०२

तेन रक्तं रागात् ॥ ४.२.१॥

शुक्लस्य वर्णान्तरापादानमिह रञ्जेरर्थः। रज्यतेऽनेनेति रागः। तेनेति तृतीयासमर्थाद् रागविशेषवाचिनः प्रातिपदिकाद् रक्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। कषायेण रक्तं वस्त्रं काषायम्। माञ्जिष्ठम्। कौसुम्भम्। रागादिति किम्? देवदत्तेन रक्तं वस्त्रम्। कथं काषायौ गर्दभस्य कर्णौ, हारिद्रौ कुक्कुटस्य पादाविति? उपमानाद् भविष्यति, काषायाविव काषायौ, हारिद्राविव हारिद्रौ। ‘द्वैपवैयाघ्रादञ्’ (४.२.१२) इति यावत् तृतीयासमर्थविभक्तिरनुवर्तते॥

लाक्षारोचनाशकलकर्दमाट् ठक् ॥ ४.२.२॥

लाक्षादिभ्यो रागवचनेभ्यस्तृतीयासमर्थेभ्यो रक्तमित्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। अणोऽपवादः। लाक्षया रक्तं वस्त्रं लाक्षिकम्। रौचनिकम्। शाकलिकम्। कार्दमिकम्। शकलकर्दमाभ्यामणपीष्यते॥ शाकलम्। कार्दमम्॥ नील्या अन् वक्तव्यः॥ नील्या रक्तं नीलं वस्त्रम्॥ पीतात् कन् वक्तव्यः॥ पीतेन रक्तं पीतकम्॥ हरिद्रामहारजनाभ्यामञ् वक्तव्यः॥ हारिद्रम्। माहारजनम्॥

नक्षत्रेण युक्तः कालः॥ ४.२.३॥

तृतीया समर्थविभक्तिरनुवर्तते। तेनेति तृतीयासमर्थाद् नक्षत्रविशेषवाचिनः शब्दाद् युक्त इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, योऽसौ युक्तः, कालश्चेत् स भवति। कथं पुनर्नक्षत्रेण पुष्यादिना कालो युज्यते? पुष्यादिसमीपस्थे चन्द्रमसि वर्तमानाः पुष्यादिशब्दाः प्रत्ययमुत्पादयन्ति। पुष्येण युक्तः कालः। पुष्यसमीपस्थेन चन्द्रमसा युक्त इत्यर्थः। पौषी रात्रिः। पौषमहः। माघी रात्रिः। माघमहः। नक्षत्रेणेति किम्? चन्द्रमसा युक्ता रात्रिः। काल इति किम्? पुष्येण युक्तश्चन्द्रमाः॥

लुबविशेषे॥ ४.२.४॥

पूर्वेण विहितस्य प्रत्ययस्य लुब् भवत्यविशेषे। न चेद् नक्षत्रयुक्तस्य कालस्य रात्र्यादिविशेषोऽभिधीयते। यावान् कालो नक्षत्रेण युज्यतेऽहोरात्रः, तस्याविशेषे लुब् भवति। अद्य पुष्यः। अद्य कृत्तिकाः। अविशेष इति किम् ? पौषी रात्रिः। पौषमहः॥

संज्ञायां श्रवणाश्वत्थाभ्याम्॥ ४.२.५॥

अविशेषे लुब् विहितः पूर्वेण, विशेषार्थोऽयमारम्भः। श्रवणशब्दादश्वत्थशब्दात् चोत्पन्नस्य प्रत्ययस्य लुब् भवति संज्ञायां विषये। श्रवणा रात्रिः। अश्वत्थो मुहूर्तः। लुपि युक्तवद्भावः कस्माद् न भवति ? निपातनाद् ‘विभाषा फाल्गुनीश्रवणाकार्तिकी०’ (४.२.२३) इति। संज्ञायामिति किम्? श्रावणी, आश्वत्थी रात्रिः॥

द्वन्द्वाच्छः॥ ४.२.६॥

नक्षत्रद्वन्द्वात् तृतीयासमर्थाद् युक्ते काले छः प्रत्ययो भवति, विशेषे चाविशेषे च। राधानुराधीया रात्रिः। तिष्यपुनर्वसवीयमहः। अविशेषे-अद्य राधानुराधीयम्। अद्य तिष्यपुनर्वसवीयम्। लुपं परत्वाद् बाधते॥

दृष्टं साम॥ ४.२.७॥

तेनेति तृतीयासमर्थाद् दृष्टम् इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यद् दृष्टं साम चेत् तद् भवति। क्रुञ्चेन दृष्टं क्रौञ्चं साम। वासिष्ठ्म। वैश्वामित्रम्॥

कलेर्ढक् ॥ ४.२.८॥

कलिशब्दात् तृतीयासमर्थाद् दृष्टं सामेत्येतस्मिन्नर्थे ढक् प्रत्ययो भवति। अणोऽपवादः। कलिना दृष्टं साम कालेयम्॥ सर्वत्राग्निकलिभ्यां ढग् वक्तव्यः॥ अग्निना दृष्टमाग्नेयम्। एवमग्नौ भवमग्नेरागतमग्नेः स्वमिति सर्वत्र ढगेव भवति। आग्नेयम्। तथा कालेयमपि प्रतिपत्तव्यम्॥ दृष्टे सामनि अण् वा डिद् भवतीति वक्तव्यम्॥ उशनसा दृष्टं साम औशनसम्, औशनम्॥ जाते चार्थे योऽन्येन बाधितः पुनरण् विधीयते स वा डिद् भवतीति वक्तव्यम्॥‘प्राग् दीव्यतोऽण्’ (४.१.८३) प्राप्तः कालठञा (४.३.११) बाधितः ‘सन्धिवेलाद्यृतुनक्षत्रेभ्यः०’ (४.३.१६) इति पुनर्विधीयते, स वा डिद् भवतीति वक्तव्यम्॥ शतभिषजि जातः शातभिषः, शातभिषजः॥ तीयादीकक् स्वार्थ वा वक्तव्यः॥ द्वैतीयीकम्। तार्तीयीकम्। द्वितीयकम्। तृतीयकम्॥ न विद्यायाः॥ द्वितीया, तृतीया विद्या॥ गोत्रादङ्कवदिष्यते॥ दृष्टं सामेत्यस्मिन्नर्थे। औपगवेन दृष्टं साम औपगवकम्। कापटवकम्। ‘गोत्रचरणाद् वुञ्’ (४.३.१२६) भवति।

दृष्टे सामनि जाते च द्विरण् डिद् वा विधीयते।

तीयादीकक् न विद्याया   गोत्रादङ्कवदिष्यते ॥

वामदेवाड् ड्यड्ड्यौ॥ ४.२.९॥

वामदेवशब्दात् तृतीयासमर्थाद् दृष्टं सामेत्येतस्मिन्नर्थे ड्यत् ड्य इत्येतौ प्रत्ययौ भवतः। अणोऽपवादः। वामदेवेन दृष्टं साम वामदेव्यं साम। तित्करणं स्वरार्थम्। डित्करणं किमर्थम्? ‘ययतोश्चातदर्थे’ (६.२.१५६) इति नञ उत्तरस्यान्तोदात्तत्वे विधीयमानेऽनयोर्गर्हणं मा भूत्। अननुबन्धकग्रहणपरिभाषया एकानुबन्धकग्रहणपरिभाषया चानयोर्निवृत्तिः क्रियते। अवा॑मदेव्यम्।

सिद्धे यस्येतिलोपेन किमर्थं ययतौ डितौ ।

ग्रहणं मातदर्थे भूद् वामदेव्यस्य नञ्स्वरे॥

परिवृतो रथः॥ ४.२.१०॥

तेनेति तृतीयासमर्थात् परिवृत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, योऽसौ परिवृतो रथश्चेत् स भवति। वस्त्रेण परिवृतो रथो वास्त्रो रथः। काम्बलः। चार्मणः। रथ इति किम्? वस्त्रेण परिवृतः कायः। समन्ताद् वेष्टितः परिवृत उच्यते, यस्य न कश्चिदवयवो वस्त्रादिभिरवेष्टितः। तेनेह न भवति-छात्रैः परिवृतो रथः॥

पाण्डुकम्बलादिनिः॥ ४.२.११॥

पाण्डुकम्बलशब्दात् तृतीयासमर्थात् परिवृतो रथ इत्येतस्मिन्नर्थ इनिः प्रत्ययो भवति। अणोऽपवादः। पाण्डुकम्बली, पाण्डुकम्बलिनौ, पाण्डुकम्बलिनः। पाण्डुकम्बलशब्दो राजास्तरणस्य वर्णकम्बलस्य वाचकः। मत्वर्थीयेनैव सिद्धे वचनमणो निवृत्त्यर्थम्॥

द्वैपवैयाघ्रादञ्॥ ४.२.१२॥

द्वीपिव्याघ्रयोर्विकारभूते चर्मणी द्वैपवैयाघ्रे, ताभ्यां तृतीयासमर्थाभ्यां परिवृतो रथ इत्येतस्मिन्नर्थेऽञ् प्रत्ययो भवति। अणोऽपवादः। स्वरे विशेषः। द्वैपेन परिवृतो रथो द्वैपः। वैयाघ्रः॥

कौमारापूर्ववचने॥ ४.२.१३॥

कौमार इत्येतदण्प्रत्ययान्तं निपात्यतेऽपूर्ववचने। पाणिग्रहणस्यापूर्ववचनम्। उभयतः स्त्रिया अपूर्वत्वे निपातनमेतत्। अपूर्वपतिं कुमारीं पतिरुपपन्नः कौमारः पतिः। कुमारीशब्दाद् द्वितीयासमर्थादुपयन्तरिः प्रत्ययः। अपूर्वपतिः कुमारी पतिमुपपन्ना कौमारी भार्या। प्रथमान्तादेव स्वार्थे प्रत्ययोऽपूर्वत्वे द्योत्ये।

कौमारापूर्ववचने कुमार्या अण् विधीयते।

अपूर्वत्वं यदा तस्याः कुमार्यां भवतीति वा॥

कुमार्यां भवः कौमारः पतिः, तस्य स्त्री कौमारी भार्येति सिद्धम्॥

तत्रोद्धृतममत्रेभ्यः॥ ४.२.१४॥

तत्रेति सप्तमीसमर्थादमत्रवाचिनः शब्दादुद्धृतमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। भुक्तोच्छिष्टमुद्धृतमुच्यते, यस्योद्धरणमिति प्रसिद्धिः। अमत्रं भाजनं पात्रमुच्यते। शरावेषूद्धृतः शाराव ओदनः। माल्लिकः। कार्परः। अमत्रेभ्य इति किम्? पाणावुद्धृत ओदनः। तत्रेति सप्तमी समर्थविभक्तिः ‘क्षीराड् ढञ्’ (४.२.२०) इति यावदनुवर्तते॥

स्थण्डिलाच्छयितरि व्रते॥ ४.२.१५॥

स्थण्डिलशब्दात् सप्तमीसमर्थात् शयितर्यभिधेये यथाविहितं प्रत्ययो भवति, समुदायेन चेद् व्रतं गम्यते। व्रतमिति शास्त्रितो नियम उच्यते। स्थण्डिले शयितुं व्रतमस्य स्थाण्डिलो भिक्षुः। स्थाण्डिलो ब्रह्मचारी। व्रत इति किम्? स्थण्डिले शेते ब्रह्मदत्तः॥

संस्कृतं भक्षाः॥ ४.२.१६॥

तत्रेति सप्तमीसमर्थात् संस्कृतमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत् संस्कृतं भक्षाश्चेत् ते भवन्ति। खरविशदमभ्यवहार्यं भक्षमित्युच्यते। सत उत्कर्षाधानं संस्कारः। भ्राष्टे्र संस्कृता भक्षा भ्राष्ट्रा अपूपाः। कालशाः। कौम्भाः। भक्षा इति किम्? पुष्पपुटे संस्कृतो मालागुणः॥

शूलोखाद् यत्॥ ४.२.१७॥

शूलशब्दादुखाशब्दाच्च सप्तमीसमर्थात् संस्कृतं भक्षा इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। अणोऽपवादः। शूले संस्कृतं शूल्यं मांसम्। उख्यम्॥

दध्नष्ठक्॥ ४.२.१८॥

दधिशब्दात् सप्तमीसमर्थात् संस्कृतं भक्षा इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। दधनि संस्कृतं दाधिकम्। ननु च संस्कृतार्थे प्राग् वहतेष्ठकं (४.४.१) वक्ष्यति, तेनैव सिद्धम् ? न सिध्यति। दध्ना हि तत् संस्कृतं यस्य दधिकृतमेवोत्कर्षाधानम्, इह तु दधि केवलमाधारभूतम्, द्रव्यान्तरेण लवणादिना संस्कारः क्रियते॥

उदश्वितोऽन्यतरस्याम्॥ ४.२.१९॥

उदश्विच्छब्दात् सप्तमीसमर्थात् संस्कृतं भक्षा इत्येतस्मिन्नर्थेऽन्यतरस्यां ठक् प्रत्ययो भवति, पक्षे यथाप्राप्तमण् भवति। औदश्वित्कम्, औदश्वितम्॥

क्षीराड् ढञ्॥ ४.२.२०॥

क्षीरशब्दात् सप्तमीसमर्थात् संस्कृतं भक्षा इत्येतस्मिन्नर्थे ढञ् प्रत्ययो भवति। अणोऽपवादः। क्षीरे संस्कृता क्षैरेयी यवागूः॥

सास्मिन् पौर्णमासीति सञ्ज्ञायाम्॥ ४.२.२१॥

सेति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति, यत् तत् प्रथमासमर्थं पौर्णमासी चेत् सा भवति। इतिकरणस्ततश्चेद् विवक्षा भवति। संज्ञायामिति समुदायोपाधिः, प्रत्ययान्तेन चेत् संज्ञा गम्यत इति। मासार्धमाससंवत्सराणामेषा संज्ञा। पौषी पौर्णमासी अस्मिन् पौषो मासः। पौषोऽर्धमासः। पौषः संवत्सरः। इह न भवति-पौषी पौर्णमासी अस्मिन् दशरात्र इति। भृतकमासे च न भवति। इतिकरणस्य संज्ञाशब्दस्य च तुल्यमेव फलं प्रयोगानुसरणम्, तत्र किमर्थं द्वयमुपादीयते? संज्ञाशब्देन तुल्यतामितिकरणस्य ज्ञापयितुम्, न ह्ययं लोके तथा प्रसिद्धः। संज्ञार्थत्वे तु संप्रति ज्ञापिते यत् तत्रतत्रोच्यत इतिकरणस्ततश्चेद् विवक्षेति, तदुपपन्नं भवति। अथ पौर्णमासीति कोऽयं शब्दः? ‘पूर्णमासादण्’ (वा० ४.२.३५) पौर्णमासी। अथवा पूर्णो माः पूर्णमाः, पूर्णमास इयं पौर्णमासी। मा इति चन्द्र उच्यते॥

आग्रहायण्यश्वत्थाट् ठक् ॥ ४.२.२२॥

सास्मिन् पौर्णमासीति सर्वमनुवर्तते। आग्रहायणीशब्दादश्वत्थशब्दात् च प्रथमा- समर्थात् पौर्णमास्युपाधिकाद् अस्मिन्निति सप्तम्यर्थे ठक् प्रत्ययो भवति। अणोऽपवादः। आग्रहायणिको मासः, अर्धमासः, संवत्सरः। एवमाश्वत्थिकः॥

** विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः॥ ४.२.२३॥**

फाल्गुन्यादयः पौर्णमासीशब्दाः, तेभ्यो विभाषा ठक् प्रत्ययो भवति, सास्मिन् पौर्णमासीति संज्ञायामित्येतस्मिन् विषये। नित्यमणि प्राप्ते पक्षे ठग् विधीयते। फाल्गुनो मासः, फाल्गुनिकः। श्रावणः, श्रावणिकः। कार्तिकः, कार्तिकिकः। चैत्रः, चैत्रिकः॥

सास्य देवता॥ ४.२.२४॥

सेति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं देवता चेत् सा भवति। यागसंप्रदानं देवता, देयस्य पुरोडाशादेः स्वामिनी, तस्मिन्नभिधेये प्रत्ययः। इन्द्रो देवतास्य ऐन्द्रं हविः। आदित्यम्। बार्हस्पत्यम्। प्राजापत्यम्। देवतेति किम्? कन्या देवदत्तस्य। कथमैन्द्रो मन्त्रः? मन्त्रस्तुत्यमपि देवतेत्युपचरन्ति। कथमाग्नेयो वै ब्राह्मणो देवतयेति? उपमानाद् भविष्यति। ‘महाराजप्रोष्ठपदाट् ठञ्’ (४.२.३५) इति यावत् सास्य देवतेत्यधिकारः। सेति प्रकृते पुनः समर्थविभक्तिनिर्देशः संज्ञानिवृत्त्यर्थः॥

कस्येत् ॥ ४.२.२५॥

कशब्दो देवतायां प्रजापतेर्वाचकः, ततः पूर्वेणैवाण्प्रत्ययः सिद्धः, इकारादेशार्थं वचनम्। कस्येकारादेशो भवति प्रत्ययसन्नियोगेन। कायं हविः। का॒य॑मे॑क॒कपालं निर्वपेत् (मै०सं० ३.१५.१०)॥

शुक्राद् घन् ॥ ४.२.२६॥

शुक्रशब्दात् सास्य देवतेत्यस्मिन्नर्थे घन् प्रत्ययो भवति। अणोऽपवादः। शुक्रियं हविः। शुक्रियोऽध्यायः॥

अपोनप्त्रपांनप्तृभ्यां घः ॥ ४.२.२७॥

अपोनप्तृ अपान्नपतृ इत्येताभ्यां घः प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये। अणोऽपवादः। अपोनप्त्रियं हविः (का०श्रौ० २३.४.१४)। अपांनप्त्रियम्। अपोनपाद्, अपांनपादिति देवताया नामधेये एते। तयोस्तु प्रत्ययसन्नियोगेन रूपमिदं निपात्यते॥

छ च ॥ २.४.२८॥

अपोनप्तृ अपान्नप्तृ इत्येताभ्यां छकारः प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये। अणोऽपवादः। अपोनप्त्रीयं (ऐ०ब्रा० २.१९) हविः। अपान्नप्त्रीयम् (काठ० सं० १२.६)। योगविभागः संख्यातानुदेशपरिहारार्थः॥ छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसंख्यानम्॥ पैङ्गाक्षीपुत्रीयम्। तार्णबिन्दवीयम्॥ शतरुद्राच्छश्च घश्च॥ श॒त॒रु॒द्रीय॑म् (तै०सं० ५.४.३.१)। श॒तरु॒दि्॑रय॒म् (मै०सं० ३.३.४)॥

महेन्द्राद् घाणौ च ॥ ४.२.२९॥

महेन्द्रशब्दाद् घाणौ प्रत्ययौ भवतः, चकाराच्छश्च, सास्य देवतेत्यस्मिन् विषये। महेन्द्रो देवतास्य महेन्द्रियं हविः। मा॑हे॒न्द्रम् (तै०सं० ६.५.५.४)। महेन्द्रीयम् (काठ० सं० १५.१)॥

सोमाट् ट्यण् ॥ ४.२.३०॥

सोमशब्दाट् ट्यण् प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये। अणोऽपवादः। ण्कारो वृद्ध्यर्थः। टकारो ङीबर्थः। सोमो देवतास्य सौम्यं हविः। सौम्यं सूक्तम्। सा॒ैमी॑ (मै०सं० १.७.४) ऋक्॥

वाय्वृतुपित्रुषसो यत् ॥ ४.२.३१॥

वाय्वादिभ्यः शब्देभ्यो यत् प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये। अणोऽपवादः। वायुर्देवतास्य वायव्यम्। ऋतव्यम्। पित्र्य॒म् (ऋ०८.२०.१३)। उषस्यम्॥

द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च ॥ ४.२.३२॥

द्यावापृथिव्यादिभ्यश्छः प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये चकाराद् यत् च। अणो ण्यस्य चापवादः। द्यौश्च पृथिवी च द्यावापृथिव्यौ देवते अस्य द्यावापृथि॒वी॑य॒म् (मै०सं० १.८.१०),द्यावापृथि॒व्य॑म् (तै०सं०१.८.२.१)। शुनश्च सीरश्च तौ देवते अस्येति शुनासी॒रीय॑म् (मा०सं०२४.१९), शु॒नासी॒३र्य॒म् (मै०सं० ४.३.३)। शुनो वायुः। सीर आदित्यः। मरुत्वान् देवतास्य मरुत्व॒तीय॑म् (तै०सं० ४.४.२.२)। मरुत्वत्यम्। अग्नीषो॒मीय॒म् (तै०सं० १.८.१.१)। अग्नीषोम्यम्। वास्तोष्प॒तीय॑म् (तै०सं० ३.४.१०.३)। वा॑स्तो॒ष्पत्य॒म् (मै० सं० १.५.१३)। गृ॑हमे॒धीय॑म् (ऋ० ७.५६.१४)। गृहमेध्यम् (काट०सं०३६.९)॥

अग्नेर्ढक् ॥ ४.२.३३॥

अग्निशब्दाद् ढक् प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये। अणोऽपवादः। अग्निर्देवतास्य आग्नेयोऽष्टाकपालः (तै० सं० १.८.२.१)। प्राग्दीव्यतीयेषु तद्धितार्थेषु सर्वत्राग्निकलिभ्यां ढग् वक्तव्यः (वा० ४.२.८)॥

कालेभ्यो भववत् ॥ ४.२.३४॥

कालविशेषवाचिभ्यो शब्देभ्यो भववत् प्रत्यया भवन्ति सास्य देवतेत्यस्मिन् विषये। ‘कालाट् ठञ्’ (४.३.११) इति प्रकरणे भवे प्रत्यया विधास्यन्ते, ते सास्य देवतेत्यस्मिन्नर्थे तथैवेष्यन्ते, तदर्थमिदमुच्यते। वत्करणं सर्वसादृश्यपरिग्रहार्थम्। मासे भवं मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। वासन्तम्। प्रावृषेण्यम्। तथा मासो देवतास्य मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। वासन्तम्। प्रावृषेण्यम्॥

महाराजप्रोष्ठपदाट् ठञ् ॥ ४.२.३५॥

महाराजशब्दात् प्रोष्ठपदशब्दात् च ठञ् प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये। महाराजो देवतास्य माहाराजिकम्। प्रौष्ठपदिकम्॥ ठञ्प्रकरणे तदस्मिन् वर्तत इति नवयज्ञादिभ्य उपसंख्यानम्॥ नवयज्ञोऽस्मिन् वर्तते नावयज्ञिकः कालः। पाकयज्ञिकः॥ पूर्णमासादण्॥ पूर्णमासोऽस्यां वर्तते पा॒ैर्णमा॒सी॑ (मै०सं० १.६.९) तिथिः॥

पितृव्यमातुलमातामहपितामहाः॥ ४.२.३६॥

पितृव्यादयो निपात्यन्ते। समर्थविभक्तिः प्रत्ययः प्रत्ययार्थोऽनुबन्ध इति सर्वं निपातनाद् विज्ञेयम्। पितृमातृभ्यां भ्रातर्यभिधेये व्यत् डुलच् इत्येतौ प्रत्ययौ निपात्येते। पितुर्भ्राता पितृव्यः। मातुर्भ्राता मातुलः। ताभ्यां पितरि डामहच्, मातरि षित् च। ताभ्यामेव पितरि डामहच् प्रत्ययो भवति। पितुः पिता पितामहः। मातुः पिता मातामहः। मातरि षित् च। पितामही। मातामही॥ अवेर्दुग्धे सोढदूसमरीसचो वक्तव्याः॥ अवेर्दुग्धम् अविसोढम्। अविदूसम्। अविमरीसम्॥ तिलान्निष्फलात् पिञ्जपेजौ प्रत्ययौ वक्तव्यौ॥ निष्फलस्तिलः तिलपिञ्जः। तिलपेजः॥ पिञ्जश्छन्दसि डिच्च॥ ति॒ल्पिञ्जं॒ दण्ड॑नं न॒डम् (शौ०सं० १२.२.५४)॥

तस्य समूहः ॥ ४.२.३७॥

तस्येति षष्ठीसमर्थात् समूह इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। किमिहोदाहरणम्? चित्तवदाद्युदात्तमगोत्रम् यस्य च नान्यत् प्रतिपदं ग्रहणम्। अचित्ताट् ठकं (४.२.४७) वक्ष्यति, ‘अनुदात्तादेरञ्’ (४.२.४४) गोत्राद् वुञ् (४.२.३९) प्रतिपदं च ‘केदाराद् यञ् च’(४.२.४०) इत्येवमादि, तत्परिहारेणात्रोदाहरणं द्रष्टव्यम्। काकानां समूहः काकम्। बाकम्। ‘इनित्रकट्यचश्च’ (४.२.५१) इति यावत् समूहाधिकारः॥ गुणादिभ्यो ग्रामज् वक्तव्यः॥ गुणग्रामः। करणग्रामः॥ गुण। करण। तत्त्व। शब्द। इन्द्रिय। आकृतिगणः॥

भिक्षादिभ्योऽण् ॥ ४.२.३८॥

भिक्षेत्येवमादिभ्यः शब्देभ्योऽण् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। अण्ग्रहणं बाधकबाधनार्थम्। भिक्षाणां समूहो भैक्षम्। गार्भिणम्। युवतिशब्दोऽत्र पठ्यते, तस्य ग्रहणसामर्थ्यात् पुंवद्भावो न भवति ‘भस्याढे तद्धिते०’ (वा० ६.३.३५) इति। युवतीनां समूहो यौवतम्॥ भिक्षा। गर्भिणी। क्षेत्र। करीष। अङ्गार। चर्मिन्। धर्मिन्। सहस्र। युवति। पदाति। पद्धति। अथर्वन्। दक्षिणा। भूत॥

गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद् वुञ् ॥ ४.२.३९॥

गोत्रादिभ्यो वुञ् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यतेऽपत्यमात्रम्, न तु पौत्रप्रभृत्येव। औपगवानां समूह औपगवकम्। कापटवकम्। उक्षन्-औक्षकम्। उष्ट्र-औष्ट्रकम्। उरभ्र-औरभ्रकम्। राजन्-राजकम्। राजन्य-राजन्यकम्। राजपुत्र-राजपुत्रकम्। वत्स-वात्सकम्। मनुष्य-मानुष्यकम्। अज-आजकम्। ‘प्रकृत्याके राजन्यमनुष्ययुवानः’ (वा० ६.४.१६३) इति यलोपो न भवति ‘आपत्यस्य च तद्धितेऽनाति’ (६.४.१५१) इति॥ वृद्धाच्चेति वक्तव्यम्॥ वृद्धानां समूहो वार्धकम्॥

केदाराद् यञ् च ॥ ४.२.४०॥

केदारशब्दाद् यञ् प्रत्ययो भवति, चकाराद् वुञ् च, तस्य समूह इत्येतस्मिन् विषये। अचित्तलक्षणस्य ठकोऽपवादः। केदाराणां समूहः कैदार्यम् कैदारकम्॥ गणिकायाश्च यञ् वक्तव्यः॥ गणिकानां समूहो गाणिक्यम्॥

ठञ् कवचिनश्च ॥ ४.२.४१॥

कवचिन्शब्दाद् ठञ् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। कवचिनां समूहः कावचिकम्। चकारः केदारादित्यस्यानुकर्षणार्थः। केदाराणां समूहः कैदारिकम् ॥

ब्राह्मणमाणववाडवाद् यन् ॥ ४.२.४२॥

ब्राह्मणादिभ्यः शब्देभ्यो यन् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। नकारः स्वरार्थः। ब्राह्मणानां समूहो ब्राह्मण्यम्। माणव्यम्। वाडव्यम्॥ यन्प्रकरणे पृष्ठादुपसंख्यानम्॥ पृष्ठानां समूहः पृष्ठ्यः षडहः॥ अह्नः खः क्रतौ ॥ अह्नां समूहः अहीनः क्रतुः। क्रताविति किम्? आह्नः। खण्डिकादिषु दर्शनादञ् भवति॥ पर्श्वा णस् वक्तव्यः॥ पर्शूनां समूहः पार्श्वम्। पदसंज्ञकत्वाद् गुणो न भवति॥ वातादूलः॥ वातानां समूहो वातूलः॥

ग्रामजनबन्धुसहायेभ्यस्तल्॥ ४.२.४३॥

ग्रामादिभ्यस्तल् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। ग्रामाणां समूहो ग्रामता। जनता। बन्धुता। सहायता॥ गजाच्चेति वक्तव्यम्॥ गजानां समूहो गजता॥

अनुदात्तादेरञ्॥ ४.२.४४॥

अनुदात्तादेः शब्दादञ् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। कपोतानां समूहः कापोतम्। मायूरम्। तैत्तिरम्॥

खण्डिकादिभ्यश्च॥ ४.२.४५॥

खण्डिका इत्येवमादिभ्यः शब्देभ्योऽञ् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। आद्युदात्तार्थमचित्तार्थं च वचनम्। खण्डिकानां समूहः खाण्डिकम्। वाडवम्। क्षुद्रकमालवशब्दोऽत्र पठ्यते। क्षुद्रकाश्च मालवाश्चेति क्षत्रियद्वन्द्वः। ततः पूर्वणैवाञि सिद्धे वचनं गोत्रवुञ्बाधनार्थम् (४.२.३९)। ननु च परत्वादञा वुञ् बाधिष्यते। न च गोत्रसमुदायो गोत्रम्, न च तदन्तविधिरत्रास्ति? एवं तर्ह्येतज् ज्ञापयति-वुञि पूर्वविप्रतिषेधः, सामूहिकेषु च तदन्तविधिरस्तीति। प्रयोजनमौपगवकं कापटवकमिति वुञ् भवति। वानहस्तिकं गौधेनुकमिति च तदन्तविधिः। क्षुद्रकमालवादित्येतावता योगविभागेन पूर्वविप्रतिषेधस्तदन्तविधिश्च ज्ञापितः, पुनरस्यैव नियमार्थमुच्यते सेनासंज्ञायामिति। क्षुद्रकमालवात् सेनासंज्ञायामेवाञ् भवति। क्षौद्रकमालवी सेना। क्षौद्रकमालवकमन्यत्।

अञ्सिद्धिरनुदात्तादेः कोऽर्थः क्षुद्रकमालवात्।

गोत्राद् वुञ् न च तद्गोत्रं तदन्तान्न स सर्वतः॥ १॥

ज्ञापकं स्यात्तदन्तत्वे तथा चापिशलेर्विधिः।

सेनायां नियमार्थं च यथा बाध्येत चाञ् वुञा ॥ २॥

खण्डिका। वडवा। क्षुद्रकमालवात् सेनासंज्ञायाम्। (ग०सू० ७९)। भिक्षुक। शुक। उलूक। श्वन्। युग। अहन्। वरत्रा। हलबन्ध॥

चरणेभ्यो धर्मवत्॥ ४.२.४६॥

चरणशब्दाः कठकलापादयः, तेभ्यः षष्ठीसमर्थेभ्यः समूहे धर्मवत् प्रत्यया भवन्ति। ‘गोत्रचरणाद् वुञ्’ (४.३.१२६) इत्यारभ्य प्रत्यया वक्ष्यन्ते, तत्रेदमुच्यते ‘चरणाद् धर्माम्नाययोः०’ (वा० ४.३.१२६) इति, तेन धर्मवदित्यतिदेशः क्रियते। वतिः सर्वसादृश्यार्थः। कठानां धर्मः काठकम्। कालापकम्। छान्दोग्यम्। औक्थिक्यम्। आथर्वणम्। तथा समूहेऽपि। काठकम्। कालापकम्। छान्दोग्यम्। औक्थिक्यम्। आथर्वणम्॥

अचित्तहस्तिधेनोष्ठक्॥ ४.२.४७॥

अचित्तार्थेभ्यो हस्तिधेनुशब्दाभ्यां च ठक् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। अणञोरपवादः। अपूपानां समूह आपूपिकम्। शाष्कुलिकम्। हास्तिकम्। धैनुकम्॥ धेनोरनञ इति वक्तव्यम्॥ आधेनवम् ॥

केशाश्वाभ्यां यञ्छावन्यतरस्याम्॥ ४.२.४८॥

केश अश्व इत्येताभ्यां यथासंख्यं यञ् छ इत्येतौ प्रत्ययौ भवतोऽन्यतरस्यां तस्य समूह इत्येतस्मिन् विषये। केशानां समूहः कैश्यम्। कैशिकम्। अश्वानां समूहः अश्वीयम्। आश्वम्॥

पाशादिभ्यो यः॥ ४.२.४९॥

पाशादिभ्यो यः प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। पाशानां समूहः पाश्या। तृण्या॥ पाश। तृण। धूम। वात। अङ्गार। पोत। बालक। पिटक। पिटाक। शकट। हल। नड। वन॥

खलगोरथात्॥ ४.२.५०॥

खलगोरथशब्देभ्यो यः प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। खलानां समूहः खल्या। गव्या। रथ्या। पाशादिष्वपाठ उत्तरार्थः॥

इनित्रकट्यचश्च॥ ४.२.५१॥

खलगोरथशब्देभ्यो यथासंख्यम् इनि त्र कट्यच् इत्येते प्रत्यया भवन्ति तस्य समूह इत्येतस्मिन् विषये। खलिनी। गोत्रा। रथकट्या॥ खलादिभ्य इनिर्वक्तव्यः॥ डाकिनी। कुण्डलिनी। कुटुम्बिनी॥ कमलादिभ्यः खण्डच् प्रत्ययो भवति॥ कमलखण्डम्। अम्भोजखण्डम्॥ कमल। अम्भोज। पद्मिनी। कुमुद। सरोज। पद्म। नलिनी। कैरविणी। कमलादिराकृतिगणः॥ नरकरितुरङ्गाणां स्कन्धच् प्रत्ययः॥ नरस्कन्धः। करिस्कन्धः। तुरङ्गस्कन्धः॥ पूर्वादिभ्यः काण्डः प्रत्ययो भवति॥ पूर्वकाण्डम्। तृणकाण्डम्। कर्मकाण्डम्॥

विषयो देशे॥ ४.२.५२॥

समूह इति निवृत्तम्। षष्ठी समर्थविभक्तिरनुवर्तते। तस्येति षष्ठीसमर्थाद् विषय इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, योऽसौ विषयो देशश्चेत् स भवति। विषयशब्दोऽयं बह्वर्थः। क्वचिद् ग्रामसमुदाये वर्तते, विषयो लब्ध इति। क्वचिदिन्द्रियग्राह्ये, चक्षुर्विषयो रूपमिति। क्वचिदत्यन्तशीलिते ज्ञेये, देवदत्तस्य विषयोऽनुवाक इति। क्वचिदन्यत्राभावे, मत्स्यानां विषयो जलमिति। तत्र देशग्रहणं ग्रामसमुदायप्रतिपत्त्यर्थम्। शिबीनां विषयो देशः शैबः। औष्ट्रः। देश इति किम् ? देवदत्तस्य विषयोऽनुवाकः॥

राजन्यादिभ्यो वुञ्॥ ४.२.५३॥

राजन्यादिभ्यः शब्देभ्यो वुञ् प्रत्ययो भवति विषयो देश इत्येतस्मिन्नर्थे। अणोऽपवादः। राजन्यानां विषयो देशो राजन्यकः। दैवयानकः। आकृतिगणश्चायम्। मालवानां विषयो देशो मालवकः। वैराटकः। त्रैगर्तकः॥ राजन्य। देवयान। शालङ्कायन। जालन्धरायण। आत्मकामेय। अम्बरीषपुत्र। वसाति। बैल्ववन। शैलूष। उदुम्बर। बैल्वत। आर्जुनायन। संप्रिय। दाक्षि। ऊर्णनाभ॥

भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ॥ ४.२.५४॥

भौरिक्यादिभ्य ऐषुकार्यादिभ्यश्च यथासंख्यं विधल् भक्तल् इत्येतौ प्रत्ययौ भवतो विषयो देश इत्येतस्मिन् विषये। अणोऽपवादः। भौरिकिविधः। वैपेयविधः। ऐषुकार्यादिभ्यः-ऐषुकारिभक्तः। सारस्यायनभक्तः॥ भौरिकि। वैपेय। भौलिकि। चैटयत। काणेय। वाणिजक। वालिज। वालिज्यक। शैकयत। वैकयत। भौरिक्यादिः॥ ऐषुकारि। सारस्यायन। चान्द्रायण। द्व्याक्षायण। त्र्याक्षायण। औडायन। जौलायन। खाडायन। सौवीर। दासमित्रि। दासमित्रायण। शौद्रायण। दाक्षायण। शयण्ड। तार्क्ष्यायण। शौभ्रायण। सायण्डि। शौण्डि। वैश्वमाणव। वैश्वधेनव। नद। तुण्डदेव। विशदेव॥

सोऽस्यादिरितिच्छन्दसः प्रगाथेषु॥ ४.२.५५॥

स इति समर्थविभक्तिः। अस्येति प्रत्ययार्थः। आदिरिति प्रकृतिविशेषणम्। इतिकरणो विवक्षार्थः। छन्दस इति प्रकृतिनिर्देशः। प्रगाथेष्विति प्रत्ययार्थविशेषणम्। स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं छन्दश्चेत् तदादिर्भवति, यत् तदस्येति निर्दिष्टं प्रगाथाश्चेत् ते भवन्ति। इतिकरणस्ततश्चेद् विवक्षा। पङ्क्तिरादिरस्य पाङ्क्तः प्रगाथः। आनुष्टुभः। जागतः। आदिरिति किम्? अनुष्टुब् मध्यम् अस्य प्रगाथस्य। छन्दस इति किम्? उदुत्यशब्द आदिरस्य प्रगाथस्य। प्रगाथेष्विति किम्? पङ्क्तिरादिरस्यानुवाकस्य। प्रगाथशब्दः क्रियानिमित्तकः क्वचिदेव मन्त्रविशेषे वर्तते। यत्र द्वे ऋचौ प्रग्रथनेन तिस्रः क्रियन्ते, स प्रग्रथनात् प्रकर्षगानाद् वा प्रगाथ इत्युच्यते॥ छन्दसः प्रत्ययविधाने नपुंसके स्वार्थ उपसंख्यानम्॥ त्रिष्टुबेव त्रैष्टुभम्। जागतम्॥

संग्रामे प्रयोजनयोद्धृभ्यः॥ ४.२.५६॥

सोऽस्येति समर्थविभक्तिः, प्रत्ययार्थश्चानुवर्तते। प्रथमासमर्थविशेषणं प्रयोजनं योद्धारश्च। प्रत्ययार्थविशेषणं संग्रामः। प्रयोजनवाचिभ्यो योद्धृवाचिभ्यश्च शब्देभ्यः प्रथमासमर्थेभ्योऽस्येति षष्ठ्यर्थे संग्रामेऽभिधेये यथाविहितं प्रत्ययो भवति। भद्रा प्रयोजनमस्य संग्रामस्य भाद्रः संग्रामः। सौभद्रः। गौरिमित्रः। योद्धृभ्यः-अहिमाला योद्धारोऽस्य संग्रामस्य आहिमालः। स्यान्दनाश्वः। भारतः। संग्राम इति किम्? सुभद्रा प्रयोजनमस्य दानस्य। प्रयोजनयोद्धृभ्य इति किम्? सुभद्रा प्रेक्षिकास्य संग्रामस्य॥

तदस्यां प्रहरणमिति क्रीडायां णः॥ ४.२.५७॥

तदिति प्रथमासमर्थादस्यामिति सप्तम्यर्थे णः प्रत्ययो भवति, यत् तदिति निर्दिष्टं प्रहरणं चेत् तद् भवति। यदस्यामिति निर्दिष्टं क्रीडा चेत् सा भवति। इतिकरणस्ततश्चेद् विवक्षा। दण्डः प्रहरणमस्यां क्रीडायां दाण्डा। मौष्टा। प्रहरणमिति किम्? माला भूषणमस्यां क्रीडायाम्। क्रीडायामिति किम्? खङ्गः प्रहरणमस्यां सेनायाम्॥

घञः सास्यां क्रियेति ञः॥ ४.२.५८॥

सेति समर्थविभक्तिः। अस्यामिति प्रत्ययार्थः स्त्रीलिङ्गः। क्रियेति प्रकृत्यर्थविशेषणम्। घञ इति प्रकृतिनिर्देशः। इतिकरणो विवक्षार्थः। घञन्तात् क्रियावाचिनः प्रथमासमर्थादस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे ञः प्रत्ययो भवति। घञ इति कृद्ग्रहणम्, तत्र गतिकारकपूर्वमपि गृह्यते। श्येनपातोऽस्यां वर्तते श्यैनंपाता। तैलंपाता। घञ इति किम्? श्येनपतनमस्यां वर्तते। क्रियेति किम्? प्राकारोऽस्यां वर्तते। अथ समर्थविभक्तिः प्रत्ययार्थश्च कस्मात् पुनरुपादीयते, यावता द्वयमपि प्रकृतमेव? क्रीडायामित्यनेन तत् संबद्धम्, अतस्तदनुवृत्तौ क्रीडानुवृत्तिरपि संभाव्येत। सामान्येन चेदं विधानम्। दण्डपातोऽस्यां तिथौ वर्तते दाण्डपाता तिथिः। मौसलपाता तिथिः॥

तदधीते तद्वेद॥ ४.२.५९॥

तदिति द्वितीयासमर्थादधीते वेद इत्येतयोरर्थयोर्यथाविहितं प्रत्ययो भवति। छन्दोऽधीते छान्दसः। वैयाकरणः। नैरुक्तः। निमित्तानि वेद नैमित्तः। मौहूर्तः। औत्पातः। द्विस्तद्ग्रहणमधीयानविदुषोः पृथग्विधानार्थम्॥

क्रतूक्थादिसूत्रान्ताट् ठक् ॥ ४.२.६०॥

क्रतुविशेषवाचिभ्य उक्थादिभ्यश्च सूत्रान्तात् च ठक् प्रत्ययो भवति तदधीते तद्वेदेत्यस्मिन् विषये। अणोऽपवादः। अग्निष्टोममधीते वेद वा आग्निष्टोमिकः। वाजपेयिकः। उक्थादिभ्यः-औक्थिकः। लौकायतिकः। सूत्रान्तात्-वार्तिकसूत्रिकः। सांग्रहसूत्रिकः। सूत्रान्तादकल्पादेरिष्यते। कल्पसूत्रमधीते काल्पसूत्रः। अणेव भवति। उक्थशब्दः केषुचिदेव सामसु रूढः। यज्ञायज्ञीयात् (कौ०सं०उत्तरा० १.६.१,२) परेण यानि गीयन्ते। न च तान्यधीयाने प्रत्यय इष्यते। किं तर्हि? सामलक्षण औक्थिक्ये वर्तमान उक्थशब्दः प्रत्ययमुत्पादयति। उक्थमधीत औक्थिकः। औक्थिक्यमधीत इत्यर्थः। औक्थिक्यशब्दाच्च प्रत्ययो न भवत्येव, अनभिधानात्। विद्यालक्षणकल्पान्तादिति वक्तव्यम्। वायसविद्यिकः। सार्पविद्यिकः। गौलक्षणिकः। आश्वलक्षणिकः। मातृकल्पिकः। पाराशरकल्पिकः। विद्या च नाङ्गक्षत्रधर्मसंसर्गत्रिपूर्वा। अङ्गविद्यामधीते, आङ्गविद्यः। क्षात्रविद्यः। धार्मविद्यः। सांसर्गविद्यः। त्रैविद्यः। आख्यानाख्यायिकेतिहासपुराणेभ्यष्ठग् वक्तव्यः। आख्यानाख्यायिकयोरर्थग्रहणम्, इतिहासपुराणयोः स्वरूपग्रहणम्। यावक्रीतिकः। प्रैयङ्गविकः। वासवदत्तिकः। सौमनोत्तरिकः। ऐतिहासिकः। पौराणिकः। सर्वसादेर्द्विगोश्च लः। सर्ववेदः। सर्वतन्त्रः। सादेः-सवार्तिकः। ससंग्रहः। द्विगोः-द्विवेदः। पञ्चव्याकरणः। अनुसूर्लक्ष्यलक्षणे च। अनुसूर्नाम ग्रन्थः, तमधीत आनुसुकः। लाक्ष्यिकः। लाक्षणिकः। इकन् बहुलं पदोत्तरपदात्। पूर्वपदिकः। शतषष्टेः षिकन् पथो बहुलम्। शतपथिकः। शतपथिकी। षष्टिपथिकः। षष्टिपथिकी। बहुलग्रहणादणपि भवति। शातपथः। षाष्टिपथः॥ उक्थ। लोकायत। न्याय। न्यास। निमित्त। पुनरुक्त। निरुक्त। यज्ञ। चर्चा। धर्म। क्रमेतर। श्लक्ष्ण। संहिता। पद। क्रम। संघात। वृत्ति। संग्रह। गुणागुण। आयुर्वेद। सूत्रान्तादकल्पादेः (ग० सू० ८०)। विद्यालक्षणकल्पान्तात् (ग० सू० ८१)। विद्या चानङ्गक्षत्रधर्मसंसर्गत्रिपूर्वा (ग० सू० ८२) । आख्यानाख्यायिकेतिहासपुराणेभ्यष्ठक् (ग० सू० ८३)। सर्वसादेर्द्विगोश्च लः (ग० सू० ८४)। अनुसूर्लक्ष्यलक्षणे च (ग०सू० ८५)। द्विपदी ज्योतिषि (ग०सू० ८६)। अनुपद। अनुकल्प। अनुगुण। इकन् बहुलं पदोत्तरपदात् (ग०सू० ८७)। शतषष्टेः षिकन् पथो बहुलम् (ग०सू० ८८)॥

क्रमादिभ्यो वुन् ॥ ४.२.६१॥

क्रम इत्येवमादिभ्यः शब्देभ्यो वुन् प्रत्ययो भवति तदधीते तद्वेदेत्यस्मिन् विषये। अणोऽपवादः। क्रमकः। पदकः॥ क्रम। पद। शिक्षा। मीमांसा। सामन्॥

अनुब्राह्मणादिनिः॥ ४.२.६२॥

अनुब्राह्मणशब्दादिनिः प्रत्ययो भवति तदधीते तद्वेदेत्यस्मिन् विषये। अणोऽपवादः। ब्राह्मणसदृशोऽयं ग्रन्थोऽनुब्राह्मणम्। तदधीते अनुब्राह्मणी, अनुब्राह्मणिनौ, अनुब्राह्मणिनः। मत्वर्थेन ‘अत इनिठनौ’ (५.२.११५) इतीनिना सिद्धम् ? तत्रैतस्माट् ठन्नपि प्राप्नोति। अनभिधानान्न भविष्यति ? अणो निवृत्त्यर्थं तर्हि वचनम्॥

वसन्तादिभ्यष्ठक्॥ ४.२.६३॥

वसन्त इत्येवमादिभ्यष्ठक् प्रत्ययो भवति तदधीते तद्वेदेत्येतस्मिन् विषये। अणोऽपवादः। वसन्तसहचरितोऽयं ग्रन्थो वसन्तः, तमधीते वासन्तिकः। वार्षिकः॥ वसन्त। वर्षाशरदम्। हेमन्त। शिशिर। प्रथम। गुण। चरम। अनुगुण। अपर्वन्। अथर्वन्॥

प्रोक्ताल्लुक्॥ ४.२.६४॥

प्रोक्तसहचरितः प्रत्ययः प्रोक्तः। प्रोक्तप्रत्ययान्तादध्येतृवेदित्रोरुत्पन्नस्य लुग् भवति। पाणिनिना प्रोक्तं पाणिनीयम्, तदधीते पाणिनीयः। आपिशलः। स्त्रियां स्वरे च विशेषः। पाणिनीया ब्राह्मणी॥

सूत्राच्च कोपधात्॥ ४.२.६५॥

सूत्रवाचिनः। ककारोपधादुत्पन्नस्य प्रत्ययस्य लुग् भवति। अप्रोक्तार्थ आरम्भः। पाणिनीयमष्टकं सूत्रम्, तदधीयते अष्टकाः पाणिनीयाः। दशका वैयाघ्रपदीयाः। त्रिकाः काशकृत्स्नाः॥ संख्याप्रकृतेरिति वक्तव्यम्॥ इह मा भूत्-महावार्तिकं सूत्रमधीते माहावार्तिकः। कालापकमधीते कालापकः। कोपधादिति किम् ? चतुष्टयमधीते चातुष्टयः॥

छन्दोब्राह्मणानि च तद्विषयाणि॥ ४.२.६६॥

प्रोक्तग्रहणमनुवर्तते। छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्विषयाण्येव भवन्ति। अध्येतृवेदितृप्रत्ययविषयाणि। अनन्यभावो विषयार्थः। तेन स्वातन्त्र्यमुपाध्यन्तरयोगो वाक्यं च निवर्तते। कठेन प्रोक्तमधीयते कठाः। मौदाः। पैप्पलादाः। आर्चाभिनः। वाजसनेयिनः। ब्राह्मणानि खल्वपि-ताण्डिनः। भाल्लविनः। शाट्यायनिनः। ऐतरेयिणः। ब्राह्मणग्रहणं किम्, यावता छन्द एव तद् ? ब्राह्मणविशेषप्रतिपत्त्यर्थम्, इह तद्विषयता मा भूत्-याज्ञवल्क्येन प्रोक्तानि ब्राह्मणानि याज्ञवल्कानि। सौलभानि। चकारोऽनुक्तसमुच्चयार्थः। कल्पे- काश्यपिनः। कौशिकिनः। सूत्रे-पाराशरिणो भिक्षवः। शैलालिनो नटाः। कर्मन्दिनः। कृशाश्विनः। छन्दोब्राह्मणानीति किम् ? पाणिनीयं व्याकरणम्। पैङ्गी कल्पः॥

तदस्मिन्नस्तीति देशे तन्नाम्नि ॥ ४.२.६७॥

तदिति प्रथमासमर्थविभक्तिः। अस्मिन्निति प्रत्ययार्थः। अस्तीति प्रकृत्यर्थविशेषणम्। इतिकरणो विवक्षार्थः। देशे तन्नाम्नीति प्रत्ययार्थविशेषणम्। तदिति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थमस्ति चेत् तद् भवति, यदस्मिन्निति निर्दिष्टं देशश्चेत् स तन्नामा भवति, प्रत्ययान्तनामा। इतिकरणस्ततश्चेद् विवक्षा। उदुम्बरा अस्मिन् देशे सन्ति औदुम्बरः। बाल्बजः। पार्वतः। मत्वर्थीयापवादो योगः॥

तेन निर्वृत्तम् ॥ ४.२.६८॥

तेनेति तृतीयासमर्थाद् निर्वृत्तमित्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति देशनामधेये गम्यमाने। देशे तन्नाम्नीति चतुर्ष्वपि योगेषु संबध्यते। सहस्रेण निर्वृत्ता साहस्री परिखा। कुशाम्बेन निर्वृत्ता कौशाम्बी नगरी। हेतौ कर्तरि च यथायोगं तृतीया समर्थविभक्तिः॥

तस्य निवासः ॥ ४.२.६९॥

तस्येति षष्ठीसमर्थाद् निवास इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति देशनामधेये गम्यमाने। निवसन्त्यस्मिन्निति निवासः। ऋजुनावां निवासो देश आर्जुनावो देशः। शैबः। औदिष्ठः॥

अदूरभवश्च ॥ ४.२.७०॥

पूर्वा समर्थविभक्तिरनुवर्तते। तस्येति षष्ठीसमर्थाददूरभव इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। विदिशाया अदूरभवं नगरं वैदिशम्। हैमवतम्। चकारः पूर्वेषां त्रयाणामर्थानामिह सन्निधानार्थः। तेनोत्तरेषु चत्वारोऽप्यर्थाः संबध्यन्ते॥

ओरञ् ॥ ४.२.७१॥

चत्वारोऽर्थाः (४.२.६७-७०) अनुवर्तन्ते। उवर्णान्तात् प्रातिपदिकाद् यथाविहितं समर्थविभक्तियुक्तादञ् प्रत्ययो भवति तदस्मिन्नस्तीत्येवमादिष्वर्थेषु। अणोऽपवादः। अरडु-आरडवम्। कक्षतु-काक्षतवम्। कर्कटेलु-कार्कटेलवम्। नद्यां तु परत्वाद् मतुब् भवति। इक्षुमती। अञधिकारः प्राक् सुवास्त्वादिभ्योऽणः (४.२.७७)॥

मतोश्च बह्वजङ्गात् ॥ ४.२.७२॥

बह्वज् अङ्गं यस्यासौ बह्वजङ्गो मतुप्, तदन्तात् प्रातिपदिकादञ् प्रत्ययो भवति चातुरर्थिकः। अणोऽपवादः। ऐषुकावतम्। सैध्रकावतम्। बह्वजङ्गादिति किम्? आहिमतम्। यावमतम्। अङ्गग्रहणं किम् ? बह्वजिति तद्विशेषणं यथा विज्ञायेत, मत्वन्तविशेषणं मा विज्ञायीति। मालावतां निवासो मालावतम्॥

बह्वचः कूपेषु॥ ४.२.७३॥

बह्वचः प्रातिपदिकादञ् प्रत्ययो भवति चातुरर्थिकः कूपेष्वभिधेयेषु। अणोऽपवादः। यथासंभवमर्थाः संबध्यन्ते। दीर्घवरत्रेण निर्वृत्तः कूपो दैर्घवरत्रः। कापिलवरत्रः।

उदक् च विपाशः॥ ४.२.७४॥

विपाश उत्तरे कूले ये कूपाः, तेष्वभिधेयेष्वञ् प्रत्ययो भवति चातुरर्थिकः। अणोऽपवादः। अबह्वजर्थ आरम्भः। दत्तेन निर्वृत्तः कूपो दात्तः॑। गौप्तः॑। उदगिति किम्? दक्षिणतो विपाशः कूपेष्वणेव। दा॒त्तः। गा॒ैप्तः। स्वरे विशेषः। महती सूक्ष्मेक्षिका वर्तते सूत्रकारस्य॥

संकलादिभ्यश्च ॥ ४.२.७५॥

कूपेष्विति निवृत्तम्। संकल इत्येवमादिभ्योऽञ् प्रत्ययो भवति चातुरर्थिकः। अणोऽपवादः। यथासंभवमर्थसंबन्धः। संगतः कलः संकलः। संकलेन निर्वृत्तः सांकलः। पौष्कलः॥ संकल। पुष्कल। उद्वप। उडुप। उत्पुट। कुम्भ। विधान। सुदक्ष। सुदत्त। सुभूत। सुनेत्र। सुपिङ्गल। सिकता। पूतीकी। पूलास। कूलास। पलाश। निवेश। गवेष। गम्भीर। इतर। शर्मन्। अहन्। लोमन्। वेमन्। वरुण। बहुल। सद्योज। अभिषिक्त। गोभृत्। राजभृत्। गृह। भृत। भल्ल। माल। वृत्॥

स्त्रीषु सौवीरसाल्वप्राक्षु ॥ ४.२.७६॥

देशे तन्नाम्नीत्यस्य विशेषणं सौवीरादयः, स्त्रीत्वं च । ङ्याप्प्रातिपदिकादञ् प्रत्ययो भवति चातुरर्थिकः, अणोऽपवादः, सौवीरे स्त्रीलिङ्गे देशे वाच्ये साल्वे प्राचि। सौवीरे तावत्-दत्तामित्रेण निर्वृत्ता नगरी दात्तामित्री। साल्वे-विधूमाग्निना निर्वृत्ता वैधूमाग्नी। प्राचि खल्वपि-ककन्देन निर्वृत्ता काकन्दी। माकन्दी। माणिचरी। जारुषी॥

सुवास्त्वादिभ्योऽण् ॥ ४.२.७७॥

सुवास्तु इत्येवमादिभ्योऽण् प्रत्ययो भवति चातुरर्थिकः। अञ उवर्णान्तलक्षणस्य कूपलक्षणस्य चापवादः। सुवास्तोरदूरभवं नगरं सौवास्तवम्। वार्णवम्। अण्ग्रहणं नद्यां मतुपो बाधनार्थम्। सौवास्तवी नदी॥ सुवास्तु। वर्णु। भण्डु। खण्डु। सेचालिन्। कर्पूरिन्। शिखण्डिन्। गर्त। कर्कश। शटीकर्ण। कृष्ण। कर्क। कर्कन्धूमती। गोह्य। अहिसक्थ। वृत्॥

रोणी ॥ ४.२.७८॥

रोणीशब्दादण् प्रत्ययो भवति चातुरर्थिकः। यथासंभवमर्थसंबन्धः। कूपलक्षणस्याञोऽपवादः। रोणीति कोऽयं निर्देशः, यावता प्रत्ययविधौ पञ्चमी युक्ता? सर्वावस्थप्रतिपत्त्यर्थमेवमुच्यते। रोणीशब्दः सर्वावस्थोऽण्प्रत्ययमुत्पादयति, केवलस्तदन्तश्च। रौणः। आजकरोणः। सैंहिकरोणः॥

कोपधाच्च ॥ ४.२.७९॥

ककारोपधात् च प्रातिपदिकादण् प्रत्ययो भवति चातुरर्थिकः। यथासंभवमर्थसंबन्धः। कूपलक्षणस्योवर्णलक्षणस्य चाञोऽपवादः। कार्णच्छिद्रिकः कूपः। कार्णवेष्टकः। कृकवाकुना निर्वृत्तं कार्कवाकवम्। त्रैशङ्कवम्॥

वुञ्छण्कठजिलसेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकोऽरीहणकृशाश्वर्श्य-कुमुदकाशतृणप्रेक्षाश्मसखिसंकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः॥ ४.२.८०॥

वुञादयः सप्तदश प्रत्ययाः, अरीहणादयोऽपि सप्तदशैव प्रातिपदिकगणाः। आदिशब्दः प्रत्येकमभिसंबध्यते। तत्र यथासंख्यं सप्तदशभ्यः प्रातिपदिकगणेभ्यः सप्तदश प्रत्यया भवन्ति चातुरर्थिकाः। अणोऽपवादः। यथासंभवमर्थसंबन्धः। अरीहणादिभ्यो वुञ् प्रत्ययो भवति। आरीहणकम्। द्रौघणकम्॥ अरीहण। द्रुघण। खदिर। सार। भगल। उलन्द। साम्परायण। क्रौष्ट्रायण। भास्त्रायण। मैत्रायण। त्रैगर्तायन। रायस्पोष। विपथ। उद्दण्ड। उदञ्चन। खाडायन। खण्ड। वीरण। काशकृत्स्न। जाम्बवन्त। शिंशपा। किरण। रैवत। बैल्व। वैमतायन। सौसायन। शाण्डिल्यायन। शिरीष। बधिर। अरीहणादिः॥ कृशाश्वादिभ्यश्छण् प्रत्ययो भवति। कार्शाश्वीयः। आरिष्टीयः॥ कृशाश्व। अरिष्ट। अरीश्व। वेश्मन्। विशाल। रोमक। शबल। कूट। रोमन्। वर्वर। सुकर। सूकर। प्रतर। सदृश। पुरग। सुख। धूम। अजिन। विनता। अवनत। विकुघास। अरुस्। अवयास। मौद्गल्य। कृशाश्वादिः॥ ऋश्यादिभ्यः कः प्रत्ययो भवति। ऋश्यकः। न्यग्रोधकः॥ ऋश्य। न्यग्रोध। शिरा। निलीन। निवास। निधान। निवात। निबद्ध। विबद्ध। परिगूढ। उपगूढ। उत्तराश्मन्। स्थूलबाहु। खदिर। शर्करा। अनडुह्। परिवंश। वेणु। वीरण। ऋश्यादिः॥ कुमुदादिभ्यष्ठच् प्रत्ययो भवति। कुमुदिकम्। शर्करिकम्॥ कुमुद। शर्करा। न्यग्रोध। इत्कट। गर्त। बीज। अश्वत्थ। बल्बज। परिवाप। शिरीष। यवाष। कूप। विकङ्कत। कुमुदादिः॥ काशादिभ्य इलः प्रत्ययो भवति। काशिलम्। वाशिलम्॥ काश। वाश। अश्वत्थ। पलाश। पीयूष। विश। तृण। नर। चरण। कर्दम। कर्पूर। कण्टक। गृह। काशादिः॥ तृणादिभ्यः सः प्रत्ययो भवति। तृणसः। नडसः॥ तृण। नड। बुस। पर्ण। वर्ण। चरण। अर्ण। जन। बल। लव। वन। तृणादिः॥ प्रेक्षादिभ्य इनिप्रत्ययो भवति। प्रेक्षी। हलकी॥ पे्रक्षा। हलका। बन्धुका। ध्रुवका। क्षिपका। न्यग्रोध। इर्कुट। प्रेक्षादिः॥ अश्मादिभ्यो रप्रत्ययो भवति। अश्मरः॥ अश्मन्। यूष। रूष। मीन। दर्भ। वृन्द। गुड। खण्ड। नग। शिखा। अश्मादिः॥ सख्यादिभ्यो ढञ् प्रत्ययो भवति। साखेयम्। साखिदत्तेयम्॥ सखि। सखिदत्त। वायुदत्त। गोहित। भल्ल। पाल। चक्रपाल। चक्रवाल। छगल। अशोक। करवीर। सीकर। सकर। सरस। समल। सख्यादिः॥ संकाशादिभ्यो ण्यप्रत्ययो भवति। सांकाश्यम्। काम्पिल्यम्॥ संकाश। काम्पिल्य। समीर। कश्मर। शूरसेन। सुपथिन्। सक्थच। यूप। अंश। एग। अश्मन्। कूट। मलिन। तीर्थ। अगिस्त। विरत। चिकार। विरह। नासिका। संकाशादिः॥ बलादिभ्याे यः प्रत्ययो भवति। बल्यः। कुल्यम्॥ बल। वुल। तुल। उल। डुल। कवल। वन। कुल। बलादिः॥ पक्षादिभ्यः फक् प्रत्ययो भवति। पाक्षायणः। तौषायणः॥ पक्ष। तुष। अण्ड। कम्बलिक। चित्र। अश्मन्। अतिस्वन्। पथिन् पन्थ च (ग० सू० ८९)। पक्षादिः॥ कर्णादिभ्यः फिञ् प्रत्ययो भवति। कार्णायनिः। वासिष्ठायनिः॥ क र्ण। वसिष्ठ। अलुश। शल। डुपद। अनडुह्य। पाञ्चजन्य। स्थिरा। कुलिश। कुम्भी। जीवन्ती। जित्व। आण्डीवत्। कर्णादिः॥ सुतङ्गमादिभ्य इञ् प्रत्ययो भवति। सौतङ्गमिः। मौनिचित्तिः॥ सुतङ्गम। मुनिचित्त। विप्रचित्त। महापुत्र। श्वेत। गडिक। शुक्र। विग्र। बीजवापिन्। श्वन्। अर्जुन। अजिर। जीव। सुतङ्गमादिः॥ प्रगदिन्नादिभ्यो ञ्यः प्रत्ययो भवति। प्रागद्यम्॥ प्रगदिन्। मगदिन्। शरदिन्। कलिव। खडिव। गडिव। चूडार। मार्जार। कोविदार। प्रगद्यादिः॥ वराहादिभ्यः कक् प्रत्ययो भवति। वाराहकम्। पालाशकम्॥ वराह। पलाश। शिरीष। पिनद्ध। स्थूण। विदग्ध। विजग्ध। विभग्न। बाहु। खदिर। शर्करा। वराहादिः॥ कुमुदादिभ्यष्ठक् प्रत्ययो भवति। कौमुदिकम्॥ कुमुद। गोमथ। रथकार। दशग्राम। अश्वत्थ। शाल्मली। कुण्डल। मुनिस्थूल। कूट। मुचुकर्ण। कुमुदादिः॥ शिरीषशब्दोऽरीहणादिषु, कुमुदादिषु, वराहादिषु च पठ्यते, औत्सर्गिकोऽपि तत इष्यते, तस्य च वरणादिषु दर्शनाल् लुब् भवति। तथा चोक्तम्-शिरीषाणामदूरभवो ग्रामः शिरीषाः, तस्य वनं शिरीषवनम् (का० १.२.५१) इति ॥

जनपदे लुप् ॥ ४.२.८१॥

देशे तन्नाम्नीति यश्चातुरर्थिकः प्रत्ययो भवति, तस्य देशविशेषे जनपदेऽभिधेये लुब् भवति। ग्रामसमुदायो जनपदः। पञ्चालानां निवासो जनपदः पञ्चालाः। कुरवः। मत्स्याः। अङ्गाः। वङ्गा। मगधाः। सुह्माः। पुण्ड्राः। इह कस्माद् न भवति-उदुम्बरा अस्मिन् सन्ति, औदुम्बरो जनपदः, वैदिशो जनपद इति ? तन्नाम्नीति वर्तते। न चात्र लुबन्तं तन्नामधेयं भवति॥

वरणादिभ्यश्च ॥ ४.२.८२॥

वरण इत्येवमादिभ्य उत्पन्नस्य चातुरर्थिकस्य प्रत्ययस्य लुब् भवति। अजनपदार्थ आरम्भः। वरणानामदूरभवं नगरं वरणाः। शृङ्गी। शाल्मलयः। चकारोऽनुक्तसमुच्चयार्थ आकृतिगणतामस्य बोधयति। कटुकबदर्या अदूरभवो ग्रामः कटुकबदरी। शिरीषाः। काञ्ची॥ वरणाः, पूर्वौ गोदौ। आलिङ्ग्यायन। पर्णी। शृङ्गी। शाल्मलयः। सदाण्वी। वणिकि। वणिक। जालपद। मथुरा। उज्जयिनी। गया। तक्षशिला। उरशा। आकृत्या॥

शर्कराया वा ॥ ४.२.८३॥

शर्कराशब्दादुत्पन्नस्य चातुरर्थिकस्य प्रत्ययस्य वा लुब् भवति। वाग्रहणं किम्, यावता शर्कराशब्दः कुमुदादिषु वराहादिषु च पठ्यते, तत्र पाठसामर्थ्यात् प्रत्ययस्य पक्षे श्रवणं भविष्यति? एवं तर्ह्येतज् ज्ञापयति-शर्कराशब्दादौत्सर्गिको भवति, तस्यायं विकल्पितो लुबिति। शर्करा। शार्करम्। गणपाठात् च श्रवणमुत्तरसूत्रे विहितौ च द्वौ प्रत्ययौ, तदेवं षड् रूपाणि भवन्ति। शर्करा। शार्करम्। शर्करिकम्। शार्करकम्। शार्करिकम्। शर्करीयमिति॥

ठक्छौ च ॥ ४.२.८४॥

शर्क राशब्दाट् ठक् छ इत्येतौ प्रत्ययौ भवतश्चातुरर्थिकौ। यथासंभवमर्थसंबन्धः। शार्करिकम्। शर्करीयम्॥

नद्यां मतुप् ॥ ४.२.८५॥

नद्यामभिधेयायां मतुप् प्रत्ययो भवति चातुरर्थिकः। तन्नाम्नो देशस्य विशेषणं नदी। उदुम्बरा यस्यां सन्ति उदुम्बरावती। मशकावती। वीरणावती। पुष्करावती। इक्षुमती। द्रुमती। इह कस्माद् न भवति- भागीरथी। भैमरथी? मतुबन्तस्यातन्नामधेयत्वात् ।

मध्वादिभ्यश्च ॥ ४.२.८६॥

मधु इत्येवमादिभ्यः शब्देभ्यो मतुप् प्रत्ययो भवति चातुरर्थिकः। अनद्यर्थ आरम्भः। मधुमान्। बिसवान्॥ मधु। बिस। स्थाणु। मुष्टि। इक्षु। वेणु। रम्य। ऋक्ष। कर्कन्धु। शमी। किरीर । हिम । किशरा। शर्पणा। मरुत्। मरुव। दार्वाघाट। शर। इष्टका। तक्षशिला। शक्ति। आसन्दी। आसुति। शलाका। आमिधी। खडा। वेटा। मध्वादिः॥

कुमुदनडवेतसेभ्यो ड्मतुप् ॥ ४.२.८७॥

कुमुद नड वेतस इत्येतेभ्यः शब्देभ्यो ड्मतुप् प्रत्ययो भवति चातुरर्थिकः। कुमुद्वान्। नड्वान्। वेतस्वान् ॥ महिषाच्चेति वक्तव्यम्॥ महिष्मान् नाम देशः॥

नडशादाड् ड्वलच्॥ ४.२.८८॥

नडशादशब्दाभ्यां ड्वलच् प्रत्ययो भवति चातुरर्थिकः। यथासंभवमर्थसंबन्धः। नड्वलम्। शाद्वलम्॥

शिखाया वलच्॥ ४.२.८९॥

शिखाशब्दाद् वलच् प्रत्ययो भवति चातुरर्थिकः। यथासंभवमर्थसंबन्धः। शिखावलं नाम नगरम्। मतुप्प्रकरणेऽपि शिखाया वलचं (५.२.११३) वक्ष्यति, तददेशार्थं वचनम्॥

उत्करादिभ्यश्छः॥ ४.२.९०॥

उत्कर इत्येवमादिभ्यश्छः प्रत्ययो भवति चातुरर्थिकः। यथासंभवमर्थसंबन्धः। उत्करीयम्। शफरीयम्॥ उत्कर। संफल। शफर। पिप्पल। पिप्पलीमूल। अश्मन्। अर्क। पर्ण। सुपर्ण। खलाजिन। इडा। अग्नि। तिक। कितव। आतप। अनेक। पलाश। तृणव। पिचुक। अश्वत्थ। शकाक्षुद्र। भस्त्रा। विशाला। अवरोहित। गर्त। शाल। अन्य। जन्या। अजिन। मञ्च। चर्मन्। उत्क्रोश। शान्त। खदिर। शूर्पणाय। श्यावनाय। नैव। बक। नितान्त। वृक्ष। इन्द्रवृक्ष। आर्द्रवृक्ष। अर्जुनवृक्ष। उत्करादिः॥

नडादीनां कुक् च॥ ४.२.९१॥

नड इत्येवमादीनां कुगागमो भवति, छश्च प्रत्ययश्चातुरर्थिकः। यथासंभवमर्थसंबन्धः। नडकीयम्। प्लक्षकीयम्॥ नड। प्लक्ष। बिल्व। वेणु। वेत्र। वेतस। तृण। इक्षु। काष्ठ। कपोत। क्रुञ्चाया ह्रस्वत्वं च (ग० सू० ९०)। तक्षन् नलोपश्च (ग० सू० ९१)॥

शेषे॥ ४.२.९२॥

शेष इत्यधिकारोऽयम्। यानित ऊर्ध्वं प्रत्ययाननुक्रमिष्यामः, शेषेऽर्थे ते वेदितव्याः। उपयुक्तादन्यः शेषः। अपत्यादिभ्यश्चतुरर्थपर्यन्तेभ्योऽन्योऽर्थः शेषः। तस्येदंविशेषा ह्यपत्यसमूहादयः, तेषु घादयो मा भूवन्निति शेषाधिकारः क्रियते। किं च, सर्वेषु जातादिषु घादयो यथा स्युः, अनन्तरेणैवार्थादेशेन संबन्धित्वेन कृतार्थता मा विज्ञायीति साकल्यार्थं शेषवचनम्। वक्ष्यति-‘राष्ट्रावारपाराद् घखौ’ (४.२.९३)-राष्ट्रियः। अवारपारीणः। शेष इति लक्षणं चाधिकारश्च। चक्षुषा गृह्यते चाक्षुषं रूपम्। श्रावणः शब्दः। दृषदि पिष्टा दार्षदाः सक्तवः। उलूखले क्षुण्णः औलूखलो यावकः। अश्वैरुह्यत आश्वो रथः। चतुर्भिरुह्यते चातुरं शकटम्। चतुर्दश्यां दृश्यते चातुर्दशं रक्ष इति॥

राष्ट्रावारपाराद् घखौ॥ ४.२.९३॥

राष्ट्र अवारपार इत्येताभ्यां यथासंख्यं घखावित्येतौ प्रत्ययौ भवतः। राष्ट्रियः। अवारपारीणः॥ विगृहीतादपीष्यते॥ अवारीणः। पारीणः॥ विपरीताच्च॥ पारावारीणः। प्रकृतिविशेषोपादानमात्रेण तावत् प्रत्यया विधीयन्ते। तेषां तु जातादयोऽर्थाः समर्थविभक्तयश्च पुरस्ताद् वक्ष्यन्ते॥

ग्रामाद् यखञौ॥ ४.२.९४॥

ग्रामशब्दाद् य खञ् इत्येतौ प्रत्ययौ भवतः। ग्राम्यः। ग्रामीणः॥

कत्र्यादिभ्यो ढकञ्॥ ४.२.९५॥

कत्रि इत्येवमादिभ्यो ढकञ् प्रत्ययो भवति। कात्रेयकः। औम्भेयकः॥ कत्रि। उम्भि। पुष्कर। पुष्कल। मोदन। कुम्भी। कुण्डिन। नगर। वञ्जी। भक्ति। माहिष्मती। चर्मण्वती। ग्राम। उख्या। कुड्याया यलोपश्च (ग० सू० ९२)। कत्र्यादिः॥

कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु ॥ ४.२.९६॥

कुलकुक्षिग्रीवाशब्देभ्यो यथासंख्यं श्वन् असि अलंकार इत्येतेषु जातादिष्वर्थेषु ढकञ् प्रत्ययो भवति। कौलेयको भवति श्वा चेत्। कौलोऽन्यः। कौक्षेयको भवत्यसिश्चेत्। कौक्षोऽन्यः। ग्रैवेयको भवत्यलंकारश्चेत्। गै्रवोऽन्यः॥

नद्यादिभ्यो ढक् ॥ ४.२.९७॥

नदी इत्येवमादिभ्यो ढक् प्रत्ययो भवति। नादेयम्। माहेयम्। पूर्वनगरीशब्दोऽत्र पठ्यते। पौर्वनगरेयम्। केचित् तु पूर्वनगिरीति पठन्ति, विच्छिद्य च प्रत्ययं कुर्वन्ति। पौरेयम्। वानेयम्। गैरेयमिति। तदुभयमपि दर्शनं प्रमाणम्॥ नदी। मही। वाराणसी। श्रावस्ती। कौशाम्बी। नवकौशाम्बी। काशफरी। खादिरी। पूर्वनगरी। पावा। मावा। साल्वा। दार्वा। दाल्वा। वासेनकी। वडवाया वृषे (ग०सू० ९३)॥

दक्षिणापश्चात्पुरसस्त्यक् ॥ ४.२.९८॥

दक्षिणा पश्चात् पुरस् इत्येतेभ्यस्त्यक् प्रत्ययो भवति शैषिकः। दाक्षिणात्यः। पाश्चात्त्यः। पौरस्त्यः॥

कापिश्याः ष्फक् ॥ ४.२.९९॥

कापिशीशब्दात् ष्फक् प्रत्ययो भवति शैषिकः। षकारो ङीषर्थः। कापिशायनं मधु। कापिशायनी द्राक्षा॥ बाह्ल्युर्दिपर्दिभ्यश्चेति वक्तव्यम्॥ बाह्लायनी। और्दायनी। पार्दायनी॥

रङ्कोरमनुष्येऽण् च॥ ४.२.१००॥

रङ्कुशब्दादण् प्रत्ययो भवति, चकारात् ष्फक् च शैषिकोऽमनुष्येऽभिधेये। राङ्कवो गौः। राङ्कवायणो गौः। अमनुष्य इति किम्? राङ्कवको मनुष्यः। ननु च रङ्कुशब्दः कच्छादिषु (४.२.१३३) पठ्यते, तत्र च ‘मनुष्यतत्स्थयोर्वुञ्’ (४.२.१३४) इति मनुष्ये परत्वाद् वुञैव भवितव्यम्, कच्छादिपाठादमनुष्येऽणपि सिद्धः, किमिह मनुष्यप्रतिषेधेनाण्ग्रहणेन च? तदुच्यते, नैवायं मनुष्यप्रतिषेधः। किं तर्हि? नञिवयुक्तन्यायेन मनुष्यसदृशे प्राणिनि प्रतिपत्तिः क्रियते। तेन राङ्कवः कम्बल इति ष्फग् न भवति। विशेषविहितेन च ष्फकाणो बाधा मा भूदित्यण्ग्रहणमपि क्रियते॥

द्युप्रागपागुदक्प्रतीचो यत्॥ ४.२.१०१॥

दिव् प्राच् अपाच् उदच् प्रत्यच् इत्येतेभ्यो यत् प्रत्ययो भवति शैषिकः। दिव्यम्। प्राच्यम्। अपाच्यम्। उदीच्यम्। प्रतीच्यम्। अव्ययात् तु कालवाचिनः परत्वात् ट्युट्युलौ भवतः। प्राक्तनम्॥

कन्थायाष्ठक् ॥ ४.२.१०२॥

कन्थाशब्दाट् ठक् प्रत्ययो भवति शैषिक ः। कान्थिकः॥

वर्णौ वुक् ॥ ४.२.१०३॥

कन्थाया इत्येव। वर्णौ या कन्था तस्या वुक् प्रत्ययो भवति शैषिक ः। ठकोऽपवादः। वर्णुर्नाम नदः, तत्समीपो देशो वर्णुः। तद्विषयार्थवाचिनः कन्थाशब्दादयं प्रत्ययः। तथाहि-जातं हिमवत्सु कान्थकम्॥

अव्ययात् त्यप् ॥ ४.२.१०४॥

अव्ययात् त्यप् प्रत्ययो भवति शैषिकः।

अमेहक्वतसित्रेभ्यस्त्यब्विधिर्योऽव्ययात् स्मृतः।

निनिर्भ्यां  ध्रुवगत्योश्च  प्रवेशो  नियमे  तथा॥

अमात्यः। इहत्यः। क्वत्यः। इतस्त्यः। तत्रत्यः। यत्रत्यः। परिगणनं किम् ? औपरिष्टः। पौरस्तः। पारस्तः। वृद्धात् तु छो भवति। आरातीयः॥ त्यब् नेर्ध्रुवे॥ नियतं ध्रुवं नित्यम्॥ निसो गते॥ निर्गतो वर्णाश्रमेभ्यो निष्ट्यश्चण्डालादिः॥ आविसश्छन्दसि॥ आविस्शब्दाच् छन्दसि त्यप् प्रत्ययो भवति। आ॒विष्ट्यो॑ वर्धते॒ (ऋ० १.९५.५)॥ अरण्याण् णो वक्तव्यः॥ आरण्याः सुमनसः॥ दूरादेत्यः॥ दूरेत्यः पथिकः॥ उत्तरादाहञ् ॥ औत्तराहम्॥

ऐषमोह्यःश्वसोऽन्यतरस्याम् ॥ ४.२.१०५॥

ऐषमस् ह्यस् श्वस् इत्येतेभ्योऽन्यतरस्यां त्यप् प्रत्ययो भवति शैषिकः। ऐषमस्त्यम्, ऐषमस्तनम्। ह्यस्त्यम्, ह्यस्तनम्। श्वस्त्यम्, श्वस्तनम्। ‘श्वसस्तुट् च’ (४.३.१५) इति ठञपि तृतीयो भवति। शौवस्तिकम्॥

तीररूप्योत्तरपदादञ्ञौ॥ ४.२.१०६॥

तीरोत्तरपदाद् रूप्योत्तरपदात् च प्रातिपदिकाद् यथासंख्यमञ् ञ इत्येतौ प्रत्ययौ भवतः शैषिकौ। अणोऽपवादौ। काकतीरम्। पाल्वलतीरम्। रूप्योत्तरपदात्-वार्करूप्यम्। शैवरूप्यम्। तीररूप्यान्तादिति नोक्तम्, बहुच्प्रत्ययपूर्वाद् मा भूदिति। बाहुतीरम्। अणेव भवति।

दिक्पूर्वपदादसंज्ञायां ञः॥ ४.२.१०७॥

असंज्ञायामिति प्रकृतिविशेषणम्। दिक्पूर्वपदात् प्रातिपदिकादसंज्ञाविषयाद् ञः प्रत्ययो भवति शैषिकः। अणोऽपवादः। पौर्वशालः। दाक्षिणशालः। आपरशालः। असंज्ञायामिति किम्? पूर्वैषुकामशमः। अपरैषुकामशमः। ‘दिक्संख्ये संज्ञायाम्’ (२.१.५०) इति समासः। ‘प्राचां ग्रामनगराणाम्’ (७.३.१४) इत्युत्तरपदवृद्धिः। पदग्रहणं स्वरूपविधिनिरासार्थम्॥

मद्रेभ्योऽञ्॥ ४.२.१०८॥

दिक्पूर्वपदादित्येव। दिक्पूर्वपदाद् मद्रशब्दादञ् प्रत्ययो भवति शैषिकः। पौर्वमद्रः। आपरमद्रः। ‘दिशोऽमद्राणाम्’(७.३.१३) इति पर्युदासादादिवृद्धिरेव॥

उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात्॥ ४.२.१०९॥

दिग्ग्रहणं निवृत्तम्। उदीच्यग्रामवाचिनः प्रातिपदिकाद् बह्वचोऽन्तोदात्ताद् अञ् प्रत्ययो भवति शैषिकः। अणोऽपवादः। शैवपुरम्। माण्डवपुरम्। उदीच्यग्रामादिति किम्? माथुरम्। बह्वच इति किम्? ध्वजी-ध्वाजम्। अन्तोदात्तादिति किम् ? शार्करीधानम्। शर्करीधानशब्दे लित्स्वरेण धाशब्द उदात्तः॥

प्रस्थोत्तरपदपलद्यादिकोपधादण्॥ ४.२.११०॥

प्रस्थोत्तरपदात् पलद्यादिभ्यः ककारोपधात् च प्रातिपदिकादण् प्रत्ययो भवति शैषिकः। उदीच्यग्रामलक्षणस्याञोऽपवादः। माद्रीप्रस्थः। माहकीप्रस्थः। पलद्यादिभ्यः-पालदः। पारिषदः। ककारोपधात्-नैलीनकः। चैयातकः। पलद्यादिषु यो वाहीकग्रामः, ततष्ठञ्ञिठयोः (४.२.११७) अपवादः। यथा- गौष्ठी, नैतकीति। गोमतीशब्दः पठ्यते, ततो ‘रोपधेतोः प्राचाम्’(४.२.१२३) इति वुञोऽपवादः। वाहीकशब्दः कोपधोऽपि पुनः पठ्यते परं छं (४.२.११४) बाधितुम्। अण्ग्रहणं बाधकबाधनार्थम्॥ पलदी। परिषत् यकृल्लोमन्। रोमक। कालकूट। पटच्चर। वाहीक। कलकीट। मलकीट। कमलकीट। कमलभिदा। गोष्ठी। कमलकीर। बाहुकीट। नैतकी। परिखा। शूरसेन। गोमती। उदयान। पलद्यादिः।

कण्वादिभ्यो गोत्रे॥ ४.२.१११॥

गोत्रमिह न प्रत्ययार्थो न च प्रकृतिविशेषणम्। तर्ह्येवं संबध्यते- कण्वादिभ्यो गोत्रे यः प्रत्ययो विहितः, तदन्तेभ्य एवाण् प्रत्ययो भवति शैषिकः। छस्यापवादः। काण्वाश्छात्राः। गौकक्षाः॥

इञश्च॥ ४.२.११२॥

गोत्र इत्येव। गोत्रे य इञ् विहितः, तदन्तात् प्रातिपदिकादण् प्रत्ययो भवति शैषिकः। छस्यापवादः। दाक्षाः। प्लाक्षाः। माहकाः। गोत्र इत्येव- सौतङ्गमेरिदं सौतङ्गमीयम्॥

न द्व्यचः प्राच्यभरतेषु॥ ४.२.११३॥

द्व्यचः प्रातिपदिकात् प्राच्यभरतगोत्रादिञन्तादण् प्रत्ययो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। पैङ्गीयाः। प्रौष्ठीयाः। चैदीयाः। पौष्कीयाः। काशीयाः। पाशीयाः। द्व्यच इति किम्? पान्नागाराः। प्राच्यभरतेष्विति किम्? दाक्षाः। काशीया इति कथमुदाहृतम्, यावता काश्यादिभ्यष्ठञ्ञिठाभ्यां (४.२.११६)भवितव्यम्? नैतदस्ति। देशवाचिनः काशिशब्दस्य तत्र ग्रहणम्, चेदिशब्देन साहचर्यात्। गोत्रात् तु ‘वृद्धाच्छः’ (४.२.११४) एव भवति। ज्ञापकाद् (२.४.६६)अन्यत्र प्राच्यग्रहणेन भरतग्रहणं न भवतीति स्वशब्देन भरतानामुपादानं कृतम्॥

वृद्धाच्छः॥ ४.२.११४॥

गोत्र इति नानुवर्तते। सामान्येन विधानम्। वृद्धात् प्रातिपदिकाच् छः प्रत्ययो भवति शैषिकः। अणोऽपवादः। गार्गीयः। वात्सीयः। शालीयः। मालीयः। अव्ययतीररूप्योत्तरपदोदीच्यग्रामकोपधविधीन् (४.२.१०४,१०६,१०९,११०) तु परत्वाद् बाधते॥

भवतष्ठक्छसौ॥ ४.२.११५॥

वृद्धादित्येव। भवच्छब्दाद् वृद्धात् ठक्छसित्येतौ प्रत्ययौ भवतः शैषिकौ। छस्यापवादौ। सकारः पदसंज्ञार्थः। भवतस्त्यदादित्वाद् वृद्धसंज्ञा। भावत्कः। भवदीयः। अवृद्धात् तु भवतः शतुरणेव भवति। भावतः॥

काश्यादिभ्यष्ठञ्ञिठौ॥ ४.२.११६॥

काशि इत्येवमादिभ्यष्ठञ् ञिठ इत्येतौ प्रत्ययौ भवतः शैषिकौ। इकार उच्चारणार्थ््ः। ञकार एवोभयत्र विपर्यस्तदेशोऽनुबन्धः। स्त्रीप्रत्यये विशेषः। काशिकी, काशिका। चैदिकी, चैदिका। वृद्धादित्यत्रानुवर्तते। ये त्ववृद्धाः पठ्यन्ते वचनप्रामाण्यात् तेभ्यः प्रत्ययविधिः। देवदत्तशब्दः पठ्यते, तस्य ‘एङ् प्राचां देशे’(१.१.७५)इति वृद्धसंज्ञा। दैवदत्तिकः। वाहीकग्रामस्य तु नास्ति वृद्धसंज्ञा। दैवदत्तः। कथं भाष्य उदाहृतम्-वा नामधेयस्य वृद्धसंज्ञा वेदितव्या- देवदत्तीयाः, दैवदत्ताः(महाभाष्य १.१.८९) इति, यावता वृद्धसंज्ञापक्षे काश्यादित्वाट् ठञ्ञिठाभ्यां भवितव्यम्? तत्रैवं वर्णयन्ति-वा नामधेयस्येति व्यवस्थितविभाषेयम्, सा छे कर्तव्ये भवति, ठञ्ञिठयोर्न भवतीति॥ काशि। चेदि। संज्ञा। संवाह। अच्युत। मोहमान। शकुलाद। हस्तिकर्षू। कुदामन्। हिरण्य। करण। गोधाशन। भौरिकि। भौलिङ्गि। अरिन्दम। सर्वमित्र। देवदत्त। साधुमित्र। दासमित्र। दासग्राम। सौधावतान। युवराज। उपराज। सिन्धुमित्र। देवराज। आपदादिपूर्वपदात् कालात् (ग०सू० ९४)। आपत्कालिकी, आपत्कालिका। और्ध्वकालिकी, और्ध्वकालिका। तात्कालिकी, तात्कालिका॥

वाहीकग्रामेभ्यश्च॥ ४.२.११७॥

वृद्धादित्येव। वाहीकग्रामवाचिभ्यो वृद्धेभ्यष्ठञ्ञिठौ प्रत्ययौ भवतः शैषिकौ। छस्यापवादौ। शाकलिकी, शाकलिका। मान्थविकी, मान्थविका॥

विभाषोशीनरेषु॥ ४.२.११८॥

वृद्धादिति वर्तते, वाहीकग्रामेभ्य इति च। उशीनरेषु ये वाहीकग्रामाः, तद्वाचिभ्यो वृद्धेभ्यः प्रातिपदिकेभ्यो विभाषा ठञ्ञिठौ प्रत्ययौ भवतः। आह्वजालिकी, आह्वजालिका, आह्वजालीया। सौदर्शनिकी, सौदर्शनिका, सौदर्शनीया॥

ओर्देशे ठञ्॥ ४.२.११९॥

वृद्धादिति नानुवर्तते, उत्तरसूत्रे पुनर्वृद्धग्रहणात्। उवर्णान्ताद् देशवाचिनः प्रातिपदिकाट् ठञ् प्रत्ययो भवति शैषिकः। नैषादकर्षुकः। शाबरजम्बुकः। देश इति किम्? पटोश्छाात्राः पाटवाः। ठञ्ञिठयोः प्रकरणे ठञः केवलस्यानुवृत्तिर्न लभ्यत इति ठञ्ग्रहणं कृतम्॥

वृद्धात् प्राचाम्॥ ४.२.१२०॥

ओर्दश इत्येव। उवर्णान्ताद् वृद्धात् प्राग्देशवाचिनः प्रातिपदिकाट् ठञ् प्रत्ययो भवति शैषिकः। आढकजम्बुकः। शाकजम्बुकः। नापितवास्तुकः। पूर्वेणैव ठञि सिद्धे नियमार्थं वचनम्- वृद्धादेव प्राचाम्, अवृद्धाद् न भवतीति। मल्लवास्तु- माल्लवास्तवः॥

धन्वयोपधाद् वुञ्॥ ४.२.१२१॥

वृद्धादिति वर्तते, देश इति च। धन्ववाचिनो यकारोपधात् च देशाभिधायिनो वृद्धात् प्रातिपदिकाद् वुञ् प्रत्ययो भवति शैषिकः। धन्वशब्दो मरुदेशवचनः। पारेधन्वकः। ऐरावतकः। योपधात्-सांकाश्यकः। काम्पिल्यकः॥

प्रस्थपुरवहान्ताच्च ॥ ४.२.१२२॥

वृद्धादित्येव, देश इति च। अन्तशब्दः प्रत्येकमभिसंबध्यते। प्रस्थ पुर वह इत्येवमन्ताद् देशवाचिनः प्रातिपदिकाद् वृद्धाद् वुञ् प्रत्ययो भवति शैषिकः। छस्यापवादः। मालाप्रस्थकः। नान्दीपुरकः। कान्तीपुरकः। पैलुवहकः। फाल्गुनीवहकः। पुरान्तो रोपधः, तत उत्तरसूत्रेणैव सिद्धम् अप्रागर्थमिह ग्रहणम्॥

रोपधेतोः प्राचाम्॥ ४.२.१२३॥

वृद्धादित्येव, देश इति च। तद्विशेषणं प्राग्ग्रहणम्। रोपधादीकारान्तात् च प्राग्देशवाचिनो वृद्धाद् वुञ् प्रत्ययो भवति शैषिकः। छस्यापवादः। पाटलिपुत्रकाः। ऐकचक्रकाः। ईतः खल्वपि-काकन्दी-काकन्दकः। माकन्दी-माकन्दकः। प्राचामिति किम्? दात्तामित्रीयः। तपरकरणं विस्पष्टार्थम्॥

जनपदतदवध्योश्च ॥ ४.२.१२४॥

वृद्धादित्येव, देश इति च। तद्विशेषणं जनपदतदवधी। वृद्धात् जनपदवाचिनस्तदवधिवाचिनश्च प्रातिपदिकाद् वुञ् प्रत्ययो भवति शैषिकः। छस्यापवादः। आभिसारकः। आदर्शकः। जनपदावधेः खल्वपि-औपुष्टकः। श्यामायनकः। तदवधिरपि जनपद एव गृह्यते न ग्रामः। किमर्थं तर्हि अवधिग्रहणम्? बाधकबाधनार्थम्। गर्तोत्तरपदाच्छं बाधित्वा वुञेव जनपदावधेर्भवति। त्रैगर्तकः॥

अवृद्धादपि बहुवचनविषयात्॥ ४.२.१२५॥

जनपदतदवध्योरित्येव। अवृद्धाद् वृद्धात् च जनपदात् तदवधिवाचिनश्च बहुवचनविषयात् प्रातिपदिकाद् वुञ् प्रत्ययो भवति शैषिकः। अण्छयोरपवादः। अवृद्धाद् जनपदात् तावत्-अङ्गाः। वङ्गाः। कलिङ्गाः। आङ्गकः। वाङ्गकः। कालिङ्गकः। अवृद्धाज्जनपदावधेः-अजमीढाः। अजक्रन्दाः। आजमीढकः। आजक्रन्दकः। वृद्धात् जनपदात्-दार्वाः। जाम्ब्वाः। दार्वकः। जाम्ब्वकः। वृद्धाद् जनपदावधेः-कालञ्जराः। वैकुलिशाः। कालञ्जरकः। वैकुलिशकः। विषयग्रहणमनन्यत्रभावार्थम्। जनपदैकशेषबहुत्वे मा भूत्। वर्तन्यः-वार्तनः। अपिग्रहणं किम्, यावता वृद्धात् पूर्वेणैव सिद्धम्? तक्रकौण्डिन्यन्यायेन बाधा मा विज्ञायीति समुच्चीयते॥

**कच्छाग्निवक्त्रगर्तोत्तरपदात्॥ ४.२.१२६॥ **

देश इत्येव। उत्तरपदशब्दः प्रत्येकमभिसंबध्यते। कच्छाद्युत्तरपदाद् देशवाचिनः प्रातिपदिकात् चावृद्धाद् वृद्धात् च वुञ् प्रत्ययो भवति शैषिकः। छाणोरपवादः। दारुकच्छकः। पैप्पलीकच्छकः। काण्डाग्नकः। वैभुजाग्नकः। ऐन्द्रवक्त्रकः। सैन्धुवक्त्रकः। बाहुगर्त्तकः। चाक्रगर्त्तकः॥

धूमादिभ्यश्च॥ ४.२.१२७॥

धूमादिभ्यो देशवाचिभ्यः प्रातिपदिकेभ्यो वुञ् प्रत्ययो भवति शैषिकः। अणादेरपवादः धौमकः। खाण्डकः। पाथेयशब्दः पठ्यते, तस्य योपधत्वादेव वुञि सिद्धे सामर्थ्याददेशार्थं ग्रहणम्। तथा विदेहानर्तशब्दयोर्जनपदलक्षणे वुञि सिद्धेऽदेशार्थः पाठः। विदेहानां क्षत्रियाणां स्वं वैदेहकम्। आनर्तकम्। समुद्रशब्दः पठ्यते, तस्य नावि मनुष्ये च वुञिष्यते। सामुद्रिका नौः। सामुद्रको मनुष्यः। अन्यत्र न भवति-सामुद्रं जलमिति॥ धूम। खण्ड। शशादन। आर्जुनाद। दाण्डायनस्थली। माहकस्थली। घोषस्थली। माषस्थली। राजस्थली। राजगृह। सत्रासाह। भक्षास्थली। मद्रकूल। गर्तकूल। आञ्जीकूल। द्व्याहाव। त्र्याहाव। संहीय। वर्वर। वर्चगर्त। विदेह। आनर्त। माठर। पाथेय। घोष। शिष्य। मित्र। वल। आराज्ञी। धार्तराज्ञी। अवयात। तीर्थ। कूलात् सौवीरेषु (ग०सू०९५)। समुद्रान्नावि मनुष्ये च(ग०सू०९६)। कुक्षि। अन्तरीप। द्वीप। अरुण। उज्जयिनी। दक्षिणापथ। साकेत॥

नगरात् कुत्सनप्रावीण्ययोः॥ ४.२.१२८॥

नगरशब्दाद् वुञ् प्रत्ययो भवति शैषिकः कुत्सने प्रावीण्ये च गम्यमाने। प्रत्ययार्थविशेषणं चैतत्, कुत्सने प्रावीण्ये च जातादौ प्रत्ययार्थ इति। कुत्सनं निन्दनम्। प्रावीण्यं नैपुण्यम्।

	केनायं मुषितः पन्था गात्रे पक्ष्मालिधूसरः।

इह नगरे मनुष्येण संभाव्यत एतन्नागरकेण। चोरा हि नागरका भवन्ति।

	केनेदं लिखितं चित्रं मनोनेत्रविकाशि यत्।

इह नगरे मनुष्येण संभाव्यत एतन्नागरकेण। प्रवीणा हि नागरका भवन्ति। कुत्सनप्रावीण्ययोरिति किम्? नागरा ब्राह्मणाः। कत्र्यादिषु तु संज्ञाशब्देन साहचर्यात् संज्ञानगरं पठ्यते, तस्मिन् नागरेयकमिति प्रत्युदाहार्यम्॥

अरण्यान् मनुष्ये॥ ४.२.१२९॥

अरण्यशब्दाद् वुञ् प्रत्ययो भवति शैषिको मनुष्येऽभिधेये। औपसंख्यानिकस्य णस्यापवादः। आरण्यको मनुष्यः॥ पथ्यध्यायन्यायविहारमनुष्यहस्तिष्विति वक्तव्यम्॥ आरण्यकः पन्थाः। आरण्यकोऽध्यायः। आरण्यको न्यायः। आरण्यको विहारः। आरण्यको मनुष्यः। आरण्यको हस्ती॥ वा गोमयेषु॥ आरण्याः,आरण्यका गोमयाः। एतेष्विति किम्? आरण्याः पशवः॥

विभाषा कुरुयुगन्धराभ्याम्॥ ४.२.१३०॥

कुरु युगन्धर इत्येताभ्यां विभाषा वुञ् प्रत्ययो भवति शैषिकः। कौरवकः,कौरवः। यौगन्धरकः, यौगन्धरः। जनपदशब्दावेतौ, ताभ्याम् ‘अवृद्धादपि०’(४.२.१२५)इति नित्ये वुञि प्राप्ते विकल्प उच्यते। कुरुशब्दः कच्छादिषु(४.२.१३३) अपि पठ्यते, तत्र वचनादणपि भविष्यति। सैषा युगन्धरार्था विभाषा। ‘मनुष्यतत्स्थयोः०’(४.२.१३४)तु कुरुशब्दाद् नित्य एव वुञ् प्रत्ययो भवति। कौरवको मनुष्यः, कौरवकमस्य हसितमिति॥

मद्रवृज्योः कन्॥ ४.२.१३१॥

मद्रवृजिशब्दाभ्यां कन् प्रत्ययो भवति शैषिकः। जनपदवुञोऽपवादः। मद्रेषु जातो मद्रकः। वृजिकः॥

कोपधादण्॥ ४.२.१३२॥

देश इत्येव। ककारोपधात् प्रातिपदिकादण् प्रत्ययो भवति शैषिकः। जनपदवुञोऽपवादः। अन्यत्र जनपदं मुक्त्वा पूर्वेण(४.२.११०) एव कोपधादणि सिद्धम्। ऋषिकेषु जातः, आर्षिकः। माहिषिकः। अण्ग्रहणमुवर्णान्तादपि यथा स्यात्। इक्ष्वाकुषु जात ऐक्ष्वाकः॥

कच्छादिभ्यश्च॥ ४.२.१३३॥

देश इत्येव। कच्छ इत्येवमादिभ्यो देशवाचिभ्योऽण् प्रत्ययो भवति शैषिकः। वुञादेरपवादः। काच्छः। सैन्धवः। वार्णवः। कच्छशब्दो न बहुवचनविषयः, तस्य मनुष्यतत्स्थयोर्वुञर्थः(४.२.१३४) पाठः। विजापकशब्दः पठ्यते। तस्य कोपधत्वाद् (४.२.१३२) एवाणि सिद्ध इह ग्रहणमुत्तरार्थम्॥ कच्छ। सिन्धु। वर्णु। गन्धार। मधुमत्। कम्बोज। कश्मीर। साल्व। कुरु। रङ्कु। अणु। खण्ड। द्वीप। अनूप। अजवाह। विजापक। कुलून। कच्छादिः॥

मनुष्यतत्स्थयोर्वुञ्॥ ४.२.१३४॥

कच्छादिभ्य इत्येव। मनुष्ये मनुष्यस्थे च जातादौ प्रत्ययार्थे कच्छादिभ्यो वुञ् प्रत्ययो भवति। अणोऽपवादः। काच्छको मनुष्यः। काच्छकमस्य हसितम्, जल्पितम्। काच्छिका चूडा। सैन्धवको मनुष्यः। सैन्धवकमस्य हसितम्, जल्पितम्। सैन्धविका चूडा। मनुष्यतत्स्थयोरिति किम्? काच्छो गौः। सैन्धवः। वार्णवः॥

अपदातौ साल्वात्॥ ४.२.१३५॥

साल्वशब्दः कच्छादिषु पठ्यते, ततः पूर्वेणैव मनुष्यतत्स्थयोर्वुञि सिद्धे नियमार्थं वचनम्। अपदातावेव मनुष्ये मनुष्यस्थे च साल्वशब्दाद् वुञ् प्रत्ययो भवति। साल्वको मनुष्यः। साल्वकमस्य हसितम्, जल्पितम्। अपदाताविति किम्? साल्वः पदातिर्वर्जति॥

गोयवाग्वोश्च॥ ४.२.१३६॥

गवि यवाग्वां च जातादौ प्रत्ययार्थे साल्वशब्दाद् वुञ् प्रत्ययो भवति शैषिकः। कच्छाद्यणोऽपवादः। साल्वको गौः। साल्विका यवागूः। साल्वमन्यत्॥

गर्तोत्तरपदाच्छः॥ ४.२.१३७॥

देश इत्येव। गर्तोत्तरपदाद् देशवाचिनः प्रातिपदिकात् छः प्रत्ययो भवति शैषिकः। अणोऽपवादः। वाहीकग्रामलक्षणं च प्रत्ययं परत्वाद् बाधते। वृकगर्तीयम्। शृगालगर्तीयम्। श्वाविद्गर्तीयम्। उत्तरपदग्रहणं बहुच्पूर्वनिरासार्थम्। बाहुगर्तम्॥

गहादिभ्यश्च॥ ४.२.१३८॥

गह इत्येवमादिभ्यः प्रातिपदिकेभ्यश्छः प्रत्ययो भवति शैषिकः। अणादेरपवादः। गहीयः। अन्तःस्थीयः। देशाधिकारेऽपि संभवापेक्षं विशेषणम्, न सर्वेषाम्। मध्य मध्यमं चाण् चरण इति पठ्यते, तस्यायमर्थः। मध्यशब्दः प्रत्ययसन्नियोगेन मध्यममापद्यते। मध्यमीयाः। चरणे तु प्रत्ययार्थेऽण् भवति माध्यमा इति। तदेतद् विशेष एव स्मर्यते-पृथिवीमध्यस्य मध्यमभावः, चरणसंबन्धेन निवासलक्षणोऽणिति च। मुखपार्श्वतसोर्लोपश्च। मुखतीयम्। पार्श्वतीयम्। कुग् जनस्य परस्य च। जनकीयम्। परकीयम्। देवस्य चेति वक्तव्यम्। देवकीयम्। वेणुकादिभ्यश्छण् वक्तव्यः। आकृतिगणोऽयम्। वैणुकीयम्। वैत्रकीयम्। औत्तरपदकीयम्। प्रास्थकीयम्। माध्यमकीयम्॥ गह। अन्तःस्थ। सम। विषम। मध्य मध्यमं चाण् चरणे (ग०सू०९७)। उत्तम। अङ्ग। वङ्ग। मगध। पूर्वपक्ष। अपरपक्ष। अधमशाख। उत्तमशाख। समानशाख। एकग्राम। एकवृक्ष। एकपलाश। इष्वग्र। इष्वनी। अवस्यन्दी। कामप्रस्थ। खाडायनि। कावेरणि। शैशिरि। शौङ्गि। आसुरि। आहिंसि। आमित्रि। व्याडि। वैदजि। भौजि। आढ्यश्वि। आनृशंसि। सौवि। पारकि। अग्निशर्मन्। देवशर्मन्। श्रौति। आरटकि। वाल्मीकि। क्षेमवृद्धिन्। उत्तर। अन्तर। मुखपार्श्वतसोर्लोपः (ग०सू०९८)। जनपरयोः कुक् च (ग०सू०९९)। देवस्य च (ग०सू०१००)। वेणुकादिभ्यश्छण् (ग०सू०१०१)। गहादिः॥

प्राचां कटादेः॥ ४.२.१३९॥

देश इत्येव, तद्विशेषणं प्राग्ग्रहणम्। प्राग्देशवाचिनः कटादेः प्रातिपदिकाच् छः प्रत्ययो भवति शैषिकः। अणोऽपवादः। कटनगरीयम्। कटघोषीयम्। कटपल्वलीयम्॥

राज्ञः क च ॥ ४.२.१४०॥

असंभवाद् देशाधिकारो न विशेषणम्। राज्ञःककारश्चान्तादेशो भवति छश्च प्रत्ययः। राजकीयम्। आदेशमात्रमिह विधेयम्, प्रत्ययस्तु ‘वृद्धाच्छः’(४.२.११४) इत्येव सिद्धः॥

वृद्धादकेकान्तखोपधात्॥ ४.२.१४१॥

देश इत्येव। वृद्धाद् देशवाचिनोऽक इक इत्येवमन्तात् खकारोपधात् च प्रातिपदिकाच् छः प्रत्ययो भवति शैषिकः। कोपधलक्षणस्याणोऽपवादः, वाहीकग्रामलक्षणस्य च प्रत्ययस्य, ‘रोपधेतोः प्राचाम्’ (४.२.१२३) इति च। अकान्तात् तावत्-आरीहणकीयम्। द्रौघणकीयम्। इकान्तात्-आश्वपथिकीयम्। शाल्मलिकीयम्। खोपधात्-कौटिशिखीयम्। आयोमुखीयम्॥ अकेकान्तग्रहणे कोपधग्रहणं सौसुकाद्यर्थम्॥ सौसुकीयम्। मौसुकीयम्। ऐन्द्रवेणुकीयम्॥

कन्थापलदनगरग्रामह्रदोत्तरपदात्॥ ४.२.१४२॥

देश इत्येव, वृद्धादिति च । कन्थाद्युत्तरपदाद् देशवाचिनो वृद्धात् प्रातिपदिकाच् छः प्रत्ययो भवति शैषिकः। वाहीकग्रामादिलक्षणस्य प्रत्ययस्यापवादः। दाक्षिकन्थीयम्। माहिकिकन्थीयम्। दाक्षिपलदीयम्। माहिकिपलदीयम्। दाक्षिनगरीयम्। माहिकिनगरीयम्। दाक्षिग्रामीयम्। माहिकिग्रामीयम्। दाक्षिह्रदीयम्। माहिकिह्रदीयम्॥

पर्वताच्च॥ ४.२.१४३॥

पर्वतशब्दाच् छः प्रत्ययो भवति शैषिकः। अणोऽपवादः। पर्वतीयो राजा। पर्वतीयः पुरुषः॥

विभाषामनुष्ये॥ ४.२.१४४॥

पर्वतशब्दाच् छः प्रत्ययो भवति वामनुष्ये वाच्ये। पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। पर्वतीयानि फलानि, पार्वतानि फलानि। पर्वतीयमुदकम्, पार्वतमुदकम्। अमनुष्य इति किम्? पर्वतीयो मनुष्यः॥

कृकणपर्णाद् भारद्वाजे॥ ४.२.१४५॥

देश इत्येव। भारद्वाजशब्दोऽपि देशवचन एव, न गोत्रशब्दः। प्रकृतिविशेषणं चैतत्, न प्रत्ययार्थः। कृकणपर्णशब्दाभ्यां भारद्वाजदेशवाचिभ्यां छः प्रत्ययो भवति शैषिकः। कृकणीयम्। पर्णीयम्। भारद्वाज इति किम्? कार्कणम्। पार्णम्॥

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य द्वितीयः पादः॥

—0—