०४

धातुसंबन्धे प्रत्ययाः ॥ ३.४.१॥

धात्वर्थे धातुशब्दः। धात्वर्थानां संबन्धो धातुसंबन्धः, विशेषणविशेष्यभावः। तस्मिन् सत्ययथाकालोक्त ा अपि प्रत्ययाः साधवो भवन्ति। अग्निष्टोमयाज्यस्य पुत्रो जनिता। कृतः कटः श्वो भविता। भावि कृत्यमासीत्। अग्निष्टोमयाजीति भूतकालः, जनितेति भविष्यत्कालः। तत्र भूतः कालो भविष्यत्कालेनाभिसंबध्यमानः साधुर्भवति। विशेषणं गुणत्वाद् विशेष्यकालमनुरुध्यते, तेन विपर्ययो न भवति। प्रत्ययाधिकारे पुनः प्रत्ययग्रहणमधात्वधिकारविहिता अपि प्रत्ययास्तद्धिता धातुसंबन्धे सति कालभेदे साधवो यथा स्युरिति। गोमान् आसीत्। गोमान् भविता। गावो विद्यन्तेऽस्येति वर्तमानविहितो मतुबासीद् भवितेति संबन्धादतीते भविष्यति च साधुर्भवति॥

क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः ॥ ३.४.२॥

धातुसंबन्ध इति वर्तते। पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः। प्रकृत्यर्थविशेषणं चैतत्। समभिहारविशिष्टक्रियावचनाद् धातोर्लोट् प्रत्ययो भवति सर्वेषु कालेषु। सर्वलकाराणामपवादः। तस्य च लोटो हि स्व इत्येतावादेशौ भवतः, तध्वंभाविनस्तु वा भवतः। योगविभागोऽत्र कर्तव्यः। क्रियासमभिहारे लोड् भवति। ततो लोटो हिस्वौ। लोडित्येव। लोड्धर्माणौ हिस्वौ भवत इत्यर्थः। तेनात्मनेपदपरस्मैपदत्वं भेदेनावतिष्ठते, तिङ्त्वं च द्वयोरपि भवति। लुनीहिलुनीहीत्येवायं लुनाति, इमौ लुनीतः,इमे लुनन्ति। लुनीहिलुनीहीत्येव त्वं लुनासि, युवां लुनीथः, यूयं लुनीथ। अथवा लुनीतलुनीतेत्येव यूयं लुनीथ। लुनीहिलुनीहीत्येवाहं लुनामि, आवां लुनीवः, वयं लुनीमः। भूते-लुनीहिलुनीहीत्येवायमलावीत्, अलाविष्टाम्, अलाविषुः। एवं मध्यमोत्तमयोरुदाहार्यम्। भविष्यति-लुनीहिलुनीहीत्येवायं लविष्यति, लविष्यतः, लविष्यन्ति। एवं मध्यमोत्तमयोरुदाहार्यम्। अधीष्वाधीष्वेत्येवायमधीते, इमावधीयाते, इमेऽधीयते। अधीष्वाधीष्वेत्येव त्वमधीषे, युवामधीयाथे, यूयमधीध्वे। अथवा अधीध्वमधीध्वमित्येव यूयमधीध्वे। अधीष्वाधीष्वेत्येवाहमधीये, आवामधीवहे, वयमधीमहे। एवं सर्वेषु लकारेषूदाहार्यम्। क्रियासमभिहाराभिव्यक्तौ द्विर्वचनमयं लोडपेक्षते-‘क्रियासमभिहारे द्वे भवतः’ (वा० ८.१.१२) इति। यङ्प्रत्ययः पुनरस्मिन्नेवार्थे विधीयमानः स्वयमेव शक्तत्वाद् नापेक्षते द्विर्वचनम्॥

समुच्चयेऽन्यतरस्याम् ॥ ३.४.३॥

अनेकक्रियाध्याहारः समुच्चयः। समुच्चीयमानक्रियावचनाद् धातोरन्यतरस्यां लोट् प्रत्ययो भवति, तस्य लोटो हिस्वावादेशौ भवतः, तध्वंभाविनस्तु वा भवतः। भ्राष्ट्रमट, मठमट, खदूरमट, स्थाल्यपिधानमटेत्येवायमटति, इमावटतः, इमेऽटन्ति। भ्राष्ट्रमट, मठमट, खदूरमट, स्थाल्यपिधानमटेत्येव त्वमटसि, युवामटथः, यूयमटथ। अथवा भ्राष्ट्रमटत, मठमटत, खदूरमटत, स्थाल्यपिधानमटतेत्येव यूयमटथ। भ्राष्ट्रमट, मठमट, खदूरमट, स्थाल्यपिधानमटेत्येवाहमटामि, आवामटावः, वयमटामः। अथवा भ्राष्ट्रमटति, मठमटति, खदूरमटति,स्थाल्यपिधानमटतीत्येवायमटति, इमावटतः, इमेऽटन्ति। भ्राष्ट्रमटसि, मठमटसि, खदूरमटसि, स्थाल्यपिधानमटसीत्येव त्वमटसि,युवामटथः, यूयमटथ। भ्राष्ट्रमटामि, मठमटामि, खदूरमटामि, स्थाल्यपिधानमटामीत्येवाहमटामि, आवामटावः, वयमटामः। छन्दोऽधीष्व, व्याकरणमधीष्व, निरुक्तमधीष्वेत्येवायमधीते, इमावधीयाते, इमेऽधीयते। छन्दोऽधीष्व, व्याकरणमधीष्व, निरुक्तमधीष्वेत्येव त्वमधीषे, युवामधीयाथे, यूयमधीध्वे। अथ वा छन्दोऽधीध्वम्, व्याकरणमधीध्वम्, निरुक्तमधीध्वमित्येव यूयमधीध्वे। छन्दोऽधीष्व, व्याकरणमधीष्व, निरुक्तमधीष्वेत्येवाहमधीये, आवामधीवहे, वयमधीमहे, अथ वा व्याकरणमधीते, छन्दोऽधीते, निरुक्तमधीत इत्येवायमधीते, इमावधीयाते, इमेऽधीयते। छन्दोऽधीषे, व्याकरणमधीषे, निरुक्तमधीष इत्येव त्वमधीषे, युवामधीयाथे, यूयमधीध्वे। छन्दोऽधीये, व्याकरणमधीये, निरुक्तमधीय इत्येवाहमधीये, आवामधीवहे, वयमधीमहे॥

यथाविध्यनुप्रयोगः पूर्वस्मिन् ॥ ३.४.४॥

पूर्वस्मिन् लोड्विधाने यथाविध्यनुप्रयोगो भवति। यस्माद् धातोर्लोड् विहितः, स एव धातुरनुप्रयोक्तव्यः। धातुसंबन्धे प्रत्ययविधानादनुप्रयोगः सिद्ध एव, यथाविध्यर्थं तु वचनम्। तथा चैवोदाहृतम्-लुनीहिलुनीहीत्येवायं लुनातीति। छिनत्तीति नानुप्रयुज्यते। अधीष्वाधीष्वेत्येवायमधीते। पठतीति नानुप्रयुज्यते॥

समुच्चये सामान्यवचनस्य ॥ ३.४.५॥

द्वितीये लोड्विधाने समुच्चये सामान्यवचनस्य धातोरनुप्रयोगः कर्तव्यः। ओदनं भुङ्क्ष्व, सक्तून् पिब, धानाः खादेत्येवायमभ्यवहरति। सर्वविशेषानुप्रयोगनिवृत्त्यर्थं वचनम्। लाघवं च लौकिके शब्दव्यवहारे नाद्रियते। भ्राष्ट्रमट, मठमट, खदूरमट, स्थाल्यपिधानमटेत्येवायमटतीत्यत्रापि कारकभेदात् क्रियाभेदे सति सामान्यवचनता सम्भवत्येव॥

छन्दसि लुङ्लङ्लिटः ॥ ३.४.६॥

धातुसम्बन्ध इत्येव। छन्दसि विषये धातुसंबन्धे सर्वेषु कालेषु लुङ्लङ्लिटः प्रत्यया भवन्ति। अन्यतरस्यामिति वर्तते। तेनान्येऽपि लकारा यथायथं भवन्ति। लुङ्-शकलाङ्गुष्ठकोऽकरत्। अहं तेभ्यो॑ऽकरं॒ नमः॑(मा०सं० १६.८)। लङ्-अग्निमद्य होतारम् (शा०श्रौ० ५.२०.५) अवृणीतायं यजमानः। लिट्-अ॒द्या म॒मार॒ (ऋ० १०.५५.५)। अद्य म्रियते॥

लिङर्थे लेट् ॥ ३.४.७॥

छन्दस्यन्यतरस्यामिति वर्तते। लिङर्थे, यत्र लिङ् विधीयते विध्यादिः, ‘हेतुहेतुमतोर्लिङ्’ (३.३.१५६) इत्येवमादिः, तत्र छन्दसि विषयेऽन्यतरस्यां लेट् प्रत्ययो भवति। जोषि॑ष॒त् (ऋ० २.३५.१)। तारिषत् (ऋ० १.२५.१२)। मन्दिषत्। नेता इन्द्रो नेषत् (शा०श्रौ० ७.९.१)। तक्षिषत्। पता॑ति दि॒द्युत् (ऋ० ७.२५.१)। प्र॒जाप॑तिर् उद॒धिं च्या॑वया॒ति (तै०सं०३.५.५.२)॥

उपसंवादाशङ्कयोश्च ॥ ३.४.८॥

उपसंवादः परिभाषणम्, कर्तव्ये पणबन्धः, यदि मे भवानिदं कुर्याद् अहमपि भवत इदं दास्यामीति। कारणतः कार्यानुसरणं तर्कः, उत्प्रेक्षा, आशङ्का। उपसंवाद आशङ्कायां च गम्यमानायां छन्दसि विषये लेट् प्रत्ययो भवति। उपसंवादे-अहमेव पशूनामीशै (काठ०सं० २५.१)। म॑द॒ग्रा ए॒व॑ वो॒ ग्र॑हा॒ गृह्यान्तै॒ (मै०सं० ४.५.८) इति। मद्देव॒त्या॑न्ये॒व वः॒ पात्रा॑ण्युच्यान्तै॒ (तै०सं० ६.४.७.२)। आशङ्कायां च-नेज्जि॒ह्माय॒न्त्यो न॑र॒कं प॑ताम (ऋ०खिल १०.१०६.१)। जिह्माचरणेन नरकपात आशङ्क्यते। लिङर्थ एवायं नित्यार्थं तु वचनम्। पूर्वसूत्रेऽन्यतरस्यामिति वर्तते॥

तुमर्थे सेसेनसेऽसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवै-श्तवेङ्तवेनः ॥ ३.४.९॥

छन्दसीत्येव। तुमुनोऽर्थस्तुमर्थः। तत्र छन्दसि विषये धातोः सयादयः प्रत्यया भवन्ति। तुमर्थो भावः। कथं ज्ञायते? वचनसामर्थ्यात् तावदयं कर्तुरपकृष्यते। न चान्यस्मिन्नर्थे तुमुन्नादिश्यते। ‘अनिर्दिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्ति’(परि० ११३)। स्वार्थश्च धातूनां भाव एव। से-वक्षे रायः। सेन्-ता वा॒मेषे॒ रथा॑नाम् (ऋ० ५.६६.३)। असे, असेन्-क्रत्वे॒ दक्षा॑य जी॒वसे॑ (शौ०सं० ६.१९.२)। स्वरे विशेषः। क्से, कसेन्-प्रेषे॒ भगा॑य॒ (तै०सं० १.२.११.१)। श्रि॒यसे॑ (ऋ० ५.५९.३)। अध्यै, अध्यैन्- काममुपाचरध्यै। स्वरे विशेषः। कध्यै-इ॒न्द्रा॒ग्नी॒ आ॒हु॒वध्यै॑ (मा०सं० ३.१३)। कध्यैन्-श्रियध्यै। शध्यै, शध्यैन्- वा॒यवे॒ पिब॑ध्यै (ऋ० ७.९२.२)। स॒ह मा॑द॒यध्यै॑ (मा०सं०३.१३)। तवै-सोम॒मिन्द्रा॑य॒ पात॒वै। तवेङ्-दश॒मे मा॒सि सूत॑वे (ऋ० १०.१८४.३)। तवेन्-स्वर्दे॒वेषु॒ गन्त॑वे (शौ०सं० ९.५.१७)। क॑र्तवे (ऋ० ९.८३.२०)। हर्तवे॥

प्रयै रोहिष्यै अव्यथिष्यै ॥ ३.४.१०॥

तुमर्थे छन्दसीत्येव। प्रयै रोहिष्यै अव्यथिष्यै इत्येते शब्दा निपात्यन्ते छन्दसि विषये। प्रपूर्वस्य यातेः कैप्रत्ययः-प्॒रयै दे॒वेभ्यः॑ (ऋ० १.१४२.६)। प्रयातुम्। रुहेरिष्यैप्रत्ययः- अ॒पामोष॑धीनां॒ रोहि॑ष्यै (तै०सं० १.३.१०.२)। रोहणाय। व्यथेर्नञ्पूर्वस्येष्यैप्रत्ययः-अव्यथिष्यै (काठ०सं० ३.७)। अव्यथनाय॥

दृशे विख्ये च ॥ ३.४.११॥

तुमर्थे छन्दसीत्येव। दृशे विख्ये इत्येतौ छन्दसि विषये निपात्येते। दृशेः केप्रत्ययः। दृ॒शे विश्वा॑य॒ सूर्य॑म् (ऋ०१.५०.१)। द्रष्टुम्। विख्ये त्वा हरामि। विख्यातुम्॥

शकि णमुल्कमुलौ ॥ ३.४.१२॥

छन्दसीत्येव। शक्नोतौ धातावुपपदे छन्दसि विषये तुमर्थे णमुल् कमुल् इत्येतौ प्रत्ययौ भवतः। णकारो वृद्ध्यर्थः। ककारो गुणवृद्धिप्रतिषेधार्थः। लकारः स्वरार्थः। अ॒ग्निं॑ वै॑ दे॒वा॑ वि॒भा॑जं॒ ना॑श॒क्नुव॒न् (मै०सं० १.६.४)। विभक्तुमित्यर्थः। अ॒प॑लुम्पं॒ ना॑शक्नोत् (मै०सं० १.६.५)। अपलोप्तुमित्यर्थः॥

ईश्वरे तोसुन्कसुनौ ॥ ३.४.१३॥

तुमर्थे छन्दसीत्येव। ईश्वरशब्द उपपदे छन्दसि विषये तुमर्थे धातोस्तोसुन्कसुन्प्रत्ययौ भवतः। ईश्वरोऽभिचरितोः। अभिचरितुमित्यर्थः। ईश्वरो विलिखः। विलेखितुम् इत्यर्थः। ईश्वरो वितृदः। वितर्दितुमित्यर्थः॥

कृत्यार्थे तवैकेन्केन्यत्वनः ॥ ३.४.१४॥

छन्दसीत्येव। कृत्यानामर्थो भावकर्मणी। तस्मिन् कृत्यार्थे छन्दसि विषये तवै केन् केन्य त्वन् इत्येते प्रत्यया भवन्ति। तवै-अन्वे॑त॒वै (ऋ०७.४४.५)। अन्वेतव्यम्। परि॑धात॒वै (शौ०सं० २.१३.२)। परिधातव्यम्। परिस्तरितवै (काठ०सं० ३२.७)। परिस्तरितव्यम्। केन् - नावगाहे। नावगाहितव्यम्। केन्य-दि॒दृ॒क्षेण्यः॒ (ऋ० १.१४६.५)। शुश्रूषेण्यः (तै०आ० ४.१.१)। दिदृक्षितव्यम्। शुश्रूषितव्यम्। त्वन्-कर्त्वं॑ ह॒विः (शौ०सं० १.४.३)। कर्तव्यम्। तुमर्थे छन्दसीति सयादिसूत्रेऽपि तवै विहितः, तस्य तुमर्थादन्यत्र कारके विधिर्द्रष्टव्यः॥

अवचक्षे च ॥ ३.४.१५॥

कृत्यार्थे छन्दसीत्येव। अवपूर्वाच् चक्षिङ एश् प्रत्ययो निपात्यते। रि॒पुणा॒ नाव॒चक्षे॑ (मा०सं० १७.९३)। नावख्यातव्यमित्यर्थः॥

भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् ॥ ३.४.१६॥

कृत्यार्थ इति निवृत्तम्। तुमर्थ इति वर्तते। प्रकृत्यर्थविशेषणं भावलक्षणग्रहणम्। भावो लक्ष्यते येन तस्मिन्नर्थे वर्तमानेभ्यः स्थादिभ्यो धातुभ्यश्छन्दसि विषये तुमर्थे तोसुन् प्रत्ययो भवति। आ संस्थातोर्वेद्यां शेरते (काठ०सं० ११.६)। आ समाप्तेः सीदन्तीत्यर्थः। इण्-पुरा सूर्यस्योदेतोराधेयः (काठ०सं० ८.३)। कृञ्-पुरा वत्सानामपाकर्तोः (काठ०सं० ३१.१५)। वदि-पुरा प्रवदितोरग्नौ प्रहोतव्यम्। चरि-पुरा प्रचरितोराग्नीध्रीये होतव्यम् (गो०ब्रा० २.२.१०)। हु-आ होतोरप्रमत्तस्तिष्ठति। तमि-आ तमितोरासीत (तै०ब्रा० १.४.४.५)। जनि-आ विज॑नितोः॒ संभ॑वा॒मेति॒ (तै०सं०२.५.१.५)॥

सृपितृदोः कसुन् ॥ ३.४.१७॥

भावलक्षणे छन्दसीति वर्तते। सृपितृदोर्धात्वोर्भावलक्षणेऽर्थे वर्तमानयोश्छन्दसि विषये तुमर्थे कसुन् प्रत्ययो भवति। पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरप्शिन् (तै०सं० १.१.९.३)। पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑ (ऋ० ८.१.१२)॥

अलंखल्वोः प्रतिषेधयोः प्राचां कत्वा ॥ ३.४.१८॥

छन्दसि भावलक्षण इति सर्वं निवृत्तम्। अलं खलु इत्येतयोः प्रतिषेधवाचिनोरुपपदयोर्धातोः क्त्वा प्रत्ययो भवति प्राचामाचार्याणां मतेन। अलं कृत्वा। खलु कृत्वा। अलं बाले रुदित्वा। अलंखल्वोरिति किम्? मा कार्षीः। प्रतिषेधयोरिति किम्? अलंकारः। प्राचांग्रहणं विकल्पार्थम्। अलं रोदनेन। वासरूपविधिश्चेत् पूजार्थम्॥

उदीचां माङो व्यतीहारे ॥ ३.४.१९॥

क्त्वा तु वर्तते। माङो धातोर्व्यतीहारे वर्तमानादुदीचामाचार्याणां मतेन क्त्वा प्रत्ययो भवति। अपमित्य याचते। अपमित्य हरति। अपूर्वकालत्वादप्राप्तः क्त्वा विधीयते। उदीचांग्रहणात् तु यथाप्राप्तमपि भवति। याचित्वापमयते। हृत्वापमयते। मेङः कृतात्वस्यायं निर्देशः कृतो ज्ञापनार्थः-‘नानुबन्धकृतमनेजन्तत्वम्’ इति, तेन ‘दाधा घ्वदाप्’(१.१.२०) ‘इति दैपोऽपि प्रतिषेधो भवति॥

परावरयोगे च ॥ ३.४.२०॥

परावराभ्यां योगः परावरयोगः। परेण पूर्वस्य योगे गम्यमानेऽवरेण च परस्य, धातोः क्त्वा प्रत्ययो भवति। परेण तावत्-अप्राप्त नदीं पर्वतः स्थितः। परनदीयोगेन पर्वतो विशिष्यते। अवरयोगे-अतिक्रम्य तु पर्वतं नदी स्थिता। अवरपर्वतयोगेन नदी विशिष्यते॥

समानकर्तृकयोः पूर्वकाले ॥ ३.४.२१॥

समानः कर्ता ययोर्धात्वर्थयोस्तत्र पूर्वकाले धात्वर्थे वर्तमानाद् धातोः क्त्वाप्रत्ययो भवति। शक्तिशक्तिमतोर्भेदस्याविवक्षितत्वात् समानकर्तृकता। भुक्त्वा व्रजति। पीत्वा व्रजति। द्विवचनमतन्त्रम्। स्नात्वा पीत्वा भुक्त्वा दत्त्वा व्रजति। समानकर्तृकयोरिति किम्? भुक्तवति ब्राह्मणे व्रजति देवदत्तः। पूर्वकाल इति किम्? व्रजति च जल्पति च॥ आस्यं व्यादाय स्वपिति चक्षुः संमील्य हसतीत्युपसंख्यानम्, अपूर्वकालत्वात्॥

** आभीक्ष्ण्ये णमुल् च ॥ ३.४.२२॥**

समानकर्तृकयोः पूर्वकाल इत्येव। आभीक्ष्ण्यं पौनःपुन्यम्। प्रकृत्यर्थविशेषणं चैतत्। आभीक्ष्ण्यविशिष्टेऽर्थे वर्तमानाद् धातोर्णमुल् प्रत्ययो भवति, चकारात् क्त्वा च। द्विर्वचनसहितौ क्त्वाणमुलावाभीक्ष्ण्यं द्योतयतः, न केवलौ। ‘आभीक्ष्ण्ये द्वे भवतः’ (वा० ८.१.१२) इत्युपसंख्यानाद् द्विर्वचनम्। भोजंभोजं व्रजति। भुक्त्वाभुक्त्वा व्रजति। पायंपायं व्रजति। पीत्वापीत्वा व्रजति॥

न यद्यनाकाङ्क्षे ॥ ३.४.२३॥

यच्छब्द उपपदे धातोः क्त्वाणमुलौ प्रत्ययौ न भवतोऽनाकाङ्क्षे वाच्ये। यत्र पूर्वोत्तरे क्रिये स्तः, तच्चेद् वाक्यं न परं किञ्चिदाकाङ्क्षति इति। णमुलनन्तरः, क्त्वा तु पूर्वसूत्रविहितोऽपि प्रतिषिध्यते। यदयं भुङ्क्ते ततः पठित। यदयमधीते ततः शेते। अनाकाङ्क्ष इति किम्? यदयं भुक्त्वा व्रजति अधीत एव ततः परम्॥

विभाषाग्रेप्रथमपूर्वेषु ॥ ३.४.२४॥

अप्राप्तविभाषेयम्। आभीक्ष्ण्य इति नानुवर्तते। अग्रे प्रथम पूर्व इत्येतेषूपपदेषु समानकर्तृकयोः पूर्वकाले धातोः क्त्वाणमुलौ प्रत्ययौ विभाषा भवतः। अग्रे भोजं व्रजति। अग्रे भुक्त्वा व्रजति। प्रथमं भोजं व्रजति। प्रथमं भुक्त्वा व्रजति। पूर्वं भोजं व्रजति। पूर्वं भुक्त्वा व्रजति । विभाषाग्रहणमेताभ्यां मुक्ते लडादयोऽपि यथा स्युः। अग्रे भुङ्क्ते ततो व्रजति। ननु च वासरूप इति भविष्यति? क्त्वाणमुलौ यत्र सह विधीयेते तत्र वासरूपविधिर्नास्तीत्येतदनेन ज्ञाप्यते। तेनाभीक्ष्ण्ये लडादयो न भवन्ति। उपपदसमासः कस्माद् न भवति? उक्तं तत्रैवकारस्य प्रयोजनम्-अमैव यत्तुल्यविधानमुपपदं तत् समस्यते, नान्यदिति॥

कर्मण्याक्रोशे कृञः खमुञ् ॥ ३.४.२५॥

कर्मण्युपपदे कृञो धातोः खमुञ् प्रत्ययो भवत्याक्रोशे गम्यमाने। चोरंकारमाक्रोशति। चोरोऽसि दस्युरसीत्याक्रोशति। चोरकरणमाक्रोशसंपादनार्थमेव, न त्वसौ चोरः क्रियते॥

स्वादुमि णमुल् ॥ ३.४.२६॥

समानकर्तृकयोः पूर्वकाले कृञ इति चानुवर्तते। स्वादुमीत्यर्थग्रहणम्। स्वाद्वर्थेषूपपदेषु कृञो णमुल् प्रत्ययो भवति। स्वादुंकारं भुङ्क्ते। संपन्नंकारं भुङ्क्ते। लवणंकारम्। स्वादुमीति मकारान्तनिपातनमीकाराभावार्थम्, च्व्यन्तस्यापि मकारार्थम्, दीर्घाभावार्थं च। अस्वाद्वीं स्वाद्वीं कृत्वा भुङ्क्ते स्वादुंकारं भुङ्क्ते। वासरूपेण क्त्वापि भवति। स्वादुं कृत्वा भुङ्क्ते। तुमर्थाधिकाराच्च सर्व एते भावे प्रत्ययाः। यद्येवं स्वादुंकारं भुङ्क्ते देवदत्त इति णमुला कर्तुरनभिहितत्वात् कर्तरि कस्मात् तृतीया न भवति? भुजिप्रत्ययेनाभिहितः कर्ता। न चास्मिन् प्रकरणे शक्तिशक्तिमतोर्भेदो विवक्ष्यते, समानकर्तृकत्वं हि विरुध्यते। प्रधानशक्त्यभिधाने वा गुणशक्तिरभिहितवत् प्रकाशते॥

अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्॥ ३.४.२७॥

कृञ इत्येव। अन्यथादिषूपपदेषु कृञो णमुल् प्रत्ययो भवति, सिद्धाप्रयोगश्चेत् करोतिर्भवति। कथं पुनरसौ सिद्धाप्रयोगः? निरर्थकत्वाद् न प्रयोगमर्हतीत्येवमेव प्रयुज्यते। अन्यथा भुङ्क्त इति यावानर्थः, तावानेवान्यथाकारं भुङ्क्त इति गम्यते। अन्यथाकारं भुङ्क्ते। एवंकारं भुङ्क्ते। कथंकारं भुङ्क्ते। इत्थंकारं भुङ्क्ते। सिद्धाप्रयोग इति किम्? अन्यथा कृत्वा शिरो भुङ्क्ते॥

यथातथयोरसूयाप्रतिवचने॥ ३.४.२८॥

कृञः सिद्धाप्रयोग इति वर्तते। यथातथाशब्दयोरुपपदयोः कृञो णमुल् प्रत्ययो भवत्यसूयाप्रतिवचने गम्यमाने। यद्यसूयन् पृच्छति प्रतिवक्ति तत्र प्रतिवचनम्। यथाकारमहं भोक्ष्ये तथाकारमहम्, किं तवानेन? असूयाप्रतिवचन इति किम्? यथा कृत्वाहं भोक्ष्ये, तथा त्वं द्रक्ष्यसि। सिद्धाप्रयोग इत्येव-यथा कृत्वाहं शिरो भोक्ष्ये, किं तवानेन॥

कर्मणि दृशिविदोः साकल्ये॥ ३.४.२९॥

कर्मण्युपपदे साकल्यविशिष्टेऽर्थे दृशिविदोर्धात्वोर्णमुल् प्रत्ययो भवति। कन्यादर्शं वरयति। यायाः कन्याः पश्यति तास्ता वरयतीत्यर्थः। ब्राह्मणवेदं भोजयति। यंयं ब्राह्मणं जानाति लभते विचारयति वा तान् सर्वान् भोजयतीत्यर्थः। साकल्य इति किम्? ब्राह्मणं दृष्ट्वा भोजयति॥

यावति विन्दजीवोः॥ ३.४.३०॥

यावच्छब्द उपपदे विन्दतेर्जीवतेश्च णमुल् प्रत्ययो भवति। यावद्वेदं भुङ्क्ते। यावल्लभते तावद् भुङ्क्त इत्यर्थः। यावज्जीवमधीते। यावज्जीवति तावदधीत इत्यर्थः॥

चर्मोदरयोः पूरेः॥ ३.४.३१॥

कर्मणीत्येव। चर्मोदरयोः कर्मणोरुपपदयोः पूरयतेर्णमुल् प्रत्ययो भवति। चर्मपूरं स्तृणाति। उदरपूरं भुङ्क्ते॥

वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्॥ ३.४.३२॥

कर्मणीत्येव। पूरयतेर्धातोर्णमुल् प्रत्ययो भवति, ऊलोपश्चास्य पूरयतेरन्यतरस्यां भवति, समुदायेन चेद् वर्षस्य प्रमाणमियत्ता गम्यते। गोष्पदपूरं वृष्टो देवः। गोष्पदप्रं वृष्टो देवः। सीतापूरं वृष्टो देवः। सीताप्रं वृष्टो देवः। अस्यग्रहणं किमर्थम्? उपपदस्य मा भूत्-मूषिकाबिलपूरं वृष्टो देवः। मूषिकाबिलप्रम्॥

चेले क्नोपेः॥ ३.४.३३॥

कर्मणीत्येव। ‘क्नूयी शब्दे उन्दने च’ अस्माण्ण्यन्ताद् धातोश्चेलार्थेषु कर्मसूपपदेषु णमुल् प्रत्ययो भवति, वर्षप्रमाणे गम्यमाने। चेलक्नोपं वृष्टो देवः। वस्त्रक्नोपम्, वसनक्नोपम्॥

निमूलसमूलयोः कषः॥ ३.४.३४॥

कर्मणीत्येव। निमूलसमूलशब्दयोः कर्मवाचिनोरुपपदयोः कषेर्धातोर्णमुल् प्रत्ययो भवति। निमूलकाषं कषति। समूलकाषं कषति। निमूलं समूलं कषतीत्यर्थः। इतः प्रभृति कषादीन् यान् वक्ष्यति, तत्र ‘कषादिषु यथाविध्यनुप्रयोगः’(३.४.४६) इति॥

शुष्कचूर्णरूक्षेषु पिषः॥ ३.४.३५॥

कर्मणीत्येव। शुष्कादिषु कर्मवाचिषूपपदेषु पिषेर्धातोर्णमुल् प्रत्ययो भवति। शुष्कपेषं पिनष्टि। शुष्कं पिनष्टीत्यर्थः। चूर्णपेषं पिनष्टि। चूर्णं पिनष्टीत्यर्थः। रूक्षपेषं पिनष्टि। रूक्षं पिनष्टीत्यर्थः॥

समूलाकृतजीवेषु हन्कृञ्ग्रहः ॥ ३.४.३६॥

कर्मणीत्येव। समूल अकृत जीव इत्येतेषु शब्देषु कर्मसूपपदेषु यथासंख्यं हन् कृञ् ग्रह इत्येतेभ्यो धातुभ्यो णमुल् प्रत्ययो भवति। समूलघातं हन्ति। समूलं हन्तीत्यर्थः। अकृतकारं करोति। जीवग्राहं गृह्णाति॥

करणे हनः ॥ ३.४.३७॥

करण उपपदे हन्तेर्धातोर्णमुल् प्रत्ययो भवति। पाणिघातं वेदिं हन्ति। पादघातं भूमिं हन्ति। ‘हिंसार्थानां च समानकर्मकाणाम्’ (३.४.४८) इति णमुलं वक्ष्यति। अहिंसार्थोऽयमारम्भः, नित्यसमासार्थो वा यथाविध्यनुप्रयोगार्थश्च। पूर्वविप्रतिषेधेन हन्तेर्हिंसार्थस्यापि प्रत्ययोऽनेनैवेष्यते। असिघातं हन्ति। शरघातं हन्ति॥

स्नेहने पिषः ॥ ३.४.३८॥

करण इत्येव। स्निह्यते येन तत् स्नेहनम्। स्नेहनवाचिनि करण उपपदे पिषेर्धातोर्णमुल् प्रत्ययो भवति। उदपेषं पिनष्टि। तैलपेषं पिनष्टि। तैलेन पिनष्टीत्यर्थः॥

हस्ते वर्तिग्रहोः ॥ ३.४.३९॥

करण इत्येव। हस्त इत्यर्थग्रहणम्। वर्तिर्ण्यन्तः। हस्तवाचिनि करण उपपदे वर्तयतेर्गृह्णातेश्च णमुल् प्रत्ययो भवति। हस्तेन वर्तयति हस्तवर्तं वर्तयति। करवर्तम्। पाणिवर्तम्। ग्रहेः खल्वपि-हस्तेन गृह्णाति हस्तग्राहं गृह्णाति। करग्राहम्। पाणिग्राहम्॥

स्वे पुषः ॥ ३.४.४०॥

करण इत्येव। स्व इत्यर्थग्रहणम्। स्ववाचिनि करण उपपदे पुषेर्धातोर्णमुल् प्रत्ययो भवति। आत्मात्मीयज्ञातिधनवचनः स्वशब्दः। स्वपोषं पुष्णाति। आत्मपोषम्। गोपोषम्। पितृपोषम्। मातृपोषम्। धनपोषम्। रैपोषम्॥

अधिकरणे बन्धः ॥ ३.४.४१॥

अधिकरणवाचिन्युपपदे बध्नातेर्धातोर्णमुल् प्रत्ययो भवति। चक्रबन्धं बध्नाति। कूटबन्धं बध्नाति। मुष्टिबन्धं बध्नाति। चोरकबन्धं बध्नाति। चोरके बध्नातीत्यर्थः॥

संज्ञायाम् ॥ ३.४.४२॥

संज्ञायां विषये बध्नातेर्धातोर्णमुल् प्रत्ययो भवति। क्रौञ्चबन्धं बध्नाति। मयूरिकाबन्धं बध्नाति। मयूरिकाबन्धं बद्धः। अट्टालिकाबन्धं बद्धः। बन्धविशेषाणां नामधेयान्येतानि॥

कर्त्रोर्जीवपुरुषयोर्नशिवहोः ॥ ३.४.४३॥

जीवनपुरुषयोः कर्तृवाचिनोरुपपयोर्यथासंख्यं नशिवहोर्धात्वोर्णमुल् प्रत्ययो भवति। जीवनाशं नश्यति। जीवो नश्यतीत्यर्थः। पुरुषवाहं वहति। पुरुषः प्रेष्यो भूत्वा वहतीत्यर्थःकर्तरीति किम्? जीवेन नष्टः। पुरुषेणोढः॥

ऊर्ध्वे शुषिपूरोः ॥ ३.४.४४॥

कर्तृग्रहणमनुवर्तते। ऊर्ध्वशब्दे कर्तृवाचिन्युपपदे शुषिपूरोर्धात्वोर्णमुल् प्रत्ययो भवति। ऊर्ध्वशोषं शुष्यति। ऊर्ध्वं शुष्यतीत्यर्थः। ऊर्ध्वपूरं पूर्यते। ऊर्ध्वं पूर्यत इत्यर्थः॥

उपमाने कर्मणि च ॥ ३.४.४५॥

उपमीयतेऽनेनेत्युपमानम्। उपमाने कर्मण्युपपदे, चकारात् कर्तरि, धातोर्णमुल् प्रत्ययो भवति। घृतनिधायं निहितः। घृतमिव निहित इत्यर्थः। सुवर्णनिधायं निहितः। सुवर्णमिव निहित इत्यर्थः। कर्तरि खल्वपि-अजकनाशं नष्टः। अजक इव नष्टः। चूडकनाशम्। दन्तनाशम्॥

कषादिषु यथाविध्यनुप्रयोगः ॥ ३.४.४६॥

‘निमूलसमूलयोः०’(३.४.३४) इत्येतदारभ्य कषादयः। एतेषु यथाविध्यनुप्रयोगो भवति। यस्माद् धातोर्णमुल् प्रत्ययो भवति, स एवानुप्रयोक्तव्यः। ननु धातुसंबन्धे प्रत्ययविधानादनुप्रयोगः सिद्ध एव? यथाविधीति नियमार्थं वचनम्? तथात चैवोदाहृतम्॥

उपदंशस्तृतीयायाम्॥ ३.४.४७॥

‘दंश दशने’ अस्माद् धातोरुपपूर्वात् तृतीयान्त उपपदे णमुल् प्रत्ययो भवति। मूलकोपदंशं भुङ्क्ते। मूलकेनोपदंशम्। आर्द्रकोपदंशम्। आर्द्रकेणोपदंशम्। अत्र विकल्पेनोपपदसमासः ‘तृतीयाप्रभृतीन्यन्यतरस्याम्’(२.२.२१) इति। मूलकादि चोपदंशेः कर्म। भुजेः करणम्। सर्वस्मिन्नेवात्र णमुल्प्रकरणे क्रियाभेदे सति वासरूपविधिना क्त्वापि भवति। मूलकेनोपदश्य भुङ्क्ते॥

हिंसार्थानां च समानकर्मकाणाम् ॥ ३.४.४८॥

तृतीयायामित्येव। हिंसा प्राण्युपघातः। तदर्थानां धातूनामनुप्रयोगधातुना समानकर्मकाणां तृतीयान्त उपपदे णमुल् प्रत्ययो भवति। दण्डोपघातं गाः कालयति। दण्डेनोपघातम्। दण्डताडम्। दण्डेन ताडम्। समानकर्मकाणामिति किम्? चोरं दण्डेनोपहत्य गोपालको गाः कालयति॥

सप्तम्यां चोपपीडरुधकर्षः ॥ ३.४.४९॥

उपशब्दः प्रत्येकमभिसंबध्यते। उपपूर्वभ्यः पीडरुधकर्षेभ्यः सप्तम्यन्त उपपदे, चकारात् तृतीयान्त उपपदे, णमुल् प्रत्ययो भवति। पार्श्वोपपीडं शेते। पार्श्वयोरुपपीडम्। पार्श्वाभ्यामुपपीडम्। व्रजोपरोधं गाः स्थापयति। व्रज उपरोधम्। व्रजेनोपरोधम्। पाण्युपकर्षं धानाः संगृह्णाति। पाणावुपकर्षम्। पाणिनोपकर्षम्। कर्षतेरिदं ग्रहणम्, न कृषतेः॥

समासत्तौ ॥ ३.४.५०॥

सप्तम्यां तृतीयायामिति वर्तते। समासत्तिः सन्निकर्षः। समासत्तौ गम्यमानायां तृतीयासप्तम्योरुपपदयोर्धातोर्णमुल् प्रत्ययो भवति। केशग्राहं युध्यन्ते। केशेषु ग्राहम्। केशैर्ग्राहम्। हस्तग्राहम्। हस्तेषु ग्राहम्। हस्तैर्ग्राहम्। युद्धसंरम्भादत्यन्तं सन्निकृष्यन्त इत्यर्थः॥

प्रमाणे च ॥ ३.४.५१॥

तृतीयासप्तम्योरित्येव। प्रमाणमायामः, दैर्घ्यम्। प्रमाणे गम्यमाने तृतीयासप्तम्योरुपपदयोर्धातोर्णमुल् प्रत्ययो भवति। द्व्यङ्गुलोत्कर्षं खण्डिकां छिनत्ति। द्व्यङ्गुल उत्कर्षम्, द्व्यङ्गुलेनोत्कर्षम्। त्र्यङ्गुलोत्कर्षम्॥

अपादाने परीप्सायाम् ॥ ३.४.५२॥

परीप्सा त्वरा। परीप्सायां गम्यमानायामपादान उपपदे धातोर्णमुल् प्रत्ययो भवति। शय्योत्त्थायं धावति। शय्याया उत्त्थायम्। एवं नाम त्वरते यदवश्यं कर्तव्यमपि नापेक्षते। शय्योत्त्थानमात्रमाद्रियते। रन्ध्रापकर्षं पयः पिबति। भ्राष्ट्रापकर्षमपूपान् भक्षयति। परीप्सायामिति किम्? आसनादुत्त्थाय गच्छति॥

द्वितीयायां च॥ ३.४.५३॥

परीप्सायामित्येव। द्वितीयान्त उपपदे परीप्सायां गम्यमानायां धातोर्णमुल् प्रत्ययो भवति। यष्टिग्राहं युध्यन्ते। यष्टिं ग्राहम्। लोष्टग्राहम्। लोष्टं ग्राहम्। एवं नाम त्वरते यदायुधग्रहणमपि नाद्रियते। लोष्टादिकं यत् किञ्चिदासन्नम्, तद् गृह्णाति॥

स्वाङ्गेऽध्रुवे ॥ ३.४.५४॥

द्वितीयायामित्येव। अध्रुवे स्वाङ्गवाचिनि द्वितीयान्त उपपदे धातोर्णमुल् प्रत्ययो भवति। अक्षिनिकाणं जल्पति। भ्रूविक्षेपं कथयति। अध्रुव इति किम्? उत्क्षिप्य शिरः कथयति। यस्मिन्नङ्गे छिन्नेऽपि प्राणी न म्रियते तदध्रुवम्। ‘अद्रवं मूर्तिमत्स्वाङ्गम्’ (का० ४.१.५४)॥

परिक्लिश्यमाने॥ ३.४.५५॥

स्वाङ्गे द्वितीयायामित्येव। परिक्लिश्यमाने स्वाङ्गवाचिनि द्वितीयान्त उपपदे धातोर्णमुल् प्रत्ययो भवति। परिक्लेशः सर्वतो विबाधनम्, दुःखनम्। उरःपेषं युध्यन्ते। उरः- प्रतिपेषं युध्यन्ते। शिरःपेषम्। शिरःप्रतिपेषम्। कृत्स्नमुरः पीडयन्तो युध्यन्ते। ध्रुवार्थोऽयमारम्भः॥

विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः॥ ३.४.५६॥

द्वितीयायामित्येव। द्वितीयान्त उपपदे विश्यादिभ्यो धातुभ्यो णमुल् प्रत्ययो भवति व्याप्यमान आसेव्यमाने चार्थे गम्यमाने। विश्यादिभिः क्रियाभिरनवयवेन पदार्थानां संबन्धो व्याप्तिः। तात्पर्यमासेवा। द्रव्ये व्याप्तिः, क्रियायामासेवा। गेहानुप्रवेशमास्ते। समासेन व्याप्त्यासेवयोरुक्तत्वाद् ‘नित्यवीप्सयोः’(८.१.४) इति द्विर्वचनं न भवति। असमासपक्षे तु व्याप्यमानतायां द्रव्यवचनस्य द्विर्वचनम्, आसेव्यमानतायां तु क्रियावचनस्य। तथा च वक्ष्यति-सुप्सु वीप्सा, तिङ्क्षु नित्यता (का० ८.१.४) इति। गेहंगेहमनुप्रवेशमास्ते। आसेवायाम्-गेहमनुप्रवेशमनुप्रवेशमास्ते। पति-गेहानुप्रपातमास्ते। गेहंगेहमनुप्रपातमास्ते। गेहमनुप्रपातमनुप्रपातमास्ते। पदि-गेहानुप्रपादमास्ते। गेहंगेहमनुप्रपादम्। गेहमनुप्रपादमनुप्रपादम्। स्कन्दि-गेहावस्कन्दमास्ते। गेहंगेहमवस्कन्दम्। गेहमवस्कन्दमवस्कन्दम्। व्याप्यमानासेव्यमानयोरिति किम्? गेहमनुप्रविश्य भुङ्क्ते। ननु चाभीक्ष्ण्ये णमुल् विहित एव। आसेवा चाभीक्ष्ण्यमेव। किमर्थं पुनरासेवायां णमुलुच्यते? क्त्वानिवृत्त्यर्थमिति चेत्, न, इष्टत्वात् तस्य। द्वितीयोपपदार्थं तर्हि वचनम्। उपपदसमासः पक्षे यथा स्यात्। तेन हि सत्युपपदाभावः॥

अस्यतितृषोः क्रियान्तरे कालेषु ॥ ३.४.५७॥

द्वितीयायामित्येव। क्रियामन्तरयति क्रियान्तरः, क्रियाव्यवधायकः। क्रियान्तरे धात्वर्थे वर्तमानाभ्यामस्यतितृषिभ्यां द्वितीयान्तेषु कालवाचिषूपपदेषु णमुल् प्रत्ययो भवति। द्व्यहात्यासं गाः पाययति। द्व्यहमत्यासं गाः पाययति। त्र्यहात्यासं गाः पाययति। त्र्यहमत्यासं गाः पाययति। द्व्यहतर्षं गाः पाययति। द्व्यहं तर्षं गाः पाययति। अत्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते विच्छिद्यते। अद्य पाययित्वा द्व्यहमतिक्रम्य पुनः पाययतीत्यर्थः। अस्यतितृषोरिति किम्? द्व्यहमुपोष्य भुङ्क्ते। क्रियान्तर इति किम्? अहरत्यस्येषून् गतः। न गतिर्व्यवधीयते। कालेष्विति किम्? योजनमत्यस्य गाः पाययति। अध्वकर्मकमत्यसनं व्यवधायकम्, न कालकर्मकम्॥

नाम्न्यादिशिग्रहोः ॥ ३.४.५८॥

द्वितीयायामित्येव। नामशब्दे द्वितीयान्त उपपद आदिशेर्ग्रहेश्च धातोर्णमुल् प्रत्ययो भवति। नामादेशमाचष्टे। नामग्राहमाचष्टे॥

अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ ॥ ३.४.५९॥

अव्यय उपपदेऽयथाभिप्रेताख्याने गम्यमाने करोतेः क्त्वाणमुलौ भवतः। ब्राह्मण पुत्रस्ते जातः। किं तर्हि वृषल नीचैः कृत्याचक्षे। नीचैः कृत्वा। नीचैःकारम्। उच्चैर्नाम प्रियमाख्येयम्। ब्राह्मण कन्या ते गर्भिणी। किं तर्हि वृषलोच्चैःकृत्याचक्षे। उच्चैःकृत्वा। उच्चैःकारम्। नीचैर्नामाप्रियमाख्येयम्। अयथाभिप्रेताख्यान इति किम्? उच्चैः कृत्वाचष्टे पुत्रस्ते जात इति। क्त्वाग्रहणं किम्, यावता सर्वस्मिन्नेवात्र प्रकरणे वासरूपेण क्त्वा भवतीत्युक्त म्? समासार्थं वचनम्। तथा हि‘क्त्वा च’(२.२.२२) इत्यस्मिन् सूत्रे ‘तृतीयाप्रभृतीन्यन्यतरस्याम्’(२.२.२१) इति वर्तते। णमुलधिकारे पुनर्णमुल्ग्रहणं तुल्यकक्षत्वज्ञापनार्थम्। तेनोत्तरत्र द्वयोरप्यनुवृत्तिर्भविष्यति॥

तिर्यच्यपवर्गे ॥ ३.४.६०॥

तिर्यक्शब्द उपपदे कृञः क्त्वाणमुलौ प्रत्ययौ भवतोऽपवर्गे गम्यमाने। अपवर्गः समाप्तिः। तिर्यक्कृत्य गतः। तिर्यक् कृत्वा गतः। तिर्यक्कारं गतः। समाप्य गत इत्यर्थः। अपवर्ग इति किम्? तिर्यक् कृत्वा काष्ठं गतः। तिर्यचीति शब्दानुकरणम्। न च प्रकृतिवदनुकरणेन भवितव्यम्, अनुक्रियमाणरूपविनाशप्रसङ्गात्। ‘एतदोऽश्’(२.४.३३), ‘अदसो मात्’ (१.१.१२) इति॥

स्वाङ्गे तस्प्रत्यये कृभ्वोः ॥ ३.४.६१॥

तस् प्रत्ययो यतः स्वाङ्गात् तदेवमुच्यते। तस्प्रत्यये स्वाङ्गवाचिन्युपपदे करोतेर्भवतेश्च धात्वोः क्त्वाणमुलौ प्रत्ययौ भवतः। यथासंख्यमत्र नेष्यते, अस्वरितत्वात्। मुखतःकृत्य गतः। मुखतः कृत्वा गतः। मुखतःकारं गतः। मुखतोभूय तिष्ठति। मुखतो भूत्वा तिष्ठति। मुखतोभावं तिष्ठति। पृष्ठतःकृत्य गतः। पृष्ठतः कृत्वा गतः। पृष्ठतःकारं गतः। पृष्ठतोभूय गतः। पृष्ठतो भूत्वा। पृष्ठतोभावाम्। स्वाङ्ग इति किम्? सर्वतः कृत्वा गतः। तस्ग्रहणं किम्? मुखीकृत्य गतः। मुखीभूय गतः। प्रत्ययग्रहणं किम्? मुखे तस्यतीति मुखतः, मुखतः कृत्वा गतः॥

नाधार्थप्रत्यये च्व्यर्थे ॥ ३.४.६२॥

नार्थो धार्थश्च प्रत्ययो यस्मात् स एवमुच्यते। नाधार्थप्रत्यये शब्दे च्वयर्थ उपपदे कृभ्वोर्धात्वोः क्त्वाणमुलौ प्रत्ययौ भवतः। अनाना नाना कृत्वा गतः, नानाकृत्य गतः। नाना कृत्वा गतः। नानाकारं गतः। विनाकृत्य गतः। विना कृत्वा गतः। विनाकारं गतः। नानाभूय गतः। नानाभूत्वा गतः। नानाभावं गतः। विनाभूय गतः। विना भूत्वा गतः। विनाभावं गतः। द्विधाकृत्य गतः। द्विधा कृत्वा गतः। द्विधाकारं गतः। द्विधाभूय गतः। द्विधा भूत्वा गतः। द्विधाभावं गतः। द्वैधंकृत्य गतः। द्वैधं कृत्वा गतः। द्वैधंकारं गतः। द्वैधंभूय गतः। द्वैधं भूत्वा गतः। द्वैधंभावं गतः। प्रत्ययग्रहणं किम्? हिरुक् कृत्वा। पृथक् कृत्वा। च्व्यर्थ इति किम्? नाना कृत्वा काष्ठानि गतः। धार्थमर्थग्रहणम्, ना पुनरेक एव ‘विनञ्भ्यां नानाञौ०’(५.२.२७) इति॥

तूष्णीमि भुवः ॥ ३.४.६३॥

तूष्णींशब्द उपपदे भवतेर्धातोः क्त्वाणमुलौ प्रत्ययौ भवतः। तूष्णींभूय गतः। तूष्णीं भूत्वा। तूष्णींभावम्। भूग्रहणं कृञो निवृत्त्यर्थम्॥

** अन्वच्यानुलोम्ये॥ ३.४.६४॥**

अन्वक्शब्द उपपदे भवतेर्धातोरानुलोम्ये क्त्वाणमुलौ भवतः। आनुलोम्यमनुलोमता, अनुकूलत्वम्, परचित्तानुविधानम्। अन्वग्भूयास्ते। अन्वग् भूत्वास्ते। अन्वग्भावमास्ते। आनुलोम्य इति किम्? अन्वग् भूत्वा तिष्ठति॥

शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् ॥ ३.४.६५॥

शकादिषूपपदेषु अस्त्यर्थेषु वा धातुमात्रात् तुमुन् प्रत्ययो भवति। अक्रियार्थोपपदार्थोऽयमारम्भः। शक्नोति भोक्तुम्। धृष्णोति भोक्तुम्। ग्लायति भोक्तुम्। घटते भोक्तुम्। आरभते भोक्तुम्। लभते भोक्तुम्। प्रक्रमते भोक्तुम्। सहते भोक्तुम्। अर्हति भोक्तुम्। अस्त्यर्थेषु खल्वपि-अस्ति भोक्तुम्। भवति भोक्तुम्। विद्यते भोक्तुम्॥

पर्याप्तिवचनेष्वलमर्थेषु॥ ३.४.६६॥

पर्याप्तिरन्यूनता। पर्याप्तिवचनेष्वलमर्थेषूपदेषु धातोस्तुमुन् प्रत्ययो भवति। पर्याप्तो भोक्तुम्। अलं भोक्तुम्। भोक्तुं पारयति। पर्याप्तिवचनेष्विति किम्? अलं कृत्वा। अलमर्थेष्विति किम्? पर्याप्तं भुङ्क्ते। पूर्वसूत्रे शकिग्रहणमनलमर्थम्। शक्यमेवं कर्तुमिति॥

कर्तरि कृत्॥ ३.४.६७॥

कृत्संज्ञकाः प्रत्ययाः कर्तरि कारके भवन्ति। कृदुत्पत्तिवाक्यानामयं शेषः। तत्र येष्वर्थादेशो नास्ति तत्रेदमुपतिष्ठते, अर्थाकाङ्क्षत्वात्। न ख्युन्नादिवाक्येषु, साक्षादर्थनिर्देशे सति तेषां निराकाङ्क्षत्वात्। कारकः। कर्ता। नन्दनः। ग्राही। पचः॥

भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा॥ ३.४.६८॥

भव्यादयः शब्दाः कर्तरि वा निपात्यन्ते। ‘तयोरेव कृत्यक्तखलर्थाः’(३.४.७०) इति भावकर्मणोः प्राप्तयोः कर्ता च वाच्यः पक्ष उच्यते। भवत्यसौ भव्यः, भव्यमनेनेति वा। गेयो माणवकः साम्नाम्, गेयानि माणवकेन सामानीति वा। प्रवचनीयो गुरुः स्वाध्यायस्य, प्रवचनीयो गुरुणा स्वाध्याय इति वा। उपस्थानीयोऽन्तेवासी गुरोः, उपस्थानीयःशिष्येण वा गुरुः। जायतेऽसौ जन्यः, जन्यमनेनेति वा। आप्लवतेऽसावाप्लाव्यः, आप्लाव्यमनेनेति वा। आपतत्यसावापात्यः, आपात्यमनेनेति वा॥

लः कर्मणि च भावे चाकर्मकेभ्यः ॥ ३.४.६९॥

ल इत्युत्सृष्टानुबन्धं सामान्यं गृह्यते। प्रथमाबहुवचनान्तं चैतत्। लकाराः कर्मणि कारके भवन्ति, चकारात् कर्तरि च। अकर्मकेभ्यो धातुभ्यो भावे भवन्ति, पुनश्चकारात् कर्तरि च। गम्यते ग्रामो देवदत्तेन। गच्छति ग्रामं देवदत्तः। अकर्मकेभ्यः-आस्यते देवदत्तेन। आस्ते देवदत्तः। सकर्मकेभ्यो भावे न भवन्ति॥

तयोरेव कृत्यक्तखलर्थाः ॥ ३.४.७०॥

तयोरेव भावकर्मणोः कृत्यसंज्ञकाः क्तखलर्थाश्च प्रत्यया भवन्ति। एवकारः कर्तुरपकर्षणार्थः। कृत्याः कर्मणि-कर्तव्यः कटो भवता। भोक्तव्य ओदनो भवता। भावे-आसितव्यं भवता। शयितव्यं भवता। क्तः कर्मणि-कृतः कटो भवता। भुक्त ओदनो भवता। भावे-आसितं भवता। शयितं भवता। खलर्थाः कर्मणि-ईषत्करः कटो भवता। सुकरः। दुष्करः। भावे-ईषदाढ्यंभवं भवता। स्वाढ्यंभवं भवता। भावे चाकर्मकेभ्य इत्यनुवृत्तेस्सकर्मकेभ्यो भावे न भवन्ति॥

आदिकर्मणि क्तः कर्तरि च ॥ ३.४.७१॥

आदिकर्मणि यः क्तो विहितः, स कर्तरि भवति। चकाराद् यथाप्राप्तं भावकर्मणोः। आदिभूतः क्रियाक्षण आदिकर्म, तस्मिन्नादिकर्मणि भूतत्वेन विवक्षिते यः क्तो विहितः, तस्यायमर्थनिर्देशः। प्रकृतः कटं देवदत्तः। प्रकृतः कटो देवदत्तेन। प्रकृतं देवदत्तेन। प्रभुक्त ओदनं देवदत्तः। प्रभुक्त ओदनो देवदत्तेन। प्रभुक्तं देवदत्तेन।

गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च ॥ ३.४.७२॥

गत्यर्थेभ्यो धातुभ्योऽकर्मकेभ्यः श्लिषादिभ्यश्च यः क्तः, स कर्तरि भवति। चकाराद् यथाप्राप्तं च भावकर्मणोः। गतो देवदत्तो ग्रामम्। गतो देवदत्तेन ग्रामः। गतं देवदत्तेन। अकर्मकेभ्यः- ग्लानो भवान्। ग्लानं भवता। आसितो भवान्। आसितं भवता। श्लिष-उपश्लिष्टो गुरुं भवान्। उपश्लिष्टो गुरुर्भवता। उपश्लिष्टं भवता। शीङ्- उपशयितो गुरुं भवान्। उपशयितो गुरुर्भवता। उपशयितं भवता। स्था-उपस्थितो गुरुं भवान्। उपस्थितो गुरुर्भवता। उपस्थितं भवता। आस-उपासितो गुरुं भवान्। उपासितो गुरुर्भवता। उपासितं भवता। वस-अनूषितो गुरुं भवान्। अनूषितो गुरुर्भवता। अनूषितं भवता। जन-अनुजातो माणवको माणविकाम्। अनुजाता माणवकेन माणविका। अनुजातं माणवकेन। रुह-आरूढो वृक्षं भवान्। आरूढो वृक्षो भवता। आरूढं भवता। जीर्यति-अनुजीर्णो वृषलीं देवदत्तः। अनुजीर्णा वृषली देवदत्तेन। अनुजीर्णं देवदत्तेन। श्लिषादयस्सोपसर्गास्सकर्मका भवन्ति, तदर्थमेषामुपादानम्॥

दाशगोघ्नौ संप्रदाने ॥ ३.४.७३॥

दाशगोघ्नौ शब्दौ संप्रदाने कारके निपात्येते। ‘दाशृ दाने’ ततः पचाद्यच्। स कृत्संज्ञकत्वात् कर्तरि प्राप्तः, संप्रदाने निपात्यते। दाशन्ति तस्मा इति दाशः। आगताय तस्मै दातुं गां घ्नन्तीति गोघ्नः, अर्घार्होऽतिथिः। टगत्र निपात्यते। निपातनसामर्थ्यादेव गोघ्न ऋत्विगादिरुच्यते, न तु चण्डालादिः। असत्यपि च गोहनने तस्य योग्यतया गोघ्न इत्यभिधीयते॥

भीमादयोऽपादाने ॥ ३.४.७४॥

भीमादयः शब्दा अपादाने निपात्यन्ते। उणादिप्रत्ययान्ता एते। ‘श्याधूसूभ्यो मक्’(प०उ० १.१४५) ‘भियः षुग् वा’(प०उ० १.१४८) इत्येवमादयः। ‘ताभ्यामन्यत्रोणादयः’ (३.४.७५) इति पर्युदासे प्राप्ते निपातनमारभ्यते। भीमः। भीष्मः। भयानकः। वरुः। चरुः। भूमिः। रजः। संस्कारः। संक्रन्दनः। प्रपतनः। समुद्रः। स्रुवः। स्रुक्। खलतिः॥

ताभ्यामन्यत्रोणादयः ॥ ३.४.७५॥

उणादयः शब्दास्ताभ्यामपादानसंप्रदानाभ्यामन्यत्र कारके भवन्ति। कृत्त्वात् कर्तर्येव प्राप्ताः कर्मादिषु कथ्यन्ते। ताभ्यामिति संप्रदानप्रत्यवमर्शार्थम्। अन्यथा ह्यपादानमेव पर्युदस्येत, अनन्तरत्वात्। कृषितोऽसौ कृषिः। तनित इति तन्तुः। वृत्तमिति वर्त्म। चरितं चर्म॥

क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ॥ ३.४.७६॥

ध्रौव्यार्था अकर्मकाः, प्रत्यवसानार्था अभ्यवहारार्था इति स्वनिकायप्रसिद्धिः। ध्रौव्यगतिप्रत्यवसानार्थेभ्यो यः क्तो विहितः, सोऽधिकरणे भवति। चकाराद् यथाप्राप्तं च। ध्रौव्यार्थेभ्यः कर्तृभावाधिकरणेषु, गत्यर्थेभ्यः कर्तृकर्मभावाधिकरणेषु, प्रत्यवसानार्थेभ्यः कर्मभावाधिकरणेषु। ध्रौव्यार्थेभ्यस्तावत्-आसितो देवदत्तः। आसितं तेन। इदमेषामासितम्। गत्यर्थेभ्यः- यातो देवदत्तो ग्रामम्। यातो देवदत्तेन ग्रामः। यातं देवदत्तेन। इदमेषां यातम्। प्रत्यवसानार्थेभ्यः-भुक्त ओदनो देवदत्तेन। देवदत्तेन भुक्तम्। इदमेषां भुक्तम्। कथं भुक्ता ब्राह्मणाः, पीता गाव इति? अकारो मत्वर्थीयः। भुक्तमेषामस्ति, पीतमेषामस्तीति॥

लस्य ॥ ३.४.७७॥

लस्येत्ययमधिकारः। अकार उच्चारणार्थः। लकारमात्रं स्थानित्वेनाधिक्रियते। यदित ऊर्ध्वमनुक्रमिष्यामः, लस्येत्येवं तद् वेदितव्यम्। किं चेदं लस्येति? दश लकारा अनुबन्धविशिष्टा विहिता अर्थविशेषे कालविशेषे च, तेषां विशेषकराननुबन्धानुत्सृज्य यत् सामान्यं तद् गृह्यते। षट् टितः, चत्वारो ङितः। अक्षरसमाम्नायवदानुपूर्व्या कथ्यन्ते। लट्। लिट्। लुट्। लृट्। लेट्। लोट्। लङ्। लिङ्। लुङ्। लृङ् इति। अथ लकारमात्रस्य ग्रहणं कस्माद् न भवति-लुनाति चूडाल इति? धात्वधिकारोऽनुवर्तते, कर्त्रादयश्च विशेषकाः॥

तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्॥ ३.४.७८॥

लस्य तिबादय आदेशा भवन्ति। तिप्सिप्मिपां पकारः स्वरार्थः। इटष्टकार ‘इटोऽत्’(३.४.१०६) इति विशेषणार्थः, तिबादिभिरादेशैस्तुल्यत्वाद् न देशविध्यर्थः। महिङो ङकारस्तिङ् इति प्रत्याहारग्रहणार्थः। पचति, पचतः, पचन्ति। पचसि, पचथः, पचथ। पचामि, पचावः, पचामः। पचते, पचेते, पचन्ते। पचसे, पचेथे, पचध्वे। पचे, पचावहे, पचामहे। एवमन्येष्वपि लकारेषूदाहार्यम्॥

टित आत्मनेपदानां टेरे॥ ३.४.७९॥

टितो लकारस्य स्थाने यान्यात्मनेपदानि तेषां टेरेकारादेशो भवति। तथा चैवोदाहृतम्। इह कस्माद् न भवति-पचमानो यजमानः? प्रकृतैस्तिबादिभिरात्मनेपदानि विशेष्यन्ते॥

थासः से ॥ ३.४.८०॥

टित इत्येव। टितो लकारस्य यस्थास् तस्य सेशब्द आदेशो भवति। पचसे। पेचिषे। पक्तासे। पक्ष्यसे॥

लिटस्तझयोरेशिरेच्॥ ३.४.८१॥

लिडादेशयोस्तझयोर्यथासंख्यमेश् इरेच् इत्येतावादेशौ भवतः। शकारः सर्वादेशार्थः। चकारः स्वरार्थः। पेचे, पेचाते, पेचिरे। लेभे, लेभाते, लेभिरे॥

परस्मैपदानां णलतुसुस्थलथुसणल्वमाः ॥ ३.४.८२॥

लिट इत्येव। लिडादेशानां परस्मैपदसंज्ञकानां यथासंख्यं तिबादीनां णलादयो नवादेशा भवन्ति। लकारः स्वरार्थः। णकारो वृद्ध्यर्थः। पपाच, पेचतुः पेचुः। पेचिथ, पपक्थ, पेचथुः, पेच। पपाच,पपच, पेचिव, पेचिम॥

विदो लटो वा ॥ ३.४.८३॥

परस्मैपदानामित्येव। ‘विद ज्ञाने’ अस्माद् धातोः परेषां लडादेशानां परस्मैपदानां णलादयो नव विकल्पेनादेशा भवन्ति। वेद, विदतुः, विदुः। वेत्थ, विदथुः, विद। वेद, विद्व, विद्म। न च भवति-वेत्ति, वित्तः, विदन्ति। वेत्सि, वित्थः, वित्थ। वेद्मि, विद्वः, विद्मः॥

ब्रुवः पञ्चानामादित आहो ब्रुवः ॥ ३.४.८४॥

परस्मैपदानामित्येव, लटो वेति च। ब्रुवः परस्य लटः परस्मैपदानां पञ्चानामादिभूतानां पञ्चैव णलादय आदेशा भवन्ति, तत्सन्नियोगेन च ब्रुव आहशब्द आदेशो भवति। आह, आहतुः, आहुः। आत्थ, आहथुः। न च भवति-ब्रवीति, ब्रूतः, ब्रुवन्ति। ब्रवीषि, ब्रूथः। पञ्चानामिति किम्? ब्रूथ। ब्रवीमि, ब्रूवः,ब्रूमः। आदित इति किम्? परेषां मा भूत्। ब्रुव इति पुनर्वचनं स्थान्यर्थम्, परस्मैपदानामेव हि स्यात्॥

लोटो लङ्वत् ॥ ३.४.८५॥

अतिदेशोयम्। लोटो लङ्वत् कार्यं भवति। तामादयस्सलोपश्च। पचताम्। पचतम्। पचत। पचाव, पचाम। अडाटौ कस्माद् न भवतः, तथा झेर्जुसादेशः (३.४.१०८) ‘लङः शाकटायनस्यैव’ (३.४.१११) इति- वान्तु, यान्तु? ‘विदो लटो वा’ (३.४.८३) इत्यतो वाग्रहणमनुवर्तते। सा च व्यवस्थितविभाषा भविष्यति॥

एरुः ॥ ३.४.८६॥

लोट इत्येव। लोडादेशानामिकारस्योकारादेशो भवति। पचतु। पचन्तु॥ हिन्योरुत्वप्रतिषेधो वक्तव्यः॥ न वोच्चारणसामर्थ्यात्। अथवा वेति वर्तते, सा च व्यवस्थितविभाषा॥

सेर्ह्यपिच्च ॥ ३.४.८७॥

लोट इत्येव। लोडादेशस्य सेर्हीत्ययमादेशो भवति, अपिच्च भवति। स्थानिवद्भावात् पित्त्वं प्राप्तं प्रतिषिध्यते। लुनीहि। पुनीहि। राध्नुहि। तक्ष्णुहि॥

वा छन्दसि ॥ ३.४.८८॥

अपित्त्वं विकल्प्यते। लादेशश्छन्दसि विषये हिशब्दो वापिद् भवति। यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनः॒ (ऋ० १.१८९.१)। प्रीणाहि। प्रीणीहि (काठ०सं० ४०.१२)॥

मेर्निः ॥ ३.४.८९॥

लोट इत्येव। लोडादेशस्य मेर्निरादेशो भवति। उत्वलोपयोरपवादः। पचानि। पठानि॥

आमेतः ॥ ३.४.९०॥

लोट इत्येव। लोट्संबन्धिन एकारस्य आमित्ययमादेशो भवति। पचताम्,पचेताम्, पचन्ताम्॥

सवाभ्यां वामौ ॥ ३.४.९१॥

लोट इत्येव। सकारवकाराभ्यामुत्तरस्य लोट्संबन्धिन एकारस्य यथासंख्यं व अम् इत्येतावादेशौ भवतः। आमोऽपवादः। पचस्व। पचध्वम्॥

आडुत्तमस्य पिच्च ॥ ३.४.९२॥

लोट इत्येव। लोट्संबन्धिन उत्तमपुरुषस्याडागमो भवति, स चोत्तमपुरुषः पिद् भवति। करवाणि, करवाव, करवाम। करवै, करवावहै, करवामहै॥

** एत ऐ॥ ३.४.९३॥**

लोडुत्तमस्येति वर्तते। लोडुत्तमसंबन्धिन एकारस्य ऐकारादेशो भवति। आमोऽपवादः। करवै, करवावहै, करवामहै। इह कस्माद् न भवति-पचावेदम्, यजावेदम्? बहिरङ्गलक्षणत्वाद् गुणस्य॥

** लेटोऽडाटौ ॥ ३.४.९४॥**

लेटोऽडाटावागमौ भवतः पर्यायेण। जोषि॑ष॒त् (ऋ० २.३५.१)। तारिषत् (ऋ० १.२५.१२)। मन्दिषत्। पता॑ति दि॒द्युत् (ऋ० ७.२५.१)। उद॒धिं च्या॑वयाति (तै०सं० ३.५.५.२)॥

आत ऐ ॥ ३.४.९५॥

लेट इत्येव। लेट्संबन्धिन आकारस्य ऐकारादेशो भवति। प्रथमपुरुषमध्यमपुरुषात्मनेपद-द्विवचनयोः। मन्त्रयैते। मन्त्रयैथे। करवैते। करवैथे। आटः कस्माद् न भवति? विधानसामर्थ्यात्॥

वैतोऽन्यत्र ॥ ३.४.९६॥

लेट इत्येव। लेट्संबन्धिन एकारस्य वैकारादेशो भवति। अन्यत्रेत्यनन्तरो विधिरपेक्ष्यते। ‘आत ऐ’(३.४.९५) इत्येतद्विषयं वर्जयित्वा एत ऐ भवति। सप्ताहानि शासै। अहमेव पशूनामीशै (काठ०सं० २५.१)। मद॑ग्रा ए॒व वो॒ ग्रहा॑ गृह्यान्तै॒ (तै०सं० ६.४.७.२)। मद्देव॒त्या॑न्ये॒व वः॒ पात्रा॑ण्युच्यान्तै॒ (तै०सं० ६.४.७.२)। न च भवति- यत्र॒ क्व॑ च ते॒ मनो॒ दक्षं॑ दधस॒ उत्त॑रम् (ऋ० ६.१६.१७)। अन्यत्रेति किम्? मन्त्रयैते। मन्त्रयैथे॥

इतश्च लोपः परस्मैपदेषु॥ ३.४.९७॥

लेट इत्येव। लेट्संबन्धिन इकारस्य परस्मैपदविषयस्य लोपो भवति। वानुवृत्तेः पक्षे श्रवणमपि भवति। जोषि॑ष॒त् (ऋ० २.३५.१)। तारिषत् (ऋ० १.२५.१२)। मन्दिषत्। न च भवति-पता॑ति दि॒द्युत् (ऋ० ७.२५.१)। उद॒धिं च्या॑वयाति (तै०सं० ३.५.५.२)। परस्मैपदग्रहणमिड्वहिमहिङां मा भूत्॥

स उत्तमस्य॥ ३.४.९८॥

लेट इति, वेति च वर्तते। लेट्संबन्धिन उत्तमपुरुषस्य सकारस्य वा लोपो भवति। करवाव। करवाम। न च भवति- करवावः। करवामः। उत्तमग्रहणं पुरुषान्तरे मा भूत्॥

नित्यं ङितः ॥ ३.४.९९॥

लेट इति, निवृत्तम्। ङितो लकारस्य य उत्तमः, तस्य नित्यं सकारस्य लोपो भवति। अपचाव। अपचाम। नित्यग्रहणं विकल्पनिवृत्त्यर्थम्॥

इतश्च ॥ ३.४.१००॥

ङितो इत्येव। ङिल्लकारसंबन्धिन इकारस्य नित्यं लोपो भवति। अपचत्। अपाक्षीत्। परस्मैपदेष्वित्येव-अपचावहि। अपचामहि॥

तस्थस्थमिपां तान्तन्तामः ॥ ३.४.१०१॥

ङित इत्येव। ङिल्लकारसंबन्धिनां चतुर्णां यथासंख्यं तामादय आदेशा भवन्ति। अपचताम्। अपचतम्। अपचत। अपचम्। अपाक्ताम्। अपाक्तम्। अपाक्त। अपाक्षम्॥

लिङः सीयुट् ॥ ३.४.१०२॥

लिङादेशानां सीयुडागमो भवति। टकारो देशविध्यर्थः। उकार उच्चारणार्थः। पचेत, पचेयाताम्, पचेरन्। पक्षीष्ट, पक्षीयास्ताम्, पक्षीरन्॥

यासुट् परस्मैपदेषूदात्तो ङिच्च ॥ ३.४.१०३॥

लिङ इत्येव। परस्मैपदविषयस्य लिङो यासुडागमो भवति, स चोदात्तो भवति, ङिच्च। सीयुटोऽपवादः। आगमानुदात्तत्वे प्राप्ते, ङित्त्वं तु लिङ एव विधीयते, तत्र तत्कार्याणां संभवाद्, नागमस्य। कुर्यात्, कुर्याताम्, कुर्युः। स्थानिवद्भावादेव लिङादेशस्य ङित्त्वे सिद्धे यासुटो ङिद्ववचनं ज्ञापनार्थम्-लकाराश्रयङित्त्वमादेशानां न भवतीति। अचिनवम्। अकरवम्॥

किदाशिषि ॥ ३.४.१०४॥

आशिषि यो लिङ्, तस्य यासुडागमो भवति, स चोदात्तः किद्वद् भवति। प्रत्ययस्यैवेदं कित्त्वम्, नागमस्य, प्रयोजनाभावात्। ङित्त्वे प्राप्ते कित्त्वं विधीयते। गुणवृद्धिप्रतिषेधस्तुल्यः, संप्रसारणं जागर्तेर्गुणे च विशेषः। उच्यात्, उच्यास्ताम्, उच्यासुः। जागर्यात्, जागर्यास्ताम्, जागर्यासुः। आशिषीति किम्? वच्यात्। जागृयात्॥

झस्य रन् ॥ ३.४.१०५॥

लिङ इत्येव। झस्य लिङादेशस्य रन्नित्ययमादेशो भवति। झोऽन्तापवादः। पचेरन्। यजेरन्। कृषीरन्॥

इटोऽत् ॥ ३.४.१०६॥

लिङादेशस्य इटोऽत् इत्ययमादेशो भवति। पचेय। यजेय। कृषीय। हृषीय। तकारस्येत्संज्ञाप्रतिषेधः प्राप्नोति-‘न विभक्तौ तुस्माः’(१.३.४) इति? नैवायमादेशावयवस्तकारः। किं तर्हि? मुखसुखार्थ उच्चार्यते। आगमस्येटो ग्रहणं न भवति, ‘अर्थवद्ग्रहणे नानर्थकस्य’(परि० १४) इति॥

सुट् तिथोः॥ ३.४.१०७॥

लिङ इत्येव। लिङ्संबन्धिनोस्तकारथकारयोः सुडागमो भवति। तकारथकारावागमिनौ, लिङ् तद्विशेषणम्। सीयुटस्तु लिङेवागमी। तेन भिन्नविषयत्वात् सुटा बाधनं न भवति। तकार इकार उच्चारणार्थः। कृषीष्ट, कृषीयास्ताम्। कृषीष्ठाः, कृषीयास्थाम्॥

झेर्जुस् ॥ ३.४.१०८॥

लिङ इत्येव। लिङादेशस्य झेर्जुसादेशो भवति। झोऽन्तापवादः। पचेयुः। यजेयुः॥

सिजभ्यस्तविदिभ्यश्च ॥ ३.४.१०९॥

अलिङर्थ आरम्भः। सिचः परस्य, अभ्यस्तसंज्ञकेभ्यो वेत्तेश्चोत्तरस्य झेर्जुसादेशो भवति। अभ्यस्तविदिग्रहणमसिजर्थम्। ङित इति चानुवर्तते। सिचस्तावत्-अकार्षुः। अहार्षुः। अभ्यस्तात्-अबिभयुः। अजिह्रयुः। अजागरुः। विदेः- अविदुः॥

आतः॥ ३.४.११०॥

सिज्ग्रहणमनुवर्तते। सिच आकारान्ताच्च परस्य झेर्जुसादेशो भवति। कथमाभ्यामानन्तर्यम्? सिचो लुकि कृते प्रत्ययलक्षणेन सिचोऽनन्तरः, श्रुत्या चाकारान्तादिति। अदुः। अधुः। अस्थुः। तकारो मुखसुखार्थः। पूर्वेणैव सिद्धे नियमार्थं वचनम्-आत एव सिज्लुगन्ताद्, नान्यस्मादिति। अभूवन्। प्रत्ययलक्षणेन जुस् प्राप्तः प्रतिषिध्यते, तुल्यजातीयापेक्षत्वाद् नियमस्य। श्रूयमाणे हि सिचि भवत्येव-अकार्षुः। अहार्षुः॥

लङः शाकटायनस्यैव॥ ३.४.१११॥

आत इत्येव। आकारान्तादुत्तरस्य लङादेशस्य झेर्जुसादेशो भवति शाकटायनस्याचार्यस्य मतेन। अयुः। अवुः। अन्येषां मते-अयान्। अवान्। ननु ङित इत्यनुवर्तते। अत्र लङेवाकारान्तादनन्तरो ङित् संभवति नान्यः, तत्किं लङ्ग्रहणेन? एवं तर्हि लङेव यो लङ् विहितस्तस्य यथा स्यात्, लङ्वद्भावेन यस्तस्य मा भूत्-‘लोटो लङ्वत्’(३.४.८५) इति। यान्तु। वान्तु। ‘सिजभ्यस्तविदिभ्यश्च’ (३.४.१०९) इत्ययमपि झेर्जुस् लोटो न भवति। बिभ्यतु। जाग्रतु। विदन्तु। जुस्भावमात्रं हि मुख्येन लङा विशेष्यते। एवकार उत्तरार्थः॥

द्विषश्च॥ ३.४.११२॥

लङः शाकटायनस्यैवेत्येव। द्विषः परस्य लङादेशस्य झेर्जुसादेशो भवति शाकटायनस्याचार्यस्य मतेन। अद्विषुः। अन्येषां मते-अद्विषन्॥

तिङ्शित् सार्वधातुकम् ॥ ३.४.११३॥

तिङः शितश्च प्रत्ययाः सार्वधातुकसंज्ञा भवन्ति। भवति। नयति। स्वपिति। रोदिति। पवमानः। यजमानः। सार्वधातुकप्रदेशाः-‘सार्वधातुके यक् ’(३.१.६७) इत्येवमादयः॥

आर्धधातुकं शेषः ॥ ३.४.११४॥

तिङः शितश्च वर्जयित्वान्यः प्रत्ययः शेषो धातुसंशब्दनेन विहित आर्धधातुकसंज्ञो भवति। लविता। लवितुम्। लवितव्यम्। धातोरित्येव-वृक्षत्वम्, वृक्षतास्ति। लूभ्याम्, लूभिः। जुगुप्सते॥

लिट् च ॥ ३.४.११५॥

लिडादेशस्तिङार्धधातुकसंज्ञो भवति। सार्वधातुकसंज्ञाया अपवादः। पेचिथ। शेकिथ। जग्ले। मम्ले। ननु चैकसंज्ञाधिकारादन्यत्र समावेशो भवति? सत्यमेतत्। इह त्वेवकारोऽनुवर्तते, स नियमं करिष्यति॥

लिङाशिषि॥ ३.४.११६॥

आशिषि विषये यो लिङ्, स आर्धधातुकसंज्ञो भवति। सार्वधातुकसंज्ञाया अपवादः। समावेशश्चैवकारानुवृत्तेर्न भवति। लविषीष्ट। पविषीष्ट। आशिषीति किम्? लुनीयात्। पुनीयात्॥

छन्दस्युभयथा ॥ ३.४.११७॥

छन्दसि विषय उभयथा भवति, सार्वधातुकमार्धधातुकं च। किं लिङेवानन्तरः संबध्यते? नैतदस्ति। सर्वमेव प्रकरणमपेक्ष्यैतदुच्यते। तिङ्शिदादि छन्दस्युभयथा भवति। वर्ध॑न्तु त्वा सुष्टु॒तयः॒ (ऋ० ७.९९.७)। आर्धधातुकत्वाण् णिलोपः। वर्धयन्त्विति प्राप्ते। शेषं च सार्वधातुकम्- स्व॒स्तये॒ नाव॑मि॒वारु॑हेम (ऋ०१०.१७८.२)। क्तिनः सार्वधातुकत्वादस्तेर्भूभावो न भवति। लिट् सार्वधातुकम्-सस॒वांसो॒ विशृ॑ण्विरे (ऋ० ४.८.६)। इ॒म इन्द्रा॑य सुन्विरे॒ (ऋ० ७.३२.४)। लिङ् उभयथा भवति-उप॑ स्थेयाम शर॒णा बृ॒हन्त॑ (ऋ०६.४७.८)। सार्वधातुकत्वाल् लिङः सलोपः, आर्धधातुकत्वादेत्वम्। ‘व्यत्ययो बहुलम्’(३.१.८५) इत्यस्यैवायं प्रपञ्चः॥

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य चतुर्थःपादः॥