०३

युष्मदस्मदोरन्यतरस्यां खञ् च॥ ४.३.१॥

देशाधिकारो निवृत्तः। युष्मदस्मदोः खञ् प्रत्ययो भवति शैषिकः। चकाराच् छश्च। अन्यतरस्यांग्रहणाद् यथाप्राप्तम्। तदेते त्रयः प्रत्यया भवन्ति, तत्र वैषम्याद् यथासंख्यं न भवति। त्यदादित्वाद् वृद्धसंज्ञकयोर्युष्मदस्मदोश्छे प्राप्ते प्रत्येकं प्रत्ययत्रयं विधीयते। यौष्माकीणः। आस्माकीनः। युष्मदीयः। अस्मदीयः। यौष्माकः। आस्माकः॥

तस्मिन्नणि च युष्माकास्माकौ॥ ४.३.२॥

तस्मिन्निति साक्षाद् विहितः खञ् निर्दिश्यते, न चकारानुकृष्टश्छः। तस्मिन् खञि अणि च युष्मदस्मदोर्यथासंख्यं युष्माक अस्माक इत्येतावादेशौ भवतः। निमित्तयोरादेशौ प्रति यथासंख्यं कस्माद् न भवति ? योगविभागः करिष्यते, तस्मिन् खञि युष्मदस्मदोर्युष्माकास्माकौ भवतः। ततोऽणि चेति। यौष्माकीणः। आस्माकीनः। यौष्माकः। आस्माकः। तस्मिन्नणि चेति किम्? युष्मदीयः। अस्मदीयः॥

तवकममकावेकवचने॥ ४.३.३॥

एकवचनपरयोर्युष्मदस्मदोस्तवक ममक इत्येतावादेशौ भवति यथासंख्यं तस्मिन् खञि अणि च परतः। निमित्तयोस्तु यथासंख्यं पूर्ववदेव न भवति। ननु च ‘न लुमताङ्गस्य’ (१.१.६३) इति प्रत्ययलक्षणप्रतिषेधादेकवचनपरता युष्मदस्मदोर्न संभवति ? वचनात् प्रत्ययलक्षणं भविष्यति। अथवा नैवेदं प्रत्ययग्रहणम्। किं तर्हि ? अन्वर्थग्रहणम्। एकवचने युष्मदस्मदी एकस्यार्थस्य वाचके तवकममकावादेशौ प्रतिपद्येते इति सूत्रार्थः। तावकीनः। मामकीनः। तावकः। मामकः। तस्मिन्नणि चेत्येव-त्वदीयः। मदीयः॥

अर्धाद् यत्॥ ४.३.४॥

अर्धशब्दाद् यत् प्रत्ययो भवति शैषिकः। अणोऽपवादः। अर्ध्यम्॥ सपूर्वपदाट् ठञ् वक्तव्यः॥ बालेयार्धिकम्। गौतमार्धिकम्॥

परावराधमोत्तमपूर्वाच्च॥ ४.३.५॥

पर अवर अधम उत्तम इत्येवंपूर्वाच् चार्धाद् यत् प्रत्ययो भवति शैषिकः। परार्ध्यम्। अवरार्ध्यम्। अधमार्ध्यम्। उत्तमार्ध्यम्। पूर्वग्रहणं किम्, परावराधमोत्तमेभ्य इत्येवोच्यते, अर्धादिति वर्तते। तस्य तत्पूर्वता विज्ञास्यते ? परावरशब्दावदिग्ग्रहणावपि स्तः, परं सुखम् अवरं सुखमिति। तत्र कृतार्थत्वाद् दिक्छब्दपक्षे परेण ठञ्यतौ स्याताम्। अस्मात् पूर्वग्रहणाद् यत् प्रत्ययो भवति-परार्ध्यम्, अवरार्ध्यमिति॥

दिक्पूर्वपदाट् ठञ् च॥ ४.३.६॥

दिक्पूर्वपदादर्धान्तात् प्रातिपदिकात् ठञ् प्रत्ययो भवति चकाराद् यत् च शैषिकः। अणोऽपवादः। पौर्वार्धिकम्, पूर्वार्ध्यम्। दाक्षिणार्धिकम्, दक्षिणार्ध्यम्। पदग्रहणं स्वरूपविधिनिवारणार्थम्॥

ग्रामजनपदैकदेशादञ्ठञौ॥ ४.३.७॥

दिक्पूर्वपदादित्येव। ग्रामैकदेशवाचिनो जनपदैकदेशवाचिनश्च प्रातिपदिकाद् दिक्पूर्वपदादर्धान्तादञ्ठञौ प्रत्ययौ भवतः शैषिकौ यतोऽपवादौ। इमे खल्वस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धाः, पौर्वार्धिकाः। दाक्षिणार्धाः, दाक्षिणार्धिकाः॥

मध्यान् मः॥ ४.३.८॥

मध्यशब्दाद् मः प्रत्ययो भवति शैषिकः। अणोऽपवादः। मध्यमः॥ आदेश्चेति वक्तव्यम्॥ आदिमः॥ अवोऽधसोर्लोपश्च॥ अवमम्॥ अधमम्॥

अ साम्प्रतिके॥ ४.३.९॥

अकारः प्रत्ययो भवति मध्यशब्दात् सांप्रतिके जातादौ प्रत्ययार्थे। मस्यापवादः। सांप्रतिकं न्याय्यं युक्तमुचितं सममुच्यते। नातिदीर्घं नातिह्रस्वं मध्यं काष्ठम्। नात्युत्कृष्टो नात्यवकृष्टो मध्यो वैयाकरणः। मध्या स्त्री॥

द्वीपादनुसमुद्रं यञ्॥ ४.३.१०॥

समुद्रसमीपे यो द्वीपः, तस्माद् यञ् प्रत्ययो भवति शैषिकः। कच्छादिपाठाद् (४.२.१३३) अणो मनुष्यवुञः (४.२.१३४) चापवादः। द्वैप्यम्। द्वैप्यं भवन्तोऽनुचरिन्त चक्रम्। अनुसमुद्रमिति किम् ? द्वैपकम्। द्वैपमन्यत्॥

कालाट् ठञ्॥ ४.३.११॥

कालविशेषवाचिनः प्रातिपदिकाट् ठञ् प्रत्ययो भवति शैषिकः। अणोऽपवादः। वृद्धात् तु छं परत्वाद् बाधते। मासिकः। आर्धमासिकः। सांवत्सरिकः। यथाकथंचिद् गुणवृत्त्यापि काले वर्तमानात् प्रत्यय इष्यते। कादम्बपुष्पिकम्। ब्रैहिपलालिकम्। ‘तत्र जातः’ (४.३.२५) इति प्रागतः कालाधिकारः॥

श्राद्धे शरदः॥ ४.३.१२॥

शरच्छब्दाट् ठञ् प्रत्ययो भवति श्राद्धेऽभिधेये शैषिकः। ऋत्वणः (४.३.१६) अपवादः। श्राद्ध इति च कर्म गृह्यते, न श्रद्धावान् पुरुषः,अनभिधानात्। शारदिकं श्राद्धम्। शारदमन्यत्॥

विभाषा रोगातपयोः॥ ४.३.१३॥

शरद इत्येव। रोग आतपे चाभिधेये शरच्छब्दाट् ठञ् प्रत्ययो वा भवति शैषिकः। ऋत्वणोऽपवादः। शारदिको रोगः। शारदिक आतपः। शारदो रोगः। शारद आतपः। रोगातपयोरिति किम् ? शारदं दधि॥

निशाप्रदोषाभ्यां च॥ ४.३.१४॥

निशाप्रदोषशब्दाभ्यां च विभाषा ठञ् प्रत्ययो भवति शैषिकः। ‘कालाट् ठञ्’ (४.३.११) इति नित्ये ठञि प्राप्ते विकल्प उच्यते। नैशिकम्, नैशम्। प्रादोषिकम्, प्रादोषम्॥

श्वसस्तुट् च॥ ४.३.१५॥

विभाषेत्येव। श्वः शब्दाद् विभाषा ठञ् प्रत्ययो भवति, तस्य च तुडागमो भवति। त्यप् प्रत्ययोऽप्यतो विहित ‘ऐषमोह्यः श्वसोऽन्यतरस्याम्’ (४.२.१०५) इति। एताभ्यां मुक्ते ट्युट्युलावपि भवतः। शौवस्तिकः, श्वस्त्यः, श्वस्तनः॥

संधिवेलाद्यृतुनक्षत्रेभ्योऽण्॥ ४.३.१६॥

कालादित्येव। संधिवेलादिभ्य ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्योऽण् प्रत्ययो भवति शैषिकः। ठञोऽपवादः। अण्ग्रहणं वृद्धाच्छस्य (४.२.११४) बाधनार्थम्। संधिवेलादिभ्यस्तावत्- सांधिवेलम्। सांध्यम्। ऋतुभ्यः-ग्रैष्मम्। शैशिरम्। नक्षत्रेभ्यः-तैषम्। पौषम्॥ संधिवेला। संध्या। अमावास्या। त्रयोदशी। चतुर्दशी। पञ्चदशी। पौर्णमासी। प्रतिपत्। संवत्सरात् फलपर्वणोः (ग०सू० १०२)। सांवत्सरं फलम्। सांवत्सरं पर्व॥

प्रावृष एण्यः॥ ४.३.१७॥

प्रावृष्शब्दादेण्यः प्रत्ययो भवति शैषिकः। ऋत्वणोऽपवादः। प्रावृषेण्यो बलाहकः॥

वर्षाभ्यष्ठक्॥ ४.३.१८॥

वर्षाशब्दाट् ठक् प्रत्ययो भवति शैषिकः। ऋत्वणोऽपवादः। वार्षिकं वासः। वार्षिकमनुलेपनम्॥

छन्दसि ठञ्॥ ४.३.१९॥

वर्षाशब्दाच् छन्दसि विषये ठञ् प्रत्ययो भवति शैषिकः। ठकोऽपवादः। स्वरे भेदः। नभ॑श्च नभ॒स्य॑श्च॒ वार्षि॑कावृ॒तू (तै० सं० ४.४.११.१)॥

वसन्ताच्च॥ ४.३.२०॥

छन्दसीत्येव। वसन्तशब्दाच् छन्दसि विषये ठञ् प्रत्ययो भवति शैषिकः। ऋत्वणोऽपवादः। मधु॑श्च॒ माध॑वश्च॒ वास॑न्तिकावृ॒तू (तै०सं० ४.४.११.१)॥

हेमन्ताच्च॥ ४.३.२१॥

छन्दसीत्येव। हेमन्तशब्दाच् छन्दसि विषये ठञ् प्रत्ययो भवति शैषिकः। ऋत्वणोऽपवादः। सह॑श्च सह॒स्य॑श्च॒ हैम॑न्तिकावृ॒तू (तै०सं० ४.४.११.१)। योगविभाग उत्तरार्थः॥

सर्वत्राण् च तलोपश्च॥ ४.३.२२॥

हेमन्तशब्दादण् प्रत्ययो भवति, तत्सन्नियोगेन चास्य तकारलोपः। हैमनं वासः। हैमनमुपलेपनम्। सर्वत्रग्रहणं छन्दोऽधिकारनिवृत्त्यर्थम्। छन्दसि भाषायां च सर्वत्रैतद् भवति। ननु च छन्दसीति नानुवर्तिष्यते? सैवाननुवृत्तिः शब्देनाख्यायते प्रयत्नाधिक्येन पूर्वसूत्रेऽपि संबन्धार्थम्। हैमन्तिकमिति हि भाषायामपि ठञं स्मरन्ति। अथाण्चेति चकारः किमर्थः? अण्, यथाप्राप्तं च ऋत्वणिति। कः पुनरनयोरणोर्विशेषः? ऋत्वणि हि तकारलोपो नास्ति हैमन्ती पङ्क्तिरिति। तदेवं त्रीणि रूपाणि भवन्ति। हैम॑न्तिकम् (तै० सं० ४.४.११.१), हैमन्तम् (पै०सं० १७.२९.११), है॒म॒नम् (शौ०सं० १५.४.१४) इति॥

सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च॥ ४.३.२३॥

कालादित्येव। सायं चिरं प्राह्णे प्रगे इत्येतेभ्योऽव्ययेभ्यश्च कालवाचिभ्यः ट्युट्युलौ प्रत्ययौ भवतः, तयोश्चादिष्टयोः तुडागमो भवति। सायंतनम्। चिरंतनम्। प्राह्णेतनम्। प्रगेतनम्। अव्ययेभ्यः-दोषातनम्। दिवातनम्। सायमिति मकारान्तं पदमव्ययम्, ततोऽव्ययत्वादेव सिद्धः प्रत्ययः। यस्तु स्यतेरन्तकर्मणो घञि सायशब्दस्तस्येदं मकारान्तत्वं प्रत्ययसन्नियोगेन निपात्यते। दिवसावसानं सायः। चिरशब्दस्यापि मकारान्तत्वं निपात्यते। प्राह्णे प्रगे इत्येकारान्तत्वम्॥ चिरपरुत्परारिभ्यस्त्नो वक्तव्यः॥ चिरत्नम्। परुत्नम्। परारित्नम्॥ प्रगस्त छन्दसि गलोपश्च॥ प्॒रत्नम् (ऋ० १.३६.४)॥ अग्रपश्चाड्डिमच्॥ अग्रिमम्॥ पश्चिमम्॥ अन्ताच्चेति वक्तव्यम्॥ अन्तिमम्॥

विभाषा पूर्वाह्णापराह्णाभ्याम्॥ ४.३.२४॥

पूर्वाह्णापराह्णशब्दाभ्यां विभाषा ट्युट्युलौ प्रत्ययौ भवतः, तुट् च तयोरागमः। ‘कालाट् ठञ्’ (४.३.११) इति ठञि प्राप्ते वचनम्, पक्षे सोऽपि भवति। पूर्वाह्णेतनम्। अपराह्णेतनम्। पौर्वाह्णिकम्। आपराह्णिकम्। ‘घकालतनेषु कालनाम्नः’ (६.३.१७) इति सप्तम्या अलुक्। यदा तु न सप्तमी समर्थविभक्तिः। पूर्वाह्णः सोढोऽस्येति तदा पूर्वाह्णतन इति भवितव्यम्॥

तत्र जातः॥ ४.३.२५॥

अणादयो घादयश्च प्रत्ययाः प्रकृताः, तेषामतः प्रभृत्यर्थाः समर्थविभक्तयश्च निर्दिश्यन्ते। तत्रेति सप्तमीसमर्थाद् जात इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। स्रुघ्ने जातः स्रौघ्नः। माथुरः। औत्सः। औदपानः। राष्ट्रियः। अवारपारीणः। शाकलिकः। माकलिकः। ग्राम्यः। ग्रामीणः। कात्रेयकः। औम्भेयकः॥

प्रावृषष्ठप्॥ ४.३.२६॥

प्रावृट्शब्दात् सप्तमीसमर्थाद् जात इत्येतस्मिन्नर्थे ठप् प्रत्ययो भवति। एण्यस्यापवादः। पकारः स्वरार्थः। प्रावृषि जातः प्रावृषिकः॥

संज्ञायां शरदो वुञ्॥ ४.३.२७॥

शरच्छब्दात् सप्तमीसमर्थाद् जात इत्येतस्मिन्नर्थे वुञ् प्रत्ययो भवति, ऋत्वणोऽपवादः, समुदायेन चेत् संज्ञा गम्यते। शारदका दर्भाः। शारदका मुद्गाः। दर्भविशेषस्य मुद्गविशेषस्य चेयं संज्ञा। संज्ञायामिति किम्? शारदं सस्यम्। संज्ञाधिकारं केचित् ‘कृतलब्धक्रीतकुशलाः’ (४.३.३८) इति यावदनुवर्तयन्ति॥

पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद् वुन्॥ ४.३.२८॥

पूर्वाह्णादिभ्यः शब्देभ्यो वुन् प्रत्ययो भवति तत्र जात इत्येतस्मिन् विषये संज्ञायां गम्यमानायाम् । पूर्वाह्णकः। अपराह्णकः। ‘विभाषा पूर्वाह्णापराह्णाभ्याम्’ (४.३.२४) इत्यस्यापवादः। आर्द्रकः। मूलकः। नक्षत्राणोऽपवादः। प्रदोषकः। ‘निशाप्रदोषाभ्यां च’ (४.३.१४) इत्यस्यापवादः। अवस्करकः। औत्सर्गिकस्याणोऽपवादः। असंज्ञायां तु यथाप्राप्तं ठञादय एव भवन्ति॥

पथः पन्थ च॥ ४.३.२९॥

पथिशब्दाद् वुन् प्रत्ययो भवति तत्र जात इत्येतस्मिन् विषये, अणोऽपवादः, प्रत्ययसन्नियोगेन च पथः पन्थ इत्ययमादेशो भवति। पथि जातः पन्थकः॥

अमावास्याया वा ॥ ४.३.३०॥

अमावास्याशब्दाद् वुन् प्रत्ययो भवति वा तत्र जात इत्येतस्मिन् विषये । संधिवेलादिषु (४.३.१६) पाठादणोऽपवादः। अमावास्यकः, आमावास्यः। एकदेशविकृतस्यानन्यत्वाद् अमावस्याशब्दाद् अपि भवति। अमावस्यकः। आमावस्यः॥

अ च ॥ ४.३.३१॥

अमावास्याशब्दादकारः प्रत्ययो भवति तत्र जात इत्येतस्मिन् विषये। पूर्वेण वुन्नणोः प्राप्तयोरयं तृतीयः प्रत्ययो विधीयते। अमावास्यः, अमावास्यकः आमावास्यः अमावस्यः, अमावस्यकः, आमावस्यः॥

सिन्ध्वपकराभ्यां कन् ॥ ४.३.३२॥

सिन्धुशब्दादपकरशब्दात् च कन् प्रत्ययो भवति तत्र जात इत्येतस्मिन् विषये सिन्धुशब्दः कच्छादिः, ततोऽणि मनुष्यवुञि (४.२.१३३.१३४) च प्राप्ते विधानम् अपकरशब्दादप्यौत्सर्गिकेऽणि। सिन्धुकः। अपकरकः॥

अणञौ च ॥ ४.३.३३॥

सिन्ध्वपकरशब्दाभ्यां यथासंख्यमणञौ प्रत्ययौ भवतस्तत्र जात इत्येतस्मिन् विषये। पूर्वेण कनि प्राप्ते वचनम्। सैन्धवः। आपकरः॥

श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक्॥ ४.३.३४॥

श्रविष्ठादिभ्यः शब्देभ्यो नक्षत्रेभ्य आगतस्य जातार्थे लुग् भवति। तस्मिन् स्त्रीप्रत्ययस्यापि ‘लुक् तद्धितलुकि’ (१.२.४९) इति लुग् भवति। श्रविष्ठासु जातः श्रविष्ठः। फल्गुनः। अनुराधः। स्वातिः। तिष्यः। पुनर्वसुः। हस्तः । विशाखः। अषाढः। बहुलः॥ लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम्॥ चित्रायां जाता, चित्रा। रेवती। रोहिणी। स्त्रीप्रत्ययस्य लुकि कृते गौरादित्वाद् (४.१.४१) ङीष्॥ फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ॥ फल्गुनी। अषाढा॥ श्रविष्ठाषाढाभ्यां छणपि वक्तव्यः॥ श्राविष्ठीयः। आषाढीयः॥

स्थानान्तगोशालखरशालाच्च ॥ ४.३.३५॥

स्थानान्तात् प्रातिपदिकाद् गोशालशब्दात् खरशालशब्दात् च जातार्थे प्रत्ययस्य लुग् भवति। गोस्थाने जातो गोस्थानः। अश्वस्थानः। गोशालः। खरशालः॥

वत्सशालाभिजिदश्वयुक्छतभिषजो वा ॥ ४.३.३६॥

वत्सशालादिभ्यः परस्य जातार्थे प्रत्ययस्य लुग् वा भवति। वत्सशालायां जातो वत्सशालः, वात्सशालः। अभिजित्। आभिजितः। अश्वयुक्, आश्वयुजः। शतभिषक्, शातभिषजः। बहुलग्रहणस्यायं प्रपञ्चः॥

नक्षत्रेभ्यो बहुलम् ॥ ४.३.३७॥

नक्षत्रेभ्य उत्तरस्य जातार्थे प्रत्ययस्य बहुलं लुग् भवति। रोहिणः, रौहिणः। मृगशिराः, मार्गशीर्षः॥

कृतलब्धक्रीतकुशलाः ॥ ४.३.३८॥

तत्रेत्येव। सप्तमीसमर्थात् कृतादिष्वर्थेषु यथाविहितं प्रत्ययो भवति। स्रुघ्ने कृतो वा लब्धो वा क्रीतो वा कुशलो वा स्रौघ्नः। माथुरः। राष्ट्रियः। ननु च यद् यत्र कृतं जातमपि तत् तत्र भवति, यच्च यत्र क्रीतं लब्धमपि तत् तत्रैव भवति, किमर्थं भेदेनोपादानं क्रियते? शब्दार्थस्य भिन्नत्वाद् वस्तुमात्रेण क्रीतं लब्धं भवति, शब्दार्थस्तु भिद्यत एव॥

प्रायभवः ॥ ४.३.३९॥

तत्रेत्येव। सप्तमीसमर्थाद् ङ्याप्प्रातिपदिकात् प्रायभव इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। प्रायशब्दः साकल्यस्य किंचिन्न्यूनतामाह। स्रुघ्ने प्रायेण बाहुल्येन भवति स्रौघ्नः। माथुरः। राष्ट्रियः। प्रायभवग्रहणमनर्थकम्, तत्रभवेन कृतार्थत्वात्। अनित्यभवः प्रायभव इति चेद्, मुक्तसंशयेन तुल्यम्॥

उपजानूपकर्णोपनीवेष्ठक् ॥ ४.३.४०॥

उपजान्वादिभ्यः शब्देभ्यः सप्तमीसमर्थेभ्यः प्रायभव इत्येतस्मिन् विषये ठक् प्रत्ययो भवति। अणोऽपवादः। औपजानुकः। औपकर्णिकः। औपनीविकः॥

संभूते ॥ ४.३.४१॥

तत्रेत्येव। सप्तमीसमर्थाद् ङ्याप्प्रातिपदिकात् संभूत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। अवक्ऌप्तिः प्रमाणानतिरेकश्च संभवत्यर्थ इह गृह्यते, नोत्पत्तिः सत्ता वा, जातभवाभ्यां गतत्वात् । स्रुघ्ने संभवति स्रौघ्नः। माथुरः। राष्ट्रियः॥

कोशाड् ढञ् ॥ ४.३.४२॥

कोशशब्दाद् ढञ् प्रत्ययो भवति तत्र संभूत इत्यस्मिन् विषये। अणोऽपवादः। कोशे संभूतं कौशेयं वस्त्रम्। रूढिरेषा, तेन क्रिमौ न भवति, खड्गकोशात् च॥

कालात् साधुपुष्प्यत्पच्यमानेषु ॥ ४.३.४३॥

तत्रेत्येव। कालविशेषवाचिभ्यः सप्तमीसमर्थेभ्यः साध्वादिष्वर्थेषु यथाविहितं प्रत्ययो भवति। हेमन्ते साधुर्हैमनः प्राकारः। शैशिरमनुलेपनम्। वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः। गै्रष्म्यः पाटलाः। शरदि पच्यन्ते शारदाः शालयः। गै्रष्मा यवाः॥

उप्ते च ॥ ४.३.४४॥

तत्रेत्येव, कालादिति च। सप्तमीसमर्थात् कालवाचिनः प्रातिपदिकादुप्तेऽर्थे यथा विहितं प्रत्ययो भवति। हेमन्त उप्यन्ते हैमन्ता यवाः। गै्रष्मा व्रीहयः। योगविभाग उत्तरार्थः॥

आश्वयुज्या वुञ् ॥ ४.३.४५॥

आश्वयुजीशब्दाद् वुञ् प्रत्ययो भवत्युप्तेऽर्थे। ठञोऽपवादः। आश्वयुज्यामुप्ता आश्वयुजका माषाः। अश्विनीभ्यां युक्ता पौर्णमासी, आश्वयुजी। अश्विनीपर्यायोऽश्वयुक्शब्दः॥

ग्रीष्मवसन्तादन्यतरस्याम् ॥ ४.३.४६॥

ग्रीष्मवसन्तशब्दाभ्यामन्यतरस्यां वुञ् प्रत्ययो भवत्युप्तेऽर्थे। ऋत्वणोऽपवादः। ग्रैष्मकम्, ग्रैष्मं सस्यम्। वासन्तकम्, वासन्तम्॥

देयमृणे ॥ ४.३.४७॥

तत्रेत्येव, कालादिति च। सप्तमीसमर्थात् कालवाचिनः प्रातिपदिकाद् देयमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यद् देयमृणं चेत् तद् भवति। मासे देयमृणं मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। ऋण इति किम् ? मासे देया भिक्षा॥

कलाप्यश्वत्थयवबुसाद् वुन् ॥ ४.३.४८॥

कालादित्येव। कलापिन् अश्वत्थ यवबुस इत्येतेभ्यः कालवाचिभ्यः सप्तमीसमर्थेभ्यो देयमृणमित्येतस्मिन्नर्थे वुन् प्रत्ययो भवति। कलाप्यादयः शब्दाः साहचर्यात् काले वर्तन्ते। यस्मिन् काले मयूराः कलापिनो भवन्ति, स कलापी। यस्मिन्नश्वत्थाः फलन्ति सोऽश्वत्थः। यस्मिन् यवबुसं संपद्यते स यवबुसशब्देनोच्यते। कलापिनि काले देयमृणम्, कलापकम्। अश्वत्थकम्। यवबुसकम्॥

ग्रीष्मावरसमाद् वुञ् ॥ ४.३.४९॥

ग्रीष्मावरसमशब्दाभ्यां वुञ् प्रत्ययो भवति देयमृणम् इत्येतस्मिन्नर्थे। अण्ठञोरपवादः। ग्रीष्मे देयमृणं ग्रैष्मकम्। आवरसमकम्। प्रत्ययान्तरकरणं वृद्ध्यर्थम्। समाशब्दो वर्षपर्यायः॥

संवत्सराग्रहायणीभ्यां ठञ् च ॥ ४.३.५०॥

संवत्सराग्रहायणीशब्दाभ्यां ठञ् प्रत्ययो भवति, चकाराद् वुञ् च देयमृणमित्येतस्मिन्नर्थे। संवत्सरे देयमृणं सांवत्सरिकम्, सांवत्सरकम्। आग्रहायणिकम्, आग्रहायणकम्। वेति वक्तव्ये ठञ्ग्रहणं संधिवेलादिषु (४.३.१६) ‘संवत्सरात् फलपर्वणोः’ (ग० सू० १०२) इति पठ्यते, तत्र फल ऋणत्वेन विवक्षितेऽणं बाधित्वा ठञेव यथा स्यादिति॥

व्याहरति मृगः ॥ ४.३.५१॥

तत्रेत्येव, कालादिति च। कालवाचिनः सप्तमीसमर्थात् प्रातिपदिकाद् व्याहरति मृग इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। निशायां व्याहरति मृगो नैशः, नैशिकः। प्रादोषः, प्रादोषिकः। मृग इति किम् ? निशायां व्याहरत्युलूकः॥

तदस्य सोढम् ॥ ४.३.५२॥

कालादित्येव। तदिति प्रथमासमर्थात् कालवाचिनः प्रातिपदिकादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं सोढं चेत् तद् भवति। सोढं जितमभ्यस्तमित्यर्थः। निशासहचरितमध्ययनं निशा, तत् सोढमस्य छात्रस्य नैशः, नैशिकः। प्रादोषः, प्रादोषिकः॥

तत्र भवः ॥ ४.३.५३॥

कालादिति निवृत्तम्। तत्रेति सप्तमीसमर्थाद् ङ्याप्प्रातिपदिकाद् भव इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। सत्ता भवत्यर्थो गृह्यते न जन्म, ‘तत्र जातः’ (४.३.२५) इति गतार्थत्वात्। स्रुघ्ने भवः स्रौघ्नः। माथुरः। राष्ट्रियः। पुनस्तत्रग्रहणं तदस्येति निवृत्त्यर्थम्॥

दिगादिभ्यो यत्॥ ४.३.५४॥

दिश् इत्येवमादिभ्यः प्रातिपदिकेभ्यो यत् प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। अणश्छस्य चापवादः। दिशि भवं दिश्यम्। वर्ग्यम्। मुखजघनशब्दयोरशरीरावयवार्थः पाठः, सेनामुख्यम्, सेनाजघन्यमिति॥ दिश्। वर्ग। पूग। गण। पक्ष। धाय्या। मित्र। मेधा। अन्तर। पथिन्। रहस्। अलीक। उखा। साक्षिन्। आदि। अन्त। मुख। जघन। मेघ। यूथ। उदकात् संज्ञायाम् (ग० सू० १०३)। न्याय। वंश। अनुवंश। विश। काल। अप्। आकाश। दिगादिः॥

शरीरावयवाच्च॥ ४.३.५५॥

शरीरं प्राणिकायः। शरीरावयववाचिनः प्रातिपदिकाद् यत् प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। अणोऽपवादः। दन्तेषु भवं दन्त्यम्। कर्ण्यम्। ओष्ठ्यम् ॥

दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्॥ ४.३.५६॥

दृत्यादिभ्यः प्रातिपदिकेभ्यो ढञ् प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। दृतौ भवं दार्तेयम्। कौक्षेयम्। कालशेयम्। वास्तेयम्। आस्तेयम्। आहेयमजरं विषम्। अस्तिशब्दः प्रातिपदिकम्, न तिङन्तः॥

ग्रीवाभ्योऽण् च॥ ४.३.५७॥

ग्रीवाशब्दादण् प्रत्ययो भवति, चकाराड् ढञ् च, तत्र भव इत्येतस्मिन् विषये। शरीरावयवाद् यतोऽपवादः। ग्रीवासु भवं ग्रैवम् , ग्रैवेयम्। ग्रीवाशब्दो धमनीवचनः, तासां बहुत्वाद् बहुवचनं कृतम्॥

गम्भीराञ् ञ्यः॥ ४.३.५८॥

गम्भीरशब्दाद् ञ्यः प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। अणोऽपवादः। गम्भीरे भवं गाम्भीर्यम्॥ बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम्॥ बाह्यम्। दैव्यम्। पाञ्चजन्यम्॥

अव्ययीभावाच्च॥ ४.३.५९॥

अव्ययीभावसंज्ञकात् प्रातिपदिकात् च ञ्यः प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। अणोऽपवादः। न च सर्वस्मादव्ययीभावाद् भवति। किं तर्हि ? परिमुखादेः। परिमुखादीनां च गणपाठस्यैतदेव प्रयोजनम्। तेषां विशेषणमव्ययीभावग्रहणम्। परिमुखं भवं पारिमुख्यम्। पारिहनव्यम्। परिमुखादेरन्यत्र न भवति। औपकूलम्॥ परिमुख। परिहनु। पर्योष्ठ। पर्युलूखल। परिसीर। अनुसीर। उपसीर। उपस्थल। उपकलाप। अनुपथ। अनुखड्ग। अनुतिल। अनुशीत। अनुमाष। अनुयव। अनुयूप। अनुवंश॥

अन्तः पूर्वपदाट् ठञ्॥ ४.३.६०॥

अव्ययीभावादित्येव। अन्तःशब्दो विभक्त्यर्थे समस्यते। तत्पूर्वपदादव्ययीभावाट् ठञ् प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। अणोऽपवादः। आन्तर्वेश्मिकम्। आन्तर्गेहिकम्॥ समानशब्दाट् ठञ् वक्तव्यः॥ समाने भवं सामानिकम्॥ तदादेश्च॥ सामानग्रामिकम्। सामानदेशिकम्॥ अध्यात्मादिभ्यश्च॥ आध्यात्मिकम्। आधिदैविकम्। आधिभौतिकम्। अध्यात्मादिराकृतिगणः॥ ऊर्ध्वंदमाच्च ठञ् वक्तव्यः॥ और्ध्वंदमिकः। ऊर्ध्वशब्देन समानार्थ ऊर्ध्वं शब्दः॥ ऊर्ध्वदेहाच्च॥ और्ध्वदेहिकम्॥ लोकोत्तरपदाच्च॥ ऐहलौकिकम्। परलौकिकम्॥ मुखपार्श्वशब्दाभ्यां तसन्ताभ्यामीयः प्रत्ययो वक्तव्यः॥ मुखतीयम्। पार्श्वतीयम्॥ जनपरयोःकुक् च॥ जनकीयम्। परकीयम्॥ मध्यशब्दादीयः॥ मध्यीयः॥ मण्मीयौ च प्रत्ययौ वक्तव्यौ॥ माध्यमम्। मध्यमीयम्॥ मध्यो मध्यं दिनण् चास्मात्॥ मध्ये भवं माध्यन्दिनम्॥ स्थाम्नो लुग् वक्तव्यः॥ अश्वत्थामा॥ अजिनान्ताच्च॥ वृकाजिनः। सिंहाजिनः॥

समानस्य तदादेश्चाध्यात्मादिषु चेष्यते।

ऊर्ध्वंदमाच्च देहाच्च लोकोत्तरपदस्य च॥

मुखपार्श्वतसोरीयः कुग् जनस्य परस्य च।

ईयः कार्योऽथ मध्यस्य मण्मीयौ प्रत्ययौ तथा॥

मध्यो मध्यं दिनण् चास्मात् स्थाम्नो लुगजिनात्तथा ॥

ग्रामात् पर्यनुपूर्वात्॥ ४.३.६१॥

अव्ययीभावादित्येव। ग्रामशब्दान्तादव्ययीभावात् परि अनु इत्येवंपूर्वाट् ठञ् प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। अणोऽपवादः। पारिग्रामिकः। आनुग्रामिकः॥

जिह्वामूलाङ्गुलेश्छः॥ ४.३.६२॥

जिह्वामूलशब्दादङ्गुलिशब्दात् च छः प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। यतोऽपवादः। जिह्वामूलीयम्। अङ्गुलीयम्॥

वर्गान्ताच्च॥ ४.३.६३॥

वर्गशब्दान्तात् च प्रातिपदिकाच् छः प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। अणोऽपवादः। कवर्गीयम्। चवर्गीयम्॥

अशब्दे यत्खावन्यतरस्याम्॥ ४.३.६४॥

वर्गान्तादित्येव। शब्दादन्यस्मिन् प्रत्ययार्थे वर्गान्तात् प्रातिपदिकादन्यतरस्यां यत्खौ प्रत्ययौ भवतः तत्र भव इत्येतस्मिन् विषये। छे प्राप्ते वचनं पक्षे सोऽपि भवति। वासुदेववर्ग्यः, वासुदेववर्गीणः, वासुदेववर्गीयः। युधिष्ठिरवर्ग्यः, युधिष्ठिरवर्गीणः, युधिष्ठिरवर्गीयः। अशब्द इति किम्? कवर्गीयो वर्णः॥

कर्णललाटात् कनलंकारे॥ ४.३.६५॥

कर्णललाटशब्दाभ्यां कन् प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषयेऽलंकारेऽभिधेये। यतोऽपवादः। कर्णिका। ललाटिका। अलंकार इति किम् ? कर्ण्यम्। ललाट्यम्॥

तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः॥ ४.३.६६॥

व्याख्यायतेऽनेनेति व्याख्यानम्, व्याख्यातव्यस्य नाम व्याख्यातव्यनाम। तस्येति षष्ठीसमर्थाद् व्याख्यातव्यनाम्नः प्रातिपदिकाद् व्याख्यानेऽभिधेये यथाविहितं प्रत्ययो भवति, तत्र भवे च। वाक्यार्थसमीपे चकारः श्रूयमाणः पूर्ववाक्यार्थमेव समुच्चिनोति ‘तत्र भवः’ (४.३.५३) इति। सुपां व्याख्यानः सौपो ग्रन्थः। तैङः। कार्तः। सुप्सु भवं सौपम्। तैङम्। कार्तम्। व्याख्यातव्यनाम्न इति किम् ? पाटलिपुत्रस्य व्याख्यानी सुकोसला, पाटलिपुत्रं सुकोसलया व्याख्यायते, एवंसंनिवेशं पाटलिपुत्रमिति, न तु पाटलिपुत्रं व्याख्यातव्यनाम। भवव्याख्यानयोर्युगपदधिकारोऽपवादविधानार्थः। कृतनिर्देशौ हि तौ ॥

बह्वचोऽन्तोदात्ताट् ठञ्॥ ४.३.६७॥

बह्वचो व्याख्यातव्यनाम्नः प्रातिपदिकादन्तोदात्ताद् भवव्याख्यानयोष्ठञ् प्रत्ययो भवति। अणोऽपवादः। षात्वणत्विकम्। नातानतिकम्। समासस्वरेणान्तोदात्ताः प्रकृतयः। बह्वच इति किम् ? द्व्यचष्ठकं (४.३.७२) वक्ष्यति। एकाच् प्रत्युदाह्रियते। सौपम्। तैङम्। कार्तम्। अन्तोदात्तादिति किम्? संहितायाः सांहितम्। संहिताशब्दो हि गतिस्वरेणाद्युदात्तः॥

क्रतुयज्ञेभ्यश्च ॥ ४.३.६८॥

क्रतुभ्यो यज्ञेभ्यश्च व्याख्यातव्यनामभ्यः प्रातिपदिकेभ्यो भवव्याख्यानयोरर्थयोष्ठञ् प्रत्ययो भवति। अणोऽपवादः। क्रतुभ्यस्तावत्-अग्निष्टोमस्य व्याख्यानस्तत्र भवः, आग्निष्टोमिकः। वाजपेयिकः। राजसूयिकः। यज्ञेभ्यः-पाकयज्ञिकः। नावयज्ञिकः। अनन्तोदात्तार्थ आरम्भः। क्रतुभ्य इत्येव सिद्धे यज्ञग्रहणमसोमयागेभ्योऽपि यथा स्यात्। पाञ्चौदनिकः। दाशौदनिकः। बहुवचनं स्वरूपविधिनिरासार्थम्॥

अध्यायेष्वेवर्षेः ॥ ४.३.६९॥

ऋषिशब्दाः प्रवरनामधेयानि, तेभ्य ऋषिशब्देभ्यो भवव्याख्यानयोरर्थयोष्ठञ् प्रत्ययो भवति। अणोऽपवादः। अध्यायेष्वेव प्रत्ययार्थविशेषणेषु। व्याख्यातव्यनाम्न इत्यनुवर्तते, तत्साहचर्यादृषिशब्दैर्ग्रन्थ उच्यते। वसिष्ठस्य व्याख्यानस्तत्र भवो वा वासिष्ठिकोऽध्यायः। वैश्वामित्रिकः। अध्यायेष्विति किम् ? वासिष्ठी ऋक्॥

पौरोडाशपुरोडाशात् ष्ठन् ॥ ४.३.७०॥

पौरोडाशशब्दात् पुरोडाशशब्दात् च भवव्याख्यानयोरर्थयोः ष्ठन् प्रत्ययो भवति। पुरोडाशाः पिष्टपिण्डाः, तेषां संस्कारको मन्त्रः पौरोडाशः, तस्य व्याख्यानस्तत्र भवो वा पौरोडाशिकः। पौरोडाशिकी। पुरोडाशसहचरितो ग्रन्थः पुरोडाशः, तस्य व्याख्यानस्तत्र भवो वा पुरोडाशिकः। पुरोडाशिकी। षकारो ङीषर्थः॥

छन्दसो यदणौ ॥ ४.३.७१॥

छन्दःशब्दाद् भवव्याख्यानयोरर्थयोर्यदणौ प्रत्ययौ भवतः। द्व्यच इति ठकि प्राप्ते वचनम्। छ॑न्द॒स्यः॑ (तै०सं० १.६.११.४)। छान्दसः (कौ०गृ० १४१.३४)॥

द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्याताट् ठक् ॥ ४.३.७२॥

द्व्यजादिभ्यः प्रातिपदिकेभ्यो व्याख्यातव्यनामभ्यो भवव्याख्यानयोरर्थयोष्ठक् प्रत्ययो भवति। अणादेरपवादः। द्व्यचस्तावत्-ऐष्टिकः। पाशुकः। ऋकारान्तात्-चातुर्होतृकः। पाञ्चहोतृकः। ब्राह्मण-ब्राह्मणिकः। ऋक् -आर्चिकः। प्रथमः-प्राथमिकः। अध्वर-आध्वरिकः। पुरश्चरण-पौरश्चरणिकः। नामाख्यातग्रहणं संघातविगृहीतार्थम्। नामिकः। आख्यातिकः। नामाख्यातिकः॥

अणृगयनादिभ्यः॥ ४.३.७३॥

ऋगयनादिभ्यः प्रातिपदिकेभ्यो भवव्याख्यानयोरर्थयोरण् प्रत्ययो भवति। ठञादेरपवादः। आर्गयनः। पादव्याख्यानः। अण्ग्रहणं बाधकबाधनार्थम्। वास्तुविद्यः॥ ऋगयन। पदव्याख्यान। छन्दोमान। छन्दोभाषा। छन्दोविचिति। न्याय। पुनरुक्त। निरुक्त। व्याकरण। निगम। वास्तुविद्या। अङ्गविद्या। क्षत्रविद्या। उत्पात। उत्पाद। संवत्सर। मुहूर्त। निमित्त। उपनिषत्। शिक्षा। ऋगयनादिः॥

तत आगतः॥ ४.३.७४॥

तत इति पञ्चमीसमर्थादागत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। स्रुघ्नादागतः स्रौघ्नः। माथुरः। राष्ट्रियः। तत इति मुख्यमपादानं विवक्षितं यत् तदिह गृह्यते, न नान्तरीयकम्। स्रुघ्नादागच्छन् वृक्षमूलादागत इति॥

ठगायस्थानेभ्यः॥ ४.३.७५॥

आय इति स्वामिग्राह्यो भाग उच्यते, स यस्मिन्नुत्पद्यते तदायस्थानम् । आयस्थानवाचिभ्यः प्रातिपदिकेभ्यष्ठक् प्रत्ययो भवति तत आगत इत्येतस्मिन् विषये। अणोऽपवादः। छं तु परत्वाद् बाधते। शुल्कशालाया आगतः शौल्कशालिकः। आकरिकम् बहुवचनं स्वरूपविधिनिरासार्थम्॥

शुण्डिकादिभ्योऽण्॥ ४.३.७६॥

शुण्डिक इत्येवमादिभ्यः प्रातिपदिकेभ्योऽण् प्रत्ययो भवति तत आगत इत्येतस्मिन् विषये। आयस्थानठकोऽपवादः। शुण्डिकादागतः शौण्डिकः। कार्कणः। अण्ग्रहणं बाधकबाधनार्थम्। औदपानः॥ शुण्डिक। कृकण। स्थण्डिल। उदपान। उपल। तीर्थ। भूमि। तृण। पर्ण। शुण्डिकादिः॥

विद्यायोनिसंबन्धेभ्यो वुञ्॥ ४.३.७७॥

विद्यायोनिकृतः संबन्धो येषां ते विद्यायोनिसंबन्धाः। तद्वाचिभ्यः शब्देभ्यो वुञ् प्रत्ययो भवति तत आगत इत्येतस्मिन् विषये। अणोऽपवादः। छं तु परत्वाद् बाधते। विद्यासंबन्धेभ्यस्तावत्-उपाध्यायादागतम् औपाध्यायकम्। शैष्यकम्। आचार्यकम्। योनिसंबन्धेभ्यः-मातामहकः। पैतामहकः। मातुलकः॥

ऋतष्ठञ्॥ ४.३.७८॥

विद्यायोनिसंबन्धेभ्य इत्येव। ऋकारान्तेभ्यः प्रातिपदिकेभ्यो विद्यायोनिसंबन्धवाचिभ्यष्ठञ् प्रत्ययो भवति तत आगत इत्येतस्मिन् विषये। वुञोऽपवादः। विद्यासंबन्धवाचिभ्यस्तावत्- होतुरागतं हौतृकम्। पौतृकम्। योनिसंबन्धवाचिभ्यः-भ्रातृकम्। स्वासृकम्। मातृकम्। तपरकरणं मुखसुखार्थम्। विद्यायोनिभ्यामन्यत्र सावित्रम्॥

पितुर्यच्च॥ ४.३.७९॥

पितृशब्दाद् यत् प्रत्ययो भवति, चकाराट् ठञ् च तत आगत इत्येतस्मिन् विषये। पितुरागतं पित्र्यम्। पैतृकम्॥

गोत्रादङ्कवत्॥ ४.३.८०॥

अपत्याधिकारादन्यत्र लौकिकं गोत्रमपत्यमात्रं गृह्यते। गोत्रप्रत्ययान्तात् प्रातिपदिकादङ्कवत् प्रत्ययविधिर्भवति तत आगत इत्येतस्मिन् विषये। अङ्कग्रहणेन तस्येदमर्थसामान्यं लक्ष्यते। तस्माद् वुञप्यतिदिश्यते नाणेव ‘सङ्घाङ्कलक्षणेष्वञ्यञिञामण्’ (४.३.१२७) इति। औपगवानामङ्कः औपगवकः। कापटवकः। नाडायनकः। चारायणकः। एवमौपगवेभ्य आगतम्, औपगवकम्। कापटवकम्। नाडायनकम्। चारायणकम्॥

हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः॥ ४.३.८१॥

हेतुभ्यो मनुष्येभ्यश्चान्यतरस्यां रूप्यः प्रत्ययो भवति तत आगत इत्येतस्मिन् विषये। मनुष्यग्रहणमहेत्वर्थम्। हेतुः कारणम्। हेतुभ्यस्तावत्-समादागतं समरूप्यम्, समीयम्। विषमरूप्यम्, विषमीयम्। गहादित्वात् (४.२.१३८) छः। मनुष्येभ्यः-देवदत्तरूप्यम्। यज्ञदत्तरूप्यम्। दैवदत्तम्। याज्ञदत्तम्। बहुवचनं स्वरूपविधिनिरासार्थम्॥

मयट् च ॥ ४.३.८२॥

हेतुभ्यो मनुष्येभ्यश्च मयट् प्रत्ययो भवति तत आगत इत्येतस्मिन् विषये। सममयम्। विषममयम्। मनुष्येभ्यः- देवदत्तमयम्। यज्ञदत्तमयम्। टकारो ङीबर्थः। सममयी। योगविभागो यथासंख्यनिरासार्थः॥

प्रभवति ॥ ४.३.८३॥

तत इत्येव। पञ्चमीसमर्थाद् ङ्याप्प्रातिपदिकात् प्रभवतीत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। प्रभवति प्रकाशते, प्रथमत उपलभ्यत इत्यर्थः। हिमवतः प्रभवति हैमवती गङ्गा। दारदी सिन्धुः॥

विदूराञ् ञ्यः ॥ ४.३.८४॥

विदूरशब्दाद् ञ्यः प्रत्ययो भवति ततः प्रभवतीत्येतस्मिन् विषये। अणोऽपवादः। विदूरात् प्रभवति वैदूर्यो मणिः। ननु च वालवायादसौ प्रभवति, न विदूरात्, तत्र तु संस्क्रियते? एवं तर्हि-

वालवायो विदूरं च प्रकृत्यन्तरमेव वा ।

न वै तत्रेति चेद् ब्रूयाज्जित्वरीवदुपाचरेत्॥

तद् गच्छति पथिदूतयोः॥ ४.३.८५॥

तदिति द्वितीयासमर्थाद् गच्छतीत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति, योऽसौ गच्छति पन्थाश्चेत् स भवति दूतो वा। स्रुघ्नं गच्छति स्रौघ्नः पन्था दूतो वा। माथुरः। तत्स्थेषु गच्छत्सु पन्था गच्छतीत्युच्यते। अथ वा स्रुघ्नप्राप्तिः पथो गमनम्। पथिदूतयोरिति किम्? स्रुघ्नं गच्छति सार्थः॥

अभिनिष्क्रामति द्वारम्॥ ४.३.८६॥

तदित्येव। तदिति द्वितीयासमर्थादभिनिष्क्रामतीत्येतस्मिन्नर्थे याथाविहितं प्रत्ययो भवति, यदभिनिष्क्रामति द्वारं चेत् तद् भवति। आभिमुख्येन निष्क्रामति, अभिनिष्क्रामति। स्रुघ्नमभिनिष्क्रामति कान्यकु ब्जद्वारं स्रौघ्नम्। माथुरम्। राष्ट्रियम्। द्वारमभिनिष्क्रमणक्रियायां करणं प्रसिद्धम्, तदिह स्वातन्त्र्येण विवक्ष्यते, तथा साध्वसिश्छिनत्तीति। द्वारमिति किम् ? स्रुघ्नमभिनिष्क्रामति पुरुषः॥

अधिकृत्य कृते ग्रन्थे॥ ४.३.८७॥

तदित्येव। अधिकृत्यैतदपेक्षया द्वितीया। अधिकृत्य, प्रस्तुत्य, आगूर्येत्यर्थः। तदिति द्वितीयासमर्थादधिकृत्य कृत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत् तत् कृतं ग्रन्थश्चेत् स भवति। सुभद्रामधिकृत्य कृतो ग्रन्थः सौभद्रः। गैरिमित्रः। यायातः। ग्रन्थ इति किम् ? सुभद्रामधिकृत्य कृतः प्रासादः॥ लुबाख्यायिकाभ्यः प्रत्ययस्य बहुलम्॥ वासवदत्तामधिकृत्य कृताख्यायिका वासवदत्ता। सुमनोत्तरा। उर्वशी। न च भवति-भैमरथी॥

शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः॥ ४.३.८८॥

तदित्येव। अधिकृत्य कृते ग्रन्थ इति च। शिशुक्रन्दादिभ्यो द्वितीयासमर्थेभ्यश्छः प्रत्ययो भवत्यधिकृत्य कृते ग्रन्थे। अणोऽपवादः। शिशूनां क्रन्दनं शिशुक्रन्दः। तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः। यमस्य सभा यमसभम् यमसभीयः। द्वन्द्वात्-अग्निकाश्यपीयः। श्येनकपोतीयः। शब्दार्थसंबन्धीयं प्रकरणम्। वाक्यपदीयम्। इन्द्रजननादिभ्यः- इन्द्र-जननीयम्। प्रद्युम्नागमनीयम्। इन्द्रजननादिराकृतिगणः प्रयोगतोऽनुसर्तव्यः, प्रातिपदिकेषु न पठ्यते॥ द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः॥ दैवासुरम् । राक्षोऽसुरम्। गौणमुख्यम्। इन्द्रजननादेराकृतिगणत्वात् शिशुक्रन्दादयोऽपि तत्रैव द्रष्टव्याः। प्रपञ्चार्थमेषां ग्रहणम्। एवं सति देवासुरादिप्रतिषेधोऽपि न वक्तव्यः, ततश्छप्रत्ययस्यादर्शनात्॥

सोऽस्य निवासः॥ ४.३.८९॥

स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं निवासश्चेत् स भवति। निवसन्त्यस्मिन्निवासो देश उच्यते। स्रुघ्नो निवासोऽस्य स्रौघ्नः। माथुरः। राष्ट्रियः॥

अभिजनश्च॥ ४.३.९०॥

सोऽस्येत्येव। स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थमभिजनश्चेत् स भवति। अभिजनः पूर्वबान्धवः। तत्संबन्धाद् देशोऽप्यभिजन इत्युच्यते-यस्मिन् पूर्वबान्धवैरुषितम्। तस्मादिह देशवाचिनः प्रत्ययः, न बन्धुभ्यः, निवासप्रत्यासत्तेः। स्रुघ्नोऽभिजनोऽस्य स्रौघ्नः। माथुरः। राष्ट्रियः। निवासाभिजनयोः को विशेषः? यत्र संप्रत्युष्यते स निवासः, यत्र पूर्वैरुषितं सोऽभिजनः। योगविभाग उत्तरार्थः॥

आयुधजीविभ्यश्छः पर्वते॥ ४.३.९१॥

सोऽस्याभिजन इति वर्तते। आयुधजीविभ्य इति तादर्थ्ये चतुर्थी, पर्वत इति प्रकृतिविशेषणम्। पर्वतवाचिनः प्रथमासमर्थादभिजनादस्येति षष्ठ्यर्थे छः प्रत्ययो भवति। आयुधजीविभ्य आयुधजीव्यर्थम् आयुधजीविनोऽभिधातुं प्रत्ययो भवतीत्यर्थः। हृद्गोलः पर्वतोऽभिजन एषामायुधजीविनां हृद्गोलीयाः। अन्धकवर्तीयाः। रोहितगिरीयाः। आयुध जीविभ्य इति किम् ? ऋक्षोदः पर्वतोऽभिजन एषां ब्राह्मणानाम्, आर्क्षोदा ब्राह्मणाः। पर्वत इति किम्? सांकाश्यका आयुधजीविनः॥

शण्डिकादिभ्यो ञ्यः॥ ४.३.९२॥

शण्डिक इत्येवमादिभ्यः प्रातिपदिकेभ्यो ञ्यः प्रत्ययो भवति सोऽस्याभिजन इत्येतस्मिन् विषये। अणादेरपवादः। शाण्डिक्यः। सार्वसेन्यः॥ शण्डिक। सर्वसेन। सर्वकेश। शक। सट। रक। शङ्ख। बोध। शण्डिकादिः॥

सिन्धुतक्षशिलादिभ्योऽणञौ॥ ४.३.९३॥

आदिशब्दः प्रत्येकमभिसंबध्यते। सिन्ध्वादिभ्यःप्रातिपदिकेभ्यस्तक्षशिलादिभ्यश्च यथासंख्यमणञौ प्रत्ययौ भवतः सोऽस्याभिजन इत्येतस्मिन् विषये। सैन्धवः। वार्णवः॥ सिन्धु। वर्णु। गन्धार। मधुमत्। कम्बोज। कश्मीर। साल्व। किष्किन्धा। गब्दिका। उरस। दरत्। ये तु कच्छादिषु (४.२.१३३) पठ्यन्ते सिन्धुवर्णुप्रभृतयः, तेभ्यस्तत एवाणि सिद्धे मनुष्यवुञो (४.२.१३४) बाधनार्थं वचनम्। तक्षशिलादिभ्यः खल्वपि-ताक्षशिलः। वात्सोद्धरणः॥ तक्षशिला। वत्सोद्धरण। कौमेदुर। काण्डवारण। ग्रामणी। सरालक। कंस। किन्नर। संकुचित। सिंहकोष्ठ। कर्णकोष्ठ। बर्बर। अवसान॥

तूदीशलातुरवर्मतीकूचवाराड् ढक्छण्ढञ्यकः॥ ४.३.९४॥

तूद्यादिभ्यश्चतुर्भ्यः शब्देभ्यो यथासंख्यं चत्वार एव ढक् छण् ढञ् यक् इत्येते प्रत्यया भवन्ति सोऽस्याभिजन इत्येतस्मिन् विषये। अणोऽपवादः। तौदेयः। शालातुरीयः। वार्मतेयः। कौचवार्यः॥

भक्तिः॥ ४.३.९५॥

समर्थविभक्तिः प्रत्ययार्थश्चानुवर्तते। अभिजन इति निवृत्तम्। स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं भक्तिश्चेत् तद् भवति। भज्यते सेव्यत इति भक्तिः। स्रुघ्नो भक्तिरस्य स्रौघ्नः। माथुरः। राष्ट्रियः॥

अचित्ताददेशकालाट् ठक्॥ ४.३.९६॥

देशकालव्यतिरिक्तादचित्तवाचिनः प्रातिपदिकाट् ठक् प्रत्ययो भवति सोऽस्य भक्तिरित्येतस्मिन् विषये। अणोऽपवादः। वृद्धाच् छं परत्वाद् बाधते। अपूपो भक्तिरस्य आपूपिकः। शाष्कुलिकः। पायसिकः। अचित्तादिति किम् ? दैवदत्तः। अदेशादिति किम् ? स्रौघ्नः। अकालादिति किम् ? ग्रैष्मः॥

महाराजाट् ठञ्॥ ४.३.९७॥

महाराजशब्दाट् ठञ् प्रत्ययो भवति सोऽस्य भक्तिरित्येतस्मिन् विषये। अणोऽपवादः। महाराजो भक्तिरस्य माहाराजिकः। प्रत्ययान्तरकरणं स्वरार्थम्॥

वासुदेवार्जुनाभ्यां वुन्॥ ४.३.९८॥

वासुदेवार्जुनशब्दाभ्यां वुन् प्रत्ययो भवति सोऽस्य भक्तिरित्येतस्मिन् विषये। छाणोरपवादः। वासुदेवो भक्तिरस्य वासुदेवकः। अर्जुनकः। ननु च वासुदेवशब्दाद् ‘गोत्रक्षत्रियाख्येभ्यः०’ (४.३.९९) इति वुञस्त्येव। न चात्र वुन्वुञोर्विशेषो विद्यते, किमर्थं वासुदेवग्रहणम्? संज्ञैषा देवताविशेषस्य न क्षत्रियाख्या। ‘अल्पाच्तरम्’ (२.२.३४) ‘अजाद्यदन्तम्’ (२.२.३३) इति वा अर्जुनशब्दस्य पूर्वनिपातमकुर्वन् ज्ञापयति-अभ्यर्हितं पूर्वं निपततीति॥

गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ्॥ ४.३.९९॥

गोत्राख्येभ्यः क्षत्रियाख्येभ्यश्च प्रातिपदिकेभ्यो बहुलं वुञ् प्रत्ययो भवति सोऽस्यभक्तिरित्येतस्मिन् विषये। अणोऽपवादः। वृद्धाच्छं परत्वाद् बाधते। ग्लुचुकायनिर्भक्तिरस्य ग्लौचुकायनकः। औपगवकः। कापटवकः। क्षत्रियाख्येभ्यः- नाकुलकः। साहदेवकः। साम्बकः। आख्याग्रहणं प्रसिद्धक्षत्रियशब्दपरिग्रहार्थम्, यथाकथंचित् क्षत्रियवृत्तिभ्यो मा भूत्। बहुलग्रहणात् क्वचिदप्रवृत्तिरेव। पाणिनो भक्तिरस्य पाणिनीयः। पौरवीयः॥

जनपदिनां जनपदवत् सर्वं जनपदेन समानशब्दानां बहुवचने॥ ४.३.१००॥

जनपदिनो ये बहुवचने जनपदेन समानशब्दाः, तेषां जनपदवत् सर्वं भवति, प्रत्ययः प्रकृतिश्च, सोऽस्य भक्तिरित्येतस्मिन् विषये। ‘जनपदतदवध्योश्च’ (४.२.१२४) इत्यत्र प्रकरणे ये प्रत्यया विहिताः, ते जनपदिभ्योऽस्मिन्नर्थेऽतिदिश्यन्ते। जनपदिनो जनपदस्वामिनः क्षत्रियाः। अङ्गा जनपदो भक्तिरस्य आङ्गकः। वाङ्गकः। सौह्मकः। पौण्ड्रकः। तद्वदङ्गाः क्षत्रिया भक्तिरस्य आङ्गकः। वाङ्गकः। सौह्मकः। पौण्ड्रकः। जनपदिनामिति किम्? पञ्चाला ब्राह्मणा भक्तिरस्य पाञ्चालः। सर्वग्रहणं प्रकृत्यतिदेशार्थम्, स च द्व्येकयोः प्रयोजयति। वृद्धिनिमित्तेषु च वुञादिषु विशेषो नास्तीति। मद्रवृज्योः कनि (४.२.१३१) विशेषः। मद्रस्यापत्यम् ‘द्व्यञ्मगधकलिङ्गसूरमसादण्’ (४.१.१७०), माद्रः। वृजिशब्दादपि ‘वृद्धेत्कोसलाजादाञ्ञ्यङ्’ (४.१.१७१), वार्ज्यः। स भक्तिरस्येति प्रकृतिनिर्ह्रासे कृते मद्रकः। वृजिकः। जनपदेन समानशब्दानामिति किम् ? अनुषण्डो जनपदः, पौरवो राजा, स भक्तिरस्य पौरवीयः। बहुवचनग्रहणं समानशब्दताविषयलक्षणार्थम्। अन्यथा हि यत्रैव समानशब्दता तत्रैवातिदेशः स्याद्, एकवचनद्विवचनयोर्न स्यात्, वाङ्गो वाङ्गौ वा भक्तिरस्येति। बहुवचने तु बहुवचने समानशब्दानामेकवचनद्विवचनयोः सत्यपि शब्दभेदेऽतिदेशो भवति। वाङ्गो वाङ्गौ वा भक्तिरस्य वाङ्गकः॥

तेन प्रोक्तम् ॥ ४.३.१०१॥

तेनेति तृतीयासमर्थात् प्रोक्तमित्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। प्रकर्षेणोक्तं प्रोक्तमित्युच्यते, न तु कृतम्, ‘कृते ग्रन्थे’ (४.३.११६) इत्यनेन गतार्थत्वात्। अन्येन कृता, माथुरेण प्रोक्ता माथुरी वृत्तिः। पाणिनीयम्। आपिशलम्। काशकृत्स्नम्॥

तित्तिरिवरतन्तुखण्डिकोखाच् छण् ॥ ४.३.१०२॥

तित्तिर्यादिभ्यः शब्देभ्यश्छण् प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये। अणोऽपवादः। तित्तिरिणा प्रोक्तमधीयते तैत्तिरीयाः। वारतन्तवीयाः। खाण्डिकीयाः। औखीयाः। छन्दसि चायमिष्यते, तित्तिरिणा प्रोक्तः श्लोक इत्यत्र न भवति, ‘शौनकादिभ्यश्छन्दसि’ (४.३.१०६) इत्यत्रास्यानुवृत्तेः। छन्दोऽधिकारविहितानां च तद्विषयतेष्यते॥

काश्यपकौशिकाभ्यामृषिभ्यां णिनिः ॥ ४.३.१०३॥

काश्यपकौशिकशब्दाभ्यामृषिवाचिभ्यां णिनिः प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये। छस्यापवादः। णकार उत्तरत्र वृद्ध्यर्थः। कल्पस्ताभ्यां प्रोक्त इति स्मर्यते। तस्यापि च तद्विषयता भवत्येव,‘शौनकादिभ्यश्छन्दसि’ (४.३.१०६) इत्यत्रानुवृत्तेः, छन्दोऽधिकारविहितानां च तत्र तद्विषयतेष्यते। काश्यपेन प्रोक्तं कल्पमधीयते काश्यपिनः। कौशिकिनः। ऋषिभ्यामिति किम् ? इदानींतनेन गोत्रकाश्यपेन प्रोक्तं काश्यपीयम्॥

कलापिवैशम्पायनान्तेवासिभ्यश्च ॥ ४.३.१०४॥

कलाप्यन्तेवासिनां वैशंपायनान्तेवासिनां च ये वाचकाः शब्दास्तेभ्यो णिनिः प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये। अणोऽपवादः। छं तु परत्वाद् बाधते। तत्र कलाप्यन्तेवासिनश्चत्वारः- हरिद्रुः, छगली, तुम्बुरुः, उलप इति। वैशम्पायनान्तेवासिनो नव-आलम्बिः, पलङ्गः, कमलः, ऋचाभः, आरुणिः, ताण्ड्यः, श्यामायनः, कठः, कलापी इति। प्रत्यक्षकारिणो गृह्यन्ते, न तु व्यवहिताः शिष्यशिष्याः। कुतः? कलापिखाडायनग्रहणात्। तथाहि, वैशंपायनान्तेवासी कलापी, तदन्तेवासिनो वैशंपायनान्तेवासिन एव भवन्ति, किं कलापिग्रहणेन ? तथा वैशंपायनान्तेवासी कठः, तदन्तेवासी खाडायनः, तस्य किं शौनकादिषु पाठेन? तदेतत् प्रत्यक्षकारिग्रहणस्य लिङ्गम्। कलाप्यन्तेवासिभ्यस्तावत्-हरिद्रुणा प्रोक्तमधीयते हारिद्रविणः। तौम्बुरविणः। औलपिनः। छगलिनो ढिनुकं (४.३.१०९) वक्ष्यति। वैशम्पायनान्तेवासिभ्यः-आलम्बिनः। पालङ्गिनः। कामलिनः। आर्चाभिनः। आरुणिनः। ताण्डिनः। श्यामायनिनः। कठाल् लुकं वक्ष्यति (४.३.१०७), कलापिनश्चाणम् (४.३.१०८)।

हरिद्रुरेषां प्रथमस्ततश्छगलितुम्बुरु।

उलपेन चतुर्थेन कालापकमिहोच्यते॥

आलम्बिश्चरकः प्राचां पलङ्गकमलावुभौ।

ऋचाभारुणिताण्ड्याश्च मध्यमीयास्त्रयोऽपरे॥

श्यामायन उदीच्येषु उक्त ः कठकलापिनोः।

चरक इति वैशंपायनस्याख्या, तत्संबन्धेन सर्वे तदन्तेवासिनश्चरका इत्युच्यन्ते॥

पुराणप्रोक्तेषु ब्राह्मणकल्पेषु॥ ४.३.१०५॥

प्रत्ययार्थविशेषणमेतत्। तृतीयासमर्थात् प्रोक्ते णिनिः प्रत्ययो भवति यत् प्रोक्तं पुराणप्रोक्ताश्चेद् ब्राह्मणकल्पास्ते भवन्ति। पुराणेन चिरन्तनेन मुनिना प्रोक्ताः। ब्राह्मणेषु तावत्-भाल्लविनः। शाट्यायनिनः। ऐतरेयिणः। कल्पेषु-पैङ्गी कल्पः। आरुणपराजी। पुराणप्रोक्तेष्विति किम् ? याज्ञवल्कानि ब्राह्मणानि। आश्मरथः कल्पः। याज्ञवल्क्यादयोऽचिरकाला इत्याख्यानेषु वार्ता। तया व्यवहरति सूत्रकारः। तद्विषयता कस्माद् न भवति? प्रतिपदं ब्राह्मणेषु यः प्रत्ययः, तस्य तद्विषयता विधीयते णिनेः। अयं तु याज्ञवल्क्यशब्दस्य कण्वादिषु (४.२.१११) पाठादण्। न चायं योगश्छन्दोऽधिकारमनुवर्तयति, तेन कल्पेष्वपि न भवति। पुराण इति निपातनात् तुडभावः। न चात्यन्तबाधैव, तेन पुरातनमित्यपि भवति॥

शौनकादिभ्यश्छन्दसि॥ ४.३.१०६॥

शौनक इत्येवमादिभ्यो णिनिः प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये छन्दस्यभिधेये। छाणोरपवादः। शौनकेन प्रोक्तमधीयते शौनकिनः (कौ०सू० ८५.८)। वाजसनेयिनः (आप०श्रौ० १.८.१२)। छन्दसीति किम्? शौनकीया शिक्षा। कठशाठ इत्यत्र पठ्यते। तत् संघातार्थम् केवलाद्धि लुकं वक्ष्यति (४.३.१०७)। कठशाठाभ्यां प्रोक्तमधीयते काठशाठिनः॥ शौनक। वाजसनेय। साङ्गरव। शार्ङ्गरव। सांपेय। शाखेय। खाडायन। स्कन्ध। स्कन्द। देवदत्तशठ। रज्जुकण्ठ। रज्जुभार। कठशाठ। कशाय। तलवकार। पुरुषांसक। अश्वपेय। शौनकादिः॥

कठचरकाल् लुक्॥ ४.३.१०७॥

कठचरकशब्दाभ्यां परस्य प्रोक्तप्रत्ययस्य लुग् भवति। कठशब्दाद् वैशंपायनान्तेवासिभ्यः (४.३.१०४) इति णिनेः, चरकशब्दादप्यणः। कठेन प्रोक्तमधीयते कठाः। चरकाः। छन्दसीत्येव-काठाः। चारकाः॥

कलापिनोऽण् ॥ ४.३.१०८॥

कलापिशब्दादण् प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये। वैशंपायनान्तेवासित्वाद् णिनेरपवादः। कलापिना प्रोक्तमधीयते कालापाः। ‘इनण्यनपत्ये’ (६.४.१६४) इति प्रकृतिभावे प्राप्ते, ‘नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकुथुमितैतलिजाजलिजाङ्गलि-लाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसंख्यानम्’ (वा० ६.४.१४४) इति टिलोपः। अथाण्ग्रहणं किम्, यथाप्राप्तमित्येव सिद्धम्? अधिकविधानार्थम्, तेन माथुरी वृत्तिः, सौलभानि ब्राह्मणानीत्येवमादि सिद्धम् ॥

छगलिनो ढिनुक् ॥ ४.३.१०९॥

छगलिन्शब्दाद् ढिनुक् प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये। कलाप्यन्तेवासित्वाद् णिनेरपवादः। छगलिना प्रोक्तमधीयते छागलेयिनः॥

पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ॥ ४.३.११०॥

णिनिरिहानुवर्तते, न ढिनुक्। पाराशर्यशिलालिभ्यां णिनिः प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये । भिक्षुनटसूत्रयोरिति यथासंख्यं प्रत्ययार्थविशेषणम्। सूत्रशब्दः प्रत्येकमभिसंबध्यते। तद्विषयता चात्रेष्यते, तदर्थं छन्दोग्रहणमनुवर्त्यम्, गुणकल्पनया च भिक्षुनटसूत्रयोश्छन्दस्त्वम्। पाराशर्येण प्रोक्तमधीयते पाराशरिणो भिक्षवः। शैलालिनो नटाः। भिक्षुनटसूत्रयोरिति किम् ? पाराशरम्। शैलालम्॥

कर्मन्दकृशाश्वादिनिः ॥ ४.३.१११॥

भिक्षुनटसूत्रयोरित्येव। कर्मन्दकृशाश्वशब्दाभ्यामिनिः प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये यथासंख्यं भिक्षुनटसूत्रयोरभिधेययोः। अणोऽपवादः। अत्रापि तद्विषयतार्थं छन्दोग्रहणमनुवर्त्यम्। कर्मन्देन प्रोक्तमधीयते कर्मन्दिनो भिक्षवः। कृशाश्विनो नटाः। भिक्षुनटसूत्रयोरित्येव-कार्मन्दम्। कार्शाश्वम्॥

तेनैकदिक् ॥ ४.३.११२॥

तेनेति तृतीयासमर्थादेकदिगित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। एकदिक् तुल्यदिक्, समानदिगित्यर्थः। सुदाम्ना एकदिक् सौदामनी विद्युत्। हैमवती। त्रैककुदी। पैलुमूली। तेनेति प्रकृते पुनः समर्थविभक्तिग्रहणं छन्दोऽधिकारनिवृत्त्यर्थम्। पूर्वत्र हि छन्दोऽधिकारात् तद्विषयता साध्यते॥

तसिश्च॥ ४.३.११३॥

तसिश्च प्रत्ययो भवति तेनैकदिगित्येतस्मिन् विषये। पूर्वेण घादिष्वणादिषु च प्राप्तेष्वयमपरः प्रत्ययो विधीयते। स्वरादिपाठादव्ययत्वम्। सुदामतः। हिमवत्तः। पिलुमूलतः॥

उरसो यच्च॥ ४.३.११४॥

उरःशब्दाद् यत् प्रत्ययो भवति, चकारात् तसिश्च, तेनैकदिगित्येतस्मिन् विषये। अणोऽपवादः। उरसैकदिग् उरस्यः। उरस्तः॥

उपज्ञाते॥ ४.३.११५॥

तेनेत्येव। तृतीयासमर्थादुपज्ञात इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। विनोपदेशेन ज्ञातमुपज्ञातम्, स्वयमभिसंबुद्धमित्यर्थः। पाणिनिनोपज्ञातं पाणिनीयमकालकं व्याकरणम्। काशकृत्स्नं गुरुलाघवम्। आपिशलं दुष्करणम्॥

कृते ग्रन्थे॥ ४.३.११६॥

तेनेत्येव। तृतीयासमर्थात् कृत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत् तत् कृतं ग्रन्थश्चेत् स भवति। वररुचिना कृता वाररुचाः श्लोकाः। हैकुपादो ग्रन्थः। भैकुराटो ग्रन्थः। जालूकः। ग्रन्थ इति किम्? तक्षकृतः प्रासादः। उत्पादितं कृतम्, विद्यमानमेव ज्ञातमुपज्ञातमित्ययमनयोर्विशेषः॥

संज्ञायाम्॥ ४.३.११७॥

तृतीयासमर्थात् कृत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति समुदायेन चेत् संज्ञा ज्ञायते। मक्षिकाभिः कृतं माक्षिकम्। कार्मुकम्। सारघम्। पौत्तिकम्। मधुनः संज्ञा एताः॥

कुलालादिभ्यो वुञ्॥ ४.३.११८॥

तेन, कृते, संज्ञायामिति चैतत् सर्वमनुवर्तते। कुलालादिभ्यो वुञ् प्रत्ययो भवति तेन कृतमित्येतस्मिन्नर्थे संज्ञायां गम्यमानायाम्। कौलालकम्। वारुडकम्॥ कुलाल। वरुड। चण्डाल। निषाद। कर्मार। सेना। सिरिध्र। सेन्द्रिय। देवराज। परिषत्। वधू। रुरु। ध्रुव। रुद्र। अनडुह्। ब्रह्मन्। कुम्भकार। श्वपाक। कुलालादिः॥

क्षुद्राभ्रमरवटरपादपादञ् ॥ ४.३.११९॥

तेन, कृते, संज्ञायामिति सर्वमनुवर्तते। क्षुद्रादिभ्योऽञ् प्रत्ययो भवति तेन कृत इत्येतस्मिन् विषये संज्ञायां गम्यमानायाम्। अणोऽपवादः। स्वरे विशेषः। क्षुद्रादिभिः कृतं क्षौद्रम्। भ्रामरम्। वाटरम्। पादपम्॥

तस्येदम् ॥ ४.३.१२०॥

तस्येति षष्ठीसमर्थादिदमित्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। अणादयः पञ्च महोत्सर्गाः, घादयश्च प्रत्यया यथाविहितं विधीयन्ते। प्रकृतिप्रत्ययार्थयोः षष्ठ्यर्थमात्रं तत्संबन्धिमात्रं च विवक्षितम्, यदपरं लिङ्गसंख्याप्रत्यक्षपरोक्षादिकं तत् सर्वमविवक्षितम्। उपगोरिदमौपगवम्। कापटवम्। राष्ट्रियम्। अवारपारीणम्। अनन्तरादिष्वनभिधानाद् न भवति, देवदत्तस्यानन्तरमिति॥ संवहेस्तुरणिट् च॥ संवोढुः स्वं सांवहित्रम्। सिद्ध एवात्राण्, इडर्थमुपसंख्यानम्॥ अग्नीधः शरणे रञ् भं च॥ आग्नीध्रम्॥ समिधामाधाने षेण्यण्॥ सामिधेन्यो मन्त्रः। सामिधेनी ऋक्॥

रथाद् यत्॥ ४.३.१२१॥

रथशब्दाद् यत् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। अणोऽपवादः। रथस्येदं रथ्यम्, चक्रं वा युगं वा। रथाङ्ग एवेष्यते नान्यत्र, अनभिधानात्। ‘रथसीताहलेभ्यो यद्विधौ’ (१.१.७२ महाभाष्यवा०) इति तदन्तविधिरुपसंख्यायते। परमरथ्यम्। उत्तमरथ्यम्॥

पत्रपूर्वादञ्॥ ४.३.१२२॥

पतन्ति तेनेति पत्रमश्वादिकं वाहनमुच्यते। तत्पूर्वाद् रथशब्दादञ् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। पूर्वस्य यतोऽपवादः। आश्वरथं चक्रम्। औष्ट्ररथम्। गार्दभरथम्॥

पत्राध्वर्युपरिषदश्च॥ ४.३.१२३॥

पत्रं वाहनम्, तद्वाचिनः प्रातिपदिकादध्वर्युपरिषच्छब्दाभ्यां चाञ् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। अणोऽपवादः॥ पत्राद् वाह्ये॥ अश्वस्येदं वहनीयमाश्वम्। औष्ट्रम्। गार्दभम्। आध्वर्यवम्। पारिषदम्॥

हलसीराट् ठक्॥ ४.३.१२४॥

हलसीरशब्दाभ्यां ठक् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। अणोऽपवादः। हलस्येदं हालिकम्। सैरिकम्॥

द्वन्द्वाद् वुन् वैरमैथुनिकयोः॥ ४.३.१२५॥

द्वन्द्वसंज्ञकाद् वुन् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये, वैरमैथुनिकयोः प्रत्ययार्थविशेषणयोः। अणोऽपवादः। छं तु परत्वाद् बाधते। वैरे तावत्-बाभ्रव्यशालङ्कायनिका। काकोलूकिका। मैथुनिकायाम्-अत्रिभरद्वाजिका। कुत्सकुशिकिका। विवहनं मैथुनिका। वैरस्य नपुंसकत्वेऽप्यमी स्वभावतः स्त्रीलिङ्गाः॥ वैरे देवासुरादिभ्यः प्रतिषेधो वक्तव्यः॥ दैवासुरम्। राक्षोऽसुरं वैरम्॥

गोत्रचरणाद् वुञ्॥ ४.३.१२६॥

गोत्रवाचिभ्यश्चरणवाचिभ्यश्च प्रातिपदिकेभ्यो वुञ् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। अणोऽपवादः। छं तु परत्वाद् बाधते। गोत्रात् तावत् - ग्लौचुकायनकम्। औपगवकम्॥ चरणाद् धर्माम्नाययोरिष्यते॥ काठकम्। कालापकम्। मौदकम्। पैप्पलादकम्॥

सङ्घाङ्कलक्षणेष्वञ्यञिञामण्॥ ४.३.१२७॥

संघादिषु प्रत्ययार्थविशेषणेष्वञन्ताद्, यञन्ताद्, इञन्तात् च प्रातिपदिकादण् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। पूर्वस्य वुञोऽपवादः॥ घोषग्रहणमत्र कर्तव्यम्॥ तेन वैषम्याद् यथासंख्यं न भवति। अञन्तात्-बैदः संघः। बैदोऽङ्कः। बैदं लक्षणम्। बैदो घोषः। यञन्तात्-गार्गः संघः। गार्गोऽङ्कः। गार्गं लक्षणम्। गार्गो घोषः। इञन्तात्-दाक्षः संघः। दाक्षोऽङ्कः। दाक्षं लक्षणम्। दाक्षो घोषः। अङ्कलक्षणयोः को विशेषः ? लक्षणं लक्ष्यस्यैव चिह्नभूतं स्वं यथा विद्या बिदानाम् अङ्कस्तु गवादिस्थोऽपि गवादीनां स्वं न भवति। णित्करणं ङीबर्थं पुंवद्भावप्रतिषेधार्थं च। बैदी विद्यास्य बैदीविद्यः॥

शाकलाद्वा॥ ४.३.१२८॥

शाकलशब्दात् संघादिषु प्रत्ययार्थविशेषणेषु वाण् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। वुञोऽपवादः। शाकल्येन प्रोक्तमधीयते, शाकलाः। तेषां संघः शाकलः, शाकलकः। शाकलोऽङ्कः, शाकलकोऽङ्कः। शाकलं लक्षणम्, शाकलकं लक्षणम्। शाकलो घोषः, शाकलको घोषः॥

छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ् ञ्यः॥ ४.३.१२९॥

संघादयो निवृत्ताः, सामान्येन विधानम्। छन्दोगादिभ्यः शब्देभ्यो ञ्यः प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। वुञणोरपवादः। चरणाद् धर्माम्नाययोः, तत्साहचर्याद् नटशब्दादपि धर्माम्नाययोरेव भवति। छन्दोगानां धर्मो वाम्नायो वा छान्दोग्यम्। औक्थिक्यम्। याज्ञिक्यम्। बाह्वृच्यम्। नाट्यम्। अन्यत्र छान्दोगं कुलमित्यादि॥

न दण्डमाणवान्तेवासिषु॥ ४.३.१३०॥

दण्डप्रधाना माणवा दण्डमाणवाः, अन्तेवासिनः शिष्याः। तेष्वभिधेयेषु वुञ् प्रत्ययो न भवति। गोत्रग्रहणमिहानुवर्तते, तेन वुञ्प्रतिषेधो विज्ञायते। गौकक्षाः दण्डमाणवा अन्तेवासिनो वा। दाक्षाः। माहकाः॥

रैवतिकादिभ्यश्छः ॥ ४.३.१३१॥

रैवतिकादिभ्यश्छः प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। गोत्रप्रत्ययान्ता एते, ततः पूर्वेण वुञि प्राप्ते छविधानार्थं वचनम्। रैवतिकीयः। स्वापिशीयः॥ रैवतिक। स्वापिशि। क्षैमवृद्धि। गौरग्रीवि। औदमेयि। औदवाहि। बैजवापि॥

कौपिञ्जलहास्तिपदादण् ॥ ४.३.१३२॥

कौपिञ्जलहास्तिपदशब्दाभ्यामण् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। गोत्रवुञोऽपवादः, गोत्राधिकारात्। कौपिञ्जलः। हास्तिपदः॥

आथर्वणिकस्येकलोपश्च ॥ ४.३.१३३॥

अणित्येव। आथर्वणिकशब्दादण् प्रत्ययो भवति, तत्सन्नियोगेन चेकलोपः, तस्येदमित्येतस्मिन् विषये। चरणवुञोऽपवादः। आथर्वणिकस्यायम् आथर्वणो धर्म आम्नायो वा। ‘चरणाद् धर्माम्नाययोः’ (वा० ४.३.१२६)॥

तस्य विकारः ॥ ४.३.१३४॥

तस्येति षष्ठीसमर्थाद् विकार इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। प्रकृतेरवस्थान्तरं विकारः। किमिहोदाहरणम्? अप्राण्याद्युदात्तमवृद्धम्, यस्य च नान्यत् प्रतिपदं विधानम्। अश्मनो विकार आश्मनः। आश्मः। ‘अश्मनो विकारे’ (वा० ६.४.१४४) इति टिलोपः पाक्षिकः। भास्मनः। मार्त्तिकः। नित्स्वरेणाद्युदात्ता एते। तस्यप्रकरणे तस्येति पुनर्वचनं शैषिकनिवृत्त्यर्थम्। विकारावयवयोर्घादयो न भवन्ति। हालः। सैरः॥

अवयवे च प्राण्योषधिवृक्षेभ्यः ॥ ४.३.१३५॥

प्राण्योषधिवृक्षवाचिभ्यः शब्देभ्यः षष्ठीसमर्थेभ्योऽवयवे यथाविहितं प्रत्ययो भवति, चकाराद् विकारे च। तत्र प्राणिभ्योऽञं वक्ष्यति (४.३.१५४)। कपोतस्य विकारोऽवयवो वा कापोतः। मायूरः। तैत्तिरः। ओषधिभ्यः- मौर्वं काण्डम्। मौर्वं भस्म। वृक्षेभ्यः-कारीरं काण्डम्। कारीरं भस्म। इत उत्तरे प्रत्ययाः प्राण्योषधिवृक्षेभ्यो विकारावयवयोर्भवन्ति। अन्येभ्यस्तु विकारमात्रे। कथं द्वयमप्यधिक्रियते तस्य विकारः, अवयवे च प्राण्योषधिवृक्षेभ्य इति? विकारावयवयोर्युगपदधिकारोऽपवादविधानार्थः। कृतनिर्देशौ (४.३.१२०) हि तौ ॥

बिल्वादिभ्योऽण् ॥ ४.३.१३६॥

बिल्व इत्येवमादिभ्योऽण् प्रत्ययो भवति विकारावयवयोरर्थयोः। यथायोगमञ्मयटोरपवादः। बिल्वस्य विकारोऽवयवो वा बैल्वः। गवेधुकाशब्दोऽत्र पठ्यते, ततः कोपधादेव सिद्धे मयड्बाधनार्थं ग्रहणम्॥ बिल्व। व्रीहि। काण्ड। मुद्ग। मसूर। गोधूम। इक्षु। वेणु। गवेधुका। कर्पासी। पाटली। कर्कन्धू। कुटीर। बिल्वादिः॥

कोपधाच्च ॥ ४.३.१३७॥

ककारोपधात् प्रातिपदिकादण् प्रत्ययो भवति यथायोगं विकारावयवयोरर्थयोः। अञोऽपवादः। तर्कु-तार्कवम्। तित्तिडीक-तैत्तिडीकम्। माण्डूकम्। दार्दुरूकम्। माधूकम्॥

त्रपुजतुनोः षुक् ॥ ४.३.१३८॥

त्रपुजतुशब्दाभ्यामण् प्रत्ययो भवति विकारे, तत्सन्नियोगेन तयोः षुगागमो भवति। ओरञोऽपवादः। त्रपुणो विकारः त्रापुषम्। जातुषम्। अप्राण्यादित्वाद् नावयवे॥

ओरञ् ॥ ४.३.१३९॥

उवर्णान्तात् प्रातिपदिकादञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। अणोऽपवादः। अनुदात्तादेरन्यदिहोदाहरणम्। दैवदारवम्। भाद्रदारवम्॥

अनुदात्तादेश्च ॥ ४.३.१४०॥

अनुदात्तादेः प्रातिपदिकादञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। अणोऽपवादः। दाधित्थम्। कापित्थम्। माहित्थम्॥

पलाशादिभ्यो वा ॥ ४.३.१४१॥

पलाशादिभ्यः प्रातिपदिकेभ्यो वाञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। पालाशम्। खादिरम्। यावासम्। उभयत्र विभाषेयम्। पलाशखदिरशिंशपास्पन्दनानामनुदात्तादित्वात् प्राप्ते, अन्येषामप्राप्ते॥ पलाश। खदिर। शिंशपा। स्पन्दन। करीर। शिरीष। यवास। विकङ्कत। पलाशादिः॥

शम्याष्ट्लञ् ॥ ४.३.१४२॥

शमीशब्दाट् ट्लञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। अञोऽपवादः। शामीलं भस्म। शामीली स्रुक्॥

मयड् वैतयोर्भाषायामभक्ष्याच्छादनयोः ॥ ४.३.१४३॥

प्रकृतिमात्राद् वा मयट् प्रत्ययो भवति भक्ष्याच्छादनवर्जितयोर्विकारावयवयोरर्थयोर्भाषायां विषये यथायथं प्रत्ययेषु प्राप्तेषु। अश्ममयम्, आश्मनम्। मूर्वामयम्, मौर्वम्। भाषायामिति किम्? बैल्वः खादिरो वा यूपः (आप०श्रौ० १८.१.८) स्यात्। अभक्ष्याच्छादनयोरिति किम्? मौद्गः सूपः। कार्पासमाच्छादनम्। एतयोरित्यनेन किम्, यावता विकारावयवौ प्रकृतावेव ? ये विशेषप्रत्ययाः ‘प्राणिरजतादिभ्योऽञ्’ (४.३.१५४) इत्येवमादयस्तद्विषयेऽपि यथा स्यात्-कपोतमयम् कापोतम्। लोहमयम्, लौहमिति॥

नित्यं वृद्धशरादिभ्यः॥ ४.३.१४४॥

भाषायामभक्ष्याच्छादनयोरित्येव। वृद्धेभ्यः प्रातिपदिकेभ्यः शरादिभ्यश्चाभक्ष्याच्छादनयोर्विकारावयवयोर्भाषायां विषये नित्यं मयट् प्रत्ययो भवति। वृद्धेभ्यस्तावत्-आम्रमयम्। शालमयम्। शाकमयम्। शरादिभ्यः-शरमयम्। दर्भमयम्। मृन्मयम्। नित्यग्रहणं किम्, यावतारम्भसामर्थ्यादेव नित्यं भविष्यति? एकाचो नित्यं मयटमिच्छन्ति, तदनेन क्रियते-त्वङ्मयम्, स्रङ्मयम्, वाङ्मयमिति ॥ शर। दर्भ। मृत्। कुटी। तृण। सोम। बल्वज। शरादिः॥

गोश्च पुरीषे॥ ४.३.१४५॥

गोशब्दात् पुरीषेऽभिधेये मयट् प्रत्ययो भवति। गोमयम्। पुरीष इति किम्? गव्यं पयः। पुरीषं न विकारो नाप्यवयवः, तस्येदंविषये विधानम्। विकारावयवयोस्तु गोपयसोर्यतं (४.३.१६०) वक्ष्यति॥

पिष्टाच्च॥ ४.३.१४६॥

पिष्टशब्दाद् नित्यं मयट् प्रत्ययो भवति तस्य विकार इत्येतस्मिन् विषये। अणोऽपवादः। पिष्टमयं भस्म॥

संज्ञायां कन्॥ ४.३.१४७॥

पिष्टशब्दात् कन् प्रत्ययो भवति विकारे संज्ञायां विषये। मयटोऽपवादः। पिष्टकः॥

व्रीहेः पुरोडाशे॥ ४.३.१४८॥

व्रीहिशब्दाद् मयट् प्रत्ययो भवति पुरोडाशे विकारे। बिल्वाद्यणोऽपवादः। व्रीहिमयः पुरोडाशः। व्रैहमन्यत्॥

असंज्ञायां तिलयवाभ्याम्॥ ४.३.१४९॥

तिलयवशब्दाभ्यामसंज्ञाविषये मयट् प्रत्ययो भवति विकारावयवयोरर्थयोः। तिलमयम्। यवमयम्। असंज्ञायामिति किम्? तैलम्। यावकः। ‘यावादिभ्यः कन्’ (५.४.२९)॥

द्व्यचश्छन्दसि॥ ४.३.१५०॥

द्व्यचः प्रातिपदिकाच् छन्दसि विषये मयट् प्रत्ययो भवति विकारावयवयोरर्थयोः। भाषायां मयडुक्तः, छन्दस्यप्राप्तो विधीयते। यस्य॑ पर्ण्ामयी॑ जु॒हूर्भव॑ति (तै० सं० ३.५.७.१)। दर्भ॒म॑यं॒ वा॑सो॒ भवति (मै०सं० १.११.८)। शरम॑यं बहि᐀्॑र्भवति (आ०श्रौ० ९.७.५)॥

नोत्वद्वर्ध्रबिल्वात्॥ ४.३.१५१॥

उत्वतः प्रातिपदिकाद् वर्ध्रबिल्वशब्दाभ्यां च मयट् प्रत्ययो न भवति। ‘द्व्यचश्छन्दसि’ (४.३.१५०) इति प्राप्तः प्रतिषिध्यते। मा॒ैञ्जं शि॒क्य॑म् (तै०सं० ५.१.१०.५)। गा॑र्मु॒तं च॒रुम् (तै०सं० २.४.४.१)। वार्ध्री बालप्रग्रथिता (आप०श्रौ० १८.१०.२३) भवति। ब॒ैल्वो॑ ब्॒रह्मवर्च॒स॑का॒मेन का॒र्यः (मै०सं० ३.९.३)। तपरकरणं तत्कालार्थम्। धूममयान्यभ्राणि। मतुब्निर्देशस्तदन्तविधिनिरासार्थः। इहैव स्यात्-वैणवी यष्टिरिति॥

तालादिभ्योऽण्॥ ४.३.१५२॥

तालादिभ्यः प्रातिपदिकेभ्योऽण् प्रत्ययो भवति विकारावयवयोरर्थयोः। मयडादीनामपवादः। तालं धनुः। बार्हिणम्। ऐन्द्रालिशम्॥ तालाद् धनुषि (ग०सू० १०४)। बार्हिण। इन्द्रालिश। इन्द्रादृश। इन्द्रायुध। चाप। श्यामाक। पीयूक्षा। तालादिः॥

जातरूपेभ्यः परिमाणे॥ ४.३.१५३॥

जातरूपं सुवर्णम्। बहुवचननिर्देशात् तद्वाचिनः सर्वे गृह्यन्ते। जातरूपवाचिभ्यः प्रातिपदिकेभ्योऽण् प्रत्ययो भवति परिमाणे विकारे। मयडादीनामपवादः। हाटको निष्कः। हाटकं कार्षापणम्। जातरूपम्। तापनीयम्। परिमाण इति किम्? यष्टिरियं हाटकमयी॥

प्राणिरजतादिभ्योऽञ्॥ ४.३.१५४॥

प्राणिवाचिभ्यः प्रातिपदिकेभ्यो रजतादिभ्यश्चाञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। अणादीनामपवादः। अनुदात्तादेरञ् (४.३.१४०) विहित एव, परिशिष्टमिहोदाहरणम्। प्राणिभ्यस्तावत्-कापोतम्। मायूरम्। तैत्तिरम्। रजतादिभ्यः- राजतम्। सैसम्। लौहम्। रजतादिषु येऽनुदात्तादयः पठ्यन्ते रजतकण्टकारप्रभृतयः, तेभ्योऽञि सिद्धे पुनर्वचनं मयड्बाधनार्थम्॥ रजत। सीस। लोह। उदुम्बर। नीलदारु। रोहितक। बिभीतक। पीतदारु। तीव्रदारु। त्रिकण्टक। कण्टकार। रजतादिः॥

ञितश्च तत्प्रत्ययात्॥ ४.३.१५५॥

अञित्येव। तदिति विकारावयवयोरर्थयोः प्रत्यवमर्शः। ञिद् यो विकारावयवप्रत्ययः, तदन्तात् प्रातिपदिकादञ् प्रत्ययो भवति विकारावयवयोरेव। मयटोऽपवादः। ‘ओरञ्’ (४.३.१३९), ‘शम्याष्ट्लञ्’ (४.३.१४२), ‘प्राणिरजतादिभ्योऽञ्’ (४.३.१५४) ‘उष्ट्राद् वुञ्’ (४.३.१५७), ‘एण्या ढञ्’ (४.३.१५९), ‘कंसीयपरशव्ययोर्यञञौ०’ (४.३.१६८) इत्येते प्रत्यया गृह्यन्ते। दैवदारवस्य विकारोऽवयवो वा दैवदारवम्। दाधित्थस्य दाधित्थम्। पालाशस्य पालाशम्। शामीलस्य शामीलम्। कापोतस्य कापोतम्। औष्ट्रकस्य औष्ट्रकम्। ऐणेयस्य ऐणेयम्। कांस्यस्य कांस्यम्। पारशवस्य पारशवम्। ञित इति किम् ? बैल्वमयम्। तत्प्रत्ययादिति किम् ? बैदमयम् ॥

क्रीतवत् परिमाणात्॥ ४.३.१५६॥

‘प्राग्वतेष्ठञ्’ (५.१.१८) इत्यत आरभ्य क्रीतार्थे ये प्रत्ययाः परिमाणाद् विहिताः, ते विकारेऽतिदिश्यन्ते। परिमाणात् क्रीत इव प्रत्यया भवन्ति तस्य विकार इत्येतस्मिन् विषये। अणादीनामपवादः। संख्यापि परिमाणग्रहणेन गृह्यते, न रूढिपरिमाणमेव। निष्केण क्रीतं नैष्किकम्। एवं निष्कस्य विकारो नैष्किकः। शतेन क्रीतं शत्यम्, शतिकम्। शतस्य विकारः शत्यः शतिकः। साहस्रः। वतिः सर्वसादृश्यार्थः। ‘अध्यर्धपूर्वाद् द्विगोर्लुगसंज्ञायाम्’ (५.१.२८) इत्येवमादिकमप्यतिदिश्यते। द्विसहस्रः, द्विसाहस्रः। द्विनिष्कः, द्विनैष्किकः॥

उष्ट्राद् वुञ्॥ ४.३.१५७॥

उष्ट्रशब्दाद् वुञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। प्राण्यञोऽपवादः। उष्ट्रस्य विकारोऽवयवो वा औष्ट्रकः॥

उमोर्णयोर्वा॥ ४.३.१५८॥

उमाशब्दादूर्णाशब्दात् च वा वुञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। औमकम्, औमम्। और्णकम्, और्णम्॥

एण्या ढञ्॥ ४.३.१५९॥

एणीशब्दाद् ढञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। प्राण्यञोऽपवादः। ऐणेयं मांसम्। पुंसस्त्वञेव भवति। एणस्य मांसमैणम्॥

गोपयसोर्यत्॥ ४.३.१६०॥

गोपयःशब्दाभ्यां यत् प्रत्ययो भवति विकारावयवयोरर्थयोः। गव्यम्। पयस्यम्। ‘सर्वत्र गोरजादिप्रसङ्गे यत्’ (वा० ४.१.८५) अस्त्येव, मयड्विषये तु विधीयते॥

द्रोश्च॥ ४.३.१६१॥

द्रुशब्दाद् यत् प्रत्ययो भवति विकारावयवयोरर्थयोः। ओरञोऽपवादः। द्रव्यम्॥

माने वयः॥ ४.३.१६२॥

द्रुशब्दाद् माने विकारविशेषे वयः प्रत्ययो भवति। यतोऽपवादः। द्रुवयम्॥

फले लुक् ॥ ४.३.१६३॥

विकारावयवयोरुत्पन्नस्य फले तद्विशेषे विवक्षिते लुग् भवति। आमलक्याः फलम् आमलकम्। कुवलम्। बदरम्। फलितस्य वृक्षस्य फलमवयवो भवति विकारश्च, पल्लवितस्येव पल्लवः॥

प्लक्षादिभ्योऽण्॥ ४.३.१६४॥

फल इत्येव। प्लक्षादिभ्यः प्रातिपदिकेभ्यः फले विकारावयवत्वेन विवक्षितेऽण् प्रत्ययो भवति। अञोऽपवादः। विधानसामर्थ्यात् तस्य न लुग् भवति। प्लाक्षम्। नैयग्रोधम्॥ प्लक्ष। न्यग्रोध। अश्वत्थ। इङ्गुदी। शिग्रु। कर्कन्धु। बृहती। प्लक्षादिः॥

जम्ब्वा वा॥ ४.३.१६५॥

फल इत्येव। जम्बूशब्दात् फलेऽभिधेये वाण् प्रत्ययो भवति। अञोऽपवादः। अत्राणो विधानसामर्थ्याल् लुग् न भवति, अञस्तु भवत्येव। जाम्बवानि फलानि, जम्बूनि वा॥

लुप् च॥ ४.३.१६६॥

वेत्येव। जम्ब्वाः फलेऽभिधेये प्रत्ययस्य वा लुब् भवति। युक्तवद्भावे विशेषः। जम्ब्वाः फलं जम्बूः फलम्, जम्बु फलम्, जाम्बवमिति वा॥ लुप्प्रकरणे फलपाकशुषामुपसंख्यानम्॥ व्रीहयः। यवाः। माषाः। मुद्गाः। तिलाः॥ पुष्पमूलेषु बहुलम्॥ मल्लिकायाः पुष्पं मल्लिका। नवमल्लिका जातिः। बिदार्या मूलं बिदारी। अंशुमती। बृहती।न च भवति-पाटलानि पुष्पाणि। शाल्वानि मूलानि। बहुलवचनात् क्वचिदन्यदपि भवति। कदम्बं पुष्पम्। अशोकम्। करवीरम्। बैल्वानि फलानीति॥

हरीतक्यादिभ्यश्च॥ ४.३.१६७॥

हरीतकी इत्येवमादिभ्यः शब्देभ्यः फले प्रत्ययस्य लुब् भवति। लुकि प्राप्ते लुपो विधाने युक्तवद्भावे स्त्रीप्रत्ययश्रवणे च विशेषः। हरीतक्याः फलं हरीतकी। कोशातकी। नखरजनी। अत्र च व्यक्तिर्युक्तवद्भावेनेष्यते, वचनं त्वभिधेयवदेव भवति। हरीतक्याः फलानि हरीतक्यः॥ हरीतकी। कोशातकी। नखरजनी। शष्कण्डी। दाडी। दोडी। दीडी। श्वेतपाकी। अर्जुनपाकी। काला। द्राक्षा। ध्वाङ्क्षा। गर्गरिका। कण्टकारिका। शेफालिका। येषां च फलपाकनिमित्तः शोषः (ग०सू० १०५)। पुष्पमूलेषु बहुलम् (ग०सू० १०६)। हरीतक्यादिः॥

कंसीयपरशव्ययोर्यञञौ लुक् च॥ ४.३.१६८॥

‘प्राक्क्रीताच्छः’ (५.१.१)-कंसीयः। ‘उगवादिभ्यो यत्’ (५.१.२) परशव्यः। कंसीयपरशव्यशब्दाभ्यां यथासंख्यं यञञौ प्रत्ययौ भवतस्तस्य विकार इत्येतस्मिन् विषये, तत्संनियोगेन च कंसीयपरशव्ययोर्लुग् भवति। कंसीयस्य विकारः कांस्यः। परशव्यस्य विकारः पारशवः। प्रातिपदिकाधिकाराद् धातुप्रत्ययस्य न लुग् भवति। परशव्यशब्दादनुदात्तादित्वादेवाञि सिद्धे लुगर्थं वचनम्। ननु च ‘यस्येति०’ (६.४.१४८) इति लोपे कृते ‘हलस्तद्धितस्य’ (६.४.१५०) इति यलोपो भविष्यति ? नैतदस्ति। ईतीति तत्र वर्तते ॥

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य तृतीयः पादः॥

—0—