब्देभ्योऽस्येति षष्ठ्यर्थ इतच् प्रत्ययो भवति। संजातग्रहणं प्रकृतिविशेषणम्। तारकाः संजाता अस्य नभसस्तारकितं नभः। पुष्पितो वृक्षः॥ तारका। पुष्प। मुकुल। कण्टक। पिपासा। सुख। दुःख। ऋजीष। कुड्मल। सूचक। रोग। विचार। व्याधि। निष्क्र मण। मूत्र। पुरीष। किसलय। कुसुम। प्रचार। तन्द्रा। वेग। पुक्षा। श्रद्धा। उत्कण्ठा। भर। द्रोह। गर्भादप्राणिनि (ग०सू० १२३)। तारकादिराकृतिगणः॥
प्रमाणे द्वयसज्दघ्नञ्मात्रचः॥ ५.२.३७॥
तदस्येत्यनुवर्तते। तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे द्वयसच् दघ्नच् मात्रच् इत्येते प्रत्यया भवन्ति, यत् तत् प्रथमासमर्थं प्रमाणं चेत् तद् भवति। ऊरुः प्रमाणमस्य ऊरुद्वयसम्। ऊरुदघ्नम्। ऊरुमात्रम्। जानुद्वयसम्। जानुदघ्नम्। जानुमात्रम्।
प्रथमश्च द्वितीयश्च ऊर्ध्वमाने मतौ मम।
ऊरुद्वयसमुदकम्। ऊरुदघ्नमुदकम्। मात्रच् पुनरविशेषेण प्रस्थमात्रमित्यपि भवति॥ प्रमाणे लो वक्तव्यः॥ प्रमाणशब्दा इति ये प्रसिद्धाः, तेभ्य उत्पन्नस्य प्रत्ययस्य लुग् भवति। शमः प्रमाणमस्य शमः। दिष्टिः। वितस्तिः॥ द्विगोर्नित्यम्॥ द्वौ शमौ प्रमाणमस्य द्विशमः। त्रिशमः। द्विवितस्तिः। नित्यग्रहणं किम्? संशये श्राविणं वक्ष्यति, तत्रापि द्विगोर्लुगेव यथा स्यात्। द्वे दिष्टी स्यातां वा न वा द्विदिष्टिः॥ डट् स्तोमे वक्तव्यः॥ पञ्चदशः स्तोमः। सप्तदशी रात्रिः। टित्त्वाद् ङीप्॥ शन्शतोर्डिनिर्वक्तव्यः॥ प॑ञ्चद॒शिनो॑ऽर्धमा॒साः त्रिं॒शिनो॒ मासाः॑ (तै०सं० ७.५.२०.१)॥ विंशतेश्चेति वक्तव्यम्॥ विंशिनोऽङ्गिरसः (गो०ब्रा० १.१.८)॥ प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये मात्रज् वक्तव्यः॥ शममात्रम्। दिष्टिमात्रम्। प्रस्थमात्रम्। कुडवमात्रम्। पञ्चमात्रम्। दशमात्रा गावः॥ वत्वन्तात् स्वार्थे द्वयसज्मात्रचौ बहुलम्॥ तावदेव तावद्द्वयसम्। तावन्मात्रम्। एतावद्द्वयसम्। एतावन्मात्रम्। यावद्द्वयसम्। यावन्मात्रम्॥
पुरुषहस्तिभ्यामण् च॥ ५.२.३८॥
तदस्येत्येव, प्रमाण इति च। पुरुषहस्तिभ्यां प्रथमासमर्थाभ्यां प्रमाणोपाधिकाभ्यामस्येति षष्ठ्यर्थेऽण् प्रत्ययो भवति, चकाराद् द्वयसजादयश्च। पुरुषः प्रमाणमस्य पौरुषम्। पुरुषद्वयसम्। पुरुषदघ्नम्। पुरुषमात्रम्। हास्तिनम्। हस्तिद्वयसम्। हस्तिदघ्नम्। हस्तिमात्रम्। द्विगोर्नित्यं लुक्। द्विपुरुषमुदकम्। त्रिपुरुषमुदकम्। द्विहस्ति। त्रिहस्ति। द्विपुरुषी। त्रिपुरुषी। द्विहस्तिनी। त्रिहस्तिनी॥
यत्तदेतेभ्यः परिमाणे वतुप्॥ ५.२.३९॥
तदस्येत्येव। यत्तदेतेभ्यः प्रथमासमर्थेभ्यः परिमाणोपाधिकेभ्योऽस्येति षष्ठ्यर्थे वतुप् प्रत्ययो भवति। यत् परिमाणमस्य यावान्। तावान्। एतावान्। प्रमाणग्रहणेऽनुवर्तमाने परिमाणग्रहणं प्रमाणपरिमाणयोर्भेदात्।
डावतावर्थवैशेष्यान् निर्देशः पृथगुच्यते।
मात्राद्यप्रतिघाताय भावः सिद्धश्च डावतोः॥
॥ वतुप्प्रकरणे युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसंख्यानम्॥ न त्वावँा॑ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते (ऋ० ७.३२.२३)। त्वाव॑तः पुरूवसो (ऋ० ८.४६.१)। य॒ज्ञं विप्॑रस्य॒ माव॑तः (ऋ० १.१४२.२)। त्वत्सदृशस्य मत्सदृशस्येत्यर्थः॥
किमिदम्भ्यां वो घः॥ ५.२.४०॥
किमिदंभ्यामुत्तरस्य वतुपो वकारस्य घकारादेशो भवति। कियान्। इयान्। एतदेव चादेशविधानं ज्ञापकं किमिदंभ्यां वतुप् प्रत्ययो भवतीति। अथ वा योगविभागेन वतुपं विधाय पश्चाद् वो घो विधीयते॥
किमः संख्यापरिमाणे डति च॥ ५.२.४१॥
संख्यायाः परिमाणं संख्यापरिच्छेद इत्यर्थः। संख्यापरिमाणे वर्तमानात् किमः प्रथमासमर्थादस्येति षष्ठ्यर्थे डतिः प्रत्ययो भवति। चकाराद् वतुप्। तस्य च वकारस्य घादेशो भवति। पृच्छ्यमानत्वात् परिच्छेदोपाधिकायां संख्यायां वर्तमानात् किमः प्रत्ययो विज्ञायते। का संख्या परिमाणमेषां ब्राह्मणानां कति ब्राह्मणाः। कियन्तो ब्राह्मणाः। अथवा संख्यैव परिमाणात्मिका परिच्छेदस्वभावा गृह्यते-का संख्या परिमाणं येषामिति। ननु च संख्या एवमात्मिकैव परिच्छेदस्वभावा, सा किमर्थं परिमाणेन विशेष्यते? यत्रापरिच्छेदकत्वेन विवक्ष्यते तत्र मा भूदिति। क्षेपे हि परिच्छेदो नास्ति-केयमेषां संख्या दशानामिति॥
संख्याया अवयवे तयप्॥ ५.२.४२॥
तदस्येत्येव। संख्याया अवयवे वर्तमानाया अस्येति षष्ठ्यर्थे तयप् प्रत्ययो भवति। अवयवा अवयविनः संबन्धिन इति सामर्थ्यादवयवी प्रत्ययार्थो विज्ञायते। पञ्च अवयवा अस्य पञ्चतयम्। दशतयम्। चतुष्टयम्। चतुष्टयी॥
द्वित्रिभ्यां तयस्यायज् वा॥ ५.२.४३॥
पूर्वेण विहितस्य तयस्य द्वित्रिभ्यां परस्य वायजादेशो भवति। द्वाववयवावस्य द्वयम्, द्वितयम्। त्रयम्, त्रितयम्। तयग्रहणं स्थानिनिर्देशार्थम्। अन्यथा प्रत्ययान्तरमयज् विज्ञायेत। तत्र को दोषः? त्रयी गतिरिति तयनिबन्धन ईकारो न स्यात्, ‘प्रथमचरमतया०’ (१.१.३३) इत्येष विधिर्न स्यात्। द्वये। द्वयाः। चकारः स्वरार्थः॥
उभादुदात्तो नित्यम्॥ ५.२.४४॥
उभशब्दात् परस्य तयपो नित्यमयजादेशो भवति, स चोदात्तः। वचनसामर्थ्यादादेरुदात्तत्वं विज्ञायते। उभशब्दो यदि लौकिकी संख्या, ततः पूर्वेणैव विहितस्य तयप आदेशविधानार्थं वचनम्। अथ न संख्या, ततो योगविभागेन तयपं विधाय तस्य नित्यमयजादेशो विधीयते। उभयो मणिः। उ॒भये॑ऽस्य देवमनु॒ष्याः (तै०सं० १.६.८.१)॥
तदस्मिन्नधिकमिति दशान्ताड् डः॥ ५.२.४५॥
तदिति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे दशान्तात् प्रातिपदिकाद् डः प्रत्ययो भवति, यत् तत् प्रथमासमर्थमधिकं चेत् तद् भवति। इतिकरणस्ततश्चेद् विवक्षा। एकादश अधिका अस्मिन् शत एकादशं शतम्। एकादशं सहस्रम्। द्वादशं शतम्। द्वादशं सहस्रम्। दशान्तादिति किम् ? पञ्चाधिका अस्मिन् शते। अन्तग्रहणं किम्? दशाधिका अस्मिन् शते। प्रत्ययार्थेन च समानजातीये प्रकृत्यर्थे सति प्रत्यय इष्यते। एकादश कार्षापणा अधिका अस्मिन् कार्षापणशत एकादशं कार्षापणशतमिति। इह तु न भवति-एकादश माषा अधिका अस्मिन् कार्षापणशत इति। शतसहस्रयोश्चेष्यते। इह न भवति-एकादशाधिका अस्यां त्रिंशतीति। इतिकरणो विवक्षार्थ इत्युक्तम्, तत इदं सर्वं लभ्यते। क थमेकादशं शतसहस्रमिति? शतानां सहस्रं सहस्राणां वा शतमिति शतसहस्रमित्युच्यते। तत्र शतसहस्रयोरित्येव सिद्धम्।
अधिके समानजाताविष्टं शतसहस्रयोः।
यस्य संख्या तदाधिक्ये डः कर्तव्यो मतो मम॥
शदन्तविंशतेश्च॥ ५.२.४६॥
तदस्मिन्नधिकमित्यनुवर्तते, ड इति च। शदन्तात् प्रातिपदिकाद् विंशतेश्च डः प्रत्ययो भवति तदस्मिन्नधिकमित्येतस्मिन् विषये। त्रिंशदधिका अस्मिञ् छते त्रिंशं शतम्। शद्ग्रहणेऽन्तग्रहणं प्रत्ययग्रहणे यस्मात् स तदादेः अधिकार्थम्। एकत्रिंशं शतम्। एकचत्वारिंशं शतम्॥ संख्याग्रहणं च कर्तव्यम्॥ इह मा भूद्-गोत्रिंशदधिका अस्मिन् गोशत इति॥ विंशतेश्च॥ विंशं शतम्॥ तदन्तादपीति वक्तव्यम्॥ एकविंशं शतम्। संख्याग्रहणं च कर्तव्यम्। इह मा भूत्-गोविंशतिरधिकास्मिन् गोशत इति॥
संख्याया गुणस्य निमाने मयट्॥ ५.२.४७॥
तदस्येत्यनुवर्तते ‘तदस्य संजातम्’ (५.२.३६) इत्यतः। तदिति प्रथमासमर्थात् संख्यावाचिनः प्रातिपदिकादस्येति षष्ठ्यर्थे मयट् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं गुणस्य चेद् निमाने वर्तते। गुणो भागः। निमानं मूल्यम्। गुणो येन निमीयते मूल्यभूतेन, सोऽपि सामर्थ्याद् भाग एव विज्ञायते। यवानां द्वौ भागौ निमानमस्योदश्विद्भागस्य द्विमयमुदश्विद् यवानाम्। त्रिमयम्। चतुर्मयम्। भागेऽपि तु विधीयमानः प्रत्ययः प्राधान्येन भागवन्तमाचष्टे। तेन सामानाधिकरण्यं भवति द्विमयमुदश्विदिति। गुणस्येति चैकत्वं विवक्षितम्, तेनेह न भवति-द्वौ भागौ यवानां त्रय उदश्वित इति॥ भूयसश्च वाचिकायाः संख्यायाः प्रत्यय इष्यते॥ इह न भवति-एको भागो निमानमस्येति। भूयस इति च प्रत्ययार्थात् प्रकृत्यर्थस्याधिक्यमात्रं विवक्षितम्, बहुत्वमतन्त्रम्। तेन द्विशब्दादपि भवति। गुणशब्दः समानावयववचनः। तेनेह न भवति-द्वौ भागौ यवानामध्यर्ध उदश्वित इति॥ निमेये चापि दृश्यते॥ निमेये वर्तमानायाः संख्याया निमाने प्रत्ययो दृश्यते। उदश्वितो द्वौ भागौ निमेयमस्य यवभागस्य द्विमया यवा उदश्वितः। त्रिमया यवा उदश्वितः। चतुर्मयाः। गुणस्येति किम् ? द्वौ व्रीहियवौ निमानमस्योदश्वितः। निमान इति किम् ? द्वौ गुणौ क्षीरस्यैकस्तैलस्य, द्विगुणं पच्यते तैलं क्षीरेणेत्यत्र मा भूत्॥
तस्य पूरणे डट्॥ ५.२.४८॥
तस्येति षष्ठीसमर्थात् संख्यावाचिनः प्रातिपदिकात् पूरण इत्यस्मिन्नर्थे डट् प्रत्ययो भवति। पूर्यतेऽनेनेति पूरणम्। येन संख्या संख्यानं पूर्यते संपद्यते, स तस्याः पूरणः। एकादशानां पूरण एकादशः। त्रयोदशः। यस्मिन्नुपसंजातेऽन्या संख्या संपद्यते, स प्रत्ययार्थः। इह न भवति-पञ्चानां मुष्टिकानां पूरणो घट इति ॥
नान्तादसंख्यादेर्मट्॥ ५.२.४९॥
डडिति वर्तते। नकारान्तात् संख्यावाचिनः प्रातिपदिकादसंख्यादेः परस्य डटो मडागमो भवति। नान्तादिति पञ्चमी डट आगमसंबन्धे षष्ठीं प्रकल्पयति। पञ्चानां पूरणः पञ्चमः। सप्तमः। नान्तादिति किम्? विंशतेः पूरणो विंशः। असंख्यादेरिति किम्? एकादशानां पूरण एकादशः॥
थट् च छन्दसि॥ ५.२.५०॥
नान्तादसंख्यादेः परस्य डटश्छन्दसि विषये थडागमो भवति चकारात् पक्षे मडपि भवति। पर्णम॑यानि पञ्चथा॑नि भवन्ति (काठ० सं० ८.२)। पञ्चथः॑ (काठ०सं० ९.३)। सप्तथः॑ (काठ०सं० ३७.११)। मट्-पञ्चम॑मिन्द्रिय॑स्या॑पाक्रामत् (काठ०सं० ९.१२)॥
षट्कतिकतिपयचतुरां थुक् ॥ ५.२.५१॥
डडित्यनुवर्तते, तदिह सप्तम्या विपरिणम्यते। षट् कति कतिपय चतुर् इत्येतेषां डटि परतस्थुगागमो भवति। कतिपयशब्दो न संख्या, तस्यास्मादेव ज्ञापकाद् डट् प्रत्ययो विज्ञायते। षण्णां पूरणः षष्ठः। कतिथः। कतिपयथः। चतुर्थः॥ चतुरश्छयतावाद्यक्षर-लोपश्च॥ चतुर्णां पूरणः तुरीयः। तुर्यः॥
बहुपूगगणसङ्घस्य तिथुक् ॥ ५.२.५२॥
डडित्येव। बहु पूग गण संघ इत्येतेषां डटि परतस्तिथुगागमो भवति। पूगसंघशब्दयोरसंख्यात्वादिदमेव ज्ञापकं डटो भावस्य। बहूनां पूरणो बहुतिथः। पूगतिथः। गणतिथः। संघतिथः॥
वतोरिथुक्॥ ५.२.५३॥
डडित्येव। वतोर्डटि परत इथुगागमो भवति। वत्वन्तस्य संख्यात्वात् पूर्वेण डड् विहितः, तस्मिन्नयमागमो विधीयते। यावतां पूरणो यावतिथः। तावतिथः। एतावतिथः॥
द्वेस्तीयः॥ ५.२.५४॥
द्विशब्दात् तीयः प्रत्ययो भवति तस्य पूरण इत्यस्मिन् विषये। डटोऽपवादः। द्वयोः पूरणो द्वितीयः॥
त्रेः संप्रसारणं च॥ ५.२.५५॥
त्रिशब्दात् तीयः प्रत्ययो भवति तस्य पूरण इत्येतद्विषये। डटोऽपवादः। तत्सन्नियोगेन त्रेः संप्रसारणं च भवति। त्रयाणां पूरणः तृतीयः। ‘हलः’ (६.४.२) इति संप्रसारणस्य दीर्घत्वं न भवति। अण इति तत्रानुवर्तते ‘ढ्रलोपे०’ (६.३.१११) इत्यतः, पूर्वेण च णकारेणाण्ग्रहणम्॥
विंशत्यादिभ्यस्तमडन्यतरस्याम्॥ ५.२.५६॥
विंशत्यादिभ्यः परस्य डटस्तमडागमो भवत्यन्यतरस्याम्। पूरणाधिकाराद् डट् प्रत्यय आगमी विज्ञायते। विंशतेः पूरणो विंशतितमः, विंशः। एकविंशतितमः, एकविंशः। त्रिविंशतितमः, त्रिविंशः। त्रिंशत्तमः, त्रिंशः। एकत्रिंशत्तमः,एकत्रिंशः। विशंत्यादयो लौकिकाः संख्याशब्दा गृह्यन्ते, न पङ्क्त्यादिसूत्रसंनिविष्टाः। तद्ग्रहणे ह्येकविंशतिप्रभृतिभ्यो न स्यात्, ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात्। एवं च सति ‘षष्ट्यादेश्चासंख्यादेः’ (५.२.५८) इति पर्युदासो युज्यत एव॥
नित्यं शतादिमासार्धमाससंवत्सराच्च॥ ५.२.५७॥
शतादयः संख्याशब्दा लौकिका गृह्यन्ते। शतादिभ्यो मासार्धमाससंवत्सरशब्देभ्यश्च परस्य डटो नित्यं तमडागमो भवति। मासादयः संख्याशब्दा न भवन्ति, तेभ्योऽस्मादेव ज्ञापकाद् डट् प्रत्ययो विज्ञायते। शतस्य पूरणः शततमः। सहस्रतमः। लक्षतमः। मासस्य पूरणो मासतमो दिवसः। अर्धमासतमः। संवत्सरतमः। ‘षष्ट्यादेश्चासंख्यादेः’ (५.२.५८) इति वक्ष्यमाणेन सिद्धे शतादिग्रहणं संख्याद्यर्थम्। एकशततमः। द्विशततमः॥
षष्ट्यादेश्चासंख्यादेः॥ ५.२.५८॥
षष्ट्यादेः संख्याशब्दादसंख्यादेः परस्य डटो नित्यं तमडागमो भवति। ‘विंशत्यादिभ्यः०’ (५.२.५६) इति विकल्पेन प्राप्ते नित्यार्थम्। षष्टितमः। सप्ततितमः। असंख्यादेरिति किम्? एकषष्टः, एकषष्टितमः। एकसप्ततः, एकसप्ततितमः॥
मतौ छः सूक्तसाम्नोः॥ ५.२.५९॥
मताविति मत्वर्थ उच्यते। प्रातिपदिकाद् मत्वर्थे छः प्रत्ययो भवति सूक्ते सामनि चाभिधेये। मत्वर्थग्रहणेन समर्थविभक्तिः, प्रकृतिविशेषणं प्रत्ययार्थ इति सर्वमाक्षिप्यते। अच्छावाकशब्दोऽस्मिन्निति अच्छावाकीयं सूक्तम्। मित्रावरुणीयम्। यज्ञायज्ञीयं साम। वारवन्तीयम्। अनुकरणशब्दाश्च स्वरूपमात्रप्रधानाः प्रत्ययमुत्पादयन्ति। तेनानेकपदादपि सिद्धम्। अस्यवामीयम्। कयाशुभीयम्॥
अध्यायानुवाकयोर्लुक्॥ ५.२.६०॥
मतावित्येव। मत्वर्थ उत्पन्नस्य छस्य लुग् भवत्यध्यायानुवाकयोरभिधेययोः। केन पुनरध्यायानुवाकयोः प्रत्ययः? इदमेव लुग्वचनं ज्ञापकं तद्विधानस्य। विकल्पेन च लुगयमिष्यते। गर्दभाण्डशब्दोऽस्मिन्नस्ति गर्दभाण्डोऽध्यायोऽनुवाको वा, गर्दभाण्डीयः। दीर्घजीवितः, दीर्घजीवितीयः। पलितस्तम्भः, पलितस्तम्भीयः॥
विमुक्तादिभ्योऽण्॥ ५.२.६१॥
मतावित्येव, अध्यायानुवाकयोरिति च। विमुक्तादिभ्यः प्रातिपदिकेभ्योऽण् प्रत्ययो भवति मत्वर्थेऽध्यायानुवाकयोरभिधेययोः। विमुक्तशब्दोऽस्मिन्नस्ति वैमुक्तोऽध्यायोऽनुवाको वा। दैवासुरः॥ विमुक्त। देवासुर। वसुमत्। सत्वत्। उपसत्। दशार्हपयस्। हविर्धान। मित्री। सोमापूषन्। अग्नाविष्णु। वृत्रहति। इडा। रक्षोसुर। सदसत्। परिषादक् । वसु। मरुत्वत्। पत्नीवत्। महीयल। दशार्ह। वयस्। पतत्रि। सोम। महित्री। हेतु। विमुक्तादिः॥
गोषदादिभ्यो वुन्॥ ५.२.६२॥
मतावित्येव, अध्यायानुवाकयोरिति च। गोषदादिभ्यः प्रातिपदिकेभ्यो वुन् प्रत्ययो भवति मत्वर्थेऽध्यायानुवाकयोः। गोषदशब्दोऽस्मिन्निति गोषदकोऽध्यायोऽनुवाको वा। इषेत्वकः। मातरिश्वकः॥ गोषद। इषेत्वा। मातरिश्वन्। देवस्यत्वा। देवीरापः। कृष्णोस्याखरेष्टः। दैवींधियम्। रक्षोहण। अञ्जन। प्रभूत। प्रतूर्त। कृशानु। गोषदादिः॥
तत्र कुशलः पथः॥ ५.२.६३॥
वुनित्येव। तत्रेति सप्तमीसमर्थात् पथिन्शब्दात् कुशल इत्यस्मिन्नर्थे वुन् प्रत्ययो भवति। पथि कुशलः पथकः॥
आकर्षादिभ्यः कन्॥ ५.२.६४॥
तत्रेत्येव, कुशल इति च। आकर्षादिभ्यः प्रातिपदिकेभ्यः सप्तमीसमर्थेभ्यः कुशल इत्येतस्मिन्नर्थे कन् प्रत्ययो भवति। आकर्षे कुशल आकर्षकः। त्सरुकः॥ आकर्ष। त्सरु। पिपासा। पिचण्ड। अशनि। अश्मन्। विचय। चय। जय। आचय। अय। नय। निपाद। गद्गद। दीप। ह्रद। ह्राद। ह्लाद। शकुनि। आकर्षादिः॥
धनहिरण्यात् कामे॥ ५.२.६५॥
तत्रेत्येव, कनिति च। धनहिरण्यशब्दाभ्यां तत्रेति सप्तमीसमर्थाभ्यां काम इत्यस्मिन्नर्थे कन् प्रत्ययो भवति। काम इच्छा अभिलाषः। धने कामो धनको देवदत्तस्य। हिरण्यको देवदत्तस्य॥
स्वाङ्गेभ्यः प्रसिते॥ ५.२.६६॥
तत्रेत्येव, कनिति च। स्वाङ्गवाचिभ्यः शब्देभ्यस्तत्रेति सप्तमीसमर्थेभ्यः प्रसित इत्येतस्मिन्नर्थे कन् प्रत्ययो भवति। प्रसितः प्रसक्तस्तत्पर इत्यर्थः। केशेषु प्रसितः केशकः। केशादिरचनायां प्रसक्त एवमुच्यते। बहुवचनं स्वाङ्गसमुदायशब्दादपि यथा स्यात्। दन्तौष्ठकः। केशनखकः॥
उदराट् ठगाद्यूने॥ ५.२.६७॥
तत्रेत्येव, प्रसित इति च। उदरशब्दात् सप्तमीसमर्थात् प्रसित इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। आद्यून इति प्रत्ययार्थविशेषणम्। उदरेऽविजिगीषुर्भण्यते। यो बुभुक्षयात्यन्तं पीड्यते, स एवमुच्यते। उदरे प्रसित औदरिक आद्यूनः। आद्यून इति किम्? उदरकः॥
सस्येन परिजातः॥ ५.२.६८॥
कन् प्रत्यय इत्येव स्वर्यते, न ठक् । निर्देशादेव तृतीया समर्थविभक्तिः। सस्यशब्दात् तृतीयासमर्थात् परिजात इत्यस्मिन्नर्थे कन् प्रत्ययो भवति। सस्यशब्दोऽयं गुणवाची। परिः सर्वतो भावे वर्तते। यो गुणैः संबद्धो जायते, यस्य किंचिदपि वैगुण्यं नास्ति, तस्येदमभिधानम्। सस्येन परिजातः सस्यकः शालिः। सस्यकः साधुः। सस्यको मणिः। आकरशुद्ध इत्यर्थः॥
अंशं हारी॥ ५.२.६९॥
अंशशब्दाद् निर्देशादेव द्वितीयासमर्थाद् हारीत्येतस्मिन्नर्थे कन् प्रत्ययो भवति। अंशं हारी अंशको दायादः। अंशकः पुत्रः। हारीत्यावश्यके णिनिः (३.३.१७०)। तत्र षष्ठीप्रतिषेधात् कर्मणि द्वितीयैव भवति॥
तन्त्रादचिरापहृते॥ ५.२.७०॥
तन्त्रशब्दाद् निर्देशादेव पञ्चमीसमर्थादचिरापहृत इत्येतस्मिन्नर्थे कन् प्रत्ययो भवति। अचिरापहृतः स्तोककालापहृत इत्यर्थः। तन्त्रादचिरापहृतः तन्त्रकः पटः। तन्त्रकः प्रावारः। प्रत्यग्रो नव उच्यते॥
ब्राह्मणकोष्णिके संज्ञायाम्॥ ५.२.७१॥
ब्राह्मणक उष्णिक इत्येतौ शब्दौ निपात्येते कन्प्रत्ययान्तौ संज्ञायां विषये। ब्राह्मणको देशः। उष्णिका यवागूः। यत्रायुधजीविनो ब्राह्मणाः सन्ति, तस्य ब्राह्मणक इति संज्ञा। अल्पान्ना यवागूरुष्णिकेत्युच्यते॥
शीतोष्णाभ्यां कारिणि॥ ५.२.७२॥
शीतोष्णशब्दाभ्यां कारिण्यभिधेये कन् प्रत्ययो भवति। क्रियाविशेषणाद् द्वितीयासमर्थादयं प्रत्ययः। शीतं करोति शीतकः। अलसो जड उच्यते। उष्णं करोति उष्णकः। शीघ्रकारी दक्ष उच्यते॥
अधिकम्॥ ५.२.७३॥
अधिकमिति निपात्यते। अध्यारूढशब्दस्योत्तरपदलोपः कंश्च प्रत्ययः। अधिको द्रोणः खार्याम्। अधिका खारी द्रोणेन। कर्तरि कर्मणि चाध्यारूढशब्दः॥
अनुकाभिकाभीकः कमिता॥ ५.२.७४॥
अनुक अभिक अभीक इत्येते शब्दाः कन्प्रत्ययान्ता निपात्यन्ते कमितेत्यस्मिन्नर्थे। अभेः पक्षे दीर्घत्वं च निपात्यते। अनुकामयत अनुकः। अभिकः। अभीकः॥
पार्श्वेनान्विच्छति॥ ५.२.७५॥
पार्श्वशब्दात् तृतीयासमर्थादन्विच्छतीत्यस्मिन्नर्थे कन् प्रत्ययो भवति। अनृजुरुपायः पार्श्वम्। तेनार्थानन्विच्छति पार्श्वकः। मायावी कौसृतिको जालिक उच्यते॥
अयः शूलदण्डाजिनाभ्यां ठक्ठञौ॥ ५.२.७६॥
अन्विच्छतीत्येव। अयः शूलदण्डाजिनाभ्यां तृतीयासमर्थाभ्यामन्विच्छतीत्येतस्मिन्नर्थे ठक्ठञौ प्रत्ययौ भवतः। तीक्ष्ण उपायोऽयःशूलमुच्यते। तेनान्विच्छति आयःशूलिकः। साहसिक इत्यर्थः। दम्भो दण्डाजिनम्, तेनान्विच्छति दाण्डाजिनिकः। दाम्भिक इत्यर्थः॥
तावतिथं ग्रहणमिति लुग् वा॥ ५.२.७७॥
तावतां पूरणं तावतिथम्। गृह्यतेऽनेनेति ग्रहणम्। प्रकृतिविशेषणं चैतत्। पूरणप्रत्ययान्तात् प्रातिपदिकाद् ग्रहणोपाधिकात् स्वार्थे कन् प्रत्ययो भवति। पूरणप्रत्ययस्य वा लुक्। द्वितीयेन रूपेण ग्रन्थं गृह्णाति द्विकं ग्रहणम्, द्वितीयकम्। त्रिकम्, तृतीयकम्। चतुष्कम्, चतुर्थकम्॥ तावतिथेन गृह्णातीति कन् वक्तव्यः, पूरणप्रत्ययस्य च नित्यं लुक्॥ षष्ठेन रूपेण ग्रन्थं गृह्णाति षट्को देवदत्तः। पञ्चकः। चतुष्कः। इतिकरणो विवक्षार्थः। तेन ग्रन्थविषयमेव ग्रहणं विज्ञायते, नान्यविषयम्॥
स एषां ग्रामणीः॥ ५.२.७८॥
स इति प्रथमासमर्थादेषामिति षष्ठ्यर्थे कन् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं ग्रामणीश्चेत् स भवति। ग्रामणीः प्रधानो मुख्य इत्यर्थः। देवदत्तो ग्रामणीरेषां देवदत्तकाः। यज्ञदत्तकाः। ग्रामणीरिति किम्? देवदत्तः शत्रुरेषाम्॥
शृङ्खलमस्य बन्धनं करभे॥ ५.२.७९॥
शृङ्खलशब्दात् प्रथमासमर्थादस्येति षष्ठ्यर्थे कन् प्रत्ययो भवति। यत् तत् प्रथमासमर्थं बन्धनं चेत् तद् भवति, यत् तदस्येति निर्दिष्टं करभश्चेत् स भवति। शृङ्खलं बन्धनमस्य करभस्य शृङ्खलकः। उष्ट्राणां बालकाः करभाः। तेषां काष्ठमयं पाशकं पादे व्यतिषज्यते, तदुच्यते शृङ्खलमिति। यद्यपि रज्ज्वादिकमपि तत्रास्ति तथापि शृङ्खलमस्यास्वतन्त्रीकरणे भवति साधनमिति बन्धनमित्युच्यते॥
उत्क उन्मनाः॥ ५.२.८०॥
उत्क इति निपात्यते, उन्मनाश्चेत् स भवति। उद्गतं मनो यस्य स उन्मनाः। उच्छब्दात् ससाधनक्रियावचनात् तद्वति कन् प्रत्ययो निपात्यते। उत्को देवदत्तः। उत्कः प्रवासी। उत्सुक इत्यर्थः॥
कालप्रयोजनाद् रोगे॥ ५.२.८१॥
अर्थलभ्या समर्थविभक्तिः। कालात् प्रयोजनात् च यथायोगं समर्थविभक्तियुक्ताद् रोगेऽभिधेये कन् प्रत्ययो भवति। कालो दिवसादिः। प्रयोजनं कारणं रोगस्य फलं वा। द्वितीयेऽह्नि भवो द्वितीयको ज्वरः। चतुर्थकः। प्रयोजनात्-विषपुष्पैर्जनितो विषपुष्पको ज्वरः। काशपुष्पकः। उष्णं कार्यमस्य उष्णको ज्वरः। शीतको ज्वरः। उत्तरसूत्रादिह संज्ञाग्रहणमपकृष्यते। तेनायं प्रकारनियमः सर्वो लभ्यते॥
तदस्मिन्नन्नं प्राये संज्ञायाम्॥ ५.२.८२॥
तदिति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे कन् प्रत्ययो भवति, यत् तत् प्रथमासमर्थमन्नं चेत् प्रायविषयं तद् भवति। प्रायो बाहुल्यम्। संज्ञाग्रहणं तदन्तोपाधिः। गुडापूपाः प्रायेणान्नमस्यां पौर्णमास्यां गुडापूपिका। तिलापूपिका पौर्णमासी॥ वटकेभ्य इनिर्वक्तव्यः॥ वटकिनी पौर्णमासी॥
कुल्माषादञ्॥ ५.२.८३॥
कुल्माषशब्दादञ् प्रत्ययो भवति तदस्मिन्नन्नं प्राये संज्ञायामित्येतस्मिन्नर्थे। ञकारो वृद्धिस्वरार्थः। कुल्माषाः प्रायेणान्नमस्यां कौल्माषी पौर्णमासी॥
श्रोत्रियंश्छन्दोऽधीते॥ ५.२.८४॥
श्रोत्रियन्निति निपात्यते छन्दोऽधीत इत्यस्मिन्नर्थे। नकारः स्वरार्थः। श्रोत्रियो ब्राह्मणः। श्रोत्रियंश्छन्दोऽधीत इति वाक्यार्थे पदवचनम्, छन्दसो वा श्रोत्रभावः, तदधीत इति घंश्च प्रत्ययः। कथं छन्दोऽधीते छान्दसः ? वाग्रहणमनुवर्तते ‘तावतिथं ग्रहणमिति लुग् वा’ (५.२.७७) इत्यतः॥
श्राद्धमनेन भुक्तमिनिठनौ॥ ५.२.८५॥
श्राद्धमिति प्रकृतिः। अनेनेति प्रत्ययार्थः। भुक्तमिति प्रकृतिविशेषणम्। श्राद्धशब्दाद् भुक्तोपाधिकादनेनेत्यस्मिन्नर्थ इनिठनौ प्रत्ययौ भवतः। श्राद्धशब्दः कर्मनामधेयं तत्साधने द्रव्ये वर्तित्वा प्रत्ययमुत्पादयति। श्राद्धं भुक्तमनेन श्राद्धी, श्राद्धिकः। इनिठनोः समानकालग्रहणम्। अद्य भुक्ते श्राद्धे श्वः श्राद्धिक इति प्रयोगो मा भूत्॥
पूर्वादिनिः॥ ५.२.८६॥
अनेनेति प्रत्ययार्थः कर्तानुवर्तते। न च क्रियामन्तरेण कर्ता संभवतीति यां कांचित् क्रियामध्याहृत्य प्रत्ययो विधेयः। पूर्वादनेनेत्यस्मिन्नर्थ इनिः प्रत्ययो भवति। पूर्वं गतमनेन भुक्तं पीतं वा पूर्वी, पूर्विणौ, पूर्विणः॥
सपूर्वाच्च॥ ५.२.८७॥
विद्यमानं पूर्वं यस्मादिति सपूर्वं प्रातिपदिकम् । तस्य पूर्वशब्देन तदन्तविधिः। सपूर्वात् प्रातिपदिकात् पूर्वशब्दान्तादनेनेत्यस्मिन्नर्थ इनिः प्रत्ययो भवति। पूर्वं कृतमनेन कृतपूर्वी कटम्। भुक्तपूर्वी ओदनम्। सुप्सुपेति समासं कृत्वा तद्धित उत्पाद्यते। योगद्वयेन चानेन पूर्वादिनिः सपूर्वाच्चेति परिभाषाद्वयं ज्ञाप्यते-‘व्यपदेशिवद्भावोऽप्रातिपदिकेन’, ‘ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति’ इति॥
इष्टादिभ्यश्च॥ ५.२.८८॥
अनेनेत्येव। इष्टादिभ्यः प्रातिपदिकेभ्योऽनेनेत्यस्मिन्नर्थ इनिः प्रत्ययो भवति। इष्टमनेन इष्टी यज्ञे । पूर्ती श्राद्धे। ‘क्तस्येन्विषयस्य कर्मणि’ (वा० २.३.३६) इति सप्तम्युपसंख्यायते॥ इष्ट। पूर्त। उपसादित। निगदित। परिवादित। निकथित। परिकथित। संकलित। निपठित। संकल्पित। अनर्चित। विकलित। संरक्षित। निपतित। पठित। परिकलित। अर्चित। परिरक्षित। पूजित। परिगणित। उपगणित। अवकीर्ण। परित। आयुक्त। आम्नात। श्रुत। अधीत। आसेवित। अपवारित। अवकल्पित। निराकृत। उपकृत। उपाकृत। अनुयुक्त। उपनत। अनुगुणित। अनुपठित। व्याकुलित। निगृहीत। इष्टादिः॥
छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि॥ ५.२.८९॥
परिपन्थिन् परिपरिन् इत्येतौ शब्दौ छन्दसि विषये निपात्येते पर्यवस्थातरि वाच्ये। पर्यवस्थाता प्रतिपक्षः सपत्न उच्यते। मा त्वा॑ परिप॒रिणो॑ विद॒न् मा त्वा॑ परिप॒न्थिनो॑ विद॒न् (मा०सं० ४.३४)॥
अनुपद्यन्वेष्टा॥ ५.२.९०॥
अनुपदीति निपात्यतेऽन्वेष्टा चेत् स भवति। पदस्य पश्चादनुपदम्। अनुपदी गवाम्॥ अनुपदी उष्ट्राणाम्॥
साक्षाद् द्रष्टरि संज्ञायाम्॥ ५.२.९१॥
साक्षाच्छब्दोऽव्ययम्। तस्मादिनिः प्रत्ययो भवति द्रष्टरि वाच्ये। संज्ञाग्रहणमभिधेयनियमार्थम्। साक्षाद् द्रष्टा साक्षी, साक्षिणौ, साक्षिणः। संज्ञाग्रहणादुपद्रष्टैवोच्यते, न दाता ग्रहीता वा॥
क्षेत्रियच् परक्षेत्रे चिकित्स्यः॥ ५.२.९२॥
क्षेत्रियजिति निपात्यते। परक्षेत्रे चिकित्स्य इत्येतस्मिन् वाक्यार्थे पदवचनम्। परक्षेत्राद् वा तत्रेति सप्तमीसमर्थात् चिकित्स्य इत्येतस्मिन्नर्थे घच् प्रत्ययः परशब्दलोपश्च निपात्यते। परक्षेत्रे चिकित्स्यः क्षेत्रियो व्याधिः। क्षेत्रियं कुष्ठम्। परक्षेत्रं जन्मान्तरशरीरम्, तत्र चिकित्स्यः क्षेत्रियः। असाध्योऽप्रत्याख्येयो व्याधिरुच्यते। नामृतस्य निवर्तत इत्यर्थः। अथ वा क्षेत्रियं विषम् यत् परक्षेत्रे परशरीरे संक्रमय्य चिकित्स्यते। अथवा क्षेत्रियाणि तृणानि, यानि सस्यार्थे क्षेत्रे जातानि चिकित्स्यानि नाशयितव्यानि। अथ वा क्षेत्रियः पारदारिकः। परदाराः परक्षेत्रम्, तत्र चिकित्स्यो निग्रहीतव्यः। सर्वं चैतत् प्रमाणम्॥
इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा ॥ ५.२.९३॥
इन्द्रियमित्यन्तोदात्तं शब्दरूपं निपात्यते। रूढिरेषा चक्षुरादीनां करणानाम्। तथा च व्युत्पत्तेरनियमं दर्शयति। इन्द्रशब्दात् षष्ठीसमर्थात् लिङ्गमित्येतस्मिन्नर्थे घच् प्रत्ययो भवति। इन्द्रस्य लिङ्गमिन्द्रियम्। इन्द्र आत्मा, स चक्षुरादिना करणेनानुमीयते। नाकर्तृकं करणमस्ति। इन्द्रेण दृष्टम्। तृतीयासमर्थात् प्रत्ययः। आत्मना दृष्टमित्यर्थः। इन्द्रेण सृष्टम्। आत्मना सृष्टम्। तत्कृतेन शुभाशुभेन कर्मणोत्पन्नमिति कृत्वा। इन्द्रेण जुष्टम्। आत्मना जुष्टम्, सेवितम्, तद्द्वारेण विज्ञानोत्पादनात्। इन्द्रेण दत्तम् आत्मना विषयेभ्यो दत्तं यथायथं ग्रहणाय। इतिकरणः प्रकारार्थः। सति संभवे व्युत्पत्तिरन्यथापि कर्तव्या, रूढेरनियमादिति। वाशब्दः प्रत्येकमभिसंबध्यमानो विकल्पानां स्वातन्त्र्यं दर्शयति॥
तदस्यास्त्यस्मिन्निति मतुप् ॥ ५.२.९४॥
तदिति प्रथमा समर्थविभक्तिः। अस्यास्मिन्निति प्रत्ययार्थौ। अस्तीति प्रकृतिविशेषणम्। इतिकरणो विवक्षार्थः। तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थेऽस्मिन्निति सप्तम्यर्थे वा मतुप् प्रत्ययो भवति, यत् तत् प्रथमासमर्थमस्ति चेत् तद् भवति। अस्त्यर्थोपाधिकं चेत् तद् भवतीत्यर्थः। इतिकरणस्ततश्चेद् विवक्षा। गावोऽस्य सन्ति गोमान् देवदत्तः। वृक्षा अस्मिन् सन्ति वृक्षवान् पर्वतः। यवमान्। प्लक्षवान्। इतिकरणाद् विषयनियमः।
भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने।
संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः॥
भूम्नि तावत्-गोमान्। निन्दायाम्-कुष्ठी। ककुदावर्तिनी। प्रशंसायाम्-रूपवती कन्या। नित्ययोगे-क्षीरिणो वृक्षाः। अतिशायने-उदरिणी कन्या। संसर्गे-दण्डी। छत्री। अस्तिविवक्षायाम्-अस्तिमान्॥ गुणवचनेभ्यो मतुपो लुग् वक्तव्यः॥ शुक्लो गुणोऽस्यास्ति शुक्लः पटः। कृष्णः। श्वेतः॥
रसादिभ्यश्च ॥ ५.२.९५॥
रसादिभ्यः प्रातिपदिकेभ्यो मतुप् प्रत्ययो भवति तदस्यास्त्यस्मिन्नित्येतस्मिन् विषये। रसवान्। रूपवान्। किमर्थमिदमुच्यते, न पूर्वसूत्रेणैव मतुप् सिद्धः? रसादिभ्यः पुनर्वचनमन्यनिवृत्त्यर्थम्। अन्ये मत्वर्थीया मा भूवन्निति। कथं रूपिणी कन्या, रूपिको दारकः? प्रायिकमेतद् वचनम्। इतिकरणो विवक्षार्थोऽनुवर्तते। अथ वा गुणादित्यत्र पठ्यते। तेन ये रसनेन्द्रियादिग्राह्या गुणाः, तेषामेवायं पाठः। इह मा भूत्- रूपिणी, रूपिक इति। शोभायोगो गम्यते। रसिको नट इत्यत्र भावयोगः॥ रस। रूप। गन्ध। स्पर्श। शब्द। स्नेह। गुणात् (ग०सू० १२४)। एकाचः (ग०सू० १२५) गुणग्रहणं रसादीनां विशेषणम्॥
प्राणिस्थादातो लजन्यतरस्याम् ॥ ५.२.९६॥
प्राणिस्थवाचिनः शब्दादाकारान्तात् लच् प्रत्ययो भवत्यन्यतरस्यां मत्वर्थे। चूडालः, चूडावान्। कर्णिकालः, कर्णिकावान्। प्राणिस्थादिति किम् ? शिखावान् प्रदीपः। आदिति किम्? हस्तवान्। पादवान्॥ प्राण्यङ्गादिति वक्तव्यम्॥ इह मा भूत्-चिकीर्षास्यास्ति चिकीर्षावान्, जिहीर्षास्यास्ति जिहीर्षावान्। प्रत्ययस्वरेणैवान्तोदात्तत्वे सिद्धे चकारश्चूडालोऽस्तीत्यत्र ‘स्वरितो वानुदात्ते पदादौ’ (८.२.६) इति स्वरितबाधनार्थः॥
सिध्मादिभ्यश्च ॥ ५.२.९७॥
लजन्यतरस्यामिति वर्तते। सिध्मादिभ्यः प्रातिपदिकेभ्यो लच् प्रत्ययो भवत्यन्यतरस्यां मत्वर्थे। सिध्मलः, सिध्मवान्। गडुलः, गडुमान्। अन्यतरस्यांग्रहणेन मतुप् समुच्चीयते न तु प्रत्ययो विकल्प्यते। तस्मादकारान्तेभ्य इनिठनौ प्रत्ययौ न भवतः॥ सिध्म। गडु। मणि। नाभि। जीव। निष्पाव। पांसु। सक्तु। हनु। मांस। परशु। पार्ष्णिधमन्योर्दीर्घश्च (ग०सू० १२६)। पार्ष्णीलः। धमनीलः। पर्ण। उदक। प्रज्ञा। मण्ड। पार्श्व। गण्ड। ग्रन्थि। वातदन्तबलललाटानामूङ् च (ग०सू० १२७)। वातूलः। दन्तूलः। बलूलः। ललाटूलः। जटाघटाकलाः क्षेपे (ग०सू० १२८)। जटालः। घटालः। कलालः। सक्थि। कर्ण। स्नेह। शीत। श्याम। पिङ्ग । पित्त। शुष्क। पृथु। मृदु। मञ्जु। पत्र। चटु। कपि। कण्डु। संज्ञा। क्षुद्रजन्तूपतापाच्चेष्यते (ग०सू० १२९)। क्षुद्रजन्तु-यूकालः। मक्षिकालः। उपताप-विचर्चिकालः। विपादिकालः। मूर्छालः। सिध्मादिः॥
वत्सांसाभ्यां कामबले॥ ५.२.९८॥
वत्सांसशब्दाभ्यां लच् प्रत्ययो भवति यथासंख्यं कामवति बलवति चार्थे। वत्सलः। अंसलः। वृत्तिविषये वत्सांसशब्दौ स्वभावात् कामबलयोर्वर्तमानौ तद्वति प्रत्ययमुत्पादयतः। न ह्यत्र वत्सार्थोंऽसार्थो वा विद्यते। वत्सल इति स्नेहवानुच्यते-वत्सलः स्वामी, वत्सलः पितेति। अंसल इति चोपचितमांसो बलवानुच्यते। न चायमर्थो मतुपि संभवतीति नित्यं लजेव भवति। अन्यत्र वत्सवती गौः। अंसवान् दुर्बलः॥
फेनादिलच्च॥ ५.२.९९॥
फेनशब्दादिलच् प्रत्ययो भवति मत्वर्थे, चकारात् लच्च। अन्यतरस्यांग्रहणं मतुप्समुच्चयार्थं सर्वत्रैवानुवर्तते। फेनिलः, फेनलः, फेनवान्॥
लोमादिपामादिपिच्छादिभ्यः शनेलचः॥ ५.२.१००॥
लोमादिभ्यः पामादिभ्यः पिच्छादिभ्यश्च त्रिभ्यो गणेभ्यो यथासंख्यं श न इलच् इत्येते प्रत्यया भवन्ति मत्वर्थे, मतुप् च। लोमादिभ्यः शो भवति। लोमशः, लोमवान्। पामादिभ्यो नो भवति। पामनः, पामवान्। पिच्छादिभ्य इलच् भवति। पिच्छिलः, पिच्छवान्। उरसिलः, उरस्वान्॥ लोमन्। रोमन्। वल्गु। बभ्रु। हरि। कपि। शुनि। तरु। लोमादिः॥ पामन्। वामन्। हेमन्। श्लेष्मन्। कद्रु। बलि। श्रेष्ठ। पलल। सामन्। अङ्गात् कल्याणे (ग०सू० १३०)। शाकीपलालीदद्र्वां ह्रस्वत्वं च (ग०सू० १३१)। विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः (ग०सू० १३२)। लक्ष्म्या अच्च (ग०सू० १३३)। पामादिः॥ पिच्छ। उरस्। ध्रुवका। क्षुवका। जटाघटाकलाः क्षेपे (ग०सू० १३४)। वर्ण। उदक। पङ्क। प्रज्ञा। पिच्छादिः॥
प्रज्ञाश्रद्धार्चावृत्तिभ्यो णः ॥ ५.२.१०१॥
प्रज्ञा श्रद्धा अर्चा वृत्ति इत्येतेभ्यो णः प्रत्ययो भवति मतुबर्थे। मतुप् सर्वत्र समुच्चीयते। प्राज्ञः, प्रज्ञावान्। श्राद्धः, श्रद्धावान्। आर्चः, अर्चावान्। वार्त्तः। वृत्तिमान्॥
तपःसहस्राभ्यां विनीनी ॥ ५.२.१०२॥
तपःसहस्रशब्दाभ्यां विनि इनि इत्येतौ प्रत्ययौ भवतो मत्वर्थे। प्रत्ययार्थयोस्तु यथासंख्यं सर्वत्रैवास्मिन् प्रकरणे नेष्यते। तपोऽस्यास्मिन् वा विद्यते तपस्वी। सहस्री। असन्तत्वाददन्तत्वात् च सिद्धे प्रत्यये पुनर्वचनमणा वक्ष्यमाणेन बाधा मा भूदिति। सहस्रात् तु ठनपि बाध्यते॥
अण् च ॥ ५.२.१०३॥
तपःसहस्राभ्यामण् च प्रत्ययो भवति। तापसः। साहस्रः। योगविभाग उत्तरार्थो यथासंख्यार्थश्च॥ अण्प्रकरणे ज्योत्स्नादिभ्य उपसंख्यानम्॥ ज्योत्स्ना विद्यतेऽस्मिन् पक्षे ज्यौत्स्नः पक्षः। तामिस्रः। कौण्डलः। कौतपः। वैसर्पः। वैपादिकः॥
सिकताशर्कराभ्यां च ॥ ५.२.१०४॥
सिकताशर्कराभ्यामण् प्रत्ययो भवति मत्वर्थे। सैकतो घटः। शार्करं मधु। अदेश इहोदाहरणम्। देशे तु लुबिलचौ भविष्यतः॥
देशे लुबिलचौ च ॥ ५.२.१०५॥
सिकताशर्कराभ्यां देशेऽभिधेये लुबिलचौ भवतः, चकारादण् च, मतुप् च। कस्य पुनरयं लुप्? मतुबादीनामन्यतमस्य, विशेषाभावात्। सिकता अस्मिन् विद्यन्ते सिकता देशः, सिकतिलः, सैकतः, सिकतावान्। एवं शर्करा देशः, शर्करिलः, शार्करः, शर्करावान्। देश इति किम्? सैकतो घटः। शार्करं मधु॥
दन्त उन्नत उरच् ॥ ५.२.१०६॥
उन्नत इति प्रकृतिविशेषणम्। दन्तशब्दादुन्नतोपाधिकादुरच् प्रत्ययो भवति मत्वर्थे। दन्ता उन्नता अस्य सन्ति दन्तुरः। उन्नत इति किम् ? दन्तवान्॥
ऊ षसुषिमुष्कमधो रः ॥ ५.२.१०७॥
ऊष सुषि मुष्क मधु इत्येतेभ्यो रः प्रत्ययो भवति मत्वर्थे। ऊषरं क्षेत्रम्। सुषिरं काष्ठम्। मुष्करःपशुः। मधुरो गुडः। इतिकरणो विवक्षार्थः सर्वत्राभिधेयनियमं करोति। इह न भवति- ऊषोऽस्मिन् घटे विद्यते, मध्यस्मिन् घटे विद्यत इति॥ रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम्॥ खमस्यास्ति कण्ठविवरं महत् खरः। मुखमस्यास्तीति सर्वस्मिन् वक्तव्ये मुखरः। कुञ्जावस्य स्तः कुञ्जरः। हस्तिहनू कुञ्जशब्देनोच्येते॥ नगपांसुपाण्डुभ्यश्चेति वक्तव्यम्॥ नगरम्। पांसुरम्। पाण्डुरम्॥ कच्छ्वा। ह्रस्वत्वं च॥ कच्छुरम्।
द्युद्रुभ्यां मः ॥ ५.२.१०८॥
द्युद्रुशब्दाभ्यां मः प्रत्ययो भवति मत्वर्थे। द्युमः। द्रुमः। रूढिशब्दावेतौ। रूढिषु मतुप् पुनर्न विकल्प्यते॥
केशाद् वोऽन्यतरस्याम् ॥ ५.२.१०९॥
केशशब्दाद् वः प्रत्ययो भवति मत्वर्थेऽन्यतरस्याम्। ननु च प्रकृतमन्यतरस्यांग्रहणमनुवर्तत एव? मतुप्समुच्चयार्थं तदित्युक्तम्। अनेन त्विनिठनौ प्राप्येते। ततश्चातूरूप्यं भवति। केशवः, केशी, केशिकः, केशवानिति॥ वप्रकरणेऽन्येभ्योऽपि दृश्यत इति वक्तव्यम्॥ मणिवः। हिरण्यवः। कुररावः। कुमारावः। कुञ्जावः। राजीवम्। इष्टकावः। विम्बावः॥ अर्णसो लोपश्च॥ अर्णवः॥ छन्दसीवनिपौ च वक्तव्यौ॥ वश्च मतुप् च। र॒थीर॑भून्मुद्ग॒लानी॒ गवि॑ष्टौ (ऋ० १०.१०२.२)। सु॒म॒ङ्ग॒लीरि॒यं व॒धूः (ऋ० १०.८५.३३)। वनिप्-म॒घवा॑नमीमहे (ऋ०१०.१६७.२)। वकारमतुपौ च। उद्वा च उद्वती च॥ मेधारथाभ्यामिरन्निरचौ वक्तव्यौ॥ मेधि॑रः (ऋ० १.३१.२)। र॑थि॒रः (ऋ० ३.१.१७)॥
गाण्ड्यजगात् संज्ञायाम् ॥ ५.२.११०॥
गाण्डी अजग इत्येताभ्यां वः प्रत्ययो भवति संज्ञायां विषये मत्वर्थे। गाण्डीवं धनुः। अजगवं धनुः। ह्रस्वादपि भवति-गाण्डिवं धनुरिति। तत्र तुल्या हि संहिता दीर्घह्रस्वयोः। उभयथा च सूत्रं प्रणीतम्॥
काण्डाण्डादीरन्नीरचौ ॥ ५.२.१११॥
काण्ड अण्ड इत्येताभ्यां यथासंख्यमीरन्नीरचौ प्रत्ययौ भवतो मत्वर्थे। काण्डीरः। अण्डीरः॥
रजः कृष्यासुतिपरिषदो वलच् ॥ ५.२.११२॥
रजःप्रभृतिभ्यः प्रातिपदिकेभ्यो वलच् प्रत्ययो भवति मत्वर्थे। रजस्वला स्त्री। कृषीवलः कुटुम्बी। आसुतीवलः शौण्डिकः। परिषद्वलो राजा। ‘वले’ (६.३.११८) इति दीर्घत्वम्। इतिकरणो विषयनियमार्थः सर्वत्र संबध्यते। तेनेह न भवति-रजोऽस्मिन् ग्रामे विद्यत इति॥ वलच्प्रकरणेऽन्येभ्योऽपि दृश्यत इति वक्तव्यम्॥ भ्रातृवलः। पुत्रवलः। उत्साहवलः॥
दन्तशिखात् संज्ञायाम् ॥ ५.२.११३॥
दन्तशिखाशब्दाभ्यां वलच् प्रत्ययो भवति मत्वर्थे संज्ञायां विषये। दन्तावलः सैन्यः। दन्तावलो गजः। शिखावलं नगरम्। शिखावला स्थूणा॥
ज्योत्स्नातमिस्राशृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः॥ ५.२.११४॥
ज्योत्स्नादयः शब्दा निपात्यन्ते मत्वर्थे संज्ञायां विषये। ज्योतिष उपधालोपो नश्च प्रत्ययो निपात्यते। ज्योत्स्ना चन्द्रप्रभा। तमस उपधाया इकारो रश्च। तमिस्रा रात्रिः। स्त्रीत्वमतन्त्रम्। अन्यत्रापि दृश्यते। तमिस्रं नभः। शृङ्गादिनच् प्रत्ययो निपात्यते। शृङ्गिणः। ऊर्जोऽसुगागमो निपात्यते विनिवलचौ प्रत्ययौ। ऊर्जस्वी। ऊर्जस्वलः। गोर्मिनिप्रत्ययो निपात्यते। गोमी। मलशब्दादिनजीमसचौ प्रत्ययौ निपात्येते। मलिनः। मलीमसः॥
अत इनिठनौ॥ ५.२.११५॥
अकारान्तात् प्रातिपदिकादिनिठनौ प्रत्ययौ भवतः। दण्डी। दण्डिकः। छत्री। छत्रिकः। अन्यतरस्यामित्यधिकाराद् मतुबपि भवति। दण्डवान्। छत्रवान्। तपरकरणं किम्? श्रद्धावान्।
एकाक्षरात् कृतो जातेः सप्तम्यां च न तौ स्मृतौ॥
एकाक्षरात् तावत्-स्ववान्। खवान्। कृतः-कारकवान्। जातेः- व्याघ्रवान्। सिंहवान्। सप्तम्याम्-दण्डा अस्यां सन्ति दण्डवती शालेति। इतिकरणो विषयनियमार्थः सर्वत्र संबध्यत इत्युक्तम्, तेन क्वचिद् भवत्यपि-कार्यी, हार्यी, तण्डुली, तण्डुलिक इति॥
व्रीह्यादिभ्यश्च॥ ५.२.११६॥
व्रीह्यादिभ्यः प्रातिपदिकेभ्य इनिठनौ प्रत्ययौ भवतो मत्वर्थे। मतुब् भवत्येव। व्रीही, व्रीहिकः, व्रीहिमान्। मायी, मायिकः, मायावान्। न च व्रीह्यादिभ्यः सर्वेभ्यः प्रत्ययद्वयमिष्यते। किं तर्हि? शिखादिभ्य इनिर्वाच्य इकन् यवखदादिषु। परिशिष्टेभ्य उभयम्। शिखा, मेखला, संज्ञा, बलाका, माला, वीणा, वडवा, अष्टका, पताका, कर्मन्, चर्मन्, हंसा इत्येतेभ्य इनिरेवेष्यते। यवखद, कुमारी, नौ इत्येतेभ्य इकन्नेवेष्यते। परिशिष्टेभ्यो द्वावपि प्रत्ययौ भवतः। व्रीहिग्रहणं किमर्थम्, यावता तुन्दादिषु व्रीहिशब्दः पठ्यते, तत्र इनिठनौ चकारेण विधीयेते? एवं तर्हि तुन्दादिषु व्रीहिग्रहणमर्थग्रहणं विज्ञायते। शालयोऽस्य सन्ति शालिलः, शाली, शालिकः, शालिमान् इति। व्रीहिशिखादयः पूर्वं पठिताः। यवखद। कुमारी। नौ। शीर्षाद् नञः (ग०सू० १३५)-अशीर्षी। अशीर्षिकः॥
तुन्दादिभ्य इलच्च॥ ५.२.११७॥
तुन्दादिभ्य प्रातिपदिकेभ्य इलच् प्रत्ययो भवति मत्वर्थे। चकारादिनिठनौ मतुप् च। तुन्दिलः, तुन्दी, तुन्दिकः, तुन्दवान्। उदरिलः, उदरी, उदरिकः, उदरवान्॥ तुन्द। उदर। पिचण्ड। घट। यव। व्रीहि। स्वाङ्गाद् विवृद्धौ च (ग०सू० १३६)। तुन्दादिः॥
एकगोपूर्वाट् ठञ् नित्यम्॥ ५.२.११८॥
एकपूर्वात् गोपूर्वात् च प्रातिपदिकाद् नित्यं ठञ् प्रत्ययो भवति मत्वर्थे। एकशतमस्यास्तीति ऐकशतिकः। ऐकसहस्रिकः। गोपूर्वात् च-गौशतिकः। गौसहस्रिकः। अत इत्येव-एकविंशतिरस्यास्तीति न भवति। कथमैकगविकः? समासान्ते कृते भविष्यति। कथं गौशकटिकः? शकटीशब्देन समानार्थः शकटशब्दोऽस्ति, ततो भविष्यति। अवश्यं चात इत्यनुवर्त्यम्,‘द्वन्द्वोपतापगर्ह्यात्०’ (५.२.१२८) इत्येवमाद्यर्थम्। नित्यग्रहणं मतुपो बाधनार्थम्। कथमेकद्रव्यवत्त्वादिति? नैवायं साधुः। एकेन वा द्रव्यवत्त्वादिति समर्थनीयम्॥
शतसहस्रान्ताच्च निष्कात्॥ ५.२.११९॥
शतान्तात् सहस्रान्तात् च प्रातिपदिकात् ठञ् प्रत्ययो भवति मत्वर्थे, तौ चेच्छतसहस्रशब्दौ निष्कात् परौ भवतः। निष्कशतमस्यास्ति नैष्कशतिकः। नैष्कसहस्रिकः। सुवर्णनिष्कशतमस्यास्तीत्यनभिधानाद् न भवति॥
रूपादाहतप्रशंसयोर्यप्॥ ५.२.१२०॥
आहतप्रशंसे प्रकृत्युपाधी। आहतप्रशंसाविशिष्टार्थे वर्तमानाद् रूपशब्दाद् यप् प्रत्ययो भवति मत्वर्थे। आहतं रूपमस्य रूप्यो दीनारः। रूप्यः केदारः। रूप्यं कार्षापणम्। प्रशस्तं रूपमस्यास्ति रूप्यः पुरुषः। निघातिकाताडनादिना दीनारादिषु रूपं यदुत्पद्यते तदाहतमित्युच्यते। आहतप्रशंसयोरिति किम्? रूपवान्॥ यप्प्रकरणेऽन्येभ्योऽपि दृश्यत इति वक्तव्यम्॥ हिम्याः पर्वताः। गुण्या ब्राह्मणाः॥
अस्मायामेधास्रजो विनिः॥ ५.२.१२१॥
असन्तात् प्रातिपदिकाद् माया मेधा स्रज् इत्येतेभ्यश्च विनिः प्रत्ययो भवति मत्वर्थे। मतुप् सर्वत्र समुच्चीयत एव। असन्तात् तावत्-यशस्वी। तपस्वी। पयस्वी। मायावी। मेधावी। स्रग्वी। मायाशब्दाद् व्रीह्यादिषु पाठादिनिठनावपि भवतः। मायी। मायिकः॥
बहुलं छन्दसि॥ ५.२.१२२॥
छन्दसि विषये बहुलं विनिः प्रत्ययो भवति मत्वर्थे। अग्ने॑ तेजस्विन् (तै०सं० ३.३.१.१)। न भवति, सूर्यो वर्चस्वान्॥ छन्दसि विनिप्रकरणेऽष्ट्रामेखलाद्वयोभयरुजाहृदयानां दीर्घत्वं चेति वक्तव्यम्॥ अष्ट्॒रावी (ऋ०१०.१०२.८)। मेखलावी। द्वयावी। उभया॒वी (ऋ० ८.१.२)। रुजावी। हृदयावी। द्वयोभयहृदयानि दीर्घत्वं प्रयोजयन्ति॥ मर्मणश्चेति वक्तव्यम्॥ मर्मावी॥ सर्वत्रामयस्योपसंख्यानम्॥ छन्दसि भाषायां च। आमया॒वी (तै०सं० ३.२.३.३)॥ शृङ्गवृन्दाभ्यामारकन् वक्तव्यः॥ शृङ्गारकः। वृ॒न्दारकः (श०ब्रा० १४.६.११.१)॥ फलबर्हाभ्यामिनज् वक्तव्यः॥ फलिनः। बर्हिणः॥ हृदयाच्चालुरन्यतरस्याम्॥ हृदयालुः, हृदयी, हृदयिकः, हृदयवान्॥ शीतोष्णतृप्रेभ्यस्तद् न सहत इत्यालुज् वक्तव्यः॥ शीतं न सहते शीतालुः। उष्णालुः। तृप्रालुः॥ तद् न सहत इति हिमाच्चेलुः॥ हिमं न सहते हिमेलुः॥ बलादूलच्॥ बलं न सहते बलूलः॥ वातात् समूहे च वातं न सहत इति च॥ वातानां समूहः, वातं न सहत इति वा वातूलः॥ पर्वमरुद्भ्यां तन् वक्तव्यः॥ प॑र्व॒तः (मै०सं० ४.१२.५)। मरुत्तः॥ अर्थात् तदभाव इनिर्वक्तव्यः॥ अर्थी। तदभाव इत्येव-अर्थवान्। तदेतत् सर्वं बहुलग्रहणेन सम्पद्यते॥
ऊर्णाया युस्॥ ५.२.१२३॥
ऊर्णाशब्दाद् युस् प्रत्ययो भवति मत्वर्थे। सकारः पदसंज्ञार्थः। ऊर्णास्य विद्यत ऊ र्णा॒युः (मा०सं० १३.५०)। केचिच्छन्दोग्रहणमनुवर्तयन्ति॥
वाचो ग्मिनिः॥ ५.२.१२४॥
वाच्शब्दाद् ग्मिनिः प्रत्ययो भवति मत्वर्थे । वाग्ग्मी, वाग्ग्मिनौ, वाग्ग्मिनः॥
आलजाटचौ बहुभाषिणि॥ ५.२.१२५॥
वाच्शब्दात् प्रथमासमर्थादालच् आटच् इत्येतौ प्रत्ययौ भवतो मत्वर्थे बहुभाषिण्यभिधेये। ग्मिनेरपवादः। वाचालः। वाचाटः॥ कुत्सित इति वक्तव्यम्॥ यो हि सम्यग् बहु भाषते, वाग्ग्मीत्येव स भवति॥
स्वामिन्नैश्वर्ये॥ ५.२.१२६॥
स्वामिन्निति निपात्यत ऐश्वर्ये गम्यमाने। स्वशब्दादैश्वर्यवाचिनो मत्वर्थ आमिन् प्रत्ययो निपात्यते। स्वमस्यास्तीति, ऐश्वर्यमस्यास्तीति स्वामी, स्वामिनौ, स्वामिनः। ऐश्वर्य इति किम्? स्ववान्॥
अर्शआदिभ्योऽच्॥ ५.२.१२७॥
अर्शस् इत्येवमादिभ्यः प्रातिपदिकेभ्योऽच् प्रत्ययो भवति मत्वर्थे। अर्शांसि अस्य विद्यन्त अर्शसः। उरसः। आकृतिगणश्चायम्। यत्राभिन्नरूपेण शब्देन तद्वतोऽभिधानं तत् सर्वमिह द्रष्टव्यम्॥ अर्शस्। उरस्। तुन्द। चतुर। पलित। जटा। घटा। अभ्र। कर्दम। आम। लवण। स्वाङ्गाद् हीनात् (ग०सू० १३७)। वर्णात् (ग०सू० १३८)। अर्शआदिः॥
द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः॥ ५.२.१२८॥
द्वन्द्वः समासः। उपतापो रोगः। गर्ह्यं निन्द्यम्। तद्विषयेभ्यः शब्देभ्यः प्राणिस्थार्थवाचिभ्य इनिः प्रत्ययो भवति मत्वर्थे। द्वन्द्वात् तावत्-कटकवलयिनी। शङ्खनूपुरिणी। उपतापात्-कुष्ठी। किलासी। गर्ह्यात्-ककुदावर्ती। काकतालुकी। प्राणिस्थादिति किम् ? पुष्पफलवान् वृक्षः। प्राण्यङ्गाद् नेष्यते। पाणिपादवती। अत इत्यनुवर्तते। तेनेह न भवति-चित्रललाटिकावती। सिद्धे प्रत्यये पुनर्वचनं ठनादिबाधनार्थम्॥
वातातिसाराभ्यां कुक् च॥ ५.२.१२९॥
वातातिसारशब्दाभ्यामिनिः प्रत्ययो भवति, तत्संनियोगेन च तयोः कुगागमो भवति। वातातिसारयोरुपतापत्वात् पूर्वेणैव सिद्धे प्रत्यये कुगर्थमेवेदं वचनम्। वातकी। अतिसारकी॥ पिशाचाच्चेति वक्तव्यम्॥ पिशाचकी वैश्रवणः। रोगे चायमिष्यते। इह न भवति-वातवती गुहेति॥
वयसि पूरणात्॥ ५.२.१३०॥
इनिरनुवर्तते। पूरणप्रत्ययान्तात् प्रातिपदिकादिनिः प्रत्ययो भवति मत्वर्थे वयसि द्योत्ये। पञ्चमोऽस्यास्ति मासः संवत्सरो वा पञ्चमी उष्ट्रः। नवमी। दशमी। सिद्धे सति नियमार्थं वचनम्-इनिरेव भवति, ठन् न भवतीति। वयसीति किम्? पञ्चमवान् ग्रामरागः॥
सुखादिभ्यश्च॥ ५.२.१३१॥
सुख इत्येवमादिभ्यः प्रातिपदिकेभ्य इनिः प्रत्ययो नियम्यते मत्वर्थे। सुखी। दुःखी। माला क्षेप इति पठ्यते, व्रीह्यादिषु (५.२.११६) च मालाशब्दोऽस्ति, तदिह क्षेपे मतुब्बाधनार्थं वचनम्॥ सुख। दुःख। तृप्र। कृच्छ्र। आम्र। अलीक। करुणा। कृपण। सोढ। प्रमीप। शील। हल। माला क्षेपे (ग०सू० १३९)। प्रणय। सुखादिः॥
धर्मशीलवर्णान्ताच्च॥ ५.२.१३२॥
अन्तशब्दः प्रत्येकमभिसंबध्यते। धर्माद्यन्तात् प्रातिपदिकादिनिः प्रत्ययो नियम्यते। ब्राह्मणानां धर्मो ब्राह्मणधर्मः, सोऽस्यास्तीति ब्राह्मणधर्मी। ब्राह्मणशीली। ब्राह्मणवर्णी॥
हस्ताज्जातौ॥ ५.२.१३३॥
हस्तशब्दादिनिः प्रत्ययो नियम्यते मत्वर्थे, समुदायेन चेज् जातिरभिधीयते। हस्तोऽस्यास्तीति हस्ती, हस्तिनौ, हस्तिनः। जाताविति किम् ? हस्तवान् पुरुषः॥
वर्णाद् ब्रह्मचारिणि॥ ५.२.१३४॥
वर्णशब्दादिनिः प्रत्ययो भवति मत्वर्थे, समुदायेन चेद् ब्रह्मचारी भण्यते। ब्रह्मचारीति त्रैवर्णिकोऽभिप्रेतः। स हि विद्याग्रहणार्थमुपनीतो ब्रह्म चरति, नियममासेवत इत्यर्थः। वर्णी, वर्णिनौ, वर्णिनः। ब्रह्मचारिणीति किम्? वर्णवान्। ब्राह्मणादयस्त्रयो वर्णा वर्णिन उच्यन्ते॥
पुष्करादिभ्यो देशे॥ ५.२.१३५॥
पुष्कर इत्येवमादिभ्यः प्रातिपदिकेभ्य इनिः प्रत्ययो भवति, समुदायेन चेद् देशोऽभिधीयते। पुष्करिणी। पद्मिनी। देश इति किम् ? पुष्करवान् हस्ती॥ इनिप्रकरणे बलाद् बाहूरुपूर्वादुपसंख्यानम्॥ बाहुबली। ऊरुबली॥ सर्वादेश्चेति वक्तव्यम्॥ सर्वधनी। सर्वबीजी। सर्वकेशी नटः॥ अर्थाच्चासन्निहिते॥ अर्थी। असन्निहित इति किम्? अर्थवान्॥ तदन्ताच्चेति वक्तव्यम्॥ धान्यार्थी। हिरण्यार्थी॥ पुष्कर। पद्म। उत्पल। तमाल। कुमुद। नड। कपित्थ। बिस। मृणाल। कर्दम। शालूक। विगर्ह। करीष। शिरीष। यवास। प्रवास। हिरण्य। पुष्करादिः॥
बलादिभ्यो मतुबन्यतरस्याम्॥ ५.२.१३६॥
बलादिभ्यः प्रातिपदिकेभ्यो मतुप् प्रत्ययो भवति। अन्यतरस्यांग्रहणेन प्रकृत इनिः समुच्चीयते। बलवान्, बली। उत्साहवान्, उत्साही॥ बल। उत्साह। उद्भाव। उद्वास। उद्वाम। शिखा। पूग। मूल। दंश। कुल। आयाम। व्यायाम। उपयाम। आरोह। अवरोह। परिणाह। युद्ध। बलादिः॥
संज्ञायां मन्माभ्याम्॥ ५.२.१३७॥
मन्नन्तात् प्रातिपदिकाद् मशब्दान्तात् चेनिः प्रत्ययो भवति मत्वर्थे, समुदायेन चेत् संज्ञा गम्यते। प्रथिमिनी। दामिनी। मशब्दान्तात्-होमिनी। सोमिनी। संज्ञायामिति किम्? सोमवान्। होमवान्॥
कंशंभ्यां बभयुस्तितुतयसः॥ ५.२.१३८॥
कम् शमिति मकारान्तावुदकसुखयोर्वाचकौ, ताभ्यां ब भ युस् ति तु त यस् इत्येते सप्त प्रत्यया भवन्ति मत्वर्थे। कम्बः। शम्बः। कम्भः। शम्भः। कंयुः। शंयुः। कन्तिः। शन्तिः। कन्तुः। शन्तुः। कन्तः। शन्तः। कंयः। शंयः। सकारः पदसंज्ञार्थः, तेनानुस्वारपरसवर्णौ सिद्धौ भवतः। संज्ञायां हि असत्यां कम्यः शम्य इति स्यात् ॥
तुन्दिबलिवटेर्भः॥ ५.२.१३९॥
तुन्दि बलि वटि इत्येतेभ्यो भः प्रत्ययो भवति मत्वर्थे। तुन्दिरिति वृद्धा नाभिरुच्यते, सास्यास्तीति तुन्दिभः। बलिभः। वटिभः। बलिशब्दः पामादिषु पठ्यते, तेन बलिन इत्यपि भवति॥
अहंशुभमोर्युस्॥ ५.२.१४०॥
अहमिति शब्दान्तरमहंकारे वर्तते, शुभमित्यव्ययं शुभपर्यायः, ताभ्यां युस् प्रत्ययो भवति मत्वर्थे। सकारः पदसंज्ञार्थः। अहंयुः। अहंकारवानित्यर्थः। शुभंयुः। कल्याणवानित्यर्थः॥
॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य द्वितीयःपादः॥