०४

प्राग्वहतेष्ठक्॥ ४.४.१॥

‘तद्वहति रथयुगप्रासङ्गम्’ (४.४.७६) इति वक्ष्यति। प्रागेतस्माद् वहतिसंशब्दनाद् यानर्थाननुक्रमिष्यामः, ठक् प्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति-‘तेन दीव्यति खनति जयति जितम्’ (४.४.२) इति। अक्षैर्दीव्यति आक्षिकः॥ ठक्प्रकरणे तदाहेति माशब्दादिभ्य उपसंख्यानम्॥ माशब्द इत्याह माशब्दिकः। नैत्यशब्दिकः। कार्यशब्दिकः। वाक्यादेतत् प्रत्ययविधानम्॥ आहौ प्रभूतादिभ्यः॥ प्रभूतमाह प्राभूतिकः। पार्याप्तिकः। क्रियाविशेषणात् प्रत्ययः॥ पृच्छतौ सुस्नातादिभ्यः॥ सुस्नातं पृच्छति सौस्नातिकः सौखरात्रिकः। सौखशायनिकः॥ गच्छतौ परदारादिभ्यः॥ परदारान् गच्छति पारदारिकः गोरुतल्पिकः॥

तेन दीव्यति खनति जयति जितम्॥ ४.४.२॥

तेनेति तृतीयासमर्थाद् दीव्यति खनति जयति जितमित्येतेष्वर्थेषु ठक् प्रत्ययो भवति। अक्षैर्दीव्यति आक्षिकः। शालाकिक ः। अभ्र्या खनति आभ्रिकः। कौद्दालिकः। अक्षैर्जयति आक्षिकः। अक्षैर्जितम् आक्षिकम्। शालाकिकम्। सर्वत्र करणे तृतीया समर्थविभक्तिः। देवदत्तेन जितमिति प्रत्ययो न भवति, अनभिधानात्। अङ्गुल्या खनतीति च। प्रत्ययार्थे संख्याकालयोरविवक्षा। क्रियाप्रधानत्वेऽपि चाख्यातस्य तद्धितः स्वभावात् साधनप्रधानः॥

संस्कृतम्॥ ४.४.३॥

तेनेति तृतीयासमर्थात् संस्कृतमित्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। सत उत्कर्षाधानं संस्कारः। दध्ना संस्कृतं दाधिकम्। शार्ङ्गवेरिकम्। मारिचिकम्। योगविभाग उत्तरार्थः॥

कुलत्थकोपधादण्॥ ४.४.४॥

कुलत्थशब्दात् ककारोपधाच् छब्दाच् च प्रातिपदिकादण् प्रत्ययो भवति संस्कृतमित्येतस्मिन् विषये। ठकोऽपवादः। कुलत्थैः संस्कृतं कौलत्थम्। ककारोपधात्- तैत्तिडीकम्। दार्दभकम्॥

तरति॥ ४.४.५॥

तेनेति तृतीयासमर्थात् तरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। तरति प्लवत इत्यर्थः। काण्डप्लवेन तरति काण्डप्लविकः। औडुपिकः॥

गोपुच्छाट् ठञ्॥ ४.४.६॥

गोपुच्छशब्दाट् ठञ् प्रत्ययो भवति तरतीत्येतस्मिन्नर्थे। ठकोऽपवादः। स्वरे विशेषः। गौपु॑च्छिकः॥

नौद्व्यचष्ठन्॥ ४.४.७॥

नौशब्दाद् द्व्यचश्च प्रातिपदिकाट् ठन् प्रत्ययो भवति तरतीत्येतस्मिन्नर्थे। ठकोऽपवादः। नावा तरति नाविकः। द्व्यचः खल्वपि-घटिकः। प्लविकः। बाहुकः। षकारः सांहितिको नानुबन्धः। बाहुका स्त्री।

आकर्षात् पर्पादेर्भस्त्रादिभ्यः कुसीदसूत्राच्च।

आवसथात् किशरादेः षितः षडेते ठगधिकारे॥

विधिवाक्यापेक्षं च षट्त्वम्, प्रत्ययास्तु सप्त॥

चरति॥ ४.४.८॥

तेनेति तृतीयासमर्थात् चरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। चरतिर्भक्षणे गतौ च वर्तते। दध्ना चरति दाधिकः। हास्तिकः। शाकटिकः॥

आकर्षात् ष्ठल्॥ ४.४.९॥

आकर्षशब्दात् ष्ठल् प्रत्ययो भवति चरतीत्येतस्मिन्नर्थे। ठकोऽपवादः। लकारः स्वरार्थः। षकारो ङीषर्थः। आकर्षेण चरति आकर्षिकः। आकर्षिकी। आकर्ष इति सुवर्णपरीक्षार्थो निकषोपल उच्यते॥

पर्पादिभ्यः ष्ठन्॥ ४.४.१०॥

पर्प इत्येवमादिभ्यः ष्ठन् प्रत्ययो भवति चरतीत्येतस्मिन्नर्थे। ठकोऽपवादः। नकारः स्वरार्थः। षकारो ङीषर्थः। पर्पिकः। पर्पिकी। अश्विकः। अश्विकी॥ पर्प। अश्व। अश्वत्थ। रथ। जाल। न्यास। व्याल। पादः पच्च (ग०सू० १०७)। पदिकः। पर्पादिः॥

श्वगणाट् ठञ् च॥ ४.४.११॥

श्वगणशब्दात् ठञ् प्रत्ययो भवति, चकारात् ष्ठन्, चरतीत्येतस्मिन्नर्थे। ठकोऽपवादः। श्वगणेन चरति श्वागणिकः। श्वागणिकी। ष्ठन्-श्वगणिकः। श्वगणिकी। श्वादेरिञि (७.३.८) इत्यत्र वक्ष्यति-‘इकारादिग्रहणं च कर्तव्यं श्वागणिकाद्यर्थम्’ (वा० ७.३.८) इति। तेन ठञि द्वारादिकार्यं न भवति॥

वेतनादिभ्यो जीवति॥ ४.४.१२॥

तेनेति तृतीयासमर्थेभ्यो वेतनादिभ्यः शब्देभ्यो जीवतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। वेतनेन जीवति वैतनिकः कर्मकरः। धनुर्दण्डग्रहणमत्र संघातविगृहीतार्थम्। धानुर्दण्डिकः। धानुष्कः। दाण्डिकः॥ वेतन। वाह। अर्धवाह। धनुर्दण्ड। जाल। वेस। उपवेस। प्रेषण। उपस्ति। सुख। शय्या। शक्ति। उपनिषत् । उपवेष। स्रक् । पाद। उपस्थान। वेतनादिः॥

वस्नक्रयविक्रयाट् ठन्॥ ४.४.१३॥

वस्नक्रयविक्रयशब्दाभ्यां तृतीयासमर्थाभ्यां ठन् प्रत्ययो भवति, जीवतीत्येतस्मिन् विषये। ठकोऽपवादः। वस्नेन जीवति वस्निकः। क्रयविक्रयग्रहणं संघातविगृहीतार्थम्। क्रयविक्रयिकः। क्रयिकः। विक्रयिकः॥

आयुधाच्छ च॥ ४.४.१४॥

आयुधशब्दाच् छप्रत्ययो भवति, चकारात् ठंश्च, जीवतीत्येतस्मिन् विषये। आयुधेन जीवति आयुधीयः। आयुधिकः॥

हरत्युत्सङ्गादिभ्यः॥ ४.४.१५॥

तेनेत्येव। उत्सङ्गादिभ्यस्तृतीयासमर्थेभ्यो हरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। हरतिर्देशान्तरप्रापणे वर्तते। उत्सङ्गेन हरति औत्सङ्गिकः। औडुपिकः॥ उत्सङ्ग। उडुप। उत्पत। पिटक। उत्सङ्गादिः॥

भस्त्रादिभ्यः ष्ठन्॥ ४.४.१६॥

भस्त्रेत्येवमादिभ्यस्तृतीयासमर्थेभ्यो हरतीत्येतस्मिन्नर्थे ष्ठन् प्रत्ययो भवति। भस्त्रया हरति भस्त्रिकः। भस्त्रिकी। भरटिकः। भरटिकी॥ भस्त्रा। भरट। भरण। शीर्षभार। शीर्षेभार। अंसभार। अंसेभार। भस्त्रादिः॥

विभाषा विवधवीवधात्॥ ४.४.१७॥

हरतीत्येव। विवधवीवधशब्दाभ्यां तृतीयासमर्थाभ्यां विभाषा ष्ठन् प्रत्ययो भवति। तेन मुक्ते प्रकृतष्ठग् भवति। विवधेन हरति विवधिकः। विवधिकी । वीवधिकः। वीवधिकी। ठक् खल्वपि-वैवधिकः। वैवधिकी। विवधवीवधशब्दौ समानार्थौ पथि पर्याहारे च वर्तेते॥

अण् कुटिलिकायाः॥ ४.४.१८॥

हरतीत्येव। कुटिलिकाशब्दात् तृतीयासमर्थादण् प्रत्ययो भवति हरतीत्येतस्मिन्नर्थे। कुटिलिकया हरति मृगो व्याधं कौटिलिको मृगः। कुटिलिकया हरत्यङ्गारान् कौटिलिकः कर्मारः। कुटिलिका वक्रगतिः, कर्माराणामायुधकर्षणी लोहमयी यष्टिश्चोच्यते॥

निर्वृत्तेऽक्षद्यूतादिभ्यः॥ ४.४.१९॥

तेनेत्येव। अक्षद्यूतादिभ्यस्तृतीयासमर्थेभ्यो निर्वृत्त इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। अक्षद्यूतेन निर्वृत्तम् आक्षद्यूतिकं वैरम्। जानुप्रहृतिकम्॥ अक्षद्यूत। जानुप्रहृत। जङ्घाप्रहृत। पादस्वेदन। कण्टकमर्दन। गतागत। यातोपयात। अनुगत। अक्षद्यूतादिः॥

त्रेर्मम् नित्यम्॥ ४.४.२०॥

निर्वृत्त इत्येव। ‘ड्वितः क्त्रिः’ (३.३.८८) इत्ययं त्रिशब्दो गृह्यते। त्र्यन्ताद् नित्यं मप् प्रत्ययो भवति तेन निर्वृत्त इत्येतस्मिन्नर्थे। ‘डुपचष् पाके’-पक्त्रिमम्। डुवप्-उप्त्रिमम्। डुकृञ्-कृत्रिमम्। नित्यग्रहणं स्वातन्त्र्यनिवृत्त्यर्थम्। तेन त्र्यन्तं नित्यं मप्प्रत्ययान्तमेव भवति, विषयान्तरे न प्रयोक्तव्यमिति॥ भावप्रत्ययान्तादिमब् वक्तव्यः॥ पाकेन निर्वृत्तं पाकिमम्। त्यागिमम् सेकिमम्। कुट्टिमम्॥

अपमित्ययाचिताभ्यां कक्क नौ॥ ४.४.२१॥

निर्वृत्त इत्येव। अपमित्ययाचितशब्दाभ्यां यथासंख्यं कक् कन् इत्येतौ प्रत्ययौ भवतो निर्वृत्त इत्येतस्मिन्नर्थे। आपमित्यकम्। याचितकम्॥

संसृष्टे॥ ४.४.२२॥

तेनेत्येव। तृतीयासमर्थात् संसृष्ट इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। संसृष्टमेकीभूतमभिन्नमित्यर्थः। दध्ना संसृष्टं दाधिकम्। मारिचिकम्। शार्ङ्गवेरिकम्। पैप्पलिकम्॥

चूर्णादिनिः॥ ४.४.२३॥

चूर्णशब्दादिनिः प्रत्ययो भवति संसृष्टे। ठकोऽपवादः। चूर्णैः संसृष्टाश्चूर्णिनोऽपूपाः चूर्णिनो धानाः॥

लवणाल्लुक् ॥ ४.४.२४॥

संसृष्ट इत्यनेनोत्पन्नस्य ठको लवणशब्दाद् लुग् भवति। लवणः सूपः। लवणं शाकम्। लवणा यवागूः। द्रव्यवाची लवणशब्दो लुकं प्रयोजयति, न गुणवाची॥

मुद्गादण्॥ ४.४.२५॥

मुद्गशब्दादण् प्रत्ययो भवति संसृष्ट इत्येतस्मिन् विषये। ठकोऽपवादः। मौद्ग। ओदनः। मौद्गी यवागूः॥

व्यञ्जनैरुपसिक्ते ॥ ४.४.२६॥

तेनेत्येव। व्यञ्जनवाचिभ्यः प्रातिपदिकेभ्यस्तृतीयासमर्थेभ्य उपसिक्त इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। दध्ना उपसिक्तं दाधिकम्। सौपिकम्। खारिकम्। व्यञ्जनैरिति किम् ? उदकेनोपसिक्त ओदनः॥

ओजः सहोऽम्भसा वर्तते॥ ४.४.२७॥

ओजस् सहस् अम्भस् इत्येतेभ्यस्तृतीयासमर्थेभ्यो वर्तत इत्यर्थे ठक् प्रत्ययो भवति। ओजसा वर्तत औजसिकः शूरः। साहसिकश्चौरः। आम्भसिको मत्स्यः॥

तत्प्रत्यनुपूर्वमीपलोमकूलम्॥ ४.४.२८॥

तदिति द्वितीयासमर्थविभक्तिः। प्रति अनु इत्येवंपूर्वेभ्य ईपलोमकूलशब्देभ्यो द्वितीयासमर्थेभ्यो वर्तत इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। ननु च वृतिरकर्मकः, तस्य कथं कर्मणा संबन्धः? क्रियाविशेषणमकर्मकाणामपि कर्म भवति। प्रतीपं वर्तते प्रातीपिकः। आन्वीपिकः। प्रातिलोमिकः। आनुलोमिकः। प्रातिकूलिकः। आनुकूलिकः॥

परिमुखं च॥ ४.४.२९॥

परिमुखशब्दाद् द्वितीयासमर्थाद् वर्तत इत्यस्मिन्नर्थे ठक् प्रत्ययो भवति। परिमुखं वर्तते पारिमुखिकः। चकारोऽनुक्तसमुच्चयार्थः। पारिपार्शि्वकः॥

प्रयच्छति गर्ह्यम्॥ ४.४.३०॥

तदिति द्वितीयासमर्थात् प्रयच्छतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति, यत् तद् द्वितीयासमर्थं गर्ह्यं चेत् तद् भवति। द्विगुणार्थं द्विगुणम्, तादर्थ्यात् ताच्छब्द्यम्। द्विगुणं प्रयच्छति द्वैगुणिकः। त्रैगुणिकः॥ वृद्धेर्वृधुषिभावो वक्तव्यः॥ वार्धुषिकः। प्रकृत्यन्तरं वा वृद्धिपर्यायो वृधुषिशब्दः। गर्ह्यमिति किम्? द्विगुणं प्रयच्छत्यधमर्णः॥

कुसीददशैकादशात् ष्ठन्ष्ठचौ॥ ४.४.३१॥

प्रयच्छति गर्ह्यमित्येव। कुसीदं वृद्धिः, तदर्थं द्रव्यं कुसीदम्। एकादशार्था दश दशैकादशशब्देनोच्यन्ते। कुसीददशैकादशब्दाभ्यां यथासंख्यं ष्ठन् ष्ठच् इत्येतौ प्रत्ययौ भवतः प्रयच्छति गर्ह्यमित्येतस्मिन् विषये। ठकोऽपवादौ। कुसीदं प्रयच्छति कुसीदिकः। कुसीदिकी। दशैकादशिकः। दशैकादशिकी॥

उञ्छति॥ ४.४.३२॥

तदिति द्वितीयासमर्थादुञ्छतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। बदराण्युञ्छति बादरिकः। श्यामाकिकः। भूमौ पतितस्यैकैकस्य कणस्योपादनमुञ्छः। कणानुञ्छति काणिकः॥

रक्षति॥ ४.४.३३॥

तदिति द्वितीयासमर्थाद् रक्षतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। समाजं रक्षति सामाजिकः। सांनिवेशिकः॥

शब्ददर्दुरं करोति॥ ४.४.३४॥

तदिति द्वितीयासमर्थाभ्यां शब्ददर्दुरशब्दाभ्यां करोतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। शब्दं करोति शाब्दिको वैयाकरणः। दार्दुरिकः कु म्भकारः॥

पक्षिमत्स्यमृगान् हन्ति॥ ४.४.३५॥

तदित्येव। पक्ष्यादिभ्यो द्वितीयासमर्थेभ्यो हन्तीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। स्वरूपस्य पर्यायाणां तद्विशेषाणां च ग्रहणमिहेष्यते। पक्षिणो हन्ति पाक्षिकः। शाकुनिकः। मायूरिकः। तैत्तिरिकः। मत्स्य-मात्स्यिकः। मैनिकः। शाफरिकः। शाकुलिकः। मृग-मार्गिकः। हारिणिकः। सौकरिकः। सारङ्गिकः॥

परिपन्थं च तिष्ठति॥ ४.४.३६॥

परिपन्थशब्दात् तदिति द्वितीयासमर्थात् तिष्ठतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। परिपन्थं तिष्ठति पारिपन्थिकश्चौरः। चकारो भिन्नक्रमः प्रत्ययार्थं समुच्चिनोति। परिपन्थं हन्ति पारिपन्थिकः। समर्थविभक्तिप्रकरणे पुनर्द्वितीयोच्चारणं लौकिकवाक्यप्रदर्शनार्थम्। परिपथशब्दपर्यायःपरिपन्थशब्दोऽस्तीति ज्ञापयति। स विषयान्तरेऽपि प्रयोक्तव्यः॥

माथोत्तरपदपदव्यनुपदं धावति॥ ४.४.३७॥

माथशब्दोत्तरपदात् प्रातिपदिकात् पदवी अनुपद इत्येताभ्यां च धावतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। दण्डमाथं धावति दाण्डमाथिकः। शौल्कमाथिकः। पादविकः। आनुपदिकः। माथशब्दः पथिपर्यायः॥

आक्रन्दाट् ठञ् च ॥ ४.४.३८॥

आक्रन्दन्त्येतस्मिन्नित्यक्रन्दो देशः। अथवाक्रन्द्यत इत्याक्रन्द आर्तायनमुच्यते। विशेषाभावाद् द्वयोरपि ग्रहणम्। आक्रन्दशब्दात् तदिति द्वितीयासमर्थाद् धावतीत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति, चकारात् ठक् च। स्वरे विशेषः। आक्रन्दं धावति आक्रन्दिकः। आक्रन्दिकी॥

पदोत्तरपदं गृह्णाति ॥ ४.४.३९॥

पदशब्द उत्तरपदं यस्य तस्मात् पदोत्तरपदशब्दात् तदिति द्वितीयासमर्थाद् गृह्णातीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। पूर्वपदं गृह्णाति पौर्वपदिकः। औत्तरपदिकः। पदान्तादिति नोक्तम्-बहुच्पूर्वान् मा भूदिति॥

प्रतिकण्ठार्थललामं च॥ ४.४.४०॥

प्रतिकण्ठार्थललामशब्देभ्यस्तदिति द्वितीयासमर्थेभ्यो गृह्णातीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः। आर्थिकः। लालामिकः॥

धर्मं चरति॥ ४.४.४१॥

धर्मशब्दात् तदिति द्वितीयासमर्थात् चरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। चरतिरासेवायां नानुष्ठानमात्रे। धर्मं चरति धार्मिकः॥ अधर्माच्चेति वक्तव्यम्॥ आधर्मिकः॥

प्रतिपथमेति ठंश्च॥ ४.४.४२॥

प्रतिपथशब्दाद् द्वितीयासमर्थाद् एतीत्यस्मिन्नर्थे ठन् प्रत्ययो भवति, चकारात् ठक् च। प्रतिपथमेति प्रतिपथिकः। प्रातिपथिकः॥

समवायान् समवैति॥ ४.४.४३॥

समवायवाचिभ्यः शब्देभ्यस्तदिति द्वितीयासमर्थेभ्यः समवैतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। समवायः समूह उच्यते, न संप्रधारणा। समवायानिति बहुवचनं स्वरूपविधिनिरासार्थम्। समवैति आगत्य तदेकदेशीभवतीत्यर्थः। समवायान् समवैति सामवायिक ः। सामाजिकः। सामूहिकः। सान्निवेशिकः॥

परिषदो ण्यः ॥ ४.४.४४॥

परिषदो ण्यः प्रत्ययो भवति समवायान् समवैतीत्येतस्मिन् विषये। ठकोऽपवादः। परिषदं समवैति पारिषद्यः॥

सेनाया वा ॥ ४.४.४५॥

सेनाशब्दाद् वा ण्यः प्रत्ययो भवति समवायान् समवैतीत्येतस्मिन्नर्थे। ठकोऽपवादः। पक्षे सोऽपि भवति। सेनां समवैति सैन्यः। सैनिकः॥

संज्ञायां ललाटकुक्कुट्यौ पश्यति ॥ ४.४.४६॥

ललाटकुक्कुटीशब्दाभ्यां तदिति द्वितीयासमर्थाभ्यांः पश्यतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति संज्ञायां विषये। संज्ञाग्रहणमभिधेयनियमार्थम्, न तु रूढ्यर्थम्। ललाटं पश्यति लालाटिकः सेवकः। कौक्कुटिको भिक्षुः। सर्वावयवेभ्यो ललाटं दूरे दृश्यते। तदनेन ललाटदर्शनेन सेवकस्य स्वामिनं प्रत्यनुपश्लेषः कार्येष्वनुपस्थायित्वं लक्ष्यते। लालाटिकः सेवकः। स्वामिनः कार्येषु नोपतिष्ठत इत्यर्थः। कुक्कुटीशब्देनापि कुक्कुटीपातो लक्ष्यते। देशस्याल्पतया हि भिक्षुरविक्षिप्तदृष्टिः पादविक्षेपदेशे चक्षुः संयम्य गच्छति, स उच्यते कौक्कुटिक इति॥

तस्य धर्म्यम् ॥ ४.४.४७॥

तस्येति षष्ठीसमर्थाद् धर्म्यमित्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। धर्म्यं न्याय्यम्, आचारयुक्तमित्यर्थः। शुल्कशालाया धर्म्यं शौल्कशालिकम्। आकरिकम्। आपणिकम्। गौल्मिकम्॥

अण् महिष्यादिभ्यः ॥ ४.४.४८॥

महिषीत्येवमादिभ्योऽण् प्रत्ययो भवति तस्य धर्म्यमित्येतस्मिन् विषये। ठकोऽपवादः। महिष्या धर्म्यं माहिषम्। प्राजावतम्॥ महिषी। प्रजावती। प्रलेपिका। विलेपिका। अनुलेपिका। पुरोहित। मणिपाली। अनुचारक। होतृ। यजमान। महिष्यादिः॥

ऋतोऽञ् ॥ ४.४.४९॥

ऋकारान्तात् प्रातिपदिकादञ् प्रत्ययो भवति तस्य धर्म्यमित्येतस्मिन् विषये। ठकोऽपवादः। पोतुर्धर्म्यं पौत्रम्। औद्गात्रम्। नराच्चेति वक्तव्यम्॥ नरस्य धर्म्या नारी॥ विशसितुरिड्लोपश्च॥ विशसितुर्धर्म्यं वैशस्त्रम्॥ विभाजयितुर्णिलोपश्च॥ विभाजयितुर्धर्म्यं वैभाजित्रम्॥

अवक्रयः ॥ ४.४.५०॥

तस्येत्येव। षष्ठीसमर्थादवक्रय इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। अवक्रीणीतेऽनेनेत्यवक्रयः, पिण्डक उच्यते। शुल्कशालाया अवक्रयः शौल्कशालिकः। आकरिकः। आपणिकः। गौल्मिकः। नन्ववक्रयोऽपि धर्म्यमेव? नैतदस्ति। लोकपीडया धर्मातिक्रमेणाप्यवक्रयो भवति॥

तदस्य पण्यम् ॥ ४.४.५१॥

तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं पण्यं चेत् तद् भवति। अपूपाः पण्यमस्य आपूपिकः। शाष्कुलिकः। मौदकिकः। पण्यमिति विशेषणं तद्धितवृत्तावन्तर्भूतम्, अतः पण्यशब्दो न प्रयुज्यते॥

लवणाट् ठञ् ॥ ४.४.५२॥

लवणशब्दाट् ठञ् प्रत्ययो भवति तदस्य पण्यमित्येतस्मिन् विषये। ठकोऽपवादः। स्वरे विशेषः। लवणं पण्यमस्य लावणिकः॥

किशरादिभ्यः ष्ठन् ॥ ४.४.५३॥

किशर इत्येवमादिभ्यः ष्ठन् प्रत्ययो भवति तदस्य पण्यमित्येतस्मिन् विषये। ठकोऽपवादः। किशरादयो गन्धविशेषवचनाः। किशराः पण्यमस्य किशरिकः। किशरिकी। नरदिकः। नरदिकी॥ किशर। नरद। नलद। सुमङ्गल। तगर। गुग्गुलु। उशीर। हरिद्रा। हरिद्रायणी। किशरादिः॥

शलालुनोऽन्यतरस्याम् ॥ ४.४.५४॥

शलालुशब्दान्यतरस्यां ष्ठन् प्रत्ययो भवति तदस्य पण्यमित्येतस्मिन् विषये। ठकोऽपवादः, पक्षे सोऽपि भवति। शलालुशब्दो गन्धविशेषवचनः। शलालु पण्यमस्य शलालुकः। शलालुकी। शालालुकः। शालालुकी॥

शिल्पम्॥ ४.४.५५॥

तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं शिल्पं चेत् तद् भवति। शिल्पं कौशलम्। मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः। पाणविकः। वैणिकः। मृदङ्गवादने वर्तमानो मृदङ्गशब्दः प्रत्ययमुत्पादयति। शिल्पं तद्धितवृत्तावन्तर्भवति॥

मड्डुकझर्झरादणन्यतरस्याम् ॥ ४.४.५६॥

मड्डुकझर्झरशब्दाभ्यामन्यतरस्यामण् प्रत्ययो भवति तदस्य शिल्पमित्येतस्मिन् विषये। ठकोऽपवादः। पक्षे सोऽपि भवति। मड्डुकवादनं शिल्पमस्य माड्डुकः, माड्डुकिकः। झार्झरः, झार्झरिकः॥

प्रहरणम्॥ ४.४.५७॥

तदस्येत्येव। तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं प्रहरणं चेत् तद् भवति। असिः प्रहरणमस्य आसिकः। प्रासिकः। चाक्रिकः। धानुष्कः॥

परश्वधाट् ठञ् च॥ ४.४.५८॥

परश्वधशब्दाट् ठञ् प्रत्ययो भवति, चकाराट् ठक्। स्वरे विशेषः। परश्वधः प्रहरणमस्य पारश्वधिकः॥

शक्तियष्ट्योरीकक्॥ ४.४.५९॥

शक्तियष्टिशब्दाभ्यामीकक् प्रत्ययो भवति तदस्य प्रहरणमित्येतस्मिन् विषये। ठकोऽपवादः। शक्तिः प्रहरणमस्य शाक्तीकः। याष्टीकः॥

अस्तिनास्तिदिष्टं मतिः ॥ ४.४.६०॥

तदस्येत्येव। तदिति प्रथमासमर्थेभ्योऽस्ति नास्ति दिष्ट इत्येतेभ्यः शब्देभ्योऽस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं मतिश्चेत् तद् भवति। अस्ति मतिरस्य आस्तिकः। नास्ति मतिरस्य नास्तिकः। दैष्टिकः। न च मतिसत्तामात्रे प्रत्यय इष्यते। किं तर्हि? परलोकोऽस्तीति यस्य मतिरस्ति, स आस्तिकः। तद्विपरीतो नास्तिकः। प्रमाणानुपातिनी यस्य मतिः स दैष्टिकः। तदेतदभिधानशक्तिस्वभावाल् लभ्यते। अस्तिनास्तिशब्दौ निपातौ, वचनसामर्थ्याद् वा आख्याताद् वाक्याच् च प्रत्ययः॥

शीलम् ॥ ४.४.६१॥

तदस्येत्येव। तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं शीलं चेत् तद् भवति। शीलं स्वभावः। अपूपभक्षणं शीलमस्य आपूपिकः। शाष्कुलिकः। मौदकिकः। भक्षणक्रिया तद्विशेषणं च शीलं तद्धितवृत्तावन्तर्भवति॥

छत्रादिभ्यो णः ॥ ४.४.६२॥

छत्र इत्येवमादिभ्यः प्रातिपदिकेभ्यो णः प्रत्ययो भवति तदस्य शीलमित्येतस्मिन् विषये। ठकोऽपवादः। छत्रं शीलमस्य छात्रः। छादनादावरणाच्छत्रम्। गुरुकार्येष्ववहितस्तच्छिद्रावरणप्रवृत्तश्छत्रशीलः शिष्यश्छात्रः। स्थाशब्दोऽत्र पठ्यते, स चोपसर्गपूर्वोऽत्र गृह्यते-आस्था संस्था अवस्थेति॥ छत्र। बुभुक्षा। शिक्षा। पुरोह। स्था। चुरा। उपस्थान। ऋषि। कर्मन्। विश्वधा। तपस्। सत्य। अनृत। शिबिका। छत्रादिः॥

कर्माध्ययने वृत्तम्॥ ४.४.६३॥

तदस्येत्येव। तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं कर्म चेद् तद्वृत्तमध्ययनविषयं भवति। एकमन्यदध्ययने कर्म वृत्तमस्य ऐकान्यिकः। द्वैयन्यिकः। त्रैयन्यिकः। एकमन्यदिति विगृह्य ‘तद्धितार्थो॰’ (२.१.५१) इति समासः। ततश्च ठक् प्रत्ययः। अध्ययने कर्म वृत्तमित्येतत् सर्वं तद्धितवृत्तावन्तर्भवति। यस्याध्ययनप्रयुक्तस्य परीक्षाकाले पठतः स्खलितमपपाठरूपमेकं जातम्, स उच्यत ऐकान्यिक इति। एवं द्वैयन्यिकः, त्रैयन्यिक इति॥

बह्वच्पूर्वपदाट् ठच्॥ ४.४.६४॥

बह्वच् पूर्वपदं यस्य तस्माद् बह्वच्पूर्वपदात् प्रातिपदिकात् ठच् प्रत्ययो भवति। तदस्य कर्माध्ययने वृत्तमित्येतस्मिन्नर्थे। ठकोऽपवादः। द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वादशान्यिकः। त्रयोदशान्यिकः। चतुर्दशान्यिक इति। चतुर्दशापपाठा अस्य जाता इत्यर्थः। उदात्ते कर्तव्ये योऽनुदात्तं करोति, स उच्यतेऽन्यत् त्वं करोषीति॥

हितं भक्षाः॥ ४.४.६५॥

तदस्येत्येव। तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं हितं चेत् तद् भवति, तच्च भक्षाः। ननु च हितयोगे चतुर्थ्या भवितव्यम्, तत्र कथं षष्ठ्यर्थे प्रत्ययो विधीयते? एवं तर्हि सामर्थ्याद् विभक्तिविपरिणामो भविष्यति। अपूपभक्षणं हितमस्मै आपूपिकः। शाष्कुलिकः। मौदकिकः। हितार्थक्रिया च तद्धितवृत्तावन्तर्भवति॥

तदस्मै दीयते नियुक्तम्॥ ४.४.६६॥

तदिति प्रथमासमर्थाद् अस्मा इति चतुर्थ्यर्थे ठक् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं तच्चेद् दीयते नियुक्तम्। नियोगेनाव्यभिचारेण दीयत इत्यर्थः। अव्यभिचारो नियोगः। अग्रे भोजनमस्मै नियुक्तं दीयत आग्रभोजनिकः। आपूपिकः। शाष्कुलिकः। केचित् तु नियुक्तं नित्यमाहुः। अपूपा नित्यमस्मै दीयन्त आपूपिकः॥

श्राणामांसौदनाट् टिठन्॥ ४.४.६७॥

श्राणामांसौदनशब्दाभ्यां टिठन् प्रत्ययो भवति तदस्मै दीयते नियुक्तमित्येतस्मिन्नर्थे। ठकोऽपवादः। इकार उच्चारणार्थः। टकारो ङीबर्थः। श्राणा नियुक्तमस्मै दीयते श्राणिकः। श्राणिकी। मांसौदनिकः। मांसौदनिकी। अथ ठञेव कस्माद् नोक्तः, न ह्यत्र ठञष्टिठनो वा विशेषोऽस्ति? मांसौदनग्रहणं संघातविगृहीतार्थं केचिदिच्छन्ति। तत्र वृद्ध्यभावो विशेषः। ओदनिकः। ओदनिकी॥

भक्तादणन्यतरस्याम्॥ ४.४.६८॥

भक्तशब्दादण् प्रत्ययो भवत्यन्यतरस्यां तदस्मै दीयते नियुक्तमित्येतस्मिन् विषये। ठकोऽपवादः। पक्षे सोऽपि भवति। भक्तमस्मै दीयते नियुक्तं भाक्तः, भाक्तिकः॥

तत्र नियुक्तः॥ ४.४.६९॥

तत्रेति सप्तमीसमर्थाद् नियुक्त इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। नियुक्त ोऽधिकृतो व्यापारित इत्यर्थः। शुल्कशालायां नियुक्तः शौल्कशालिकः। आकरिकः। आपणिकः। गौल्मिकः। दौवारिकः॥

अगारान्ताट् ठन् ॥ ४.४.७०॥

अगारशब्दान्तात् प्रातिपदिकात् ठन् प्रत्ययो भवति तत्र नियुक्त इत्येतस्मिन् विषये। ठकोऽपवादः। देवागारे नियुक्तो देवागारिकः। कोष्ठागारिकः। भाण्डागारिकः॥

अध्यायिन्यदेशकालात् ॥ ४.४.७१॥

तत्रेत्येव। सप्तमीसमर्थाददेशवाचिनः प्रातिपदिकादकालवाचिनश्चाध्यायिन्यभिधेये ठक् प्रत्ययो भवति। अध्ययनस्य यौ देशकालौ शास्त्रेण प्रतिषिद्धौ तावदेशकालशब्देनोच्येते, तत इदं प्रत्ययविधानम्। श्मशानेऽधीते श्माशानिकः। चातुष्पथिकः। अकालात्-चतुर्दश्यामधीते चातुर्दशिकः। आमावास्यिकः। अदेशकालादिति किम्? स्रुघ्नेऽधीते। पूर्वाह्णेऽधीते॥

कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ॥ ४.४.७२॥

तत्रेत्येव। कठिनशब्दान्तात् सप्तमीसमर्थात् प्रस्तारसंस्थानशब्दाभ्यां च ठक् प्रत्ययो भवति व्यवहरतीत्येतस्मिन्नर्थे। व्यवहारः क्रियातत्त्वम्, यथा लौकिकव्यवहार इति। वंशकठिने व्यवहरति वांशकठिनिकः चक्रचरः। वार्ध्रकठिनिकः। प्रास्तारिकः। सांस्थानिकः॥

निकटे वसति ॥ ४.४.७३॥

निकटशब्दात् सप्तमीसमर्थाद् वसतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। यस्य शास्त्रतो निकटवासस्तत्रायं विधिः। आरण्यकेन भिक्षुणा ग्रामात् क्रोशे वस्तव्यमिति शास्त्रम्। निकटे वसति नैकटिको भिक्षुः॥

आवसथात् ष्ठल् ॥ ४.४.७४॥

तत्रेत्येव। आवसथशब्दात् सप्तमीसमर्थाद् वसतीत्येतस्मिन्नर्थे ष्ठल्प्रत्ययो भवति। लकारः स्वरार्थः। षकारो ङीषर्थः। आवसथे वसति आवसथिकः। आवसथिकी। ठकः पूर्णोऽवधिः, अतः परमन्यः प्रत्ययो विधीयते॥

प्राग्घिताद् यत् ॥ ४.४.७५॥

‘तस्मै हितम्’(५.१.५) इति वक्ष्यति। प्रागेतस्माद् हितसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामो यत्प्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति-‘तद्वहति रथयुगप्रासङ्गम्’ (४.४.७६)-रथ्यः। युग्यः। प्रासङ्ग्यः॥

तद् वहति रथयुगप्रासङ्गम्॥ ४.४.७६॥

तदिति द्वितीयासमर्थेभ्यो रथयुगप्रासङ्गेभ्यो वहतीत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। रथं वहति रथ्यः। युग्यः। प्रासङ्ग्यः। ‘रथसीताहलेभ्यो यद्विधौ’(१.१.७२ महाभाष्यवा॰) इति तदन्तविध्युपसंख्यानात् परमरथ्य इत्यपि भवति॥

धुरो यड्ढकौ॥ ४.४.७७॥

तद् वहतीत्येव। धुर् इत्येतस्माद् द्वितीयासमर्थाद् वहतीत्येतस्मिन्नर्थे यत् ढक् इत्येतौ प्रत्ययौ भवतः। धुरं वहतीति धुर्यः। धौरेयः॥

खःसर्वधुरात्॥ ४.४.७८॥

तद् वहतीत्येव। सर्वधुराशब्दाद् द्वितीयासमर्थाद् वहतीत्येतस्मिन्नर्थे खः प्रत्ययो भवति। सर्वधुरां वहति सर्वधुरीणः। स्त्रीलिङ्गे न्याय्ये सर्वधुरादिति प्रातिपदिकमात्रापेक्षो निर्देशः। ख इति योगविभागः कर्तव्य इष्टसंग्रहार्थः। उत्तरधुरीणः। दक्षिणधुरीणः॥

एकधुराल्लुक् च॥ ४.४.७९॥

तद् वहतीत्येव। एकधुराशब्दाद् द्वितीयासमर्थाद् वहतीत्येतस्मिन्नर्थे खः प्रत्ययो भवति, तस्य च लुग् भवति। वचनसामर्थ्यात् पक्षे लुग् विधीयते। एकधुरां वहति एकधुरीणः। एकधुरः॥

शकटादण् ॥ ४.४.८०॥

तद् वहतीत्येव। शकटशब्दाद् द्वितीयासमर्थाद् वहतीत्येतस्मिन्नर्थेऽण् प्रत्ययो भवति। शकटं वहति शाकटो गौः॥

हलसीराट् ठक् ॥ ४.४.८१॥

तद् वहतीत्येव। हलसीरशब्दाभ्यां द्वितीयासमर्थाभ्यां वहतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। हलं वहति हालिकः। सैरिकः॥

संज्ञायां जन्याः ॥ ४.४.८२॥

तद् वहतीत्येव। जनीशब्दाद् द्वितीयासमर्थाद् वहतीत्येतस्मिन्नर्थे यत् प्रत्ययो भवति, समुदायेन चेत् संज्ञा गम्यते। जनीं वहति जन्या, जामातुर्वयस्या। सा हि विहारादिषु जामातृसमीपं प्रापयति। जनी वधूरुच्यते॥

विध्यत्यधनुषा ॥ ४.४.८३॥

तदिति द्वितीयासमर्थाद् विध्यतीत्येतस्मिन्नर्थे यत् प्रत्ययो भवति, न चेद् धनुष् करणं भवति। पादौ विध्यन्ति पद्याः शर्कराः। ऊरव्याः कण्टकाः। अधनुषेति। किम् ? पादौ विध्यति धनुषा। नन्वसमर्थत्वादनभिधानात् च प्रत्ययो न भवति, नहि धनुषा पद्य इत्युक्ते विवक्षितोऽर्थः प्रतीयते? एवं तर्हि धनुष्प्रतिषेधेन व्यधनक्रिया विशेष्यते-यस्यां धनुष्करणं न संभाव्यत इति। तेनेह न भवति-चौरं विध्यति, शत्रुं विध्यति देवदत्त इति॥

धनगणं लब्धा ॥ ४.४.८४॥

तदित्येव। धनगणशब्दाभ्यां द्वितीयासमर्थाभ्यां लब्धेत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। धन्यः। गण्यः। लब्धेति तृन्नन्तम्, तेन द्वितीया समर्था विभक्तिर्युज्यते॥

अन्नाण् णः ॥ ४.४.८५॥

अन्नशब्दात् तदिति द्वितीयासमर्थात् लब्धेत्येतस्मिन्नर्थे णः प्रत्ययो भवति। अन्नं लब्धा आन्नः॥

वशं गतः ॥ ४.४.८६॥

वशशब्दात् तदिति द्वितीयासमर्थात् गत इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। वशं गतो वश्यः। कामप्राप्तो विधेय इत्यर्थः॥

पदमस्मिन् दृश्यम् ॥ ४.४.८७॥

निर्देशादेव प्रथमा समर्थविभिक्तिः। पदशब्दात् प्रथमासमर्थाद् दृश्यार्थोपाधिकादस्मिन्निति सप्तम्यर्थे यत् प्रत्ययो भवति। पदं दृश्यमस्मिन् पद्यः कर्दमः। पद्याः पांसवः। शक्यार्थे कृत्यप्रत्ययः। शक्यते। यस्मिन् पदं द्रष्टुं प्रतिमुद्रोत्पादनेन, स पद्यः कर्दमः। कर्दमस्यावस्थोच्यते नातिद्रवो नातिशुष्क इति॥

मूलमस्याबर्हि॥ ४.४.८८॥

मूलशब्दात् प्रथमासमर्थादाबर्हीत्येवमुपाधिकादस्येति षष्ठ्यर्थे यत् प्रत्ययो भवति। मूलमेषामाबर्हि मूल्या माषाः। मूल्या मुद्गाः। ‘वृहू उद्यमने’, येषां मूलमावृह्यत उत्पाट्यते, ते मूल्याः, सुष्ठु निष्पन्नाः। मूलोत्पाटनेन विना ग्रहीतुं न शक्यन्त इत्यर्थः॥

संज्ञायां धेनुष्या॥ ४.४.८९॥

धेनुष्येति निपात्यते संज्ञायां विषये। संज्ञाग्रहणमभिधेयनियमार्थम्। धेनोः षुगागमो यश्च प्रत्ययो निपात्यते। अन्तोदात्तोऽपि ह्ययमिष्यते। या धेनुरुत्तमर्णाय ऋणप्रदानाद् दोहनार्थं दीयते सा धेनुष्या। पीतदुग्धेति यस्याः प्रसिद्धिः। धेनुष्यां भवते ददामि॥

गृहपतिना संयुक्ते ञ्यः॥ ४.४.९०॥

निर्देशादेव तृतीयासमर्थविभक्तिः। गृहपतिशब्दात् तृतीयासमर्थात् संयुक्त इत्येतस्मिन्नर्थे ञ्यः प्रत्ययो भवति। गृहपतिना संयुक्तो गार्हपत्योऽग्निः। अन्यस्यापि गृहपतिना संयोगोऽस्ति, तत्र संज्ञाधिकारादतिप्रसङ्गनिवृत्तिः॥

नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमित-संमितेषु॥ ४.४.९१॥

नावादिभ्योऽष्टभ्यः शब्देभ्योऽष्टस्वेव तार्यादिष्वर्थेषु यथासंख्यं यत् प्रत्ययो भवति। प्रत्ययार्थद्वारेण तृतीयासमर्थविभक्तिर्लभ्यते। नावा तार्यं नाव्यमुदकम्। नाव्या नदी। शक्यार्थे कृत्यः। वयसा तुल्यो वयस्यः सखा। संज्ञाधिकारोऽभिधेयनियमार्थः। तेन वयसा तुल्ये शत्रौ न भवति। धर्मेण प्राप्यं धर्म्यम्। ननु च ‘धर्मादनपेते’(४.४.९२) इति वक्ष्यमाणेनैव सिद्धम्? नैतदस्ति। धर्मं यदनुवर्तते तद् धर्मादनपेतमित्युच्यते। फलं तु धर्मादपेत्यैव, कार्यविरोधित्वाद् धर्मस्य। विषेण वध्यो विष्यः। विषेण वधमर्हतीत्यर्थः। मूलेनानाम्यं मूल्यम्। आनाम्यमभिभवनीयम्। पटादीनामुत्पत्तिकारणं मूलम्, तेन तदभिभूयते शेषीक्रियते। मूल्यं हि सगुणं मूलं करोति। ‘पोरदुपधात्’ (३.१.९८) इति यति प्राप्त आनाम्यमिति निपातनाद् ण्यत्। मूलेन समो मूल्यः पटः। उपादानेन समानफल इत्यर्थः। सीतया समितं सीत्यं क्षेत्रम्। समितं संगतमित्यर्थः। ‘रथसीताहलेभ्यो यद्विधौ’(महाभाष्यवा० १.१.७२) इति तदन्तविधिरपीष्यते। परमसीत्यम्। उत्तमसीत्यम्। द्विसीत्यम्। त्रिसीत्यम्। तुलया संमितं तुल्यम्। संमितं समानं सदृशमित्यर्थः। यथा तुला परिच्छिनत्ति परम्, एवं तदपीति॥

धर्मपथ्यर्थन्यायादनपेते॥ ४.४.९२॥

निर्देशादेव पञ्चमी समर्थविभक्तिः। धर्मादिभ्यः पञ्चमीसमर्थेभ्योऽनपेत इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। धर्मादनपेतं धर्म्यम्। पथ्यम्। अर्थ्यम्। न्याय्यम्। संज्ञाधिकारादभिधेयनियमः॥

छन्दसो निर्मिते॥ ४.४.९३॥

प्रत्ययार्थसामर्थ्यलभ्या समर्थविभक्तिः। छन्दः शब्दात् तृतीयासमर्थाद् निर्मित इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। निर्मित उत्पादितः। छन्दसा निर्मितश्छन्दस्यः। इच्छया कृत इत्यर्थः। इच्छापर्यायश्छन्दः शब्द इह गृह्यते॥

उरसोऽण् च॥ ४.४.९४॥

उरःशब्दात् तृतीयासमर्थाद् निर्मित इत्येतस्मिन्नर्थेऽण् प्रत्ययो भवति, चकाराद् यत् च। उरसा निर्मित औरसः पुत्रः। उरस्यः पुत्रः। संज्ञाधिकारादभिधेयनियमः॥

हृदयस्य प्रियः॥ ४.४.९५॥

निर्देशादेव समर्थविभक्तिः। हृदयशब्दात् षष्ठीसमर्थात् प्रिय इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। हृदयस्य प्रियो हृद्यो देशः। हृद्यं वनम्। संज्ञाधिकारादभिधेयनियमः। इह न भवति-हृदयस्य प्रियः पुत्र इति॥

बन्धने चर्षौ॥ ४.४.९६॥

हृदयस्येत्येव। बन्धन इति प्रत्ययार्थः। तद्विशेषणमृषिग्रहणम्। बध्यते येन तद् बन्धनम्। हृदयशब्दात् षष्ठीसमर्थाद् बन्धन ऋषावभिधेये यत् प्रत्ययो भवति। ऋषिर्वेदो गृह्यते। हृदयस्य बन्धनमृषिर्हृद्यः। परहृदयं येन बध्यते वशीक्रियते, स वशीकरणमन्त्रो हृद्य इत्युच्यते॥

मतजनहलात् करणजल्पकर्षेषु॥ ४.४.९७॥

मतादिभ्यस्त्रिभ्यः शब्देभ्यस्त्रिष्वेव करणादिष्वर्थेषु यथासंख्यं यत् प्रत्ययो भवति। प्रत्ययार्थसामर्थ्याद् लब्धा षष्ठी समर्थविभक्तिः। मतं ज्ञानं तस्य करणं मत्यम्। भावसाधनं वा। जनस्य जल्पो जन्यः। हलस्य कर्षो हल्यः। द्विहल्यः। त्रिहल्यः। कर्षणं कर्षः। भावसाधनं वा॥

तत्र साधुः॥ ४.४.९८॥

तत्रेति सप्तमीसमर्थात् साधुरित्येतस्मिन्नर्थे यत् प्रत्ययो भवति। सामसु साधुः सामन्यः। वेमन्यः। कर्मण्यः। शरण्यः। साधुरिह प्रवीणो योग्यो वा गृह्यते, नोपकारकः। तत्र हि परत्वात् ‘तस्मै हितम्’ (५.१.५) इत्यनेन विधिना भवितव्यम्॥

प्रतिजनादिभ्यः खञ्॥ ४.४.९९॥

प्रतिजनादिभ्यः शब्देभ्यः खञ् प्रत्ययो भवति तत्र साधुरित्येतस्मिन्नर्थे। यतोऽपवादः। प्रतिजने साधुः प्रातिजनीनः। जनेजने साधुरित्यर्थः। ऐदंयुगीनः। सांयुगीनः॥ प्रतिजन। इदंयुग। संयुग। समयुग। परयुग। परकुल। परस्यकुल। अमुष्यकुल। सर्वजन। विश्वजन। पञ्चजन। महाजन। प्रतिजनादिः। यत्र हितार्थ एव साध्वर्थस्तत्र वचनात् प्राक् क्रीतीया बाध्यन्ते॥

भक्ताण् णः॥ ४.४.१००॥

भक्तशब्दाद् णः प्रत्ययो भवति तत्र साधुरित्येतस्मिन् विषये। यतोऽपवादः। भक्ते साधुर्भाक्तः शालिः। भाक्तास्तण्डुलाः॥

परिषदो ण्यः॥ ४.४.१०१॥

परिषच्छब्दाद् ण्यः प्रत्ययो भवति तत्र साधुरित्येतस्मिन् विषये। यतोऽपवादः। परिषदि साधुः पारिषद्यः। णप्रत्ययोऽप्यत्रेष्यते। तदर्थं योगविभागः क्रियते। परिषदो णो भवति। परिषदि साधुः पारिषदः। ततो ण्यः। परिषद इत्येव॥

कथादिभ्यष्ठक्॥ ४.४.१०२॥

कथादिभ्यःशब्देभ्यष्ठक् प्रत्ययो भवति तत्र साधुरित्येतस्मिन् विषये। यतोऽपवादः। कथायां साधुः काथिकः। वैकथिकः॥ कथा। विकथा। वितण्डा। कुष्टचित्। जनवाद। जनेवाद। वृत्ति। सद्गृह। गुण। गण। आयुर्वेद। कथादिः॥

गुडादिभ्यष्ठञ्॥ ४.४.१०३॥

गुडादिभ्यः शब्देभ्यष्ठञ्प्रत्ययो भवति तत्र साधुरित्येतस्मिन् विषये। यतोऽपवादः। गुडे साधुर्गौडिक इक्षुः। कौल्माषिको मुद्गः। साक्तुको यवः॥ गुड। कुल्माष। सक्तु। अपूप। मांसौदन। इक्षु। वेणु। संग्राम। संघात। प्रवास। निवास। उपवास। गुडादिः॥

पथ्यतिथिवसतिस्वपतेर्ढञ्॥ ४.४.१०४॥

पथ्यादिभ्यः शब्देभ्यो ढञ्प्रत्ययो भवति तत्र साधुरित्येतस्मिन् विषये। यतोऽपवादः। पथि साधु पाथेयम्। आतिथेयम्। वासतेयम्। स्वापतेयम्॥

सभाया यः॥ ४.४.१०५॥

सभाशब्दाद् यःप्रत्ययो भवति तत्र साधुरित्येतस्मिन् विषये। यतोऽपवादः। स्वरे विशेषः। सभायां साधुः सभ्यः॥

ढश्छन्दसि॥ ४.४.१०६॥

सभाशब्दाद् ढःप्रत्ययो भवति तत्र साधुरित्येतस्मिन् विषये छन्दसि। यस्याऽपवादः। स॒भेयो॒ युवास्य॒ यज॑मानस्य वी॒रो जा॑यताम् (मा०सं०२२.२२)॥

समानतीर्थे वासी॥ ४.४.१०७॥

साधुरिति निवृत्तम्। वासीति प्रत्ययार्थः। समानतीर्थशब्दात् तत्रेति सप्तमीसमर्थाद् वासीत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। समाने तीर्थे वासीति सतीर्थ्यः। समानोपाध्याय इत्यर्थः। तीर्थशब्देनेह गुरुरुच्यते॥

समानोदरे शयित ओ चोदात्तः ॥ ४.४.१०८॥

समानोदरशब्दात् सप्तमीसमर्थात् शयित इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति, ओकारश्चोदात्तः। शयितः स्थित इत्यर्थः। समानोदरे शयितः समानोदर्यो भ्राता॥

सोदराद् यः ॥ ४.४.१०९॥

सोदरशब्दात् सप्तमीसमर्थात् शयित इत्येतस्मिन्नर्थे यः प्रत्ययो भवति। ‘विभाषोदरे’ (६.३.८८) इति सूत्रेण यकारादौ प्रत्यये विवक्षिते प्रागेव समानस्य सभावः। समानोदरे शयितः सोदर्यो भ्राता। ओ चोदात्तः (४.४.१०८) इति नानुवर्तते। यकारे स्वरः॥

भवे छन्दसि ॥ ४.४.११०॥

तत्रेत्येव। सप्तमीसमर्थाद् भव इत्येतस्मिन्नर्थे छन्दसि विषये यत् प्रत्ययो भवति। अणादीनां घादीनां चापवादः। सति दर्शने तेऽपि भवन्ति सर्वविधीनां छन्दसि व्यभिचारात्। नमो॑ मे॒घ्या॑य च विद्यु॒त्या॑य च॒ नमः॑ (तै०सं०४.५.७.२)। आ पादपरिसमाप्तेश्छन्दोऽधिकारः, भवाधिकारश्च ‘समुद्राभ्राद् घः’ (४.४.११८) इति यावत्॥

पाथोनदीभ्यां ड्यण् ॥ ४.४.१११॥

पाथःशब्दाद् नदीशब्दात् च ड्यण् प्रत्ययो भवति तत्र भव इत्येतस्मिन्नर्थे। यतोऽपवादः। पाथसि भवः पा॒थ्यो॒ वृषा॒ (ऋ०६.१६.१५)। चनो॑ दधीत ना॒द्यो गिरो॑ मे (ऋ० २.३५.१)। पाथोऽन्तरिक्षम्॥

वेशन्तहिमवद्भ्यामण् ॥ ४.४.११२॥

वेशन्तशब्दाद् हिमवच्छब्दात् चाण् प्रत्ययो भवति, तत्र भव इत्येतस्मिन् विषये। यतोऽपवादः। वैश॒न्तीभ्यः॒ स्वाहा॑ (तै०सं० ७.४.१३.९)। हैमव॒तीभ्यः॒ स्वाहा॑ (तु०-शौ०सं० १९.२.१)॥

स्रोतसो विभाषा ड्यड्ड्यौ॥ ४.४.११३॥

स्रोतस्शब्दाद् विभाषा ड्यत् ड्य इत्येतौ प्रत्ययौ भवतस्तत्र भव इत्येतस्मिन् विषये। यतोऽपवादः। पक्षे सोऽपि भवति। स्रोतसि भवः स्रो॒त्यः (ऋ०१०.१०४.८)। स्रो॑त॒स्यः (शौ०सं० १९.२.४)। ड्यड्ड्ययोः स्वरे विशेषः॥

सगर्भसयूथसनुताद् यन्॥ ४.४.११४॥

सगर्भसयूथसनुतशब्देभ्यो यन् प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। यतोऽपवादः। स्वरे विशेषः। अनु॒ भ्राता॒ सग॒र्भ्यः॒ (मा०सं०४.२०)। अनु॒ सखा॒ सयू॑थ्यः (तै०सं०१.२.४.२)। यो नः॒ सनु॑त्यः (ऋ०२.३०.९)। सर्वत्र ‘समानस्य छन्दस्य०’ (६.३.८४) इति सभावः॥

तुग्राद् घन्॥ ४.४.११५॥

तुग्रशब्दाद् घन् प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। यतोऽपवादः। त्वमग्ने वृषभस्तुग्रियाणाम्। अन्नाकाशयज्ञवरिष्ठेषु तुग्रशब्दः॥

अग्राद् यत् ॥ ४.४.११६॥

अग्रशब्दाद् यत् प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। अग्रे भवम् अग्र्य॑म् (मा०सं०१६.३०)। किमर्थमिदं यावता सामान्येन यद् विहित एव? ‘घच्छौ च’ (४.४.११७) इति वक्ष्यति, ताभ्यां बाधा मा भूदिति पुनर्विधीयते॥

घच्छौ च॥ ४.४.११७॥

अग्रशब्दाद् यत् घच्छौ च प्रत्यया भवन्ति तत्र भव इत्येतस्मिन् विषये। अग्र्य॑म् (खि०१.३.७)। अग्रि॒यम् (ऋ०१.१३.१०)। अ॑ग्री॒यम् (मै०सं०२.७.१३)। चकारः ‘तुग्राद् घन्’(४.४.११५) इत्यस्यानुकर्षणार्थः। अग्रि॑यम्। स्वरे विशेषः॥

समुद्राभ्राद् घः॥ ४.४.११८॥

समुद्र्रशब्दादभ्रशब्दात् च घः प्रत्ययो भवति तत्र भव इत्येतस्मिन्नर्थे। यतोऽपवादः। समु॒द्रिया॑ न॒दीना॑म् (ऋ०७.८७.१)। अ॒भ्रिय॑स्येव॒ घोषाः॑ (ऋ०१०.६८.१)। अभ्रशब्दस्यापूर्वनिपातः, तस्य लक्षणस्य व्यभिचारित्वात्॥

बर्हिषि दत्तम्॥ ४.४.११९॥

भव इति निवृत्तम्। बर्हिःशब्दात् सप्तमीसमर्थाद् दत्तमित्येतस्मिन्नर्थे यत् प्रत्ययो भवति। बर्हि॒ष्ये॑षु नि॒धिषु॑ पि्॒रयेषु॑ (ऋ०१०.१५.५)॥

दूतस्य भागकर्मणी॥ ४.४.१२०॥

निर्देशादेव समर्थविभक्तिः। दूतशब्दात् षष्ठीसमर्थाद् भागे कर्मणि चाभिधेये यत् प्रत्ययो भवति। भागोंऽशः। कर्म क्रिया। यद॑ग्ने॒ यासि॑ दू॒त्य॑म् (ऋ०१.१२.४)। दूतभागः, दूतकर्म वा॥

रक्षोयातूनां हननी॥ ४.४.१२१॥

निर्देशादेव समर्थविभक्तिः। रक्षःशब्दाद् यातुशब्दात् च षष्ठीसमर्थाद् हननीत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। हन्यतेऽनयेति हननी। या॑ वां॒ मित्रावरुणौ रक्ष॒स्या त॒नूः॑ (मै०सं०२.३.१)। रक्षसां हननी। यात॒व्या (मै०सं०२.३.१)। यातूनां हननी। बहुवचनं स्तुतिवैशिष्ट्यज्ञापनार्थम्। बहूनां रक्षसां हननेन तनूः स्तूयते॥

रेवतीजगतीहविष्याभ्यः प्रशस्ये॥ ४.४.१२२॥

रेवत्यादिभ्यः षष्ठीसमर्थेभ्यः प्रशस्ये वाच्ये यत् प्रत्ययो भवति। प्रशंसनं प्रशस्यम्। भावे क्यप् प्रत्ययो भवति। यद्वो रेवती रेवत्यम् (काठ०सं०१.८)। यद्वो जगतीर्जगत्यम् (काठ०सं०१.८)। यद्वो हविष्या हविष्यम् (काठ०सं०१.८)। हविषे हिता हविष्याः, तासां प्रशंसनं हविष्यम्। ‘यस्येति च’ (६.४.१४८) इति लोपे कृते ‘हलो यमां यमि लोपः’ (८.४.६४) इति लोपः॥

असुरस्य स्वम्॥ ४.४.१२३॥

असुरशब्दात् षष्ठीसमर्थात् स्वमित्येतस्मिन्नर्थे यत् प्रत्ययो भवति। अणोऽपवादः। असु॒३र्यं॒ वा॑ ए॒त॑त्पा॑त्रं॒ य॑त् कु॑ला॒लकृतम् च॒क्॑रवृ॒त्तम् (मै०सं०१.८.३)॥

मायायामण्॥ ४.४.१२४॥

असुरशब्दात् षष्ठीसमर्थाद् मायायां स्वविशेषेऽण् प्रत्ययो भवति। पूर्वस्य यतोऽपवादः। आसु॒री मा॒या स्व॒धया॑ कृ॒तासि॑ (मा०सं०११.६९)॥

तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः॥ ४.४.१२५॥

तद्वानिति निर्देशादेव समर्थविभक्तिः। मतुबन्तात् प्रातिपदिकात् प्रथमासमर्थादासामिति षष्ठ्यर्थे यत् प्रत्ययो भवति, यत् प्रथमासमर्थमुपधानो मन्त्रश्चेत् स भवति, यत् तदासामिति निर्दिष्टमिष्टकाश्चेत् ता भवन्ति। लुक् च मतोरिति प्रकृतिनिर्ह्रासः। इतिकरणस्ततश्चेद् विवक्षा। तद्वानित्यवयवेन समुदायो निर्दिश्यते। वर्चः शब्दो यस्मिन् मन्त्रेऽस्ति, स वर्चस्वान्। उपधीयते येन स उपधानः। चयनवचन इत्यर्थः। वर्चस्वानुपधानमन्त्र आसामिष्टकानामिति विगृह्य यति विहिते मतोर्लुकि कृते व॒र्च॒स्या॑ (तै०ब्रा०१.८.९.१) उपदधाति। ते॒ज॒स्या॑ (तै०ब्रा० १.८.९.१)उपदधाति। प॑य॒स्याः॑ (तै०सं०२.३.१३.२)। रेतस्याः (ष०विं०२.१)। तद्वानिति किम् ? मन्त्रसमुदायादेव मा भूत्। उपधान इति किम्? वर्चस्वानुपस्थानमन्त्र आसामित्यत्र मा भूत्। मन्त्र इति किम्? अङ्गुलिमानुपधानो हस्त आसामित्यत्र मा भूत्। इष्टकास्विति किम् ? वर्चस्वान् उपधानमन्त्र एषां कपालानामित्यत्र मा भूत्। इतिकरणो नियमार्थः। अनेकपदसंभवेऽपि केनचिदेव पदेन तद्वान् मन्त्रो गृह्यते, न सर्वेण॥

अश्विमानण्॥ ४.४.१२६॥

अश्विशब्दो यस्मिन् मन्त्रेऽस्ति सोऽश्विमान्। अश्विमच्छब्दादण् प्रत्ययो भवति। पूर्वस्य यतोऽपवादः। अश्विमानुपधानो मन्त्र आसामिष्टकानामिति विगृह्याण् विधीयते, तत्र मतुपो लुकि कृत ‘इनण्यनपत्ये’ (६.४.१६४) इति प्रकृतिभावः। आश्विनी॒रुपद॒धाति (श०ब्रा०८.२.१.१)॥

वयस्यासु मूर्ध्नो मतुप्॥ ४.४.१२७॥

वयस्वानुपधानो मन्त्रो यासां ता वयस्याः, तास्वभिधेयासु मूर्ध्नो मतुप् प्रत्ययो भवति। पूर्वस्य यतोऽपवादः। यस्मिन् मन्त्रे वयः शब्दो मूर्धन्शब्दश्च विद्यते, स वयस्वानपि भवति मूर्धन्वानपि। यथा-मू॒र्धा वयः॑ प्॒रजाप॑ति॒श्छन्दः॑(मा०सं०१४.९) इति। तत्र वयस्वच्छब्दादिव मूर्धन्वच्छब्दादपि यति प्राप्ते मतुब् विधीयते। मूर्ध॒न्वती॑र्भवन्ति (तै०सं०५.३.८.२)। वयस्या एव मूर्धन्वत्यः। वयस्यास्विति किम्? यत्र मूर्धन्शब्द एव केवलो न वयः शब्दस्तत्र मा भूत्। मूर्धन्वत इति वक्तव्ये मूर्ध्न इत्युक्तम्, मतुपो लुकं भाविनं चित्ते कृत्वा॥

मत्वर्थे मासतन्वोः॥ ४.४.१२८॥

यस्मिन्नर्थे मतुब् विहितः, तस्मिंश्छन्दसि विषये यत् प्रत्ययो भवति मासतन्वोः प्रत्ययार्थविशेषणयोः। प्रथमासमर्थादस्त्युपाधिकात् षष्ठ्यर्थे सप्तम्यर्थे च यत् प्रत्ययो भवति। मत्वर्थीयानामपवादः। नभांसि विद्यन्ते यस्मिन् मासे नभ॒स्यः॑ (तै०सं०१.४.१४.१) मासः। सह॒स्यः॑ (तै०सं०१.४.१४.१)। तप॒स्यः॑ (तै०सं०१.४.१४.१)। मध॒व्यः॑ (तै०सं०५.२.९.३)। नभःशब्दोऽभ्रेषु वर्तते। तन्वां खल्वपि-ओजोऽस्यां विद्यत ओज॒स्या त॒नूः॑। रक्ष्ास्या त॒नूः॑ (मै०सं०२.३.१)। मासतन्वोरिति किम् ? मधुमता पात्रेण चरति। मासतन्वोरनन्तरार्थे च। मध्वस्मिन्नस्ति मध्वस्मिन्ननन्तरमिति वा मधव्यो मासः॥ लुगकारेकाररेफाश्च वक्तव्याः॥ लुक्तावत्-तप॑श्च तप॒स्य॑श्च॒ (तै०सं०१.४.१४.१)। नभ॑श्च नभ॒स्य॑श्च॒ (तै०सं०१.४.१४.१)। सह॑श्च सह॒स्य॑श्च॒ (तै०सं०१.४.१४.१)। नपुंसकलिङ्गं छान्दसत्वात्। अकारः-इ॒षः (तै०सं०१.४.१४.१) मासः। ऊ॒र्जः (तै०सं०१.४.१४.१) मासः। इकारः-शुचिः॑ (तै०सं०१.४.१४.१) मासः। रेफः- शु॒क्रः (तै०सं०१.४.१४.१) मासः॥

मधोर्ञ च॥ ४.४.१२९॥

मधुशब्दाद् मत्वर्थे ञः प्रत्ययो भवति चकाराद् यत् च। उपसंख्यानात् लुक् च। माध॑वः (तै०सं०१.४.१४.१)। मध॒व्यः॑ (तै०सं०५.२.९.३)। मधुः॑ (तै०सं०१.४.१४.१)। तन्वां खल्वपि-माधवा, मधव्या, मधुः तनूः॥

ओजसोऽहनि यत्खौ॥ ४.४.१३०॥

मत्वर्थ इत्येव। ओजःशब्दाद् मत्वर्थे यत्खौ प्रत्ययौ भवतोऽहन्यभिधेये। ओजस्यमहः। ओजसीनमहः॥

वेशोयशआदेर्भगाद् यल्॥ ४.४.१३१॥

मत्वर्थ इत्येव। वेशोयशसी आदौ यस्य प्रातिपदिकस्य तस्माद् वेशोयशआदेर्भगान्तात् प्रातिपदिकाद् मत्वर्थे यल् प्रत्ययो भवति। लकारः स्वरार्थः। वेशोभगो विद्यते यस्य स वेशोभग्यः। यशोभग्यः। वेश इति बलमुच्यते। श्रीकामप्रयत्नमाहात्म्यवीर्ययशस्सु भगशब्दः। वेशश्चासौ भगश्च श्रीप्रभृतिर्वेशोभगः, सोऽस्यास्तीति वेशोभग्यः॥

ख च॥ ४.४.१३२॥

वेशोयशआदेर्भगान्तात् प्रातिपदिकाद् मत्वर्थे खः प्रत्ययो भवति। योगविभागो यथासंख्यनिरासार्थ उत्तरार्थश्च। चकाराद् यत्। वेशोभगीनः। वेशोभग्यः। यशोभगीनः। यशोभग्यः॥

पूर्वैः कृतमिनयौ च॥ ४.४.१३३॥

मत्वर्थ इति निवृत्तम्। निर्देशादेव समर्थविभक्तिः। पूर्वशब्दात् तृतीयासमर्थात् कृतमित्येतस्मिन्नर्थ इन य इत्येतौ प्रत्ययौ भवतः। चकारात् ख च। गम्भीरे॑भिः पथि॑भिः पूर्विणे॑भिः(काठ०सं०९.६.१९)। पू॒र्व्यैः (तै०सं०१.८.५.२)। पूर्वीणैः। पूर्वैरिति बहुवचनान्तेन पूर्वपुरुषा उच्यन्ते। तत्कृताः पन्थानः प्रशस्ता इति पथां प्रशंसा॥

अद्भिः संस्कृतम्॥ ४.४.१३४॥

निर्देशादेव समर्थविभक्तिः। अप्शब्दात् तृतीयासमर्थात् संस्कृतमित्येतस्मिन्नर्थे यत् प्रत्ययो भवति। यस्ये॒दमप्यं॑ ह॒विः (ऋ०१०.८६.१२)। अद्भिः संस्कृतमिति॥

सहस्रेण संमितौ घः॥ ४.४.१३५॥

निर्देशादेव समर्थविभक्तिः। सहस्रशब्दात् तृतीयासमर्थात् सम्मितावित्येतस्मिन्नर्थे घः प्रत्ययो भवति। सम्मितस्तुल्यः सदृशः। अ॒यम॒ग्निः स॑ह॒स्रियः॑ (तै०सं०४.७.१३.४)। सहस्रतुल्य इत्यर्थः। केचित्तु समिताविति पठन्ति। तत्रापि समित्या सम्मित एव लक्षयितव्यः। तत्र छन्दसि प्रयोगदर्शनात्॥

मतौ च॥ ४.४.१३६॥

मत्वर्थे च सहस्रशब्दाद् घः प्रत्ययो भवति। सहस्रमस्य विद्यते सहस्रियः। ‘तपःसहस्राभ्यां विनीनी’ (५.२.१०२),‘अण् च’ (५.२.१०३) इत्यस्यापवादः॥

सोममर्हति यः॥ ४.४.१३७॥

निर्देशादेव समर्थविभक्तिः। सोमशब्दाद् द्वितीयासमर्थादर्हतीत्येतस्मिन्नर्थे यः प्रत्ययो भवति। सोममर्हन्ति सोम्या ब्राह्मणाः (काठ०सं०५.२)। यज्ञार्हा इत्यर्थः। यति प्रकृते यग्रहणम्। स्वरे विशेषः॥

मये च॥ ४.४.१३८॥

सोमग्रहणम्, यश्चानुवर्तते। मय इति मयडर्थो लक्ष्यते। सोमशब्दाद् मयडर्थे यः प्रत्ययो भवति। आगतविकारावयवप्रकृता मयडर्थाः। ‘हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः’(४.३.८१),‘मयट् च’ (४.३.८२),‘मयड् वैतयोर्भाषायामभक्ष्याच्छादनयोः’ (४.३.१४३),‘तत्प्रकृतवचने मयट्’ (५.४.२१) इति। तत्र यथायोगं समर्थविभक्तिः। पिबा॑ति सो॒म्यं मधु॑ (ऋ०८.२४.१३)। सोममयमित्यर्थः॥

मधोः॥ ४.४.१३९॥

यशब्दो निवृत्तः। मधुशब्दाद् मयडर्थे यत् प्रत्ययो भवति। मधव्यान् स्तोकान् (पै०सं०१.८८.२)। मधुमयानित्यर्थः॥

वसोः समूहे च॥ ४.४.१४०॥

वसुशब्दात् समूहे वाच्ये यत् प्रत्ययो भवति चकाराद् मयडर्थे च। यथायोगं समर्थविभक्तिः। वसव्यः समूहः। मयडर्थो वा॥ अक्षरसमूहे छन्दसः स्वार्थ उपसंख्यानम्॥ ओ॑श्रा॒वय इ॑ति॒ च॑तु॒रक्षरम्। अ॑स्तु॒ श्रौ॑ष॒डि॑ति॒ च॑तु॒रक्षरम्। य॑ज इ॑ति द्व्य॒क्षरम्। ये॑ य॑जा॒महे॑ इ॑ति॒ प॑ञ्चा॒क्ष्ारम्। द्व्य॒क्षरो॑ व॒षट्का॒रः॑। ए॒ष॑ व॑ै सप्तदशाक्षरश्छन्दस्यः प्र॒जा॑प॒तिर्यज्ञो मन्त्रे विहितः (मै०सं०१.४.११)। सप्तदशाक्षराण्येव छन्दस्य इत्यर्थः। छन्दः शब्दादक्षरसमूहे वर्तमानात् स्वार्थे यत् प्रत्ययः॥ वसुशब्दादपि यद् वक्तव्यः॥ हस्तौ॑ पृणस्व ब॒हुभि॑र्व॒सव्य॑ैः (शौ०सं०७.२६.८)। वसुभिरित्यर्थः। अ॒ग्निरी॑शे वस॒व्य॑स्य (ऋ०४.५५.८)। वसोरित्यर्थः॥

नक्षत्राद् घः॥ ४.४.१४१॥

नक्षत्रशब्दाद् घः प्रत्ययो भवति स्वार्थे। समूह इति नानुवर्तते। नक्ष॒त्रिये॑भ्यः स्वाहा॑ (मा०सं०२२.२८)॥

सर्वदेवात् तातिल्॥ ४.४.१४२॥

सर्वदेवशब्दाभ्यां तातिल् प्रत्ययो भवति छन्दसि विषये स्वार्थिकः। स॒र्वता॑तिम् (ऋ०१०.३६.१४)। दे॒वता॑तिम् (ऋ०३.१९.२)॥

शिवशमरिष्टस्य करे॥ ४.४.१४३॥

करोतीति करः प्रत्ययार्थः। तत्सामर्थ्यलभ्या षष्ठी समर्थविभक्तिः। शिवादिभ्यः शब्देभ्यः षष्ठीसमर्थेभ्यः कर इत्येतस्मिन्नर्थे तातिल् प्रत्ययो भवति। शिवं करोतीति शिवतातिः (पै०सं०५.३६.१)। शंता॑तिः॒ (ऋ०८.१८.७)। अरि॒ष्टता॑तिः (ऋ०१०.६०.८)॥

भावे च॥ ४.४.१४४॥

भावे चार्थे छन्दसि विषये शिवादिभ्यस्तातिल् प्रत्ययो भवति। शिवस्य भावः शिवतातिः (पै०सं०५.३६.१)। शंता॑तिः॒ (ऋ० ८.१८.७) । अरि॒ष्टता॑तिः (ऋ०१०.६०.८)। यतः पूर्णोऽवधिः। अतः परमन्यः प्रत्ययोऽधिक्रियते॥

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य चतुर्थः पादः॥

—0—