०१

ङ्याप्प्रातिपदिकात् ॥ ४.१.१॥

अधिकारोऽयम्। यदित ऊर्ध्वमनुक्रमिष्याम आ पञ्चमाध्यायपरिसमाप्तेर्ङ्याप्प्रातिपदिकादित्येवं तद् वेदितव्यम्। स्वादिषु कप्पर्यन्तेषु प्रकृतिरधिक्रियते। ङीब्ङीष्ङीनां सामान्येन ग्रहणं ङीति, टाप्डाप्चापामाबिति, प्रातिपदिकमुक्तम् ‘अर्थवद्०’ (१.२.४५) ‘कृत्तद्धितसमासाश्च’ (१.२.४६) इति। तेषां समाहारनिर्देशो ङ्याप्प्रातिपदिकादिति। यद्यपि च प्रत्ययपरत्वेन पारिशेष्यादियमेव प्रकृतिर्लभ्यते, तथापि वृद्धावृद्धावर्णस्वरद्व्यज्-लक्षणप्रत्ययविधौ तत्संप्रत्ययार्थं ङ्याप्प्रातिपदिकग्रहणं कर्तव्यम्। इतरथा हि समर्थविशेषणमेतत् स्यात्। अथ ङ्याब्ग्रहणं किम्, न ‘प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति’ (परि० ७१) इत्येव सिद्धम्? नैदस्ति। स्वरूपविधिविषये परिभाषेयम्-प्रातिपदिकस्वरूपग्रहणे सति लिङ्गविशिष्टग्रहणं भवतीति। तथा च ‘युवा खलतिपलितवलिनजरतीभिः’ (२.१.६७) इति ज्ञापकमस्यास्तादृशमेव। किं च, तदन्तात् तद्धितविधानार्थं ङ्याब्ग्रहणम्-कालितरा, हरिणितरा, खट्वातरा, मालातरेति। विप्रतिषेधाद्धि तद्धितबलीय-स्त्वं स्यात् ॥

स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्॥ ४.१.२॥

ङ्याप्प्रातिपदिकादित्यधिकृतम्। ङ्याप्प्रातिपदिकात् स्वादयः प्रत्यया भवन्ति। उकारादयोऽनुबन्धा यथायोगमुच्चारणविशेषणार्थाः। औटष्टकारःसुडिति प्रत्याहारग्रहणार्थः। पकारः सुबिति प्रत्याहारार्थः। संख्या कर्मादयश्च स्वादीनामर्थाः शास्त्रान्तरेण विहिताः, तेन सहास्यैकवाक्यता। ङ्यन्तात् तावत्-कुमारी। गौरी। शार्ङ्गरवी। ङीब्ङीष्ङीनां क्रमेणोदाहरणम्-कुमारी, कुमार्यौ, कुमार्यः। कुमारीम् कुमार्यौ, कुमारीः। कुमार्या, कुमारीभ्याम्, कुमारीभिः। कुमार्यै, कुमारीभ्याम्, कुमारीभ्यः। कुमार्याः, कुमारीभ्याम्, कुमारीभ्यः। कुमार्याः कुमार्योः, कुमारीणाम्। कुमार्याम्, कुमार्योः, कुमारीषु। एवं गौरी शार्ङ्गरवी चोदाहार्य। आपः खल्वपि-खट्वा। बहुराजा। कारीषगन्ध्या। टाब्डाप्चापां क्रमेणोदाहरणम् -खट्वा, खट्वे, खट्वाः। खट्वाम्,खट्वे, खट्वाः। खट्वया, खट्वाभ्याम्,खट्वाभिः। खट्वायै, खट्वाभ्याम् खट्वाभ्यः। खट्वायाः, खट्वाभ्याम्,खट्वाभ्यः। खट्वायाः, खट्वयोः,खट्वानाम्। खट्वायाम्, खट्वयोः, खट्वासु। एवं बहुराजाकारीषगन्ध्ये चोदाहार्ये। एवं प्रातिपदिकात्-दृषद्, दृषदौ, दृषदः। दृषदम्, दृषदौ, दृषदः। दृषदा, दृषद्भ्याम्, दृषद्भिः। दृषदे, दृषद्भ्याम्, दृषद्भ्यः। दृषदः दृषद्भ्याम्, दृषद्भ्यः। दृषदः, दृषदोः, दृषदाम्। दृषदि, दृषदोः, दृषत्सु॥

स्त्रियाम् ॥ ४.१.३॥

अधिकारोऽयम्। यदित ऊर्ध्वमनुक्रमिष्यामः स्त्रियामित्येवं तद् वेदितव्यम्। ‘ङ्याप्प्रातिपदिकात्’ (४.१.१) इति सर्वाधिकारेऽपि प्रातिपदिकमात्रमत्र प्रकरणे संबध्यते,ङ्यापोरनेनैव विधानात्। स्त्रियामित्युच्यते। केयं स्त्री नाम? सामान्यविशेषाः स्त्रीत्वादयो गोत्वादया इव बहुप्रकारा व्यक्त यः। क्वचिदाश्रयविशेषाभावादुपदेशव्यङ्ग्या एव भवन्ति, यथा ब्राह्मणत्वादयः। स्त्रीत्वं च प्रत्ययार्थः प्रकृत्यर्थविशेषणं चेत्युभयथापि युज्यते-स्त्रियामभिधेयायां स्त्रियां वा यत् प्रातिपदिकं वर्तत इति। वक्ष्यति-‘अजाद्यतष्टाप्’ (४.१.४)-अजा। देवदत्ता। स्त्रियामिति किम्? अजः। देवदत्तः॥

अजाद्यतष्टाप् ॥ ४.१.४॥

अजादिभ्यः प्रातिपदिकेभ्योऽकारान्ताच्च प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति। पकारः सामान्यग्रहणार्थः। टकारः सामान्यग्रहणाविघातार्थः। अजा। एडका। कोकिला। चटका। अश्वा। खट्वा। देवदत्ता। तपरकरणं तत्कालार्थम्। शुभंयाः,कीलालपाः ब्राह्मणी। ‘हल्ङ्याब्भ्यः०’ (६.१.६८) इति सुलोपः स्यात्। अजादिग्रहणं तु क्वचिद् जातिलक्षणे ङीषि प्राप्ते (४.१.६३) क्वचित् तु पुंयोगलक्षणे (४.१.४८), क्वचित् तु पुष्पफलोत्तरपदलक्षणे (४.१.६४), क्वचित् तु वयोलक्षणे (४.१.२०) ङीपि, क्वचित् टिल्लक्षणे (४.१.१५)। हलन्तानां त्वप्राप्त एव कस्मिंश्चिदाब् विधीयते। शूद्रा चामहत्पूर्वा जातिरिति पठ्यते। तस्यायमर्थः। शूद्रशब्दष्टापमुत्पादयति जातिश्चेद् भवति। शूद्रा। पुंयोगे ङीषैव भवितव्यम्। शूद्रस्य भार्या शूद्री। महत्पूर्वस्य प्रतिषेधः। महाशूद्री। महाशूद्रशब्दो ह्याभीरजातिवचनः, तत्र तदन्तविधिना टाप् प्राप्तः प्रतिषिध्यते। ‘ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न’(परि०३१) इति कथं तदन्तविधिः? एतदेव ज्ञापकम्-भवत्यस्मिन् प्रकरणे तदन्तविधिरिति। तेनातिधीवरी, अतिपीवरी, अतिभवती, अतिमहती इति भवति॥ अजा, एडका, चटका, अश्वा, मूषिकेति जातिः। बाला, होढा, पाका, वत्सा, मन्दा, विलातेति वयः। पूर्वापहाणा। अपरापहाणा। टित्, निपातनाण् णत्वम्। संभस्त्राजिनशणपिण्डेभ्यः फलात् (ग०सू० ३५)। संफला। भस्त्रफला। अजिनफला। शणफला। पिण्डफला। त्रिफला द्विगौ। (ग०सू०३६)। बहुब्रीहौ त्रिफली संहतिः। सत्प्राक्काण्डप्रान्तशतैकेभ्यः पुष्पात् (ग०सू० ३७)। सत्पुष्पा। प्राक्पुष्पा। काण्डपुष्पा। प्रान्तपुष्पा। शतपुष्पा। एकपुष्पा। ‘पाककर्ण०’ (४.१.६४) इति ङीषोऽपवादः। शूद्रा चामहत्पूर्वा जातिः (ग०सू० ३८)। क्रुञ्चा। उष्णिहा। देवविशा हलन्ताः। ज्येष्ठा। कनिष्ठा। मध्यमा पुंयोगः। कोकिला जातिः। मूलान्नञः (ग०सू० ३९)। अमूला ॥

ऋन्नेभ्यो ङीप्॥ ४.१.५॥

ऋकारान्तेभ्यो नकारान्तेभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीप् प्रत्ययो भवति। ङकारः सामान्यग्रहणार्थः। कर्त्री। हर्त्री दण्डिनी। छत्रिणी॥

उगितश्च॥ ४.१.६॥

उग् इद् यत्र संभवति यथाकथंचित् तदुगिच्छब्दरूपम्, तदन्तात् स्त्रियां ङीप् प्रत्ययो भवति। भवती। अतिभवती। पचन्ती। यजन्ती॥ धातोरुगितः प्रतिषेधो वक्त व्यः॥ उखास्रत्। पर्णध्वत् ब्राह्मणी॥ अञ्चतेश्चोपसंख्यानम्॥ प्राची। प्रतीची। उदीची॥

वनो र च॥ ४.१.७॥

वन्नन्तात् प्रातिपदिकाद् स्त्रियां ङीप् प्रत्ययो भवति, रेफश्चान्तादेशः। धीवरी। पीवरी। शर्वरी। परलोकदृश्वरी। ‘ऋन्नेभ्यः०’ (४.१.५) इत्येव ङीपि सिद्धे तत्सन्नियोगेन रेफविधानार्थं वचनम्॥ वाने न हशः॥ प्राप्तौ ङीब्रावुभावपि प्रतिषिध्येते। सहयुध्वा ब्राह्मणी॥

पादोऽन्यतरस्याम्॥ ४.१.८॥

पाद इति कृतसमासान्तः पादशब्दो निर्दिश्यते। पादन्तात् प्रातिपदिकादन्यतरस्यां स्त्रियां ङीप् प्रत्ययो भवति। द्विपात्। द्विपदी। त्रिपात्। त्रिपदी। चतुष्पाद्। चतुष्पदी॥

टाबृचि॥ ४.१.९॥

पाद इत्येव। ऋचीत्यभिधेयनिर्देशः। ऋचि वाच्यायां पादन्तात् प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति। ङीपोऽपवादः। द्विपदा ऋक्। त्रिपदा ऋक्। चतुष्पदा ऋक्। ऋचीति किम्? द्विपदी देवदत्ता॥

न षट्स्वस्रादिभ्यः॥ ४.१.१०॥

षट्संज्ञकेभ्यः स्वस्रादिभ्यश्च प्रातिपदिकेभ्यः स्त्रीप्रत्ययो न भवति। यो यतः प्राप्नोति स सर्वः प्रतिषिध्यते। पञ्च ब्राह्मण्यः। सप्त। नव। दश। स्वस्रादिभ्यः-स्वसा। दुहिता। ननान्दा। याता। माता। तिस्रः। चतस्रः।

षट्संज्ञानामन्ते लुप्ते टाबुत्पत्तिः कस्मान्न स्यात्।

प्रत्याहाराच्चापा सिद्धं दोषस्त्वित्त्वे तस्मान्नोभौ॥ 

मनः ॥ ४.१.११॥

मन्नन्तात् प्रातिपदिकात् ङीप् प्रत्ययो न भवति। ‘ऋन्नेभ्यो ङीप्’ (४.१.५) इति ङीप् प्राप्तो मन इति सूत्रेण प्रतिषिध्यते। दामा, दामानौ, दामानः। पामा, पामानौ, पामानः। ‘अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति’ (परि०१६)। सीमा, सीमानौ, सीमानः। अतिमहिमा, अतिमहिमानौ, अतिमहिमानः॥

अनो बहुव्रीहेः॥ ४.१.१२॥

अन्नन्ताद् बहुव्रीहेः स्त्रियां ङीप् प्रत्ययो न भवति। अनुपधालोपी बहुव्रीहिरिहोदाहरणम्। उपधालोपिनो हि विकल्पं वक्ष्यति। सुपर्वा, सुपर्वाणौ, सुपर्वाणः। सुचर्मा, सुचर्माणौ, सुचर्माणः। बहुव्रीहेरिति किम्? अतिक्रान्ता राजानम् अतिराज्ञी॥

डाबुभाभ्यामन्यतरस्याम्॥ ४.१.१३॥

डाप् प्रत्ययो भवत्युभाभ्यां मन्नन्तात् प्रातिपदिकादनन्ताच्च बहुव्रीहेरन्यतरस्याम्। पामा, पामे, पामाः। सीमा, सीमे, सीमाः। न च भवति-पामानः। सीमानः। बहुव्रीहौ-बहुराजा, बहुराजे, बहुराजाः। बहुतक्षा, बहुतक्षे, बहुतक्षाः। न च भवति-बहुराजानः। बहुतक्षाणः। अन्यतरस्यांग्रहणं किमर्थम्? बहुव्रीहौ ‘वनो र च’ (४.१.७) इत्यस्यापि विकल्पो यथा स्यात्। बहुधीवा,बहुधीवरी। बहुपीवा, बहुपीवरी॥

अनुपसर्जनात्॥ ४.१.१४॥

अधिकारोऽयम्। उत्तरसूत्रेषूपसर्जनप्रतिषेधं करोति। यदित ऊर्ध्वमनुक्रमिष्यामोऽनुप-सर्जनादित्येवं तद् वेदितव्यम्। वक्ष्यति-‘टिड्ढाणञ्०’ (४.१.१५) इति ङीप्। कुरुचरी। मद्रचरी। अनुपसर्जनादिति किम्? बहुकुरुचरा, बहुमद्रचरा मधुरा। ‘जातेः०’ (४.१.६३) इति ङीष्। कुक्कुटी। शूकरी। अनुपसर्जनादिति किम्? बहुकुक्कुटा, बहुशूकरा चैतद्-अस्त्यत्र प्रकरणे तदन्तविधिरिति। तथा च प्रधानेन तदन्तविधिर्भवति। कुम्भकारी। नगरकारी। न चाणिति कृद्ग्रहणम् तद्धितोऽप्यणस्ति ॥

टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरप्ख्युनाम्॥ ४.१.१५॥

अत इति सर्वत्रानुवर्तते। तत् सति संभवे विशेषणं भवति। टिदादिभ्यः प्रातिपदिकेभ्यः स्त्रियां ङीप् प्रत्ययो भवति। टापोऽपवादः। टितस्तावत्-कुरुचरी। मद्रचरी। इह कस्माद् न भवति-पचमाना यजमाना? द्व्यनुबन्धकत्वाल् लटः। ल्युडादिषु कथम्? टित्करणसामर्थ्यात्। इतरत्र तु टेरेत्वं फलम्। पठिता विद्येति? आगमटित्त्वमनिमित्तम्, ट्युट्युलौ तुट् च (४.३.२३) इति लिङ्गात्। ढ-सौपर्णेयी। वैनतेयी। निरनुबन्धको ढशब्दः स्त्रियां नास्तीति निरनुबन्धकपरिभाषा (परि०८१) न प्रवर्तते। अण्-कुम्भकारी। नगरकारी। औपगवी। ‘णेऽपि क्वचिदण्कृतं कार्यं भवति’ (परि० ८७)। चौरी, तापसी। दाण्डा, मौष्टेत्यत्र न भवति। अञ्-औत्सी। औदपानी। ‘शार्ङ्गरवाद्यञः०’ (४.१.७३) इति पुनरञो ग्रहणं जातिलक्षणं ङीषं बाधितुम्। द्वयसच्-ऊरुद्वयसी। जानुद्वयसी। दघ्नच्-ऊरुदघ्नी। जानुदघ्नी। मात्रच् -ऊरुमात्री। जानुमात्री। तयप्-पञ्चतयी। दशतयी। ठक्-आक्षिकी। शालाकिकी। ठञ्-लावणिकी। ठक्ठञोर्भेदेन ग्रहणं ठनादिनिवृत्त्यर्थम्। कञ्-यादृशी। तादृशी। क्वरप्-इत्वरी। नश्वरी। ख्युन्-आढ्यंकरणी। सुभगंकरणी॥ नञ्स्नञीकक्तरुणतलुनानामुपसंख्यानम्॥ स्त्रैणी। पौंस्नी। शाक्तीकी। याष्टीकी। तरुणी। तलुनी॥

यञश्च॥ ४.१.१६॥

ङीबित्येव। यञन्ताच्च प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति। गार्गी। वात्सी॥ आपत्यग्रहणं कर्तव्यम्॥ इह मा भूत्-‘द्वीपादनुसमुद्रं यञ्’ (४.३.१०)-द्वैप्या। योगविभाग उत्तरार्थः॥

प्राचां ष्फस्तद्धितः॥ ४.१.१७॥

यञ इत्येव। प्राचामाचार्याणां मतेन यञन्तात् स्त्रियां ष्फः प्रत्ययो भवति, स च तद्धितसंज्ञः। षकारो ङीषर्थः। प्रत्ययद्वयेनेह स्त्रीत्वं व्यज्यते। तद्धितग्रहणं प्रातिपदिकसंज्ञार्थम्। गार्ग्यायणी। वात्स्यायनी। अन्येषाम्-गार्गी। वात्सी। सर्वत्रग्रहणमुत्तरसूत्रादिहापकृष्यते, बाधकबाधनार्थम्। ‘आवट्यात्०’ (४.१.७५) चापं वक्ष्यति, तमपि बाधित्वा प्राचां ष्फ एव यथा स्यात्। आवट्यायनी॥

सर्वत्र लोहितादिकतन्तेभ्यः॥ ४.१.१८॥

यञ इत्येव। पूर्वेण विकल्पे प्राप्ते नित्यार्थं वचनम्। सर्वत्र लोहितादिभ्यः कतपर्यन्तेभ्यो यञन्तेभ्यः स्त्रियां ष्फः प्रत्ययो भवति। कतशब्दः स्वतन्त्रं यत् प्रातिपदिकं तदवधित्वेन परिगृह्यते कपिशब्दात् परः कपि कतेति, न प्रातिपदिकावयवः कुरुकतेति। लौहित्यायनी। शांसित्यायनी। बाभ्रव्यायणी।

	कण्वात् तु शकलः पूर्वः कतादुत्तर इष्यते।

	पूर्वोत्तरौ तदन्तादी ष्फाणौ तत्र प्रयोजनम्॥

प्रातिपदिकेष्वन्यथा पाठः, स एवं व्यवस्थापयितव्य इति मन्यते। कतन्तेभ्य इति बहुव्रीहितत्पुरुषयोरेकशेषः, तथा ‘कण्वादिभ्यो गोत्रे’ (४.२.१११) इति। तत्र तत्पुरुषवृत्त्या संगृहीतो मध्यपाती शकलशब्दो यञन्तः प्रत्ययद्वयमपि प्रतिपद्यते। शाकल्यायनी। शाकल्यस्येमे छात्राः शाकलाः॥

कौरव्यमाण्डूकाभ्यां च॥ ४.१.१९॥

कौरव्य माण्डूक इत्येताभ्यां स्त्रियां ष्फः प्रत्ययो भवति। कुर्वादिभ्यो ण्ये (४.१.१५१) कृते ‘ढक् च मण्डूकात्’ (४.१.११९) इत्यणि च। यथाक्रमं टाब्ङीपोरपवादः। कौरव्यायणी। माण्डूकायनी। कथं कौरवी सेना? ‘तस्येदं’- (४.३.१२०)-विवक्षायामणि कृते भविष्यति॥ कौरव्यमाण्डूकयोरासुरेरुपसंख्यानम्॥ आसुरायणी। शैषिकेष्वर्थेषु ‘इञश्च’ (४.२.११२) इत्यणि प्राप्ते छप्रत्यय इष्यते। आसुरीयः कल्पः॥

वयसि प्रथमे॥ ४.१.२०॥

कालकृतशरीरावस्था यौवनादिर्वयः। प्रथमे वयसि यत् प्रातिपदिकं श्रुत्या वर्तते, ततः स्त्रियां ङीप् प्रत्ययो भवति। कुमारी। कि शोरी। बर्करी। प्रथम इति किम्? स्थविरा। वृद्धा। अत इत्येव-शिशुः॥ वयस्यचरम इति वक्तव्यम्॥ वधूटी। चिरण्टी। द्वितीयवयोवचनावेतौ। प्राप्तयौवना स्त्र्यभिधीयते। कथं कन्या? ‘कन्यायाः कनीन च’ (४.१.११६) इति ज्ञापकात्। उत्तानशया लोहितपादिकेति? नैता वयःश्रुतयः॥

द्विगोः॥ ४.१.२१॥

द्विगुसंज्ञकात् प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति। पञ्चपूली। दशपूली। कथं त्रिफला ? अजादिषु दृश्यते ॥

अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि॥ ४.१.२२॥

पूर्वेण ङीप् प्राप्तः प्रतिषिध्यते। अपरिमाणान्ताद् द्विगोर्बिस्ताचितकम्बल्यान्तात् च तद्धितलुकि सति ङीप् प्रत्ययो न भवति। बिस्तादीनां परिमाणार्थं ग्रहणम्। सर्वतो मानं परिमाणम्। अपरिमाणान्तात् तावत्-पञ्चभिरश्वैः क्रीता पञ्चाश्वा। दशाश्वा। कालः संख्या च न परिमाणम्। द्विवर्षा। त्रिवर्षा। द्वाभ्यां शताभ्यां क्रीता द्विशता। त्रिशता। बिस्तादिभ्यः-द्विबिस्ता। त्रिबिस्ता। द्व्याचिता। त्र्याचिता। द्विकम्बल्या। त्रिकम्बल्या। अपरिमाणेति किम्? द्व्याढकी। त्र्याढकी। तद्धितलुकीति किम्? समाहारे-पञ्चाश्वी। दशाश्वी॥

काण्डान्तात् क्षेत्रे॥ ४.१.२३॥

काण्डशब्दान्ताद् द्विगोस्तद्धितलुकि सति क्षेत्रे वाच्ये ङीप् प्रत्ययो न भवति। द्वे काण्डे प्रमाणमस्याः क्षेत्रभक्ते ः। ‘प्रमाणे द्वयसज्०’ (५.२.३७) इति विहितस्य तद्धितस्य ‘प्रमाणे लो द्विगोर्नित्यम्’ (वा० ५.२.३७) इति लुकि कृते, द्विकाण्डा क्षेत्रभक्तिः। त्रिकाण्डा क्षेत्रभक्ति ः। काण्डशब्दस्यापरिमाणवाचित्वात् पूर्वेणैव प्रतिषेधे सिद्धे क्षेत्रे नियमार्थं वचनम्। इह मा भूत्-द्विकाण्डी रज्जुस्त्रिकाण्डी रज्जुरिति। प्रमाणविशेषः काण्डम्॥

पुरुषात् प्रमाणेऽन्यतरस्याम्॥ ४.१.२४॥

द्विगोस्तद्धितलुकीत्येव। प्रमाणे यः पुरुषशब्दः, तदन्ताद् द्विगोस्तद्धितलुकि सत्यन्यतरस्यां न ङीप् प्रत्ययो भवति। द्वौ पुरुषौ प्रमाणमस्याः परिखायाः द्विपुरुषा, द्विपुरुषी। त्रिपुरुषा, त्रिपुरुषी। अपरिमाणान्तत्वाद् नित्ये प्रतिषेधे प्राप्ते विकल्पार्थं वचनम्। प्रमाण इति किम्? द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा। त्रिपुरुषा। तद्धितलुकीत्येव-समाहारे-द्विपुरुषी, त्रिपुरुषी॥

बहुव्रीहेरूधसो ङीष्॥ ४.१.२५॥

ऊधस्शब्दान्ताद् बहुव्रीहेः स्त्रियां ङीष् प्रत्ययो भवति। ‘ऊधसोऽनङ्’ (५.४.१३१) इति समासान्ते कृते ‘अनो बहुव्रीहेः’ (४.१.१२) इति डाप्प्रतिषेधयोः प्राप्तयोरिदमुच्यते। घटोध्नी। कुण्डोध्नी। बहुव्रीहेरिति किम्? प्राप्ता ऊधः प्राप्तोधाः। ‘अन उपधालोपिनः०’ (४.१.२८) इत्यस्यापि ङीपोऽयमुत्तरत्रानुवृत्तेर्बाधक इष्यते। समासान्तश्च स्त्रियामेव। इह न भवति-महोधाः पर्जन्य इति॥

संख्याव्ययादेर्ङीप्॥ ४.१.२६॥

पूर्वेण ङीषि प्राप्ते ङीब् विधीयते। संख्यादेरव्ययादेश्च बहुव्रीहेरूधःशब्दान्ताद् ङीष् प्रत्ययो भवति। संख्यादेस्तावत्-द्व्यूध्नी। त्र्यूध्नी। अव्ययादेः-अत्यूध्नी। निरूध्नी। आदिग्रहणं किम्? द्विविधोध्नी। त्रिविधोध्नीत्यत्रापि यथा स्यात्॥

दामहायनान्ताच्च॥ ४.१.२७॥

ऊधस इति निवृत्तम्। संख्याग्रहणमनुवर्तते, नाव्ययग्रहणम्। संख्यादेर्बहुव्रीहेर्दामशब्दान्ताद् हायनशब्दान्तात् च स्त्रियां ङीप् प्रत्ययो भवति। दामान्तात् डाप्प्रतिषेधविकल्पेषु प्राप्तेषु नित्यार्थं वचनम्। द्विदाम्नी। त्रिदाम्नी। हायनान्तात् टापि प्राप्ते, द्विहायनी। त्रिहायणी। चतुर्हायणी॥ हायनो वयसि स्मृतः॥ तेनेह न भवति-द्विहायना शाला। त्रिहायना। चतुर्हायना। ‘णत्वमपि त्रिचतुर्भ्यां हायनस्येति वयस्येव स्मर्यते’ (महाभाष्य २.२१३)॥

अन उपधालोपिनोऽन्यतरस्याम्॥ ४.१.२८॥

बहुव्रीहेरित्येव। अन्नन्तो यो बहुव्रीहिरुपधालोपी, तस्मादन्यरस्यां ङीप् प्रत्ययो भवति। ङीपा मुक्ते डाप्प्रतिषेधौ भवतः। किमर्थं तर्हीदमुच्यते, ननु सिद्धा एव डाप्प्रतिषेधङीपः? अनुपधालोपिनो ङीप्प्रतिषेधार्थं वचनम्। बहुराजा। बहुराज्ञी। बहुराजे॥ बहुतक्षा। बहुतक्ष्णी। बहुतक्षे। अन इति किम्? बहुमत्स्या। उपधालोपिन इति किम्? सुपर्वा, सुपर्वे, सुपर्वाः। सुपर्वाणौ। सुपर्वाणः। डाप्प्रतिषेधावेवात्र भवतः॥

नित्यं संज्ञाछन्दसोः॥ ४.१.२९॥

अन्नन्ताद् बहुव्रीहेरुपधालोपिनः संज्ञायां विषये छन्दसि च नित्यं ङीप् प्रत्ययो भवति। विकल्पस्यापवादः। सुराज्ञी। अतिराज्ञी नाम ग्रामः। छन्दसि-गौः पञ्चदाम्नी। एकदाम्नी। द्विदाम्नी। एक॑मूर्ध्नी (शौ०सं० ८.९.१५)। स॑मा॒नमू॑र्ध्नी (तै०सं० ४.३.११.४)॥

केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च॥ ४.१.३०॥

संज्ञाछन्दसोरित्येव। केवलादिभ्यः प्रातिपदिकेभ्यः संज्ञायां छन्दसि विषये स्त्रियां ङीप् प्रत्ययो भवति। केवली (पै०सं०१६.२०.१)। केवलेति भाषायाम्। मामकी (पै० सं० ६.६.८)। मामिकेति भाषायाम्। मि॒त्रावरु॑णयोर्भाग॒धेयीः॑स्थ (तै०सं०१.३.१२.१)। भागधेयेति भाषायाम्। सा॑ पा॒पी॑ (मै०सं० ४.२.१४)। पापेति भाषायाम् । उ॒ताऽप॒रीभ्यो॑ म॒घवा॒ विजि॑ग्ये (ऋ० १.३२.१३)। अपरेति भाषायाम्। समा॒नी (ऋ० १०.१९१.३) प्रवाणी। समानेति भाषायाम्। आर्यकृ॒ती॑ (मै०सं० १.८.३)। आर्यकृतेति भाषायाम्। सु॒म॒ङ्ग॒ली (ऋ० १०.८५.३३)। सुमङ्गलेति भाषायाम्। भेष॒जी (तै०सं० ४.५.१०.१)। भेषजेति भाषायाम्॥

रात्रेश्चाजसौ॥ ४.१.३१॥

जस्विषयादन्यत्र संज्ञायां छन्दसि च रात्रिशब्दाद् ङीप् प्रत्ययो भवति। या रात्री सृष्टा। रात्री॑भिः (ऋ० १०.१०.९)। अजसाविति किम्? यास्ता रात्रयः॥ अजसादिष्विति वक्तव्यम्॥ रात्रिं सहोषित्वा। कथं तिमिरपटलैरवगुण्ठिताश्च रात्र्यः? ङीषयं बह्वादिलक्षणः। तत्र हि पठ्यते ‘कृदिकारादक्तिनः’ (ग०सू० ४९) ‘सर्वतोऽक्तिन्नर्थादित्येके’ (ग०सू० ५०) इति॥

अन्तर्वत्पतिवतोर्नुक्॥ ४.१.३२॥

प्रकृतिर्निपात्यते, नुगागमस्तु विधीयते। अन्तर्वत्पतिवतोर्नुग् भवति ङीप् च प्रत्ययः, स तु नकारान्तत्वादेव सिद्धः। निपातनसामर्थ्यात् च विशेषे वृत्तिर्भवति। अन्तर्वत् पतिवदिति गर्भभर्तृसंयोगे। इह न भवति-अन्तरस्यां शालायां विद्यते, पतिमती पृथिवी। अन्तर्वदिति मतुब् निपात्यते, वत्वं सिद्धम्। पतिवदिति वत्वं निपात्यते, मतुप् सिद्धः। अन्तर्वत्नी गर्भिणी। पतिवत्नी जीवपतिः।

अन्तर्वत्पतिवतोस्तु मतुब्वत्वे निपातनात्।

गर्भिण्यां जीवपत्यां च वा छन्दसि तु नुग्विधिः॥

सान्त॑र्व॒त्नी (मै०सं० ४.२.९) देवानुपैत्। सान्तर्वती देवान् (काठ०सं० ८.१०) उपैत्। पतिवत्नी तरुणवत्सा। पतिवती तरुणवत्सा॥

पत्युर्नो यज्ञसंयोगे॥ ४.१.३३॥

पतिशब्दस्य नकारादेशः स्त्रियां विधीयते, ङीप् प्रत्ययस्तु नकारान्तत्वादेव सिद्धः, यज्ञसंयोगे। यज्ञेन संयोगे यज्ञसंयोगः। तत्साधनत्वात् फलग्रहीतृत्वाद् वा यजमानस्य पत्नी। पत्नि वाचं यच्छ। यज्ञसंयोग इति किम्? ग्रामस्य पतिरियं ब्राह्मणी। कथं वृषलस्य पत्नी? उपमानाद् भविष्यति॥

विभाषा सपूर्वस्य॥ ४.१.३४॥

पत्युर्न इति वर्तते। पतिशब्दान्तस्य प्रातिपदिकस्य सपूर्वस्यानुपसर्जनस्य स्त्रियां विभाषा नकारादेशो भवति, ङीप् तु लभ्यत एव। वृद्धपत्नी, वृद्धपतिः। स्थूलपत्नी, स्थूलपतिः। अप्राप्तविभाषेयमयज्ञसंयोगत्वात्। सपूर्वस्येति किम्? पतिरियं ब्राह्मणी ग्रामस्य॥

नित्यं सपत्न्यादिषु॥ ४.१.३५॥

सपत्न्यादिषु नित्यं पत्युर्नकारादेशो भवति, ङीप् तु लभ्यत एव। पूर्वेण विकल्पे प्राप्ते वचनम्। नित्यग्रहणं विस्पष्टार्थम्। समानः पतिरस्याः सपत्नी। एकपत्नी। समानादिष्विति वक्तव्ये समानस्य सभावार्थं वचनम्॥ समान। एक। वीर। पिण्ड। भ्रातृ। पुत्र। दासाच्छन्दसि (ग०सू० ४०)॥

पूतक्रतोरै च॥ ४.१.३६॥

पूतक्रतुशब्दस्य स्त्रियामैकारश्चान्तादेशो भवति, ङीप् प्रत्ययः। पूतक्रतोः स्त्री पूतक्रतायी। त्रय एते योगाः पुंयोगप्रकरणे द्रष्टव्याः। यया हि पूताः क्रतवः पूतक्रतुः सा भवति॥

वृषाकप्यग्निकुसितकुसीदानामुदात्तः॥ ४.१.३७॥

वृषाकप्यादीनामुदात्त ऐकारादेशो भवति स्त्रियाम् , ङीप् च प्रत्ययः। वृषाकपिशब्दो मध्योदात्त उदात्तत्वं प्रयोजयति। अग्न्यादिषु पुनरन्तोदात्तेषु स्थानिवद्भावादेव सिद्धम्। वृषाकपेः स्त्री वृ॒षा॒क॒पायी॑। अ॒ग्नायी॑। कु॒सि॒तायी॑। कु॒सी॒दायी॑। पुंयोग इत्येव-वृ॒षाक॑पिः स्त्री॥

मनोरौ वा॥ ४.१.३८॥

ऐ उदात्त इति वर्तते। मनुशब्दात् स्त्रियां ङीप् प्रत्ययो भवति, औकारश्चान्तादेशः, ऐकारश्चोदात्तः। वाग्रहणेन द्वावपि विकल्प्येते। तेन त्रैरूप्यं भवति। मनोः स्त्री मना॑यी॒ (मै० सं० १.८.६)। म॒नावी॑ (काठ०सं० ३०.१)। मनुः॑। मनुशब्द आद्युदात्तः॥

वर्णादनुदात्तात्तोपधात्तो नः॥ ४.१.३९॥

वेति वर्तते। वर्णवाचिनः प्रातिपदिकादनुदात्तान्तात् तकारोपधाद् वा ङीप् प्रत्ययो भवति, तकारस्य नकारादेशो भवति। एनी॑, एता॑। श्येनी॑, श्येता॑। हरि॑णी, हरि॑ता। सर्व एत आद्युदात्ताः, ‘वर्णानां तणतिनितान्तानाम्’ (फि० सू० २.१०) इति वचनात्। वर्णादिति किम्? प्रकृ॑ता। प्ररु॑ता। गतिस्वरेणाद्युदात्तः। अनुदात्तादिति किम्? श्वे॒ता। घृतादित्वात्(फि०सू०१.२१) अन्तोदात्तः। तोपधादिति किम्? अन्यतो ङीषं वक्ष्यति। अत इत्येव-शितिर्ब्राह्मणी॥ पिशङ्गादुपसंख्यानम्॥ पिशङ्गी॥ असितपलितयोः प्रतिषेधः॥ असिता। पलिता॥ छन्दसि क्नमित्येके॥ असि॑क्नी (शौ०सं० १.२३.१)। पलि॑क्नी (ऋ० ५.२.४)। भाषायामपीष्यते। गतो गणस्तूर्णमसिक्निकानाम्॥

अन्यतो ङीष्॥ ४.१.४०॥

वेति निवृत्तम्। वर्णादनुदात्तादिति वर्तते, तोपधापेक्षमन्यत्वम्। वर्णवाचिनः प्रातिपदिकादनुदात्तान्तात् स्त्रियां ङीष् प्रत्ययो भवति। स्वरे विशेषः। सा॒र॒ङ्गी। क॒ल्मा॒षी। श॒ब॒ली। वर्णादित्येव-खट्वा॑। अनुदात्तादित्येव-कृ॒ष्णा। क॒पि॒ला॥

षिद्गौरादिभ्यश्च॥ ४.१.४१॥

ङीषनुवर्तते। षिद्भ्यः प्रातिपदिकेभ्यो गौरादिभ्यश्च स्त्रियां ङीष् प्रत्ययो भवति। ‘शिल्पिनि ष्वुन्’ (३.१.१४५)-नर्तकी। खनकी। रजकी। गौरादिभ्यः-गौरी। मत्सी॥ गौर। मत्स्य। मनुष्य। शृङ्ग। हय। गवय। मुकय। ऋष्य। पुट। द्रुण। द्रोण। हरिण। कण। पटर। उकण। आमलक। कुवल। बदर। बिम्ब। तर्कार। शर्कार। पुष्कर। शिखण्ड। सुषम। सलन्द। गडुज। आनन्द। सृपाट। सृगेठ। आढक। शष्कुल। सूर्म। सुब। सूर्य। पूष। मूष। घातक। सकलूक। सल्लक। मालक। मालत। साल्वक। वेतस। अतस। पृस। मह। मठ। छेद। श्वन्। तक्षन्। अनडुही। अनड्वाही। एषणः करणे (ग०सू० ४१)। देह। काकादन। गवादन। तेजन। रजन। लवण। पान। मेध। गौतम। आयस्थूण। भौरि। भौलिकि। भौलिङ्गि। औद्गाहमानि। आलिङ्गि। आपिच्छिक। आरट। टोट। नट। नाट। मलाट। शातन। पातन। सवन। आस्तरण। अधिकरण। एत। अधिकार। आग्रहायणी। प्रत्यवरोहिणी। सेवन। सुमङ्गलात् संज्ञायाम् (ग०सू० ४२)। सुन्दर। मण्डल। पिण्ड। विटक। कुर्द। गूर्द। पट। पाण्ट। लोफाण्ट। कन्दर। कन्दल। तरुण। तलुन। बृहत्। महत्। सौधर्म। रोहिणी नक्षत्रे (ग०सू० ४३)। रेवती नक्षत्रे (ग०सू० ४४)। विकल। निष्फल। पुष्कल। कटाच्छ्रोणिवचने (ग०सू० ४५)। पिप्पल्यादयश्च (ग०सू० ४६)। पिप्पली। हरीतकी। कोशातकी। शमी। करीरी। पृथिवी। क्रोष्ट्री। मातामह। पितामह। ‘मातामहपितामहयोर्मातरि षिच् च’ (महाभाष्य वा० ४.२.३६) इति षित्त्वादेव सिद्धे ज्ञापनार्थं वचनम्-अनित्यः षिल्लक्षणो ङीषिति। तेन दंष्ट्रेत्युपपन्नं भवति॥

जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद् वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु॥ ४.१.४२॥

जानपदादिभ्य एकादशभ्यः प्रातिपदिकेभ्य एकादशसु वृत्त्यादिष्वर्थेषु यथासंख्यं ङीष् प्रत्ययो भवति। जा॒न॒प॒दी भवति वृत्तिश्चेत्। जान॑पदी अन्या। स्वरे विशेषः। उत्सादिपाठादञि कृते ङीप्, आद्युदात्तत्वं भवति। कुण्डी भवति, अमत्रं चेत्। कुण्डान्या। गोणी भवति,आवपनं चेत्। गोणान्या। स्थली भवति, अकृत्रिमा चेत्। स्थलान्या। भाजी भवति, श्राणा चेत्। पक्वेत्यर्थः। भाजान्या। नागी भवति, स्थौल्यं चेत्। नागान्या। नागशब्दो गुणवचनः स्थौल्ये ङीषमुत्पादयति, अन्यत्र गुण एव टापम्। जातिवचनात् तु जातिलक्षणो ङीषेव भवति। नागी। काली भवति, वर्णश्चेत्। कालान्या। नीली भवति, अनाच्छादनं चेत्। नीलान्या। न च सर्वस्मिन्नाच्छादन इष्यते। किं तर्हि? नीलादोषधौ, प्राणिनि च। नीली ओषधिः। नीली गौः। नीली वडवा। संज्ञायां वा । नीली, नीला। कुशी भवति, अयोविकारश्चेत्। कुशान्या। कामुकी भवति, मैथुनेच्छा चेत्। कामुकान्या। मैथुनेच्छावती भण्यते, नेच्छामात्रम्। कबरी भवति, केशवेशश्चेत्। कबरान्या॥

शोणात् प्राचाम्॥ ४.१.४३॥

शोणशब्दात् प्राचामाचार्याणां मतेन स्त्रियां ङीष् प्रत्ययो भवति। शोणी, शोणा, वडवा॥

वोतो गुणवचनात्॥ ४.१.४४॥

गुणमुक्त वान् गुणवचनः। गुणवचनात् प्रातिपदिकाद् उकारान्तात् स्त्रियां वा ङीष् प्रत्ययो भवति। पट्वी, पटुः। मृद्वी, मृदुः। उत इति किम्? शुचिरियं ब्राह्मणी। गुणवचनादिति किम्? आखुः॥ वसुशब्दाद् गुणवचनाद् ङीबाद्युदात्तार्थम्॥ वस्वी॑॥ खरुसंयोगोपधात् प्रतिषेधो वक्त व्यः॥ खरुरियं ब्राह्मणी। पाण्डुरियं ब्राह्मणी।

सत्त्वे निविशतेऽपैति पृथग् जातिषु दृश्यते।

आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः॥

बह्वादिभ्यश्च॥ ४.१.४५॥

बहु इत्येवमादिभ्यः प्रातिपदिकेभ्यः स्त्रियां वा ङीष् प्रत्ययो भवति। बह्वी, बहुः॥ बहु। पद्धति। अङ्कति। अञ्चति। अंहति। वंहति। शकटि। शक्तिः शस्त्रे (ग०सू० ४७)। शारि। वारि। गति। अहि। कपि। मुनि। यष्टि। इतः प्राण्यङ्गात् (ग०सू० ४८)। कृदिकारादक्तिनः। (ग०सू० ४९)। सर्वतोऽक्तिन्नर्थादित्येके (ग०सू०५०)। चण्ड। अराल। कमल। कृपाण। विकट। विशाल। विशङ्कट। भरुज। ध्वज। चन्द्रभागाद् नद्याम् (ग०सू० ५१)। कल्याण। उदार। पुराण। अहन्। बहुशब्दो गुणवचन एव। तस्येह पाठ उत्तरार्थः॥

नित्यं छन्दसि॥ ४.१.४६॥

बह्वादिभ्यश्छन्दसि विषये नित्यं स्त्रियां ङीष् प्रत्ययो भवति। बह्वीषु हित्वा प्रपिबन्। बह्वी नाम ओषधी भवति। नित्यग्रहणमुत्तरार्थम्॥

भुवश्च॥ ४.१.४७॥

छन्दसि विषये स्त्रियां भुवो नित्यं ङीष् प्रत्ययो भवति। वि॒भ्वी (ऋ० ५.३८.१) च। प्र॒भ्वी (ऋ०१.१८८.५) च। संभ्वी च। इह कस्माद् न भवति-स्वयम्भूः? उत इति तपरकरणमनुवर्तते। ह्रस्वादेवेयं पञ्चमी। भुव इति सौत्रो निर्देशः॥

पुंयोगादाख्यायाम्॥ ४.१.४८॥

पुंसा योगः पुंयोगः। पुंयोगात् हेतोर्यत् प्रातिपदिकं स्त्रियां वर्तते पुंस आख्याभूतम्, तस्माद् ङीष् प्रत्ययो भवति। गणकस्य स्त्री गणकी। महामात्री। प्रष्ठी। प्रचरी। पुंसि शब्दप्रवृत्तिनिमित्तस्य संभवात् पुंशब्दा एते, तद्योगात् स्त्रियां वर्तन्ते। पुंयोगादिति किम्? देवदत्ता। यज्ञदत्ता। आख्याग्रहणं किम्? परिसृष्टा। प्रजाता। पुंयोगादेते शब्दाः स्त्रियां वर्तन्ते, न तु पुमांसमाचक्षते॥ गोपालिकादीनां प्रतिषेधः॥ गोपालकस्य स्त्री गोपालिका॥ सूर्याद् देवतायां चाब् वक्तव्यः॥ सूर्यस्य स्त्री देवता सूर्या। देवतायामिति किम्? सूरी॥

इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक्॥ ४.१.४९॥

इन्द्रादिभ्यः प्रातिपदिकेभ्यः स्त्रियां ङीष् प्रत्ययो भवति, आनुक् चागमः। येषामत्र पुंयोग एवेष्यते, तेषामानुगागममात्रं विधीयते। प्रत्ययस्तु पूर्वेणैव सिद्धः। अन्येषां तूभयं विधीयते। इन्द्राणी। वरुणानी। भवानी। शर्वाणी। रुद्राणी। मृडानी ॥ हिमारण्ययोर्महत्त्वे॥ महद्धिमं हिमानी। महदरण्यमरण्यानी॥ यवाद् दोषे॥ दुष्टो यवो यवानी॥ यवनाल्लिप्याम्॥ यवनानी लिपिः॥ उपाध्यायमातुलाभ्यां वा॥ उपाध्यायी, उपाध्यायानी। मातुली, मातुलानी॥ आचार्यादणत्वं च॥ आचार्यानी।॥ अर्यक्षत्रियाभ्यां वा॥ अर्याणी, अर्या। क्षत्रियाणी, क्षत्रिया। विना पुंयोगेन स्वार्थ एवायं विधिः। पुंयोगे तु ङीषैव भवितव्यम्। अर्यी। क्षत्रियी॥ मुद्गलाच्छन्दसि लिच्च॥ र॒थीर॑भून्मुद्ग॒लानी॒ गवि॑ष्टौ॒ (ऋ० १०.१०२.२)॥

क्रीतात् करणपूर्वात्॥ ४.१.५०॥

करणं पूर्वमस्मिन्निति करणपूर्वं प्रातिपदिकम्। क्रीतशब्दान्तात् प्रातिपदिकात् करणपूर्वात् स्त्रियां ङीष् प्रत्ययो भवति। वस्त्रेण क्रीयते सा वस्त्रक्रीती। वसनक्रीती। करणपूर्वादिति किम्? सुक्रीता। दुष्क्रीता। इह कस्माद् न भवति-सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसीति? टाबन्तेन समासः। अत इति चानुवर्तते। ‘गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः’ इति बहुलं तदुच्यते, ‘कर्तृकरणे कृता बहुलम्’ (२.१.३२) इति॥

क्तादल्पाख्यायाम्॥ ४.१.५१॥

करणपूर्वादित्येव। करणपूर्वात् प्रातिपादिकात् क्तान्तादल्पाख्यायां ङीष् प्रत्ययो भवति। अल्पाख्यायामिति समुदायोपाधिः। अभ्रविलिप्ती द्यौः। सूपविलिप्ती पात्री। अल्पसूपेत्यर्थः। अल्पाख्यायामिति किम्? चन्दनानुलिप्ता ब्राह्मणी॥

बहुव्रीहेश्चान्तोदात्तात्॥ ४.१.५२॥

क्तादित्येव। बहुव्रीहिर्योऽन्तोदात्तः, तस्मात् स्त्रियां ङीष् प्रत्ययो भवति। स्वाङ्गपूर्वपदो बहुव्रीहिरिहोदाहरणम्। ‘अस्वाङ्गपूर्वपदाद्०’ (४.१.५३) विकल्पं वक्ष्यति। शङ्खभिन्नी। ऊरुभिन्नी। गलोत्कृत्ती। केशलूनी। बहुव्रीहेरिति किम्? पादपतिता॥ अन्तोदात्ताज् जातप्रतिषेधः॥ दन्तजाता, स्तनजाता॥ पाणिगृहीत्यादीनामर्थविशेषे॥ पाणिगृहीती भार्या। यस्यास्तु कथंचित् पाणिर्गृह्यते पाणिगृहीता सा भवति॥ अबहुनञ्सुकालसुखादिपूर्वादिति वक्तव्यम्॥ बहुकृता। नञ्-अकृता। सु-सुकृता। काल-मासजाता। संवत्सरजाता। सुखादिः-सुखजाता। दुःखजाता। ‘जातिकालसुखादिभ्योऽनाच्छादनात्०’ (६.२.१७०) इत्येवमादिना बहुव्रीहेरन्तोदात्तत्वम् ॥

अस्वाङ्गपूर्वपदाद् वा॥ ४.१.५३॥

अन्तोदात्तात् क्तादित्यनुवर्तते। अस्वाङ्गपूर्वपदादन्तोदात्तात् क्तान्ताद् बहुव्रीहेः स्त्रियां वा ङीष् प्रत्ययो भवति। पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। शार्ङ्गजग्धी, शार्ङ्गजग्धा। पलाण्डुभक्षिती, पलाण्डुभक्षिता। सुरापीती, सुरापीता। अस्वाङ्गपूर्वपदादिति किम्? शङ्खभिन्नी। ऊरुभिन्नी। अन्तोदात्तादित्येव-वस्त्रच्छन्ना। वसनच्छन्ना॥ बहुलं संज्ञाछन्दसोरिति वक्तव्यम्॥ प्रवृद्धविलूनी, प्रवृद्धविलूना। प्रवृद्धा चासौ विलूना चेति। नायं बहुव्रीहिः॥

स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्॥ ४.१.५४॥

बहुव्रीहेः क्तान्तादन्तोदात्तादिति सर्वं निवृत्तम्। वाग्रहणमनुवर्तते। स्वाङ्गं यदुपसर्जनमसंयोगोपधं तदन्तात् प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति। चन्द्रमुखी, चन्द्रमुखा। अतिक्रान्ता केशान् अतिकेशी, अतिकेशा माला। स्वाङ्गादिति किम्? बहुयवा। उपसर्जनादिति किम्? अशिखा। असंयोगोपधादिति किम्? सुगुल्फा। सुपार्श्वा॥ अङ्गगात्रकण्ठेभ्य इति वक्तव्यम्॥ मृद्वङ्गी, मृद्वङ्गा। सुगात्री, सुगात्रा। स्निग्धकण्ठी, स्निग्धकण्ठा।

अद्रवं मूर्तिमत् स्वाङ्गं प्राणिस्थमविकारजम्।

अतत्स्थं तत्र दृष्टं चेत् तस्य चेत् तत्तथायुतम्॥

नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च॥ ४.१.५५॥

स्वाङ्गाच्चोपसर्जनादित्येव। बह्वज्लक्षणे संयोगोपधलक्षणे च प्रतिषेधे प्राप्ते वचनम्। सहनञ्विद्यमानपूर्वलक्षणस्तु प्रतिषेधो भवत्येव। नासिकाद्यन्तात् प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति। तुङ्गनासिकी, तुङ्गनासिका। तिलोदरी, तिलोदरा। बिम्बोष्ठी, बिम्बोष्ठा। दीर्घजङ्घी, दीर्घजङ्घा। समदन्ती, समदन्ता। चारुकर्णी, चारुकर्णा। तीक्ष्णशृङ्गी, तीक्ष्णशृङ्गा॥ पुच्छाच्चेति वक्तव्यम्॥ कल्याणपुच्छी, कल्याणपुच्छा॥ कबरमणिविषशरेभ्यो नित्यम्॥ कबरपुच्छी। मणिपुच्छी। विषपुच्छी। शरपुच्छी॥ उपमानात् पक्षात् च पुच्छात् च॥ उलूकपक्षी सेना। उलूकपुच्छी शाला॥

न क्रोडादिबह्वचः॥ ४.१.५६॥

स्वाङ्गादिति ङीष् प्राप्तः प्रतिषिध्यते। क्रोडाद्यन्ताद् बह्वजन्तात् च प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति। कल्याणक्रोडा। कल्याणखुरा। कल्याणोखा। कल्याणबाला। कल्याणशफा। कल्याणगुदा। कल्याणघोणा। सुभगा। सुगला। क्रोडादिराकृतिगणः। बह्वचः खल्वपि-पृथुजघना। महाललाटा॥

सहनञ्विद्यमानपूर्वाच्च॥ ४.१.५७॥

‘स्वाङ्गाच्चोपसर्जनाद्०’ (४.१.५४) इति ‘नासिकोदरौष्ठजङ्घा०’ (४.१.५५) इति च प्राप्तो ङीष् प्रतिषिध्यते। सह नञ् विद्यमान इत्येवंपूर्वात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति। सकेशा। अकेशा। विद्यमानकेशा। सनासिका। अनासिका। विद्यमाननासिका॥

नखमुखात् संज्ञायाम् ॥ ४.१.५८॥

नखमुखान्तात् प्रातिपदिकात् संज्ञायां विषये स्त्रियां ङीष् प्रत्ययो न भवति। शूर्पणखा। वज्रणखा। गौरमुखा। कालमुखा। संज्ञायामिति किम्? ताम्रनखी कन्या। चन्द्रमुखी॥

दीर्घजिह्वी चच्छन्दसि ॥ ४.१.५९॥

दीर्घजिह्वी इति छन्दसि विषये निपात्यते। संयोगोपधत्वादप्राप्तो ङीष् विधीयते। दीर्घजि॒ह्वी॑ वै॑ दे॒वा॑नां॒ ह॒व्यम॑वा॒ले॒ट् (तु०-मै०सं० ३.१०.६)। चकारः संज्ञानुकर्षणार्थः। दीर्घजिह्वीति निपातनं नित्यार्थम्॥

दिक्पूर्वपदान् ङीप् ॥ ४.१.६०॥

‘स्वाङ्गाच्चोपसर्जनाद्०’ (४.१.५४) इत्येवमादिविधिप्रतिषेधविषयः सर्वोऽप्यपेक्ष्यते। यत्र ङीष् विहितस्तत्र तदपवादः। दिक्पूर्वपदात् प्रातिपदिकाद् ङीप् प्रत्ययो भवति। स्वरे विशेषः। प्राङ्मुखी, प्राङ्मुखा। प्राङ्नासिकी, प्राङ्नासिका। इह न भवति-प्राग्गुल्फा, प्राक्क्रोडा, प्राग्जघनेति॥

वाहः ॥ ४.१.६१॥

ङीषेव स्वर्यते, न ङीष्। वहेरयं ण्विप्रत्ययान्तस्य निर्देशः। सामर्थ्यात् तदन्तविधेर्विज्ञानम्। वाहन्तात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो भवति। दित्यौ॒ही (तै०सं० ४.७.१०.१)। प्रष्ठौही॥

सख्यशिश्वीति भाषायाम् ॥ ४.१.६२॥

सखी अशिश्वी इत्येतौ शब्दौ ङीषन्तौ भाषायां निपात्येते। सखीयं मे ब्राह्मणी। नास्याः शिशुरस्तीति अशिश्वी। भाषायामिति किम्? सखा सप्तपदी भव (आ०गृ० १.७.१९)। अशिशुमिव मामयं शिशुरभिमन्यते॥

जातेरस्त्रीविषयादयोपधात् ॥ ४.१.६३॥

जातिवाचि यत् प्रातिपदिकं न च स्त्रियामेव नियतमस्त्रीविषयमयकारोपधं च, तस्मात् स्त्रियां ङीष् प्रत्ययो भवति।

आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक्।

सकृदाख्यातनिर्ग्राह्या गोत्रं च चरणैः सह॥

कुक्कुटी। सूकरी। ब्राह्मणी। वृषली। नाडायनी। चारायणी। कठी। बह्वृची। जातेरिति किम्? मुण्डा। अस्त्रीविषयादिति किम्? मक्षिका। अयोपधादिति किम्? क्षत्रिया॥ योपधप्रतिषेधे हयगवयमुकयमत्स्यमनुष्याणामप्रतिषेधः॥ हयी। गवयी। मुकयी। मत्सी। मनुषी॥

पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च॥ ४.१.६४॥

पाकाद्युत्तरपदाज् जातिवाचिनः प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो भवति। स्त्रीविषयत्वादेतेषां पूर्वेणाप्राप्तः प्रत्ययो विधीयते। ओदनपाकी। शङ्कुकर्णी। शालपर्णी। शङ्खपुष्पी। दासीफली। दर्भमूली। गोबाली। पुष्पफलमूलोत्तरपदात् तु यतो नेष्यते तदजादिषु पठ्यते। ‘सत्प्राक्काण्डप्रान्तशतैकेभ्यः पुष्पात्’ (ग०सू० ३७)। ‘संभस्त्राजिनशणपिण्डेभ्यः फलात्’ (ग०सू० ३५)। ‘मूलान्नञः’ (ग०सू० ३९) इति॥

इतो मनुष्यजातेः ॥ ४.१.६५॥

इकारान्तात् प्रातिपदिकात् मनुष्यजातिवाचिनः स्त्रियां ङीष् प्रत्ययो भवति। अवन्ती। कुन्ती। दाक्षी। प्लाक्षी। इत इति किम्? विट्। दरत्। मनुष्यग्रहणं किम्? तित्तिरिः। जातेरिति वर्तमाने पुनर्जातिग्रहणं योपधादपि यथा स्यात्। औदमेयी॥ इञ उपसंख्यानमजात्यर्थम्॥ सौतङ्गमी। मौनिचित्ती। सुतङ्गमादिभ्यश्चातुरर्थिक इञ् (४.२.८०) न जातिः॥

ऊङुतः ॥ ४.१.६६॥

मनुष्यजातेरिति वर्तते। उकारान्ताद् मनुष्यजातिवाचिनः प्रातिपदिकात् स्त्रियामूङ् प्रत्ययो भवति। कुरूः। ब्रह्मबन्धूः। वीरबन्धूः। ङकारो ‘नोङ्धात्वोः’ (६.१.१७५) इति विशेषणार्थः। दीेर्घोच्चारणं कपो बाधनार्थम्। अयोपधादित्येतदत्रापेक्ष्यते। अध्वर्युर्ब्राह्मणी॥ अप्राणिजातेश्चारज्ज्वादीनामिति वक्तव्यम्॥ अलाबूः। कर्कन्धूः। अप्राणिग्रहणं किम्? कृकवाकुः। अरज्ज्वादीनामिति किम्? रज्जुः। हनुः॥

बाह्वन्तात् संज्ञायाम् ॥ ४.१.६७॥

बाहुशब्दान्तात् प्रातिपदिकात् संज्ञायां विषये स्त्रियामूङ् प्रत्ययो भवति। भद्रबाहूः। जालबाहूः। संज्ञायामिति किम्? वृत्तौ बाहू अस्याः वृत्तबाहुः॥

पङ्गोश्च ॥ ४.१.६८॥

पङ्गुशब्दात् स्त्रियामूङ् प्रत्ययो भवति। पङ्गूः॥ श्वशुरस्योकाराकारयोर्लोपश्च वक्तव्यः॥ श्वश्रूः॥

ऊरूत्तरपदादौपम्ये ॥ ४.१.६९॥

ऊरूत्तरपदात् प्रातिपदिकादौपम्ये गम्यमाने स्त्रियामूङ् प्रत्ययो भवति । कदली-स्तम्भोरूः। नागनासोरूः। करभोरूः। औपम्य इति किम्? वृत्तोरुः स्त्री॥

संहितशफलक्षणवामादेश्च ॥ ४.१.७०॥

संहित शफ लक्षण वाम इत्येवमादेः प्रातिपदिकादूरूत्तरपदात् स्त्रियामूङ् प्रत्ययो भवति। अनौपम्यार्थ आरम्भः। संहितोरूः। शफोरूः। लक्षणोरूः। वामोरूः॥ सहितसहाभ्यां चेति वक्तव्यम्॥ सहितोरूः। सहोरूः॥

कद्रुकमण्डल्वोश्छन्दसि ॥ ४.१.७१॥

कद्रुशब्दात् कमण्डलुशब्दात् च छन्दसि विषये स्त्रियामूङ् प्रत्ययो भवति। क॒द्रूश्च॒ वै सु॑प॒र्णी च (तै०सं० ६.१.६.१)। मा स्म कमण्डलूं शूद्राय दद्यात्। छन्दसीति किम्? कद्रुः। कमण्डलुः॥ गुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम्॥ गु॒ग्गु॒लूः (शौ०सं० ४.३७.३)। म॒धूः (शौ०सं० ७.५६.२)। ज॒तूः॑ (मै०सं० ३.१४.६)। प॒त॒या॒लूः (शौ०सं० ७.११५.२)॥

संज्ञायाम् ॥ ४.१.७२॥

कद्रुकमण्डलुशब्दाभ्यां संज्ञायां विषये स्त्रियामूङ् प्रत्ययो भवति। अच्छन्दोऽर्थं वचनम्। कद्रूः। कमण्डलूः। संज्ञायामिति किम्? कद्रुः। कमण्डलुः॥

शार्ङ्गरवाद्यञो ङीन्॥ ४.१.७३॥

शार्ङ्गरवादिभ्योऽञन्तेभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीन् प्रत्ययो भवति। शार्ङ्गरवी। कापटवी। अञन्तेभ्यः-बैदी। और्वी। जातिग्रहणं चेहानुवर्तते। तेन जातिलक्षणो ङीषनेन बाध्यते, न पुंयोगलक्षणः। बैदस्य स्त्री बैदी॥ शार्ङ्गरव। कापटव। गौगुलव। ब्राह्मण। गौतम। एतेऽणन्ताः। कामण्डलेय। ब्राह्मकृतेय। आनिचेय। आनिधेय। आशोकेय। एते ढगन्ताः। वात्स्यायन। मौञ्जायन। एतौ फगन्तौ जातिः। कैकसेयो ढगन्तः। काव्यशैव्यौ ञ्यङन्तौ। एहि, पर्येहि। कृदिकारान्तौ। आश्मरथ्यो यञन्तः। औदपानः। उदपानशब्दः शुण्डिकाद्यणन्तः (४.३.७६) प्रयोजयति। अराल चण्डाल। वतण्ड। जातिः। भोगवद्गौरिमतोः संज्ञायां घादिषु नित्यं ह्रस्वार्थम् (ग०सू० ५२)। नृनरयोर्वृद्धिश्च (ग०सू० ५३)। अत्र यथायोगं ङीबादिषु प्राप्तेषु ङीन् विधीयते॥

यङश्चाप्॥ ४.१.७४॥

यङन्तात् प्रातिपदिकात् स्त्रियां चाप् प्रत्ययो भवति। ञ्यङः ष्यङश्च सामान्यग्रहणमेतत्। आम्बष्ठ्या। सौवीर्या। कौसल्या। ष्यङ्-कारीषगन्ध्या। वाराह्या। बालाक्या॥ षाच्च यञः॥ षात् परो यो यञ् तदन्तात् चाप् वक्तव्यः। शार्कराक्ष्या। पौतिमाष्या। गौकक्ष्या। उत्तरसूत्रे चकारोऽनुक्तसमुच्चयार्थः, तेन वा भविष्यति॥

आवट्याच्च॥ ४.१.७५॥

अवटशब्दो गर्गादिः। तस्माद् यञि कृते ङीपि प्राप्ते वचनमेतत्। आवट्यात् च स्त्रियां चाप् प्रत्ययो भवति। आवट्या। प्राचां ष्फ एव, सर्वत्रग्रहणात्। आवट्यायनी॥

तद्धिताः॥ ४.१.७६॥

अधिकारोऽयम्। आ पञ्चमाध्यायपरिसमाप्तेर्यानित ऊर्ध्वमनुक्रमिष्यामः, तद्धितसंज्ञास्ते वेदितव्याः। वक्ष्यति-‘यूनस्तिः’ (४.१.७७)-युवतिः। बहुवचनमनुक्त -तद्धितपरिग्रहार्थम्। ‘पृथिव्या ञाञौ’ (वा० ४.१.८५)। ‘अग्रादिपश्चाड्डिमच्’(वा० ४.३.२३) इत्येवमादि लब्धं भवति। तद्धितप्रदेशाः- ‘कृत्तद्धितसमासाश्च’ (१.२.४६) इत्येवमादयः॥

यूनस्तिः॥ ४.१.७७॥

युवन्शब्दात् प्रातिपदिकात् स्त्रियां तिः प्रत्ययो भवति, स च तद्धितसंज्ञो भवति। ङीपोऽपवादः। युवतिः॥

अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे॥ ४.१.७८॥

गोत्रे यावणिञौ विहितावनार्षौ, तदन्तयोः प्रातिपदिकयोर्गुरूपोत्तमयोः स्त्रियां ष्यङादेशो भवति। ‘निर्दिश्यमानस्यादेशा भवन्ति’ इत्यणिञोरेव विज्ञायते, न तु समुदायस्य। ङकारः सामान्यग्रहणार्थः। षकारस्तदविघातार्थः। ‘यङश्चाप्’ (४.१.७४) इति। उत्तमशब्दः स्वभावात् त्रिप्रभृतीनामन्त्यमक्षरमाह। उत्तमस्य समीपमुपोत्तमम्। गुरु उपोत्तमं यस्य तद् गुरूपोत्तमं प्रातिपदिकम्। करीषस्येव गन्धोऽस्य करीषगन्धिः। कुमुदगन्धिः। ‘तस्यापत्यम्’ (४.१.९२) इत्यण्। तस्य ष्यङादेशः। कारीषगन्ध्या कौमुदगन्ध्या। वराहस्यापत्यम्। ‘अत इञ्’ (४.१.९५)-वाराहिः। तस्य ष्यङादेशः॥ वाराह्या। बालाक्या। अणिञोरिति किम्? ऋतभागस्यापत्यम्, बिदादित्वादञ् आर्तभागी॥ गुरूपोत्तमादिकं सर्वमस्तीति, न त्वणिञौ। ‘टिड्ढाणञ्०’ (४.१.१५) इति ङीबेव भवति। अनार्षयोरिति किम्? वासिष्ठी। वैश्वामित्री। गुरूपोत्तमयोरिति किम्? औपगवी। कापटवी। गोत्र इति किम्? ‘तत्र जाताः’ (४.३.२५)-आहिच्छत्री॥ कान्यकुब्जी॥

गोत्रावयवात्॥ ४.१.७९॥

अणिञोरित्येव। गोत्रावयवा गोत्राभिमताःकुलाख्याः पुणिकभुणिकमुखरप्रभृतयः,ततो गोत्रे विहितयोरणिञोः स्त्रियां ष्यङादेशो भवति। अगुरूपोत्तमार्थ आरम्भः। पौणिक्या। भौणिक्या । मौखर्या। येषां त्वनन्तरापत्येऽपीष्यते दैवदत्या याज्ञदत्येति, ते क्रौड्यादिषु द्रष्टव्याः॥

क्रौड्यादिभ्यश्च॥ ४.१.८०॥

क्रौडि इत्येवमादिभ्यश्च स्त्रियां ष्यङ् प्रत्ययो भवति। अगुरूपोत्तमार्थ आरम्भः, अनणिञर्थश्च। क्रौड्या। लाड्या॥ क्रौडि। लाडि। व्याडि। आपिशलि। आपक्षिति। चौपयत। चैटयत। शैकयत। बैल्वयत। वैकल्पयत। सौधातकि। सूत युवत्याम् (ग०सू० ५४)। भोज क्षत्रिये (ग०सू०५५)। भौरिकि। भौलिकि। शाल्मलि। शालास्थलि। कापिष्ठलि। गौलक्ष्य। गौकक्ष्य॥

दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम्॥ ४.१.८१॥

दैवयज्ञि शौचिवृक्षि सात्यमुग्रि काण्ठेविद्धि इत्येतेषामन्यतरस्यां ष्यङ् प्रत्ययो भवति। इञन्ता एते, गोत्रग्रहणं च नानुवर्तते। तेनोभयत्रविभाषेयम्। गोत्रे पूर्वेण नित्यः ष्यङादेशः प्राप्तो विकल्प्यते, अगोत्रे त्वनन्तरेऽपत्ये पक्षे विधीयते। तेन मुक्त ‘इतो मनुष्यजातेः’ (४.१.६५) इति ङीषेव भवति। दैवयज्ञ्या, दैवयज्ञी। शौचिवृक्ष्या, शौचिवृक्षी। सात्यमुग्र्या, सात्यमुग्री। काण्ठेविद्ध्या, काण्ठेविद्धी॥

समर्थानां प्रथमाद् वा॥ ४.१.८२॥

त्रयमप्यधिक्रियते समर्थानामिति च, प्रथमादिति च, वेति च। स्वार्थिकप्रत्ययावधिश्चायमधिकारः, ‘प्राग् दिशो विभक्तिः’(५.३.१) इति यावत्। स्वार्थिकेषु ह्यस्योपयोगो नास्ति, विकल्पोऽपि तत्रानवस्थितः। केचिन्नित्यमेव भवन्ति। लक्षणवाक्यानि ‘तस्यापत्यम्’ (४.१.९२) ‘तेन रक्तं रागात्’ (४.२.१) ‘तत्र भवः’ (४.३.५३) इत्येवमादीनि भविष्यन्ति। तेषु सामर्थ्ये सति प्रथमनिर्दिष्टादेव विकल्पेन प्रत्ययो भवतीति वेदितव्यम्। समर्थानामिति निर्धारणे षष्ठी। समर्थानां मध्ये प्रथमः प्रत्ययप्रकृतित्वेन निर्धार्यते। तस्येति सामान्यं विशेषलक्षणार्थम्, तदीयं प्राथम्यं विशेषाणां विज्ञायते। उपगोरपत्यम्, औपगवः। समर्थानामिति किम्? कम्बल उपगोः, अपत्यं देवदत्तस्य। प्रथमादिति किम्? षष्ठ्यन्ताद् यथा स्यात् प्रथमान्ताद् मा भूत्। वेति किम्? वाक्यमपि हि यथा स्यात्-उपगोरपत्यमिति। यद्येवं समासवृत्तिस्तद्धितवृत्त्या बाध्येत उपग्वपत्यमिति। नैष दोषः। पूर्वसूत्रादन्यतरस्यांग्रहणमनुवर्तते। तेनैतदपि भविष्यति॥

प्राग् दीव्यतोऽण्॥ ४.१.८३॥

‘तेन दीव्यति०’ (४.४.२) इति वक्ष्यति। तदेकदेशो दीव्यच्छब्दोऽवधित्वेन गृह्यते। प्राग् दीव्यत्संशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः, अण्प्रत्ययस्तत्र भवतीति वेदितव्यम्। अधिकारः, परिभाषा, विधिर्वेति त्रिष्वपि दर्शनेष्वपवादविषयं परिहृत्याण् प्रवर्तते। वक्ष्यति-‘तस्यापत्यम्’ (४.१.९२)। औपगवः। कापटवः॥

अश्वपत्यादिभ्यश्च॥ ४.१.८४॥

अश्वपत्यादिभ्यः प्रातिपदिकेभ्यः प्राग्दीव्यतीयेष्वर्थेष्वण् प्रत्ययो भवति। पत्युत्तरपदाद् ण्यं वक्ष्यति, तस्यापवादः। आश्वपतम्। शातपतम्॥ अश्वपति। शतपति। धनपति। गणपति। राष्ट्रपति। कुलपति। गृहपति। धान्यपति। पशुपति। धर्मपति। सभापति। प्राणपति। क्षेत्रपति॥

दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः॥ ४.१.८५॥

प्राग्दीव्यत इत्येव। दिति अदिति आदित्य इत्येतेभ्यः, पत्युत्तरपदात् च प्रातिपदिकात् प्राग्दीव्यतीयेष्वर्थेषु ण्यः प्रत्ययो भवति। दैत्यः। आदित्यः। आदित्यम्। पत्युत्तरपदात्-प्राजापत्यम्। सैनापत्यम्॥ यमाच्चेति वक्तव्यम्॥ याम्यम्॥ वाङ्मतिपितृमतां छन्दस्युपसंख्यानम्॥ वा॒च्यः (मा०सं० १३.५८)। मा॒त्या॑ (मै०सं० २.७.१९)। पैतृम॒त्यम् (मा०सं० ७.४६)॥ पृथिव्या ञाञौ॥ पार्थि॑वा (ऋ० १.६४.३)। पार्थिवी (पै०सं० १६.४६.३)॥ देवाद् यञञौ॥ दैव्य॒म्॥ (ऋ० १.३१.१७)। दैवम् (पै०सं० १.३१.४)॥ बहिषष्टिलोपश्च॥ बाह्याः॑ (शौ०सं० १९.४४.६)॥ ईकक् च ॥ बा॒ही॒कः॥ ईकञ् छन्दसि॥ बाही॑कः। स्वरे विशेषः। टिलोपवचनमव्ययानां भमात्रे टिलोपस्य (वा० ६.४.१४४) अनित्यत्वज्ञापनार्थम्। आरातीयः ॥ स्थाम्नोऽकारः॥ अश्वत्थामः॥ लोम्नोऽपत्येषु बहुषु॥ उडुलोमाः॥ शरलोमाः। बहुष्विति किम्? औडुलोमिः। शारलोमिः॥ सर्वत्र गोरजादिप्रत्ययप्रसङ्गे यत्॥ गव्यम्। अजादिप्रत्ययप्रसङ्ग इति किम्? गोभ्यो हेतुभ्य आगतं गोरूप्यम्। गोमयम्॥ ण्यादयोऽर्थविशेषलक्षणादणपवादात् पूर्वविप्रतिषेधेन॥ दितेरपत्यं दैत्यः। वनस्पतीनां समूहो वानस्पत्यम्। कथं दैतेयः? ‘दितिशब्दात् कृदिकारादक्तिनः’ (ग०सू० ४९) ‘सर्वतोऽक्तिन्नथा᐀्दित्येके’ (ग०सू० ५०) इति ङीषं कृत्वा ‘स्त्रीभ्यो ढक्’ (४.१.१२०) क्रियते। लिङ्गविशिष्टपरिभाषा चानित्या॥

उत्सादिभ्योऽञ्॥ ४.१.८६॥

प्राग्दीव्यत इत्येव। उत्सादिभ्यः प्राग्दीव्यतीयेष्वर्थेष्वञ् प्रत्ययो भवति। अणस्तदपवादानां च बाधकः। औत्सः। औदपानः॥ उत्स। उदपान। विकर। विनोद। महानद। महानस। महाप्राण। तरुण। तलुन। वष्कयासे (ग०सू० ५६)। धेनु। पृथिवी। षङ्क्ति। जगती। त्रिष्टुप्। अनुष्टुप्। जनपद। भरत। उशीनर। ग्रीष्म। पीलु। कुल। उदस्थानाद् देशे (ग०सू० ५७)। पृषदंशे (ग०सू० ५८)। भल्लकीय। रथन्तर। मध्यन्दिन। बृहत्। महत्। सत्वन्तु। सद्शब्दो मतुबन्त आगतनुङ्को गृह्यते सत्वन्त्विति। कुरु। पञ्चाल। इन्द्रावसान। उष्णिक्। ककुभ्। सुवर्ण। देव। ग्रीष्मादच्छन्दसीति वक्तव्यम् (ग०सू० ५९)। इह मा भूत्-त्रि॒ष्टु॑ब् ग्रैष्मी॑ (काठ०सं० १६.१९)। छन्दश्चेह वृत्तं गृह्यते न वेदः॥

स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् ॥ ४.१.८७॥

‘धान्यानां भवने०’ (५.२.१) इति वक्ष्यति। तस्य प्रागित्यनेनैव संबन्धः। प्राग् भवनसंशब्दनाद् येऽर्थास्तेषु स्त्रीशब्दात् पुंस्शब्दात् च यथाक्रमं नञ्स्नञौ प्रत्ययौ भवतः। स्त्रीषु भवं स्त्रैणम्। पौंस्नम्। स्त्रीणां समूहः स्त्रैणम्। पौंस्नम्। स्त्रीभ्य आगतं स्त्रैणम्। पौंस्नम्। स्त्रीभ्यो हितं स्त्रैणम्। पौंस्नम्। ‘स्त्रियाः पुंवद्०’ (६.३.३४) इति ज्ञापकाद् वत्यर्थे न भवति। योगापेक्षं च ज्ञापकमिति स्त्रीवदित्यपि सिद्धम्॥

द्विगोर्लुगनपत्ये ॥ ४.१.८८॥

प्राग् दीव्यत इति वर्तते, न भवनादिति। द्विगोरिति षष्ठी। द्विगोर्यः संबन्धी निमित्तत्वेन तद्धितः प्राग्दीव्यतीयोऽपत्यप्रत्ययं वर्जयित्वा, तस्य लुग् भवति। पञ्चसु कपालेषु संस्कृतः पञ्चकपालः। दशकपालः। द्वौ वेदावधीते द्विवेदः। त्रिवेदः। अनपत्य इति किम्? द्वैदेवदत्तिः। त्रैदेवदत्तिः। प्राग् दीव्यत इत्येव- द्वैपारायणिकः। द्विगुनिमित्तविज्ञानादिह न भवति-पञ्चकपालस्येदं पाञ्चकपालम्। अथवा द्विगोरेवायं लुग् विधीयते, द्विगोरिति स्थानषष्ठी। ननु च प्रत्ययादर्शनस्यैषा संज्ञा? सत्यमेतत्। उपचारेण तु लक्षणया द्विगुनिमित्तभूतः प्रत्यय एव द्विगुः, तस्य लुग् भवति। द्विगुनिमित्तकोऽपि तर्हि गुणकल्पनया कस्माद् न द्विगुरुच्यते पाञ्चकपालमिति? न तस्य द्विगुत्वं निमित्तम्। इतरस्तु द्विगुत्वस्यैव निमित्तमित्यस्ति विशेषः। यद्येवमिह कथं पञ्चकपाल्यां संस्कृतः पञ्चकपाल इति? नैवात्र तद्धित उत्पद्यते। वाक्यमेव भवति। त्रैशब्द्यं हि साध्यम्- पञ्चसु कपालेषु संस्कृतः, पञ्चकपाल्यां संस्कृतः, पञ्चकपाल इति। तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रहः, अपरस्मादुत्पत्तिर्भविष्यति । अथेह कस्माद् न भवति-पञ्चभ्यो गर्गभ्य आगतं पञ्चगर्गरूप्यम् पञ्चगर्गमयमिति? वेत्यनुवर्तते। सा च व्यवस्थितविभाषा विज्ञायते ॥

गोत्रेऽलुगचि ॥ ४.१.८९॥

प्राग् दीव्यत इत्येव। ‘यस्कादिभ्यो गोत्रे’ (२.४.६३) इत्यादिना येषां गोत्रप्रत्ययानां लुगुक्तः, तेषामजादौ प्राग्दीव्यतीये विषयभूते प्रतिषिध्यते। गर्गाणां छात्रा गार्गीयाः। वात्सीयाः। आत्रेयीयाः। खारपायणीयाः। गोत्र इति किम्? कौवलम्। बादरम्। अचीति किम्? गर्गेभ्य आगतं गर्गरूप्यम्। गर्गमयम्। प्राग् दीव्यत इत्येव-गर्गभ्यो हितं गर्गीयम्॥ गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोरलुक्॥ बिदानामपत्यं युवा, युवानौ। बैदः। बैदौ। बैदशब्दादत इञि (४.१.९५) कृते तस्य च इञो ‘ण्यक्षत्रियार्षञितः०’ (२.४.५८) इति लुकि रूपम्॥ एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि॥ बैदस्य बैदयोर्वापत्यं बहवो माणवका बिदाः। नह्यत्राञ् बहुषूत्पन्नः॥

यूनि लुक् ॥ ४.१.९०॥

प्राग् दीव्यत इति वर्तते, अचीति च। प्राग्दीव्यतीयेऽजादौ प्रत्यये विवक्षिते बुद्धिस्थेऽनुत्पन्न एव युवप्रत्ययस्य लुग् भवति। तस्मिन्निवृत्ते सति यो यतः प्राप्नोति, स ततो भवति। फाण्टाहृतस्यापत्यं फाण्टाहृतिः। तस्यापत्यं युवा, ‘फाण्टाहृतिमिमताभ्यां णफिञौ’ (४.१.१५०) फाण्टाहृतः। तस्य छात्रा इति विवक्षितेऽर्थे बुद्धिस्थे युवप्रत्ययस्य लुग् भवति। तस्मिन् निवृत्त इञन्तं प्रकृतिरूपं संपन्नम्। तस्माद् ‘इञश्च’ (४.२.११२) इत्यण् भवति। फाण्टाहृताः। भागवित्तस्यापत्यम्, भागवित्तिः। तस्यापत्यं युवा ‘वृद्धाट्ठक् सौवीरेषु बहुलम्’ (४.१.१४८) इति ठक्, भागवित्तिकः। तस्य छात्राः, पूर्ववद् युवप्रत्यये निवृत्त ‘इञश्च’ (४.२.११२) इत्यण्, भागवित्ताः। तिकस्यापत्यं ‘तिकादिभ्यः फिञ्’ (४.१.१५४) तैकायनिः। तस्यापत्यं युवा ‘फेश्छ च’ (४.१.१४९) इति छः, तैकायनीयः। तस्य छात्राः, युवप्रत्यये निवृत्ते ‘वृद्धाच्छः’ (४.२.११४) तैकायनीयाः। कपिञ्जलादस्यापत्यं कापिञ्जलादिः, तस्यापत्यं युवा ‘कुर्वादिभ्यो ण्यः’ (४.१.१५१) कापिञ्जलाद्यः। तस्य छात्राः, ण्ये निवृत्त ‘इञश्च’ (४.२.११२) इत्यण् कापिञ्जलादाः। ग्लुचुकस्यापत्यं ‘प्राचामवृद्धात् फिन् बहुलम्’ (४.१.१६०) इति ग्लुचुकायनिः। तस्यापत्यं युवा ‘प्राग्दीव्यतोऽण्’ (४.१.८३) ग्लौचुकायनः। तस्य छात्राः, युवप्रत्यये निवृत्ते स एवाण् ग्लौचुकायनाः। अचीत्येव-फाण्टाहृतरूप्यम्। फाण्टाहृतमयम्। प्राग्दीव्यत इत्येव- भागवित्तिकाय हितम्, भागवित्तिकीयम्॥

फक्फिञोरन्यतरस्याम्॥ ४.१.९१॥

यूनीत्येव। पूर्वसूत्रेण नित्ये लुकि प्राप्ते विकल्प उच्यते। फक् फिञोर्युवप्रत्यययोः प्राग्दीव्यतीयेऽजादौ प्रत्यये विवक्षितेऽन्यतरस्यां लुग् भवति। गर्गादिभ्यो यञि (४.१.१०५) कृते ‘यञिञोश्च’ (४.१.१०१) इति फक्, गार्ग्यायणः। तस्य छात्रा गार्गीयाः, गार्ग्यायणीयाः। वात्सीयाः, वात्स्यायनीयाः। फिञः खल्वपि। यस्कस्यापत्यम्, ‘शिवादिभ्योऽण्’ (४.१.११२)। यास्कः। तस्यापत्यं युवा, ‘अणो द्व्यचः’ (४.१.१५६) इति फिञ् यास्कायनिः। तस्य छात्रा यास्कीयाः, यास्कायनीयाः॥

तस्यापत्यम्॥ ४.१.९२॥

अर्थनिर्देशोऽयम्, पूर्वैरुत्तरैश्च प्रत्ययैरभिसंबध्यते। तस्येति षष्ठीसमर्थादपत्यमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। प्रकृत्यर्थविशिष्टः षष्ठ्यर्थोऽपत्यमात्रञ्चेह गृह्यते। लिङ्गवचनादिकमन्यत् सर्वमविवक्षितम्। उपगोरपत्यमौपगवः। आश्वपतः। दैत्यः। औत्सः। स्त्रैणः। पौंस्नः।

तस्येदमित्यपत्येऽपि बाधनार्थं कृतं भवेत्।

उत्सर्गः शेष एवासौ वृद्धान्यस्य प्रयोजनम्॥

भानोरपत्यं भानवः। श्यामगवः॥

एको गोत्रे॥ ४.१.९३॥

‘अपत्यं पौत्रप्रभृति गोत्रम्’ (४.१.१६२), तस्मिन् विवक्षिते भेदेन प्रत्यपत्यं प्रत्ययोत्पत्तिप्रसङ्गे नियमः क्रियते। गोत्र एक एव प्रत्ययो भवति, सर्वेऽपत्येन युज्यन्ते। अपतनादपत्यम्। योऽपि व्यवहितेन जनितः, सोऽपि प्रथमप्रकृतेरपत्यं भवत्येव। गर्गस्यापत्यं गार्गिः। गार्गेरपत्यं गार्ग्यः। तत्पुत्रोऽपि गार्ग्यः। सर्वस्मिन् व्यवहितजनितेऽपि गोत्रापत्ये गर्गशब्दाद् यञेव भवतीति प्रत्ययो नियम्यते। अथ वा गोत्रापत्ये विवक्षित एक एव शब्दः प्रथमा प्रकृतिः प्रत्ययमुत्पादयतीति प्रकृतिर्नियम्यते। गार्ग्यः। नाडायनः॥

गोत्राद् यून्यस्त्रियाम्॥ ४.१.९४॥

अयमपि नियमः। यून्यपत्ये विवक्षिते गोत्रादेव प्रत्ययो भवति, न परमप्रकृत्यनन्तरयुवभ्यः। गार्ग्यस्यापत्यं युवा, गार्ग्यायणः। वात्स्यायनः। दाक्षायणः। प्लाक्षायणः। औपगविः। नाडायनिः। अस्त्रियामिति किम्? दाक्षी। प्लाक्षी। किं पुनरत्र प्रतिषिध्यते? यदि नियमः, स्त्रियामनियमः प्राप्नोति। अथ युवप्रत्ययः, स्त्रियां गोत्रप्रत्ययेनाभिधानं न प्राप्नोति, गोत्रसंज्ञाया युवसंज्ञया बाधितत्वात्। तस्माद् योगविभागः कर्तव्यः। गोत्राद् यूनि प्रत्ययो भवति। ततोऽस्त्रियाम्। यूनि यदुक्तं तत् स्त्रियां न भवति। युवसंज्ञैव प्रतिषिध्यते, तेन स्त्री गोत्रप्रत्ययेनाभिधास्यते॥

अत इञ्॥ ४.१.९५॥

तस्यापत्यमित्येव। अकारान्तात् प्रातिपदिकादिञ् प्रत्ययो भवति। अणोऽपवादः। दक्षस्यापत्यं दाक्षिः। तपरकरणं किम्? शुभंयाः, कीलालपा इत्यतो मा भूत्। कथं ‘प्रदीयतां दाशरथाय मैथिली’ (वा०रा० युद्ध० ९.२२)? शेषविवक्षया भविष्यति॥

बाह्वादिभ्यश्च॥ ४.१.९६॥

बाहु इत्येवमादिभ्यः शब्देभ्योऽपत्य इञ् प्रत्ययो भवति। बाहविः। औपबाहविः। अनकारार्थ आरम्भः। क्वचिद् बाधकबाधनार्थः॥ बाहु। उपबाहु। विवाकु। शिवाकु। वटाकु। उपबिन्दु। वृक। चूडाला। मूषिका। बलाका। भगला। छगला। ध्रुवका। धुवका। सुमित्रा। दुर्मित्रा। पुष्करसत्। अनुहरत्। देवशर्मन्। अग्निशर्मन्। कुनामन्। सुनामन्। पञ्चन्। सप्तन्। अष्टन्। अमितौजसः सलोपश्च (ग०सू० ६०)। उदञ्चु। शिरस्। शराविन्। क्षेमवृद्धिन् शृङ्खलातोदिन्। खरनादिन्। नगरमर्दिन्। प्राकारमर्दिन्। लोमन्। अजीगर्त्त। कृष्ण। सलक। युधिष्ठिर। अर्जुन। साम्ब। गद। प्रद्युम्न। राम। उदङ्कः संज्ञायाम् (ग०सू० ६१)। सम्भूयोऽम्भसोः सलोपश्च (ग०सू० ६२)॥ बाह्वादिप्रभृतिषु येषां दर्शनं गोत्रभावे लौकिके ततोऽन्यत्र तेषां प्रतिषेधः॥ बाहुर्नाम कश्चित्, तस्यापत्यं बाहवः॥ संबन्धिशब्दानां च तत्सदृशात् प्रतिषेधः॥ संज्ञाश्वशुरस्यापत्यं श्वाशुरिः। चकारोऽनुक्तसमुच्चयार्थ आकृतिगणतामस्य बोधयति। जाम्बिः। ऐन्द्रशर्मिः। आजधेनविः। आजबन्धविः। औङुलोमिः॥

सुधातुरकङ् च॥ ४.१.९७॥

सुधातृशब्दादपत्य इञ् प्रत्ययो भवति, तत्सन्नियोगेन च तस्याकङादेशो भवति। सुधातुरपत्यं सौधातकिः॥ व्यासवरुडनिषादचण्डालबिम्बानामिति वक्तव्यम्॥ वैयासकिः। वारुडकिः। नैषादकिः। चाण्डालकिः। बैम्बकिः॥

गोत्रे कुञ्जादिभ्यश्च्फञ्॥ ४.१.९८॥

तस्यापत्यमित्येव। गोत्रसंज्ञकेऽपत्ये वाच्ये कुञ्जादिभ्यश्च्फञ् प्रत्ययो भवति। इञोऽपवादः। चकारो विशेषणार्थः, ‘व्रातच्फञोरस्त्रियाम्’(५.३.११३) इति। ञकारो वृद्ध्यर्थः। कौञ्जायन्यः, कौञ्जायन्यौ, कौञ्जायनाः। ब्राध्नायन्यः, ब्राध्नायन्यौ, ब्राध्नायनाः। गोत्र इति किम्? कुञ्जस्यापत्यमनन्तरं कौञ्जिः। एकवचनद्विवचनयोः सतिशिष्टत्वाद् ञित्स्वरेणैव भवितव्यम्। बहुवचने तु कौञ्जायना इति परमपि ञित्स्वरं त्यक्त्वा चित्स्वर एवेष्यते। गोत्राधिकारश्च ‘शिवादिभ्योऽण्’ (४.१.११२) इति यावत्॥ कुञ्ज। ब्रध्न। शङ्ख। भस्मन्। गण। लोमन्। शठ। शाक। शाकट। शुण्डा। शुभ। विपाश। स्कन्द। स्तम्भ॥

नडादिभ्यः फक्॥ ४.१.९९॥

नड इत्येवमादिभ्यः प्रातिपदिकेभ्यो गोत्रापत्ये फक् प्रत्ययो भवति। नाडायनः। चारायणः। गोत्र इत्येव- नाडिः। शलङ्कु शलङ्कं च (ग०सू० ६३) इत्यत्र पठ्यते। शालङ्कायनः। पैलादिषु (२.४.५९) च शालङ्किशब्दः पठ्यते। शालङ्किः पिता। शालङ्किः पुत्रः। तत् कथम्? गोत्रविशेषे कौशिके फकं स्मरन्ति। इञेवान्यत्र शालङ्किरिति। अथवा पैलादिपाठ एव ज्ञापक इञो भावस्य॥ नड। चर। बक। मुञ्ज। इतिक। इतिश। उपक। लमक। शलङ्कु शलङ्कं च (ग०सू० ६३)। सप्तल। वाजप्य। तिक। अग्निशर्मन् वृषगणे (ग०सू०६४)। प्राण। नर। सायक। दास। मित्र। द्वीप। पिङ्गर। पिङ्गल। किङ्कर। किङ्कल। कातर। कातल। काश्य। काश्यप। काव्य। अज। अमुष्य। कृष्णरणौ ब्राह्मणवासिष्ठयोः (ग०सू० ६५)। अमित्र । लिगु । चित्र। कुमार। क्रोष्टु क्रोष्टञ्च (ग० सू० ६६)। लोह। दुर्ग। स्तम्भ। शिंशपा। अग्र। तृण। शकट। सुमनस्। सुमत। मिमत। ऋक्। जत्। युगन्धर। हंसक। दण्डिन्। हस्तिन्। पञ्चाल। चमसिन्। सुकृत्य। स्थिरक। ब्राह्मण। चटक। बदर। अश्वक। खरप। कामुक। ब्रह्मदत्त। उदुम्बर। शोण। अलोह। दण्ड॥

हरितादिभ्योऽञः॥ ४.१.१००॥

हरितादिर्बिदाद्यन्तर्गणः (४.१.१०४)। हरितादिभ्योऽञन्तेभ्योऽपत्ये फक् प्रत्ययो भवति। इञोऽपवादः। हरितस्यापत्यं हारितायनः। कैन्दासायनः। ननु च गोत्र इति वर्तते। न च गोत्रादपरो गोत्रप्रत्ययो भवति, ‘एको गोत्रे’ (४.१.९३) इति वचनात्? सत्यमेतत्। इह तु गोत्राधिकारेऽपि सामर्थ्याद् यूनि प्रत्ययो विज्ञायते। गोत्राधिकारस्तूत्तरार्थः॥

यञिञोश्च॥ ४.१.१०१॥

यञन्ताद् इञन्तात् च प्रातिपादिकादपत्ये फक् प्रत्ययो भवति। गार्ग्यायणः। वात्स्यायनः। इञन्तात्-दाक्षायणः। प्लाक्षायणः। ‘द्वीपादनुसमुद्रं यञ्’ (४.३.१०), सुतङ्गमादिभ्य इञ् (४.२.८०) इत्यतो न भवति। गोत्रग्रहणेन यञिञौ विशेष्येते। तदन्तात् तु यून्येवायं प्रत्ययः, गोत्राद् यूनीति वचनात्॥

शरद्वच्छुनकदर्भाद् भृगुवत्साग्रायणेषु॥ ४.१.१०२॥

गोत्र इत्येव। शरद्वत् शुनक दर्भ इत्येतेभ्यो गोत्रापत्ये फक् प्रत्ययो भवति यथा-संख्यं भृगुवत्साग्रायणेष्वर्थेष्वपत्यविशेषेषु। शारद्वतायनो भवति भार्गवश्चेत्। शारद्वतोऽन्यः। शौनकायनो भवति वात्स्यश्चेत्। शौनकोऽन्यः। दार्भायणो भवत्याग्रायणश्चेत्। दार्भिरन्यः। शरद्वच्छुनकशब्दौ बिदादी (४.१.१०४)। ताभ्यामञोऽपवादः फक्॥

द्रोणपर्वतजीवन्तादन्यतरस्याम्॥ ४.१.१०३॥

गोत्र इत्येव। द्रोणादिभ्यः प्रातिपदिकेभ्यो गोत्रापत्येऽन्यतरस्यां फक् प्रत्ययो भवति। इञोऽपवादः। द्रौणायनः, द्रौणिः। पार्वतायनः, पार्वतिः। जैवन्तायनः, जैवन्तिः। कथमनन्तरोऽश्वत्थामा द्रौणायन इत्युच्यते? नैवात्र महाभारतद्रोणो गृह्यते। किं तर्हि? अनादिः। तत इदं गोत्रे प्रत्ययविधानम्। इदानीन्तनात् तु श्रुतिसामान्यादध्यारोपेण तथाभिधानं भवति॥

अनृष्यानन्तर्ये बिदादिभ्योऽञ्॥ ४.१.१०४॥

गोत्र इत्येव। बिदादिभ्यो गोत्रापत्येऽञ् प्रत्ययो भवति। बैदः। और्वः। ये पुनरत्रानृषिशब्दाः पुत्रादयः, तेभ्योऽनन्तरापत्य एव भवति। पौत्रः। दौहित्रः। अनृष्यानन्तर्य इत्यस्यायमर्थः-अनृषिभ्योऽनन्तरे भवतीति। यद्ययमर्थः, ऋष्यपत्यनैरन्तर्य प्रतिषेधो न कृतःस्यात्? तत्रेदं न सिध्यति-इन्द्रभूः सप्तमः काश्यपानाम् (तु०-वं० ब्रा० २.२४)। अनन्तरापत्यरूपेणैव ऋष्यणाभिधानं भविष्यति। अवश्यं चैतदेवं विज्ञेयम्। ऋष्यपत्यनैरन्तर्यविषये प्रतिषेधे विज्ञायमाने कौशिको। विश्वामित्र इति दुष्यति। गोत्र इत्येव। बैदिः। ननु च ऋष्यणा भवितव्यम्? बाह्वादिराकृतिगणः, तेनेञेव भवति॥ बिद। उर्व। कश्यप। कुशिक। भरद्वाज। उपमन्यु। किलालप। किदर्भ। विश्वानर। ऋष्टिषेण। ऋतभाग। हर्यश्व। प्रियक। आपस्तम्ब। कूचवार। शरद्वत्। शुनक। धेनु। गोपवन। शिग्रु। बिन्दु। भाजन। अश्वावतान। श्यामाक। श्यमाक। श्यापर्ण। हरित। किन्दास। वह्यस्क। अर्कलूष। वध्योष। विष्णुवृद्ध। प्रतिबोध। रथन्तर। रथीतर। गविष्ठिर। निषाद। मठर। मृद। पुनर्भू। पुत्र। दुहितृ। ननान्दृ। परस्त्री परशुं च (ग०सू० ६७)॥

गर्गादिभ्यो यञ्॥ ४.१.१०५॥

गोत्र इत्येव। गर्गादिभ्यो गोत्रापत्ये यञ् प्रत्ययो भवति। गार्ग्यः। वात्स्यः। मनुशब्दोऽत्र पठ्यते। तत्र कथं मानवी प्रजा? गोत्र इत्युच्यते। अपत्यसामान्ये भविष्यति। कथमनन्तरो रामो जामदग्न्यः, व्यासः पाराशर्य इति? गोत्ररूपाध्यारोपेण भविष्यति। अनन्तरापत्यविवक्षायां तु ऋष्यणैव भवितव्यं जामदग्नः, पाराशर इति॥ गर्ग। वत्स। वाजासे (ग०सू० ६८)। संकृति। अज। व्याघ्रपात्। विदभृत्। प्राचीनयोग। अगस्ति। पुलस्ति। रेभ। अग्निवेश। शङ्ख। शठ। धूम। अवट। चमस। धनंजय। मनस। वृक्ष। विश्वावसु। जनमान। लोहित। शंसित। बभ्रु। मण्डु। मक्षु। अलिगु। शङ्कु। लिगु। गुलु। मन्तु। जिगीषु। मनु। तन्तु। मनायी। भूत। कथक। कष। तण्ड। वतण्ड। कपि। कत। कुरुकत। अनडुह्। कण्व। शकल। गोकक्ष। अगस्त्य। कुण्डिनी। यज्ञवल्क। उभय। जात। विरोहित। वृषगण। रहूगण। शण्डिल। वण। कचुलुक। मुद्गल। मुसल। पराशर। जतूकर्ण। मन्त्रित। संहित। अश्मरथ। शर्कराक्ष। पूतिमाष। स्थूण। अररक। पिङ्गल। कृष्ण। गोलुन्द। उलूक। तितिक्ष। भिषज्। भडित। भण्डित। दल्भ। चिकित। देवहू। इन्द्रहू। एकलू। पिप्पलू। वृदग्नि। जमदग्नि। सुलोभिन्। उकत्थ। कुटीगु ॥

मधुबभ्र्वोर्ब्राह्मणकौशिकयोः॥ ४.१.१०६॥

मधुशब्दाद् बभ्रुशब्दात् च गोत्रापत्ये यञ् प्रत्ययो भवति यथासंख्यं ब्राह्मणे कौशिके वाच्ये। माधव्यो भवति ब्राह्मणश्चेत्। माधव एवान्यः। बाभ्रव्यो भवति कौशिकश्चेत्। बाभ्रव एवान्यः। बभ्रुशब्दो गर्गादिषु पठ्यते, ततः सिद्धे यञि कौशिके नियमार्थं वचनम्। गर्गादिषु पाठोऽप्यन्तर्गणकार्यार्थः। ‘सर्वत्र लोहितादिकतन्तेभ्यः’ (४.१.१८) इति। बाभ्रव्यायणी॥

कपिबोधादाङ्गिरसे॥ ४.१.१०७॥

कपिबोधशब्दाभ्यामाङ्गिरसेऽपत्यविशेषे गोत्रे यञ् प्रत्ययो भवति। काप्यः। बौध्यः। आङ्गिरस इति किम्? कापेयः। बौधिः। कपिशब्दो गर्गादिषु पठ्यते। तस्य नियमार्थं वचनम्। आङ्गिरसे यथा स्यात्। लोहितादिकार्यार्थश्च गणे पाठः। काप्यायनी॥

वतण्डाच्च॥ ४.१.१०८॥

आङ्गिरस इत्येव। वतण्डशब्दादाङ्गिरसेऽपत्यविशेषे गोत्रे यञ् प्रत्ययो भवति। वातण्ड्यः। आङ्गिरस इति किम्? वातण्डः। किमर्थमिदं यावता गर्गादिष्वयं पठ्यते? शिवादिष्वप्ययं पठ्यते। तत्राङ्गिरसे। शिवाद्यणोऽपवादार्थं पुनर्वचनम्। अनाङ्गिरसे तूभयत्र पाठसामर्थ्यात् प्रत्ययद्वयमपि भवति। वातण्ड्यः। वातण्डः॥

लुक् स्त्रियाम्॥ ४.१.१०९॥

आङ्गिरस इत्येव। वतण्डशब्दादाङ्गिरस्यां स्त्रियां यञ्प्रत्ययस्य लुग् भवति। लुकि कृते शार्ङ्गरवादिपाठाद् ङीन् भवति। वतण्डी। आङ्गिरस इति किम्? वातण्ड्यायनी। शिवाद्यणि तु वातण्डी॥

अश्वादिभ्यः फञ्॥ ४.१.११०॥

आङ्गिरस इति निवृत्तम्। अश्वादिभ्यो गोत्रापत्ये फञ् प्रत्ययो भवति। आश्वायनः। आश्मायनः। ये त्वत्र प्रत्ययान्ताः पठ्यन्ते, तेभ्यः सामर्थ्याद् यूनि प्रत्ययो विज्ञायते॥ अश्व। अश्मन्। शङ्ख। बिद। पुट। रोहिण। खर्जूर। खर्जूल। पिञ्जूर। भडिल। भण्डिल। भडित। भण्डित। भण्डिक। प्रहृत। रामोद। क्षत्र। ग्रीवा। काश। गोलाङ्क्य। अर्क । स्वन। ध्वन। पाद। चक्र। कुल। पवित्र। गोमिन्। श्याम। धूम। धूम्र। वाग्मिन्। विश्वानर। कुट। वेश। शप आत्रेये (ग०सू० ६९)। नत्त। तड। नड। ग्रीष्म। अर्ह। विशम्य। विशाला। गिरि। चपल। चुनम। दासक। वैल्य। धर्म। आनडुह्य। पुंसिजात। अर्जुन। शूद्रक। सुमनस्। दुर्मनस्। क्षान्त। प्राच्य। कित। काण। चुम्प। श्रविष्ठा। वीक्ष्य। पविन्दा। आत्रेय भारद्वाजे (ग०सू० ७०)। कुत्स। आतव। कितव। शिव। खदिर। भारद्वाज आत्रेये (ग०सू० ७१)॥

भर्गात् त्रैगर्ते॥ ४.१.१११॥

भर्गशब्दादपत्ये विशेषे त्रैगर्ते गोत्रे फञ् प्रत्ययो भवति। भार्गायणो भवति त्रैगर्तश्चेत्। भार्गिरन्यः॥

शिवादिभ्योऽण्॥ ४.१.११२॥

गोत्र इति निवृत्तम्। अतः प्रभृति सामान्येन प्रत्यया विज्ञायन्ते। शिवादिभ्योऽपत्येऽण् प्रत्ययो भवति। यथायथमिञादीनामपवादः। शैवः। प्रौष्ठः। तक्षन्शब्दोऽत्र पठ्यते कारिलक्षणमुदीचामिञं (४.१.१५३) बाधितुम्। ण्यप्रत्ययस्य (४.१.१५२) तु बाधो नेष्यते। ताक्ष्णः। ताक्षण्यः। गङ्गाशब्दः पठ्यते तिकादिफिञा शुभ्रादिढका च समावेशार्थम्। तेन त्रैरूप्यं भवति। गाङ्गः, गाङ्गायनिः, गाङ्गेयः। विपाशशब्दः पठ्यते कुञ्जादिलक्षणेन च्फञा समावेशार्थम्। वैपाशः, वैपाशायन्यः॥ शिव। प्रौष्ठ। प्रौष्ठिक। चण्ड। जम्भ। मुनि। सन्धि। भूरि। कुठार। अनभिम्लान। ककुत्स्थ। कहोड। लेख। रोध। खञ्जन। कोहड। पिष्ट। हेहय। खञ्जार। खञ्जाल। सुरोहिका। पर्ण। कहूष। परिल। वतण्ड। तृण। कर्ण। क्षीरह्रद। जलह्रद परिषिक। जटिलिक। गोफिलिक। बधिरिका। मञ्जीरक। वृष्णिक। रेख। आलेखन। विश्रवण। रवण। वर्तनाक्ष। पिटक। पिटाक। तृक्षाक। नभाक। ऊर्णनाभ। जरत्कारु। उत्क्षिपा। रोहितिक। आर्यश्वेत। सुपिष्ट। खर्जूरकर्ण। मसूरकर्ण। तूणकर्ण। मयूरकर्ण। खडरक। तक्षन्। ऋष्टिषेण। गङ्गा। विपाश। यस्क। लह्य। द्रुघ। अयःस्थूण। भलन्दन। विरूपाक्ष। भूमि। इला। सपत्नी। द्व्यचो नद्याः (ग०सू० ७२)। त्रिवेणी त्रिवणं च (ग०सू० ७३)॥

अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः॥ ४.१.११३॥

‘वृद्धिर्यस्याचामादिस्तद् वृद्धम्’ (१.१.७३)। अवृद्धाभ्य इति शब्दधर्मः, नदी-मानुषीभ्य इत्यर्थधर्मः, तेनाभेदात् प्रकृतयो निर्दिश्यन्ते। तन्नामिकाभ्य इति सर्वनाम्ना प्रत्ययप्रकृतेः परामर्शः। अवृद्धानि यानि नदीनां मानुषीणां च नामधेयानि, तेभ्योऽपत्येऽण् प्रत्ययो भवति। ढकोऽपवादः। यमुनाया अपत्यं यामुनः। इरावत्या अपत्यम् ऐरावतः। वैतस्तः। नार्मदः। मानुषीभ्यः खल्वपि- शिक्षिताया अपत्यं शैक्षितः। चिन्तिताया अपत्यं चैन्तितः। अवृद्धाभ्य इति किम्? चान्द्रभागाया अपत्यं चान्द्रभागेयः। वासवदत्तेयः। नदीमानुषीभ्य इति किम्? सौपर्णेयः। वैनतेयः। तन्नामिकाभ्य इति किम्? शोभनायाः शौभनेयः॥

ऋष्यन्धकवृष्णिकुरुभ्यश्च॥ ४.१.११४॥

ऋषयः प्रसिद्धा वसिष्ठादयः। अन्धका वृष्णयः कुरव इति वंशाख्याः। ऋष्यादिकुर्वन्तेभ्यः प्रातिपदिकेभ्योऽपत्येऽण् प्रत्ययो भवति। इञोऽपवादः। अत्र्यादिभ्यस्तु परत्वाड् ढगादिभिरेव भवितव्यम्। ऋषिभ्यस्तावत्-वासिष्ठः। वैश्वामित्रः। अन्धकेभ्यः-श्वाफल्कः। रान्धसः। वृष्णिभ्यः-वासुदेवः। आनिरुद्धः। कुरुभ्यः-नाकुलः। साहदेवः। कथं पुनर्नित्यानां शब्दानामन्धकादिवंशसमाश्रयणेनान्वाख्यानं युज्यते? केचिदाहुः- कथमपि काकतालीयन्यायेन कुर्वादिवंशेष्वसंकरेणैव नकुलसहदेवादयः शब्दास्सुबहवः संकलिताः, तानुपादाय पाणिनिना स्मृतिरुपनिबद्धेति। अथवान्धकवृष्णिकुरुवंशा अपि नित्या एव, तेषु ये शब्दाः प्रयुज्यन्ते नकुलसहदेवादयः, तत्रेदं प्रत्ययविधानमित्यदोषः॥

मातुरुत् संख्यासंभद्रपूर्वायाः॥ ४.१.११५॥

मातृशब्दात् संख्यापूर्वात् संपूर्वाद् भद्रपूर्वात् चापत्येऽण् प्रत्ययो भवति, उकारश्चान्तादेशः। द्वयोर्मात्रोरपत्यं द्वैमातुरः। षाण्मातुरः। सांमातुरः। भाद्रमातुरः। उकारादेशार्थं वचनम्, प्रत्ययः पुनरुत्सर्गेणैव सिद्धः। स्त्रीलिङ्गनिर्देशोऽर्थापेक्षः, तेन धान्यमातुर्ग्रहणं न भवति। संख्यासंभद्रपूर्वाया इति किम्? सौमात्रः॥

कन्यायाः कनीन च ॥ ४.१.११६॥

कन्याशब्दादपत्येऽण् प्रत्ययो भवति। ढकोऽपवादः। तत्सन्नियोगेन कनीनशब्द आदेशो भवति। कन्याया अपत्यं कानीनः कर्णः। कानीनो व्यासः॥

विकर्णशुङ्गच्छगलाद् वत्सभरद्वाजात्रिषु ॥ ४.१.११७॥

विकर्णशुङ्गच्छगलशब्देभ्यो यथासंख्यं वत्सभरद्वाजात्रिष्वपत्यविशेषेष्वण् प्रत्ययो भवति। वैकर्णो भवति वात्स्यश्चेत्। वैकर्णिरन्यः। शौङ्गो भवति भारद्वाजश्चेत्। शौङ्गिरन्यः। छागलो भवत्यात्रेयश्चेत्। छागलिरन्यः। शुङ्गाशब्दं स्त्रीलिङ्गमन्ये पठन्ति, ततो ढकं प्रत्युदाहरिन्त शौङ्गेय इति। द्वयमपि चैतत् प्रमाणमुभयथा सूत्रप्रणयनात्॥

पीलाया वा ॥ ४.१.११८॥

तन्नामिकाणो बाधके ‘द्व्यचः’ (४.१.१२१) इति ढकि प्राप्तेऽण् प्रत्ययः पक्षे विधीयते। पीलाया अपत्ये वाण् प्रत्ययो भवति। पीलाया अपत्यं पैलः, पैलेयः॥

ढक् च मण्डूकात् ॥ ४.१.११९॥

मण्डूकशब्दादपत्ये ढक् प्रत्ययो भवति। चकारादण् च वा। तेन त्रैरूप्यं भवति। माण्डूकेयः, माण्डूकः, माण्डूकिः॥

स्त्रीभ्यो ढक् ॥ ४.१.१२०॥

इह स्त्रीग्रहणेन टाबादिप्रत्ययान्ताः शब्दा गृह्यन्ते। स्त्रीभ्योऽपत्ये ढक् प्रत्ययो भवति। सौपर्णेयः। वैनतेयः। स्त्रीप्रत्ययविज्ञापनादसत्यर्थग्रहण इह न भवति-इडबिडोऽपत्यं दरदोऽपत्यम्, ऐडबिडः, दारद इति॥ वडवाया वृषे वाच्ये॥ वाडवेयो वृषः स्मृतः॥ अपत्ये प्राप्तस्ततोऽपकृष्य विधीयते, तेनापत्ये वाडव इति भवति॥ अण् क्रुञ्चाकोकिलात् स्मृतः॥ क्रुञ्चाया अपत्यं क्रौञ्चः। कौकिलः॥

द्व्यचः ॥ ४.१.१२१॥

स्त्रीभ्य इत्येव। द्व्यचः स्त्रीप्रत्ययान्तादपत्ये ढक् प्रत्ययो भवति। तन्नामिकाणोऽपवादः॥ दत्ताया अपत्यं दात्तेयः। गौपेयः। द्व्यच इति किम् ? यामुनः॥

इतश्चानिञः ॥ ४.१.१२२॥

स्त्रीग्रहणं निवृत्तम्। चकारो द्व्यच इत्यस्यानुकर्षणार्थः। इकारान्तात् प्रातिपदिकादनिञन्तादपत्ये ढक् प्रत्ययो भवति। आत्रेयः। नैधेयः। इत इति किम् ? दाक्षिः। प्लाक्षिः। अनिञ इति किम्? दाक्षायणः। प्लाक्षायणः। द्व्यच इत्येव-मरीचेरपत्यं मारीचः॥

शुभ्रादिभ्यश्च ॥ ४.१.१२३॥

शुभ्र इत्येवमादिभ्यः प्रातिपदिकेभ्यो ढक् प्रत्ययो भवति। यथायोगमिञादीनामपवादः। शौभे्रयः। वैष्टपुरेयः। चकारोऽनुक्तसमुच्चयार्थ आकृतिगणतामस्य बोधयति। तेन गाङ्गेयः पाण्डवेय इत्येवमादि सिद्धं भवति॥ शुभ्र। विष्टपुर। ब्रह्मकृत। शतद्वार। शतावर। शलाका। शालाचल। शलाकाभ्रू। लेखाभ्रू। विमातृ। विधवा। किंकसा। रोहिणी। रुक्मिणी। दिशा। शालूक। अजबस्ति। शकन्धि। लक्षणश्यामयोर्वासिष्ठे (ग०सू० ७४)। गोधा। कृकलास। अणीव। प्रवाहण। भरत। भारम। मृकण्डु। मघष्टु। मकष्टु। कर्पूर। इतर। अन्यतर। आलीढ। सुदत्त। सुचक्षस्। सुनामन्। कद्रु। तुद। अकशाप। कुमारिका। किशोरिका। कुवेणिका। जिह्माशिन्। परिधि। वायुदत्त। ककल। खट्वा। अम्बिका। अशोका। शुद्धपिङ्गला। खडोन्मत्ता। अनुदृष्टि। जरतिन्। बलिवर्दिन्। विग्रज। बीज। श्वन्। अश्मन्। अश्व। अजिर॥

विकर्णकुषीतकात् काश्यपे ॥ ४.१.१२४॥

विकर्णशब्दात् कुषीतकशब्दात् च काश्यपेऽपत्यविशेषे ढक् प्रत्ययो भवति। वैकर्णेयः। कौषीतकेयः। काश्यप इति किम् ? वैकर्णिः। कौषीतकिः॥

भ्रुवो वुक् च॥ ४.१.१२५॥

भ्रूशब्दादपत्ये ढक् प्रत्ययो भवति, तत्सन्नियोगेन च वुगागमः। भ्रौवेयः॥

कल्याण्यादीनामिनङ्॥ ४.१.१२६॥

कल्याणी इत्येवमादीनां शब्दानामपत्ये ढक् प्रत्ययो भवति, तत्सन्नियोगेन चेनङादेशः। स्त्रीप्रत्ययान्तानामादेशार्थं ग्रहणम्, प्रत्ययस्य सिद्धत्वाद्, अन्येषामुभयार्थम्। काल्याणिनेयः। सौभागिनेयः। दौर्भागिनेयः। ‘हृद्भगसिन्ध्वन्ते०’ (७.३.१९) इत्युभयपदवृद्धिः॥ कल्याणी। सुभगा। दुर्भगा। बन्धकी। अनुदृष्टि। अनुसृष्टि। जरती। बलीवर्दी। ज्येष्ठा। कनिष्ठा। मध्यमा। परस्त्री॥

कुलटाया वा॥ ४.१.१२७॥

कुलान्यटतीति, कुलटा। पररूपं निपातनात्। कुलटाया अपत्ये ढक् प्रत्ययो भवति, तत्सन्नियोगेन च वेनङादेशो भवति। आदेशार्थं वचनम् प्रत्ययश्च पूर्वेणैव सिद्धः। कौलटिनेयः, कौलटेयः। या तु कुलान्यटन्ती शीलं भिनत्ति, ततः ‘क्षुद्राभ्यो वा’ (४.१.१३१) इति परत्वाड् ढ्रका भवितव्यम्। कौलटेरः॥

चटकाया ऐरक्॥ ४.१.१२८॥

चटकाया अपत्य ऐरक् प्रत्ययो भवति। चाटकैरः॥ चटकाच्चेति वक्तव्यम्॥ चटकस्यापत्यं चाटकैरः॥ स्त्रियामपत्ये लुग् वक्तव्यः॥ चटकाया अपत्यं स्त्री चटका॥

गोधाया ढ्रक्॥ ४.१.१२९॥

गोधाया अपत्ये ढ्रक् प्रत्ययो भवति। गौधेरः। शुभ्रादिष्वयं पठ्यते। तेन गौधेयोऽपि भवति॥

आरगुदीचाम्॥ ४.१.१३०॥

गोधाया अपत्य उदीचामाचार्याणां मतेनारक् प्रत्ययो भवति। गौधारः। आचार्यग्रहणं पूजार्थम्, वचनसामर्थ्यादेव पूर्वेण समावेशो भविष्यति। आरग्वचनमनर्थकम्, रका सिद्धत्वात्? ज्ञापकं त्वयमन्येभ्योऽपि भवतीति। जाडारः। पाण्डारः॥

क्षुद्राभ्यो वा ॥ ४.१.१३१॥

ढ्रगनुवर्तते, न आरक्। क्षुद्रा अङ्गहीनाः शीलहीनाश्च। अर्थधर्मेण तदभिधायिन्यः स्त्रीलिङ्गाः प्रकृतयो निर्दिश्यन्ते। क्षुद्राभ्यो वापत्ये ढ्रक् प्रत्ययो भवति। ढकोऽपवादः। काणेरः, काणेयः। दासेरः, दासेयः॥

पितृष्वसुश्छण् ॥ ४.१.१३२॥

पितृष्वसृशब्दादपत्ये छण् प्रत्ययो भवति। अणोऽपवादः। पैतृष्वस्रीयः॥

ढकि लोपः ॥ ४.१.१३३॥

पितृष्वसुरपत्यप्रत्यये ढकि परतो लोपो भवति। पैतृष्वसेयः। कथं पुनरिह ढक् प्रत्ययः? एतदेव ज्ञापकं ढको भावस्य॥

मातृष्वसुश्च ॥ ४.१.१३४॥

पितृष्वसुरित्येतदपेक्षते, पितृष्वसुर्यदुक्तं तद् मातृष्वसुरपि भवति। छण्प्रत्ययो ढकि लोपश्च। मातृष्वस्रीयः, मातृष्वसेयः॥

चतुष्पाद्भ्यो ढञ् ॥ ४.१.१३५॥

चतुष्पादभिधायिनीभ्यः प्रकृतिभ्योऽपत्ये ढञ् प्रत्ययो भवति। अणादीनामपवादः। कामण्डलेयः। शौन्तिबाहेयः। जाम्बेयः॥

गृष्ट्यादिभ्यश्च ॥ ४.१.१३६॥

गृष्ट्यादिभ्यः शब्देभ्योऽपत्ये ढञ् प्रत्ययो भवति। अणादीनामपवादः। गार्ष्टेयः। हार्ष्टेयः। गृष्टिशब्दो यश्चतुष्पाद्वचनः, ततः पूर्वेणैव सिद्धः। अचतुष्पादर्थं वचनम्॥ गृष्टि। हृष्टि। हलि। बलि। विश्रि। कुद्रि। अजबस्ति। मित्रयु॥

राजश्वशुराद् यत् ॥ ४.१.१३७॥

राजन्श्वशुरशब्दाभ्यामपत्ये यत् प्रत्ययो भवति। यथाक्रममणिञोरपवादः। राजन्यः। श्वशुर्यः॥ राज्ञोऽपत्ये जातिग्रहणम्॥ राजन्यो भवति क्षत्रियजातिश्चेत्। राजनोऽन्यः॥

क्षत्राद् घः ॥ ४.१.१३८॥

क्षत्रशब्दादपत्ये घः प्रत्ययो भवति। क्षत्रियः। अयमपि जातिशब्द एव। क्षात्रिरन्यः॥

कुलात् खः ॥ ४.१.१३९॥

उत्तरसूत्रे पूर्वपदप्रतिषेधादिह तदन्तः केवलश्च दृश्यते। कुलशब्दान्तात् प्रातिपदिकात् केवलाच्चापत्ये खः प्रत्ययो भवति। आढ्यकुलीनः। श्रोत्रियकुलीनः। कुलीनः॥

अपूर्वपदादन्यतरस्यां यड्ढकञौ ॥ ४.१.१४०॥

कुलादित्येव। अविद्यमानं पूर्वपदं यस्य तदपूर्वपदम्। समाससंबन्धिपूर्वपदस्याभावेन कुलशब्दो विशेष्यते। अपूर्वपदात् कुलशब्दादन्यतरस्यां यत् ढकञ् इत्येतौ प्रत्ययौ भवतः। ताभ्यां मुक्ते खोऽपि भवति। कुल्यः, कौलेयकः, कुलीनः। पदग्रहणं किम् ? बहुच्पूर्वादपि यथा स्यात्। बहुकुल्यः, बाहुकुलेयकः, बहुकुलीनः॥

महाकुलादञ्खञौ ॥ ४.१.१४१॥

अन्यतरस्यामित्यनुवर्तते। महाकुलशब्दाद् अञ्खञौ प्रत्ययौ भवतः। पक्षे खः। माहाकुलः। माहाकुलीनः। महाकुलीनः॥

दुष्कुलाड् ढक् ॥ ४.१.१४२॥

दुष्कुलशब्दादपत्ये ढक् प्रत्ययो भवति। अन्यतरस्यामित्यनुवृत्तेः खश्च। दौष्कुलेयः। दुष्कुलीनः॥

स्वसुश्छः ॥ ४.१.१४३॥

स्वसृशब्दादपत्ये छः प्रत्ययो भवति। अणोऽपवादः। स्वसुरपत्यं स्वस्रीयः॥

भ्रातुर्व्यच्च॥ ४.१.१४४॥

भ्रातृशब्दादपत्ये व्यत् प्रत्ययो भवति। चकाराच्छश्च। अणोऽपवादः। भ्रा॒तृ॒व्यः॑। भ्रात्रीयः। तकारः स्वरार्थः॥

व्यन् सपत्ने॥ ४.१.१४५॥

सपत्नशब्दः शत्रुपर्यायः शब्दान्तरमव्युत्पन्नमेव। सपत्नीशब्दादपरेऽकारमिवार्थे निपातयन्ति। सपत्नीव सपत्नः। भ्रातृशब्दाद् व्यन् प्रत्ययो भवति, समुदायेन चेदमित्रः सपत्न उच्यते। अपत्यार्थोऽत्र नास्त्येव। पा॒प्मना॒ भ्रातृ॑व्येण (तै० सं० २.२.१.२)। भ्रातृव्यः कण्टकः॥

रेवत्यादिभ्यष्ठक्॥ ४.१.१४६॥

रेवतीत्येवमादिभ्योऽपत्ये ठक् प्रत्ययो भवति। यथायोगं ढगादीनामपवादः। रैवतिकः। आश्वपालिकः॥ रेवती। अश्वपाली। मणिपाली। द्वारपाली। वृकवञ्चिन्। वृकग्राह। कर्णग्राह। दण्डग्राह। कुक्कुटाक्ष॥

गोत्रस्त्रियाः कुत्सने ण च॥ ४.१.१४७॥

‘अपत्यं पौत्रप्रभृति गोत्रम्’ (४.१.१६२) गृह्यते। गोत्रं या स्त्री तदभिधायिनः शब्दादपत्ये णः प्रत्ययो भवति, चकारात् ठक् च, कुत्सने गम्यमाने। पितुरसंविज्ञाने मात्रा व्यपदेशोऽपत्यस्य कुत्सा। गार्ग्या अपत्यं गार्गो जाल्मः। गार्गिकः। ग्लुचुकायन्या अपत्यं ग्लौचुकायनः। ग्लौचुकायनिकः। ‘गोत्राद् यूनि०’ (४.१.९४) इति यूनि प्रत्ययो भवति। गोत्रमिति किम्? कारिकेयो जाल्मः। स्त्रिया इति किम्? औपगविर्जाल्मः। कुत्सन इति किम्? गार्गेयो माणवकः॥

वृद्धाट् ठक् सौवीरेषु बहुलम्॥ ४.१.१४८॥

कुत्सन इत्येव। सौवीरेष्विति प्रकृतिविशेषणम्। वृद्धात् सौवीरगोत्रादपत्ये बहुलं ठक् प्रत्ययो भवति कुत्सने गम्यमाने। भागवित्तेर्भागवित्तिकः। तार्णबिन्दवस्य तार्णबिन्दविकः। पक्षे यथाप्राप्तं फक्। भागवित्तायनः। पक्षे तार्णबिन्दविः। अकशापः शुभ्रादिः- आकशापेयः। तस्यापत्यम् आकशापेयिकः। पक्ष आकशापेयिः।

भागपूर्वपदो वित्तिर्द्वितीयस्तार्णबिन्दवः।

तृतीयस्त्वाकशापेयो गोत्राट् ठग् बहुलं ततः॥

वृद्धग्रहणं स्त्रीनिवृत्त्यर्थम्। सौवीरेष्विति किम्? औपगविर्जाल्मः। कुत्सन इत्येव-भागवित्तायनो माणवकः। बहुलग्रहणमुपाधिवैचित्र्यार्थम्। गोत्रस्त्रिया इत्यारभ्य चत्वारो योगास्तेषु प्रथमः कुत्सन एव, अन्त्यः सौवीरगोत्र एव, मध्यमौ द्वयोरपि। तदेतद् बहुलग्रहणाल् लभ्यते॥

फेश्छ च॥ ४.१.१४९॥

कुत्सन इत्येव, सौवीरेष्विति च। फेरिति फिञो ग्रहणं न फिनः, वृद्धाधिकारात्। फिञन्तात् प्रातिपदिकात् सौवीरगोत्रादपत्ये छः प्रत्ययो भवति, चकाराट् ठक्, कुत्सने गम्यमाने। यमुन्दस्यापत्यम्, ‘तिकादिभ्यः फिञ्’ (४.१.१५४)। तस्यापत्यं यामुन्दायनीयः, यामुन्दायनिकः। कुत्सन इत्येव-यामुन्दायनिः। फिञन्तादौत्सर्गिकस्याण आगतस्य ‘ण्यक्षत्रियार्षञित०’(२.४.५८) इति लुक्। सौवीरेष्वित्येव- तैकायनिः।

यमुन्दश्च सुयामा च वार्ष्यायणिः फिञः स्मृताः।

सौवीरेषु च कुत्सायां द्वौ योगौ शब्दवित् स्मरेत्॥

फाण्टाहृतिमिमताभ्यां णफिञौ॥ ४.१.१५०॥

सौवीरेष्वित्येव। कुत्सन इति निवृत्तम्। फाण्टाहृतिमिमतशब्दाभ्यां सौवीरविषयाभ्यामपत्ये णफिञौ प्रत्ययौ भवतः। फकोऽपवादः। अल्पाच्तरस्यापूर्वनिपातो लक्षणव्यभिचारचिह्नम्, तेन यथासंख्यमिह न भवतीति। फाण्टाहृतः, फाण्टाहृतायनिः। मैमतः, मैमतायनिः। सौवीरेष्वित्येव-फाण्टाहृतायनः। मैमतायनः। फाण्टाहृतेः ‘यञिञोश्च’ (४.१.१०१) इति फक्। मिमतशब्दोऽपि नडादिषु पठ्यते॥

कुर्वादिभ्यो ण्यः॥ ४.१.१५१॥

सौवीरेषु बहुलमिति निवृत्तम्। कुरु इत्येवमादिभ्यः शब्देभ्योऽपत्ये ण्यः प्रत्ययो भवति। कौरव्यः। गार्ग्यः। ‘कुरुनादिभ्यो ण्यः’ (४.१.१७२) इति कुरुशब्दादपरो ण्यप्रत्ययो भविष्यति। स तु क्षत्रियात् तद्राजसंज्ञकः तस्य बहुषु लुका भवितव्यम्, अयं तु श्रूयत एव। कौरव्याः। कौरव्यशब्दस्य क्षत्रियवचनस्य तिकादिषु पाठात् फिञपि भवति। कौरव्यायणिः। रथकारशब्दोऽत्र पठ्यते, स जातिवचनः। त्रैवर्णिकेभ्यः किंचिन्न्यूना रथकारजातिः। कारिणस्तु रथकारशब्दादुत्तरसूत्रेणैव ण्यः सिद्धः। केशिनीशब्दः पठ्यते, तस्य कैशिन्यः। पुंवद्भावो न भवति, स्त्रीप्रत्ययनिर्देशसामर्थ्यात्। ‘वेनाच्छन्दसि’ (ग०सू० ७६) इति पठ्यते। कथं भाषायां वैन्यो राजेति? छान्दस एवायं प्रमादात् कविभिः प्रयुक्तः। वामरथशब्दः पठ्यते, तस्य कण्वादिवत् कार्यमिष्यते, स्वरं वर्जयित्वा लुगादिकमतिदिश्यते। बहुषु वामरथाः। स्त्री वामरथी। वामरथ्यायनी। युवा वामरथ्यायनः। वामरथ्यस्य छात्रा वामरथाः। वामरथानि सङ्घाङ्कलक्षणानि। स्वरस्तु ण्यप्रत्ययस्यैव भवति, नातिदेशिकमाद्युदात्तत्वम्॥ कुरु। गर्ग। मङ्गुष। अजमारक। रथकार। वावदूक। सम्राजः क्षत्रिये (ग०सू० ७५)। कवि। मति। वाक्। पितृमत्। इन्द्रजालि। दामोष्णीषि। गणकारि। कैशोरि। कापिञ्जलादि। कुट। शलाका। मुर। एरक। अभ्र। दर्भ। केशिनी। वेनाच्छन्दसि (ग०सू० ७६)। शूर्पणाय। श्यावनाय। श्यावरथ। श्यावपुत्र। सत्यंकार। वडभीकार। शङ्कु। शाक। पथिकारिन्। मूढ। शकन्धु। कर्तृ। हर्तृ। शाकिन्। इनपिण्डी। वामरथस्य कण्वादिवत् स्वरवर्जम् (ग० सू० ७७)॥

सेनान्तलक्षणकारिभ्यश्च॥ ४.१.१५२॥

सेनान्तात् प्रातिपदिकाल् लक्षणशब्दात् कारिवचनेभ्यश्चापत्ये ण्यः प्रत्ययो भवति। कारिशब्दः कारूणां तन्तुवायादीनां वाचकः। कारिषेण्यः। हारिषेण्यः। लाक्षण्यः। कारिभ्यः-तान्तुवाय्यः। कौम्भकार्यः। नापित्यः॥

उदीचामिञ्॥ ४.१.१५३॥

ण्ये प्राप्त इञपरो विधीयते। सेनान्तलक्षणकारिभ्योऽपत्य इञ् प्रत्ययो भवत्युदीचां मतेन। कारिषेणिः। हारिषेणिः। लाक्षणिः। तान्तुवायिः। कौम्भकारिः। वचनसामर्थ्यादेव प्रत्ययसमावेशे लब्ध आचार्यग्रहणं वैचित्र्यार्थम्। तक्षन्शब्दः शिवादिः, तेनाणायमिञ् बाध्यते, न तु ण्यः। तक्ष्णोऽपत्यं ताक्ष्णः। ताक्षण्यः॥

तिकादिभ्यः फिञ्॥ ४.१.१५४॥

तिक इत्येवमादिभ्यः शब्देभ्योऽपत्ये फिञ् प्रत्ययो भवति। तैकायनिः। कैतवायनिः। वृषशब्दोऽत्र पठ्यते, तस्य प्रत्ययसन्नियोगेन यकारान्तत्वमिष्यते। वार्ष्यायणिः। कौरव्यशब्दः पठ्यते, स च क्षत्रियवचनः, औरसशब्देन क्षत्रियप्रत्ययान्तेन साहचर्यात्। यस्तु ‘कुर्वादिभ्यो ण्यः’ (४.१.१५१), तदन्ताद् इञैव भवितव्यम्। तथा च ‘ण्यक्षत्रियार्षञितः०’ (२.४.५८) इत्यत्रोदाहृतं कौरव्यः पिता, कौरव्यः पुत्र इति॥ तिक। कितव। संज्ञा। बाल। शिखा। उरस्। शाट्य। सैन्धव। यमुन्द। रूप्य। ग्राम्य। नील। अमित्र। गौकक्ष्य। कुरु। देवरथ। तैतिल। औरस। कौरव्य। भौरिकि। भौलिकि। चौपयत। चैतयत। चैटयत। शैकयत। क्षैतयत। ध्वाजवत। चन्द्रमस्। शुभ। गङ्गा। वरेण्य। सुयामन्। आरद। वह्यका। खल्या। वृष। लोमका। उदन्य। यज्ञ॥

कौसल्यकार्मार्याभ्यां च॥ ४.१.१५५॥

कौसल्यकार्मार्यशब्दाभ्यामपत्ये फिञ् प्रत्ययो भवति। इञोऽपवादः। कौसल्यायनिः। कार्मार्यायणिः। परमप्रकृतेरेवायं प्रत्यय इष्यते-कोसलस्यापत्यं कर्मारस्यापत्यमिति। प्रत्ययसन्नियोगेन तु प्रकृतिरूपं निपात्यते। तथा च स्मृत्यन्तरम्-दगुकोसलकर्मारच्छागवृषाणां युट् वादिष्टस्येति। दागव्यायनिः। कौसल्यायनिः। कार्मार्यायणिः। छाग्यायनिः। वार्ष्यायणिः॥

अणो द्व्यचः॥ ४.१.१५६॥

अणन्ताद् द्व्यचः प्रातिपदिकादपत्ये फिञ् प्रत्ययो भवति। इञोऽपवादः। कार्त्रायणिः। हार्त्रायणिः। अण इति किम्? दाक्षायणः। द्व्यच इति किम्? औपगविः॥ त्यदादीनां वा फिञ् वक्तव्यः॥ त्यादायनिः, त्यादः। यादायनिः, यादः। तादायनिः, तादः। अणत्र प्राप्तः॥

उदीचां वृद्धादगोत्रात्॥ ४.१.१५७॥

वृद्धं यच्छब्दरूपमगोत्रम्, तस्मादपत्ये फिञ् प्रत्ययो भवत्युदीचामाचार्याणां मतेन। आम्रगुप्तायनिः। ग्रामरक्षायणिः। कारिशब्दादपि वृद्धादगोत्रात् परत्वादनेनैव भवितव्यम्। नापितायनिः। उदीचामिति किम्? आम्रगुप्तिः। वृद्धादिति किम्? याज्ञदत्तिः। अगोत्रादिति किम्? औपगविः॥

वाकिनादीनां कुक् च॥ ४.१.१५८॥

वाकिन इत्येवमादिभ्यः शब्देभ्योऽपत्ये फिञ् प्रत्ययो भवति, तत्सन्नियोगेन चैषां कुगागमः। यदिह वृद्धमगोत्रं शब्दरूपं तस्यागमार्थमेव ग्रहणम्, अन्येषामुभयार्थम्। वाकिनकायनिः। गारेधकायनिः। इञाद्यपवादो योगः। उदीचामित्यधिकारात् पक्षे तेऽपि भवन्ति। वाकिनिः। गारेधिः॥ वाकिन। गारेध। कार्कट्य। काक। लङ्का। चर्मिवर्मिणोर्नलोपश्च (ग०सू० ७८)॥

पुत्रान्तादन्यतरस्याम्॥ ४.१.१५९॥

उदीचां वृद्धादिति वर्तते। पुत्रान्तमगोत्रमिति पूर्वेणैव प्रत्ययः सिद्धः, तस्मिन्ननेन कुगागमोऽन्यतरस्यां विधीयते। पुत्रान्तात् प्रातिपदिकाद् यः फिञ् प्रत्ययः, तस्मिन् परभूतेऽन्यतरस्यां कुगागमो भवति पुत्रान्तस्य। तेन त्रैरूप्यं संपद्यते। गार्गीपुत्रकायणिः, गार्गीपुत्रायणिः, गार्गीपुत्रिः। वात्सीपुत्रकायणिः, वात्सीपुत्रायणिः, वात्सीपुत्रिः॥

प्राचामवृद्धात् फिन् बहुलम्॥ ४.१.१६०॥

अवृद्धाच्छब्दरूपादपत्ये फिन् प्रत्ययो भवति बहुलं प्राचां मतेन। ग्लुचुकायनिः। अहिचुम्बकायनिः। प्राचामिति किम्? ग्लौचुकिः। अवृद्धादिति किम्? राजदन्तिः। उदीचां प्राचामन्यतरस्यां बहुलमिति सर्व एते विकल्पार्थास्तेषामेकेनैव सिध्यति। तत्राचार्यग्रहणं पूजार्थम्। बहुलग्रहणं वैचित्र्यार्थम्। क्वचिन्न भवत्येव-दाक्षिः। प्लाक्षिः॥

मनोर्जातावञ्यतौ षुक् च॥ ४.१.१६१॥

मनुशब्दादञ् यत् इत्येतौ प्रत्ययौ भवतः, तत्सन्नियोगेन षुगागमः, समुदायेन चेज् जातिर्गम्यते। मानुषः, मनुष्यः। जातिशब्दावेतौ। अपत्यार्थोऽत्र नास्त्येव। तथा च मानुषा इति बहुषु न लुग् भवति। अपत्यविवक्षायां त्वणैव भवितव्यम्। मानवी प्रजा।

अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः।

नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः॥

अपत्यं पौत्रप्रभृति गोत्रम् ॥ ४.१.१६२॥

पौत्रप्रभृति यदपत्यं तद् गोत्रसंज्ञं भवति। संबन्धिशब्दत्वादपत्यशब्दस्य यस्य यदपत्यं तदपेक्षया पौत्रप्रभृतेर्गोत्रसंज्ञा विधीयते। गर्गस्यापत्यं पौत्रप्रभृति गार्ग्यः। वात्स्यः। अपत्यमिति व्यपदेशाय पौत्रप्रभृतेः। पौत्रप्रभृतीति किम् ? अन्यस्य मा भूत्-कौञ्जिः। गार्गिः। गोत्रप्रदेशाः- ‘एको गोत्रे’ (४.१.९३) इत्येवमादयः॥

जीवति तु वंश्ये युवा ॥ ४.१.१६३॥

अभिजनप्रबन्धो वंशः। तत्र भवो वंश्यः पित्रादिः। तस्मिन् जीवति सति पौत्रप्रभृत्यपत्यं युवसंज्ञं भवति। पौत्रप्रभृतीति च न सामानाधिकरण्येनापत्यं विशेषयति। किं तर्हि? षष्ठ्या विपरिणम्यते पौत्रप्रभृतेर्यदपत्यमिति। तेन चतुर्थादारभ्य युवसंज्ञा विधीयते। गार्ग्यायणः। वात्स्यायनः। तुशब्दोऽवधारणार्थः- युवैव न गोत्रमिति॥

भ्रातरि च ज्यायसि ॥ ४.१.१६४॥

भ्रातरि ज्यायसि जीवति कनीयान् भ्राता युवसंज्ञो भवति पौत्रप्रभृतेरपत्यम्। गार्ग्यस्य द्वौ पुत्रौ, तयोः कनीयान् मृते पित्रादौ वंश्ये भ्रातरि ज्यायसि जीवति युवसंज्ञो भवति। अवंश्यार्थोऽयमारम्भः। पूर्वजाः पित्रादयो वंश्या इत्युच्यन्ते। भ्राता तु न वंश्यः, अकारणत्वात्। गार्ग्ये जीवति गार्ग्यायणोऽस्य कनीयान् भ्राता। वात्स्यायनः। दाक्षायणः। प्लाक्षायणः॥

वान्यस्मिन् सपिण्डे स्थविरतरे जीवति॥ ४.१.१६५॥

सप्तमपुरुषावधयः सपिण्डाः स्मर्यन्ते। येषाम् ‘उभयत्र दशाहानि कुलस्यान्नं न भुज्यते’ (द्र०-मनु० ५.६१) इत्येवमादिकायां क्रियायामनधिकारः। भ्रातुरन्यस्मिन् सपिण्डे स्थविरतरे जीवति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा भवति। प्रकृतं जीवतिग्रहणं सपिण्डस्य विशेषणम्, इदं तु संज्ञिनः। तरब्निर्देश उभयोत्कर्षार्थः। स्थानेन वयसा चोत्कृष्टे सपिण्डे यथा स्यात्, पितृव्ये पितामहे भ्रातरि च वयसाधिके जीवति, गर्गस्यापत्यं गार्ग्यायणो गार्ग्यो वा। वात्स्यायनो वात्स्यो वा। दाक्षायणो दाक्षिर्वा। स्थविरतर इति किम् ? स्थानवयोन्यूने गार्ग्य एव भवति। जीवतीति किम्? मृते मृतो वा गार्ग्य एव भवति॥

वृद्धस्य च पूजायाम्॥ ४.१.१६६॥

अपत्यमन्तर्हितं वृद्धमिति शास्त्रान्तरे परिभाषणाद् गोत्रं वृद्धमित्युच्यते। वृद्धस्य युवसंज्ञा वा भवति पूजायां गम्यमानायाम्। संज्ञासामर्थ्याद् गोत्रं युवप्रत्ययेन पुनरुच्यते। वृद्धस्येति षष्ठीनिर्देशो विचित्रा सूत्रस्य कृतिरिति। तत्र भवान् गार्ग्यायणः, गार्ग्यो वा। तत्र भवान् वात्स्यायनः, वात्स्यो वा। तत्र भवान् दाक्षायणः, दाक्षिर्वा। पूजायामिति किम्? गार्ग्यः। वात्स्यः॥

यूनश्च कुत्सायाम्॥ ४.१.१६७॥

कुत्सायां गम्यमानायां यूनो वा युवसंज्ञा भवति। निवृत्तिप्रधानो विकल्पः। युवसंज्ञायां प्रतिषिद्धायां पक्षे गोत्रसंज्ञैव भवति, प्रतिपक्षाभावात्। गार्ग्यो जाल्मः, गार्ग्यायणो वा। वात्स्यो जाल्मः, वात्स्यायनो वा। दाक्षिर्जाल्मः, दाक्षायणो वा। कुत्सायामिति किम्? गार्ग्यायणः॥

जनपदशब्दात् क्षत्रियादञ्॥ ४.१.१६८॥

जनपदशब्दो यः क्षत्रियवाची, तस्मादपत्येऽञ् प्रत्ययो भवति। पाञ्चालः। ऐक्ष्वाकः। वैदेहः। जनपदशब्दादिति किम्? द्रुह्योरपत्यं द्रौह्यवः। पौरवः। क्षत्रियादिति किम्? ब्राह्मणस्य पञ्चालस्यापत्यं पाञ्चालिः। वैदेहिः॥ क्षत्रियसमानशब्दाज्जनपदशब्दात्तस्य राजन्यपत्यवत्॥ पञ्चालानां राजा पाञ्चालः। वैदेहः। मागधः॥

साल्वेयगान्धारिभ्यां च॥ ४.१.१६९॥

साल्वेयगान्धारिशब्दाभ्यामपत्येऽञ् प्रत्ययो भवति। जनपदशब्दावेतौ क्षत्रियाभि-धायिनौ ताभ्यामञपवादे वृद्धादिति ञ्यङि प्राप्ते पुनरञ् विधीयते। साल्वेयः। गान्धारः। तस्य राजनीत्येव-साल्वेयो राजा। गान्धारो राजा॥

द्व्यञ्मगधकलिङ्गसूरमसादण्॥ ४.१.१७०॥

जनपदशब्दात् क्षत्रियाभिधायिनो द्व्यचो मगध कलिङ्ग सूरमस इत्येतेभ्यश्चापत्येऽण् प्रत्ययो भवति। अञोऽपवादः। आङ्गः। वाङ्गः। पौण्ड्रः। सौह्मः। मागधः। कालिङ्गः। सौरमसः। तस्य राजनीत्येव-आङ्गो राजा॥

वृद्धेत्कोसलाजादाञ्ञ्यङ्॥ ४.१.१७१॥

जनपदशब्दात् क्षत्रियादित्येव। वृद्धात् प्रातिपदिकादिकारान्ताच्च कोसलाजाद-शब्दाभ्यां चापत्ये ञ्यङ् प्रत्ययो भवति। अञोऽपवादः। वृद्धात्तावत्-आम्बष्ठ्यः। सौवीर्यः। इकारान्तात्-आवन्त्यः। कौन्त्यः। कोसलाजादयोरवृद्धार्थं वचनम्। कौसल्यः। आजाद्यः। तपरकरणं किम्? कुमारी नाम जनपदसमानशब्दः क्षत्रियः, तस्यापत्यं कौमारः॥ पाण्डोर्जनपदशब्दात् क्षत्रियाड् ड्यण् वक्तव्यः॥ पाण्ड्यः॥ अन्यस्मात् पाण्डव एव। तस्य राजनीत्येव-आम्बष्ठ्यो राजा। आवन्त्यः। कौन्त्यः। कौसल्यः। आजाद्यः॥

कुरुनादिभ्यो ण्यः ॥ ४.१.१७२॥

जनपदशब्दात् क्षत्रियादित्येव। कुरुशब्दाद् नादिभ्यश्च प्रातिपदिकेभ्यो ण्यः प्रत्ययो भवति। अणञोरपवादः। कौरव्यः। नकारादिभ्यः-नैषध्यः। नैपथ्यः। तस्य राजनीत्येवकौरव्यो राजा॥

साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् ॥ ४.१.१७३॥

जनपदशब्दात् क्षत्रियादित्येव। सल्वा नाम क्षत्रिया तन्नामिका तस्या अपत्यम्, ‘द्व्यचः’ (४.१.१२१) इति ढक् । साल्वेयः। अणपीष्यते-साल्वः। तस्य निवासः साल्वो जनपदः। तदवयवा उदुम्बरादयः, तेभ्यः क्षत्रियवृत्तिभ्य इदं प्रत्ययविधानम्। साल्वावयवेभ्यः प्रत्यग्रथकलकूटाश्मकशब्देभ्यश्चापत्य इञ् प्रत्ययो भवति। अञोऽपवादः। औदुम्बरिः। तैलखलिः। माद्रकारिः। यौगन्धरिः। भौलिङ्गिः। शारदण्डिः। प्रात्यग्रथिः। कालकूटिः। आश्मकिः। तस्य राजनीत्येव-औदुम्बरी राजा।

	उदुम्बरास्तिलखला   मद्रकारा   युगन्धराः।

	भुलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः॥

ते तद्राजाः॥ ४.१.१७४॥

‘जनपदशब्दात् क्षत्रियादञ् ’ (४.१.१६८) इत्येवमादयः प्रत्ययाः सर्वनाम्ना प्रत्यवमृश्यन्ते न तु पूर्वे, गोत्रयुवसंज्ञाकाण्डेन व्यवहितत्वात्। तेऽञादयस्तद्राजसंज्ञा भवन्ति। तथा चैवोदाहृतम्। तद्राजप्रदेशाः-‘तद्राजस्य बहुषु तेनैवास्त्रियाम्’ (२.४.६२) इत्येवमादयः॥

कम्बोजाल्लुक्॥ ४.१.१७५॥

‘जनपदशब्दात् क्षत्रियाद्०’ (४.१.१६८) इत्यनेन विहितस्याञो लुगुच्यते। कम्बोजात् प्रत्ययस्य लुग् भवति। कम्बोजः॥ कम्बोजादिभ्यो लुग्वचनं चोलाद्यर्थम्॥ चोलः। केरलः। शकः। यवनः। तस्य राजनीत्येव- कम्बोजो राजा॥

स्त्रियामवन्तिकुन्तिकुरुभ्यश्च॥ ४.१.१७६॥

अवन्तिकुन्तिकुरुशब्देभ्य उत्पन्नस्य तद्राजस्य स्त्रियामभिधेयायां लुग् भवति। अवन्तिकुन्तिभ्यां ञ्यङः, कुरोर्ण्यस्य। अवन्ती। कुन्ती। कुरूः। स्त्रियामिति किम्? आवन्त्यः। कौन्त्यः। कौरव्यः॥

अतश्च॥ ४.१.१७७॥

स्त्रियामित्येव। अकारप्रत्ययस्य तद्राजस्य स्त्रियामभिधेयायां लुग् भवति। तकारो विस्पष्टार्थः। शूरसेनी। मद्री। दरत्। अवन्त्यादिभ्यो लुग्वचनात् तदन्तविधिरत्र नास्ति, तेनेह न भवति- आम्बष्ठ्या। सौवीर्या॥

न प्राच्यभर्गादियौधेयादिभ्यः॥ ४.१.१७८॥

प्राच्येभ्यो भर्गादिभ्यो यौधेयादिभ्यश्चोत्पन्नस्य लुग् न भवति। ‘अतश्च’ (४.१.१७७) इत्यनेन स्त्रियां लुक् प्राप्तः प्रतिषिध्यते। प्राच्येभ्यः क्षत्रियेभ्यस्तावत्-पाञ्चाली। वैदेही। आङ्गी। वाङ्गी। मागधी। भर्गादिभ्यः-भार्गी। कारूषी। कैकेयी। यौधेयादिभ्यः- यौधेयी। शौभे्रयी। शौके्रयी। कस्य पुनरकारस्य प्रत्ययस्य यौधेयादिभ्यो लुक् प्राप्तः प्रतिषिध्यते? पाञ्चमिकस्याञः ‘पर्श्वादियौधेयादिभ्यामणञौ’ (५.३.११७) इत्येतस्य। कथं पुनस्तस्य भिन्नप्रकरणस्थस्यानेन लुक् प्राप्नोति? एतदेव विज्ञापयति पाञ्चमिकस्यापि तद्राजस्य ‘अतश्च’ (४.१.१७७) इत्यनेन लुग् भवतीति। किमेतस्य ज्ञापनेन प्रयोजनम्? पर्श्वाद्यणः स्त्रियां लुक् सिद्धो भवति। पर्शुः। रक्षाः। असुरी। तथा चोक्तम्-यौधेयादिप्रतिषेधो ज्ञापकः पर्श्वाद्यणो लुगिति॥ भर्ग। करूष। केकय। कश्मीर। साल्व। सुस्थाल। उरश। कौरव्य। भर्गादिः॥ यौधेय। शौभ्रेय। शौक्रेय। ज्याबाणेय। वार्तेय। धार्तेय। त्रिगर्त। भरत। उशीनर। यौधेयादिः॥

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य प्रथमः पादः ॥

—0—