०३

उणादयो बहुलम् ॥ ३.३.१॥

वर्तमान इत्येव, संज्ञायामिति च। उणादयः प्रत्यया वर्तमानेऽर्थे संज्ञायां विषये बहुलं भवन्ति। यतो विहितास्ततोऽन्यत्रापि भवन्ति। केचिदविहिता एव प्रयोगत उन्नीयन्ते। ‘कृवापाजिमिस्वदिसाध्यशूभ्य उण्’ (प०उ० १.१)। कारुः। वायुः। पायुः। जायुः। मायुः। स्वादुः। साधुः। आशुः।

बाहुलकं प्रकृतेस्तनुदृष्टेः प्रायसमुच्चयनादपि तेषाम्।

कार्यसशेषविधेश्च तदुक्तं नैगमरूढिभवं हि सुसाधु॥ १॥

नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम्।

यन्न पदार्थविशेषसमुत्त्थं प्रत्ययतः प्रकृतेश्च तदूह्यम् ॥ २॥

संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे।

कार्याद् विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ॥ ३॥

भूतेऽपि दृश्यन्ते ॥ ३.३.२॥

पूर्वत्र वर्तमानाधिकाराद् भूतार्थमिदं वचनम्। भूते काल उणादयः प्रत्यया दृश्यन्ते। वृत्तमिदं वर्त्म। चरितं तदिति चर्म। भसितं तदिति भस्म। दृशिग्रहणं प्रयोगानुसारार्थम्॥

भविष्यति गम्यादयः ॥ ३.३.३॥

भविष्यति काले गम्यादयः शब्दाः साधवो भवन्ति। प्रत्ययस्यैव भविष्यत्कालता विधीयते न प्रकृतेः। गमी ग्रामम्। आगामी। प्रस्थायी। प्रतिरोधी। प्रतिबोधी। प्रतियोधी। प्रतियोगी। प्रतियायी। आयायी। भावी॥ अनद्यतन उपसंख्यानम्॥ श्वो गमी ग्रामम्॥

यावत्पुरानिपातयोर्लट्॥ ३.३.४॥

भविष्यतीत्येव। यावत्पुराशब्दयोर्निपातयोरुपपदयोर्भविष्यति काले धातोर्लट् प्रत्ययो भवति। यावद् भुङ्क्ते। पुरा भुङ्क्ते। निपातयोरिति किम्? यावद् दास्यति तावद् भोक्ष्यते। करणभूतया पुरा व्रजिष्यति॥

विभाषा कदाकर्ह्योः ॥ ३.३.५॥

कदा कर्हि इत्येतयोरुपपदयोर्विभाषा भविष्यति काले धातोर्लट् प्रत्ययो भवति। कदा भुङ्क्ते, कदा भोक्ष्यते, कदा भोक्ता। कर्हि भुङ्क्ते, कर्हि भोक्ष्यते, कर्हि भोक्ता॥

किंवृत्ते लिप्सायाम् ॥ ३.३.६॥

विभाषेति वर्तते। किमो वृत्तं किंवृत्तम्। वृत्तग्रहणेन तद् विभक्त्यन्तं प्रतीयात्, डतरडतमौ चेति परिसंख्यानं स्मर्यते। किंवृत्त उपपदे लिप्सायां भविष्यति काले धातोर्विभाषा लट् प्रत्ययो भवति। लिप्सा, लब्धुमिच्छा प्रार्थनाभिलाषः। कं भवन्तो भोजयन्ति? कं भवन्तो भोजयितारः? लब्धुकामः पृच्छति-कतरो भिक्षां दास्यति, ददाति, दाता वा? कतमो भिक्षां दास्यति, ददाति, दाता वा? लिप्सायामिति किम्? कः पाटलिपुत्रं गमिष्यति॥

लिप्स्यमानसिद्धौ च ॥ ३.३.७॥

विभाषेत्येव। लिप्स्यमानात् सिद्धिर्लिप्स्यमानसिद्धिः। लिप्स्यमानसिद्धौ गम्यमानायां भविष्यति काले धातोर्विभाषा लट् प्रत्ययो भवति। अकिंवृत्तार्थोऽयमारम्भः। यो भक्तं ददाति, स स्वर्गं गच्छति। यो भक्तं दास्यति, स स्वर्गं गमिष्यति। यो भक्तं दाता, स स्वर्गं गन्ता। लिप्स्यमानाद् भक्तात् स्वर्गसिद्धिमाचक्षाणो दातारं प्रोत्साहयति॥

लोडर्थलक्षणे च ॥ ३.३.८॥

लोडर्थः प्रैषादिर्लक्ष्यते येन, स लोडर्थलक्षणो धात्वर्थः, तत्र वर्तमानाद् धातोर्भविष्यति काले विभाषा लट् प्रत्ययो भवति। उपाध्यायश्चेदागच्छति, उपाध्यायश्चेदागमिष्यति, उपाध्यायश्चेदागन्ता, अथ त्वं छन्दोऽधीष्व, अथ त्वं व्याकरणमधीष्व। उपाध्यायागमनमध्ययनप्रैषस्य लक्षणम्॥

लिङ् चोर्ध्वमौहूर्तिके ॥ ३.३.९॥

भविष्यति, विभाषा, लोडर्थलक्षण इति सर्वमनुवर्तते। ऊर्ध्वमौहूर्तिके भविष्यति काले लोडर्थलक्षणार्थे वर्तमानाद् धातोर्विभाषा लिङ् प्रत्ययो भवति, चकाराल्लट् च। ऊर्ध्वं मुहूर्ताद् भव ऊर्ध्वमौहूर्तिकः। निपातनात् समासः, उत्तरपदवृद्धिश्च। भविष्यतश्चैतद् विशेषणम्। ऊर्ध्वं मुहूर्तादुपरि मुहूर्तस्योपाध्यायश्चेदागच्छेत्, उपाध्यायश्चेदागच्छति, उपाध्यायश्चेदागमिष्यति, उपाध्यायश्चेदागन्ता, अथ त्वं छन्दोऽधीष्व, अथ त्वं व्याकरणमधीष्व॥

तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ॥ ३.३.१०॥

भविष्यतीत्येव। क्रियार्थायां क्रियायामुपपदे धातोर्भविष्यति काले तुमुन्ण्वुलौ प्रत्ययो भवतः। भोक्तुं व्रजति। भोजको व्रजति। भुजिक्रियार्थो व्रजिरत्रोपपदम्। क्रियायामिति किम्? भिक्षिष्य इत्यस्य जटाः। क्रियार्थायामिति किम्? धावतस्ते पतिष्यति दण्डः। अथ किमर्थं ण्वुल् विधीयते, यावता ‘ण्वुल्तृचौ’ (३.१.१३३) इति सामान्येन विहित एव, सोऽस्मिन्नपि विषये भविष्यति? लृटा क्रियार्थोपपदेन बाध्यते। वासरूपविधिना सोऽपि भविष्यति? एवं तर्ह्येतज् ज्ञाप्यते- क्रियायामुपपदे क्रियार्थायां वासरूपेण तृजादयो न भवन्ति (महाभाष्य २.१४१) इति। तेन कर्ता व्रजति, विक्षिपो व्रजतीत्येवमादि निवर्त्यते॥

भाववचनाश्च ॥ ३.३.११॥

भविष्यतीत्येव। ‘भावे’(३.३.१८) इति प्रकृत्य ये घञादयो विहितास्ते च भाववचना भविष्यति काले क्रियायामुपपदे क्रियार्थायां भवन्ति। किमर्थमिदं यावता विहिता एव ते? क्रियार्थोपपदे विहितेनास्मिन्विषये तुमुना बाध्येरन्। वासरूपविधिश्चात्र नास्तीत्युक्तम् (३.३.१०)। अथ वचनग्रहणं किमर्थम्? वाचका यथा स्युः। कथं च वाचका भवन्ति? याभ्यः प्रकृतिभ्यो येन विशेषणेन विहिताः, यदि ताभ्यस्तथैव भवन्ति, नासामञ्जस्येनेति। पाकाय व्रजति। भूतये व्रजति। पुष्टये व्रजति॥

अण् कर्मणि च॥ ३.३.१२॥

भविष्यतीत्येव। चकारः सन्नियोगार्थः। धातोरण् प्रत्ययो भवति भविष्यति काले कर्मण्युपपदे क्रियायां च क्रियार्थायाम्। ‘कर्मण्यण्’ (३.२.१) इति सामान्येन विहितो वासरूपविधेरभावाद् ण्वुला बाधितः पुनरण् विधीयते, सोऽपवादत्वाद् ण्वुलं बाधते, परत्वात् कादीन्। तेनापवादविषयेऽपि भवत्येव। काण्डलावो व्रजति। अश्वदायो व्रजति। गोदायो व्रजति। कम्बलदायो व्रजति॥

लृट् शेषे च ॥ ३.३.१३॥

भविष्यतीत्येव। शेषः क्रियार्थोपपदादन्यः। शेषे शुद्धे भविष्यति काले, चकारात् क्रियायां चोपपदे क्रियार्थायां धातोर्लृट प्रत्ययो भवति। करिष्यामीति व्रजति। हरिष्यामीति व्रजति। शेषे खल्वपि-करिष्यति। हरिष्यति॥

लृटः सद् वा ॥ ३.३.१४॥

लृटः स्थाने सत्संज्ञौ शतृशानचौ वा भवतः। व्यवस्थितविभाषेयम्। तेन यथा लटः शतृशानचौ तथास्यापि भवतः। अप्रथमासमानाधिकरणादिषु नित्यम्, अन्यत्र विकल्पः। करिष्यन्तं देवदत्तं पश्य। करिष्यमाणं देवदत्तं पश्य। हे करिष्यन्। हे करिष्यमाण। अर्जयिष्यमाणो वसति। प्रथमासमानाधिकरणे विकल्पः। करिष्यन् देवदत्तः। करिष्यमाणो देवदत्तः। करिष्यति। करिष्यते॥

अनद्यतने लुट् ॥ ३.३.१५॥

भविष्यतीत्येव। भविष्यदनद्यतनेऽर्थे वर्तमानाद् धातोर्लुट् प्रत्ययो भवति। लृटोऽपवादः। श्वःकर्ता। श्वो भोक्ता । अनद्यतन इति बहुव्रीहिनिर्देशः। तेन व्यामिश्रे न भवति। अद्य श्वो वा भविष्यतीति॥ परिदेवने श्वस्तनी भविष्यदर्थे वक्तव्या॥ इयं नु कदा गन्ता, यैवं पादौ निदधाति। अयं नु कदाध्येता, य एवमनभियुक्तः॥

पदरुजविशस्पृशो घञ्॥ ३.३.१६॥

भविष्यतीति निवृत्तम्। इत उत्तरं त्रिष्वपि कालेषु प्रत्ययाः। पदादिभ्यो धातुभ्यो घञ् प्रत्ययो भवति। पद्यतेऽसौ पादः। रुजत्यसौ रोगः। विशत्यसौ वेशः॥ स्पृश उपताप इति वक्तव्यम्॥ स्पृशतीति स्पर्श उपतापः। ततोऽन्यत्र पचाद्यच् भवति। स्प॒र्शो देवदत्तः। स्वरे विशेषः॥

सृ स्थिरे॥ ३.३.१७॥

सर्तेर्धातोः स्थिरे कर्तरि घञ् प्रत्ययो भवति। स्थिर इति कालान्तरस्थायी पदार्थ उच्यते। स चिरं तिष्ठन् कालान्तरं सरतीति धात्वर्थस्य कर्ता युज्यते। चन्दनसारः। खदिरसारः। स्थिर इति किम्? सर्ता। सारकः॥ व्याधिमत्स्यबलेष्विति वक्तव्यम्॥ अतीसारो व्याधिः। विसारो मत्स्यः। सारो बलम्॥

भावे ॥ ३.३.१८॥

भावे वाच्ये धातोर्घञ् प्रत्ययो भवति। पाकः। त्यागः। रागः। क्रियासामान्यवाची भवतिः। तेनार्थनिर्देशः क्रियमाणः सर्वधातुविषयः कृतो भवति। धात्वर्थश्च धातुनैवोच्यते। यस्तस्य सिद्धता नाम धर्मः तत्र घञादयः प्रत्यया विधीयन्ते। पुँल्लिङ्गमेकवचनं चात्र न तन्त्रम्, लिङ्गान्तरे वचनान्तरेऽपि चात्र प्रत्यया भवन्त्येव। पक्तिः। पचनम्। पक्वम्। पाकौ। पाका इति॥

अकर्तरि च कारके संज्ञायाम् ॥ ३.३.१९॥

कर्तृवर्जिते कारके संज्ञायां विषये धातोर्घञ् भवति। प्रास्यन्ति तं प्रासः। प्रसीव्यन्ति तं प्रसेवः। आहरन्ति तस्माद् रसमित्याहारः। मधुराहारः। तक्षशिलाहारः। अकर्तरीति किम्? मिषत्यसौ मेषः। संज्ञायामिति किम्? कर्तव्यःकटः। चकारः संज्ञाव्यभिचारार्थः। को भवता दायो दत्तः। को भवता लाभो लब्धः। कारकग्रहणं पर्युदासे न कर्तव्यम्, तत् क्रियते प्रसज्यप्रतिषेधेऽपि समासोऽस्तीति ज्ञापनार्थम्, ‘आदेच उपदेशेऽशिति’ (६.१.४५) इति। इत उत्तरं भावे अकर्तरि च कारक इति च द्वयमनुवर्तते॥

परिमाणाख्यायां सवेभ्यः ॥ ३.३.२०॥

परिमाणाख्यायां गम्यमानायां सर्वेभ्यो धातुभ्यो घञ् प्रत्ययो भवति। एकस्तण्डुल-निश्चायः। द्वौ शूर्पनिष्पावौ। ‘कृ विक्षेपे’- द्वौ कारौ। त्रयः काराः। सर्वग्रहणमपोऽपि बाधनार्थम्। पुरस्तादपवादन्यायेन ह्यचमेव बाधेत नापम्। परिमाणाख्यायामिति किम्? निश्चयः। आख्याग्रहणं रूढिनिरासार्थम्। तेन संख्यापि गृह्यते, न प्रस्थाद्येव। घञनुक्रमणमजपोर्विषये, स्त्रीप्रत्ययास्तु न बाध्यन्ते। एका तिलोच्छ्रितिः। द्वे प्रसृती॥ दारजारौ कर्तरि णिलुक् च॥ दारयन्तीति दाराः। जरयन्तीति जाराः॥

इङश्च ॥ ३.३.२१॥

इङो धातोर्घञ् प्रत्ययो भवति। अचोऽपवादः। अध्यायः। उपेत्यास्मादधीत उपाध्यायः॥ अपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीष्॥ उपाध्याया। उपाध्यायी॥ शृ वायुवर्णनिवृतेषु॥ शारो वायुः। शारो वर्णः। शारो निवृतम्।

गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः॥

उपसर्गे रुवः ॥ ३.३.२२॥

उपसर्ग उपपदे रौतेर्धातोर्घञ् प्रत्ययो भवति। अपोऽपवादः। संरावः। उपरावः। उपसर्ग इति किम्? रवः॥

समि युद्रुदुवः ॥ ३.३.२३॥

सम्युपपदे यु द्रु दु इत्येतेभ्यो धातुभ्यो घञ् प्रत्ययो भवति। संयावः। संद्रावः। संदावः। समीति किम्? प्रयवः॥

श्रिणीभुवोऽनुपसर्गे ॥ ३.३.२४॥

श्रि णी भू इत्येतेभ्यो धातुभ्योऽनुपसर्गेभ्यो घञ् प्रत्ययो भवति। अजपोरपवादः। श्रायः। नायः। भावः। अनुपसर्ग इति किम्? प्रश्रयः। प्रणयः। प्रभवः। कथं प्रभावो राज्ञः? प्रकृष्टो भाव इति प्रादिसमासो भविष्यति। कथं च नयो राज्ञः? ‘कृत्यल्युटो बहुलम्’(३.३.११३) इत्यज् भविष्यति॥

वौ क्षुश्रुवः ॥ ३.३.२५॥

वावुपपदे क्षु श्रु इत्येताभ्यां धातुभ्यां घञ् प्रत्ययो भवति। अपोऽपवादः। विक्षावः। विश्रावः। वाविति किम्? क्षवः। श्रवः॥

अवोदोर्नियः ॥ ३.३.२६॥

अव उद् इत्येतयोरुपपदयोर्नयतेर्धातोर्घञ् प्रत्ययो भवति। अवनायः। उन्नायः। कथमुन्नयः पदार्थानाम्? ‘कृत्यल्युटो बहुलम्’ (३.३.११३) इत्यज् भविष्यति॥

प्रे द्रुस्तुस्रुवः ॥ ३.३.२७॥

प्रशब्द उपपदे द्रु स्तु स्रु इत्येतेभ्यो धातुभ्यो घञ् प्रत्ययो भवति। प्रद्रावः। प्रस्तावः। प्रस्रावः। प्र इति किम्? द्रवः। स्तवः। स्रवः॥

निरभ्योः पूल्वोः ॥ ३.३.२८॥

पू इति पूङ्पूञोः सामान्येन ग्रहणम्। ‘लूञ् छेदने’। यथासंख्यमुपसर्गसंबन्धः। निरभिपूर्वयोः पूल्वोर्धात्वोर्घञ् प्रत्ययो भवित। निष्पावः। अभिलावः। निरभ्योरिति किम्? पवः। लवः॥

उन्न्योर्ग्रः ॥ ३.३.२९॥

‘गृ शब्दे’ ‘गृ निगरणे’ द्वयोरपि ग्रहणम्। उन्न्योरुपपदयोर्गृृ इत्येतस्माद् धातोर्घञ् प्रत्ययो भवति। उद्गारः समुद्रस्य। निगारो देवदत्तस्य। उन्न्योरिति किम्? गरः॥

कृ धान्ये ॥ ३.३.३०॥

उन्न्योरिति वर्तते। कृ इत्येतस्माद् धातोरुन्न्योरुपपदयोर्घञ् प्रत्ययो भवति, धान्यविषयश्चेद् धात्वर्थो भवति। विक्षेपार्थस्य किरतेर्ग्रहणम्, न हिंसार्थस्य, अनभिधानात्। उत्कारो धान्यस्य। निकारो धान्यस्य। धान्य इति किम्? भैक्ष्योत्करः। पुष्पनिकरः॥

यज्ञे समि स्तुवः ॥ ३.३.३१॥

यज्ञविषये प्रयोगे संपूर्वात् स्तौतेर्घञ् प्रत्ययो भवति। संस्तावश्छन्दोगानाम्। समेत्य स्तुवन्ति यस्मिन् देशे छन्दोगाः, स देशः संस्ताव इत्युच्यते। यज्ञ इति किम्? संस्तवश्छात्रयोः॥

प्रे स्त्रोऽयज्ञे ॥ ३.३.३२॥

‘स्तृञ् आच्छादने’ अस्माद् धातोः प्रशब्द उपपदे घञ् प्रत्ययो भवति, न चेद् यज्ञविषयः प्रयोगो भवति। शङ्खप्रस्तारः। अयज्ञ इति किम्? बर्हिष्प्रस्तरः॥

प्रथने वावशब्दे ॥ ३.३.३३॥

‘स्तृञ् आच्छादने’ अस्माद् धातोर्विशब्द उपपदे घञ् प्रत्ययो भवति प्रथने गम्यमाने, तच्चेत् प्रथनं शब्दविषयं न भवति। प्रथनं विस्तीर्णता। पटस्य विस्तारः। प्रथन इति किम्? तृणविस्तरः। अशब्द इति किम्? विस्तरो वचसाम्॥

छन्दोनाम्नि च ॥ ३.३.३४॥

वौ स्त्र इति वर्तते। विपूर्वात् स्तृणातेश्छन्दोनाम्नि घञ् प्रत्ययो भवति। वृत्तमत्र छन्दो गृह्यते, यस्य गायत्र्यादयो विशेषाः, न मन्त्रब्राह्मणम्, नामग्रहणात्। विष्टारपङ्क्तिश्छन्दः। विष्टारबृहती छन्दः। विष्टारपङ्क्तिशब्दोऽत्र छन्दोनाम, न घञन्तं शब्दरूपम्, तत्र त्ववयवत्वेन वर्तते। छन्दोनाम्नीत्यधिकरणसप्तम्येषा॥

उदि ग्रहः ॥ ३.३.३५॥

उदि उपपदे ग्रहेर्धातोर्घञ् प्रत्ययो भवति। अपोऽपवादः। उद्ग्राहः॥ छन्दसि निपूर्वादपीष्यते स्रुगुद्यमननिपातनयोः॥ हकारस्य भकारः। उ॒द्ग्रा॒भं च॑ निग्रा॒भं॑ च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् (मा०सं० १७.६४)॥

समि मुष्टौ ॥ ३.३.३६॥

ग्रह इत्येव। सम्युपपदे ग्रहेर्धातोर्घञ् भवति मुष्टिविषयश्चेद् धात्वर्थो भवति। मुष्टिरङ्गुलिसंनिवेशः। अहो मल्लस्य संग्राहः। अहो मुष्टिकस्य संग्राहः। दृढमुष्टिताख्यायते। मुष्टाविति किम्? संग्रहो धान्यस्य॥

**परिन्योर्नीणोर्द्यूताभ्रेषयोः ॥ ३.३.३७॥ **

परिशब्दे निशब्दे चोपपदे यथासंख्यं निय इणश्च धातोर्घञ् प्रत्ययो भवति। अचोऽपवादः। द्यूताभ्रेषयोः, अत्रापि यथासंख्यमेव संबन्धः। द्यूतविषयश्चेन्नयतेरर्थः, अभ्रेषविषयश्चेदिणर्थः। पदार्थानामनपचारो यथाप्राप्तकरणमभ्रेषः। द्यूते तावत्-परिणायेन शारान् हन्ति। समन्तान्नयनेन। अभ्रेषे-एषोऽत्र न्यायः। द्यूताभ्रेषयोरिति किम्? परिणयः। न्ययं गतः पापः॥

परावनुपात्यय इणः ॥ ३.३.३८॥

परिशब्द उपपद इणो धातोर्घञ् प्रत्ययो भवति, अनुपात्यये गम्यमाने। क्रमप्राप्तस्यानतिपातोऽनुपात्ययः, परिपाटी। तव पर्यायः। मम पर्यायः अनुपात्यय इति किम्? कालस्य पर्ययः। अतिपात इत्यर्थः॥

व्युपयोः शेतेः पर्याये ॥ ३.३.३९॥

वि उप इत्येतयोरुपपदयोः शेतेर्धातोर्घञ् भवति पर्याये गम्यमाने। तव विशायः। मम विशायः। तव राजोपशायः। तव राजानमुपशयितुं पर्याय इत्यर्थः। पर्याय इति किम्? विशयः। उपशयः।

हस्तादाने चेरस्तेये ॥ ३.३.४०॥

हस्तादाने गम्यमाने चिनोतेर्धातोर्घञ् प्रत्ययो भवति, न चेत् स्तेयं चौर्यं भवति। हस्तादानग्रहणेन प्रत्यासत्तिरादेयस्य लक्ष्यते। पुष्पप्रचायः। फलप्रचायः हस्तादान इति किम्? वृक्षशिखरे फलप्रचयं करोति। अस्तेय इति किम्? फलप्रचयश्चौर्शेण॥ उच्चयस्य प्रतिषेधो वक्तव्यः॥

निवासचितिशरीरोपसमाधानेष्वादेश्च कः ॥ ३.३.४१॥

चेरित्येव। निवसन्त्यस्मिन्निति निवासः। चीयतेऽसौ चितिः। पाण्यादिसमुदायः शरीरम्। राशीकरणमुपसमाधानम्। एतेष्वर्थेषु चिनोतेर्घञ् प्रत्ययो भवति, धातोरादेश्च ककार आदेशः। निवासे तावत्-चिखल्लिनिकायः। चितौ-आकायमग्निं चिन्वीत। शरीरे-अनित्यकायः। उपसमाधाने-महान् गोमयनिकायः। एतेष्विति किम्? चयः। इह कस्माद् न भवति-महान् काष्ठनिचयः? बहुत्वमत्र विवक्षितं नोपसमाधानम्॥

संघे चानौत्तराधर्ये ॥ ३.३.४२॥

चेरित्येव। प्राणिनां समुदायः संघः। स च द्वाभ्यां प्रकाराभ्यां भवति। एकधर्मसमावेशेन, औत्तराधर्येण वा। तत्र औत्तराधर्यपर्युदासादितरो गृह्यते। संघे वाच्ये चिनोतेर्धातोर्घञ् प्रत्ययो भवति, आदेश्च कः। भिक्षुकनिकायः। ब्राह्मणनिकायः। वैयाकरणनिकायः। अनौत्तराधर्य इति किम्? सूकरनिचयः। प्राणिविषयत्वात् संघस्येह न भवति। कृताकृतसमुच्चयः। प्रमाणसमुच्चयः॥

कर्मव्यतिहारे णच् स्त्रियाम् ॥ ३.३.४३॥

कर्म क्रिया। व्यतिहारः परस्परकरणम्। कर्मव्यतिहारे गम्यमाने धातोर्णच् प्रत्ययो भवति स्त्रीलिङ्गे वाच्ये। तच्च भावे। चकारो विशेषणार्थो ‘णचः स्त्रियामञ्’ (५.४.१४) इति। व्यावक्रोशी। व्यावलेखी। व्यावहासी वर्तते। स्त्रियामिति किम्? व्यतिपाको वर्तते। बाधकविषयेऽपि क्वचिदिष्यते। व्यावचोरी। व्यावचर्ची। इह न भवति-व्यतीक्षा, व्यतीहा वर्तते। व्यात्युक्षी भवति। तदेतद् वैचित्र्यं कथं लभ्यते? ‘कृत्यल्युटो बहुलम्’ (३.३.११३) इति भवति॥

अभिविधौ भाव इनुण् ॥ ३.३.४४॥

अभिविधिरभिव्याप्तिः, क्रियागुणाभ्यां कार्त्स्न्येन संबन्धः। अभिविधौ गम्यमाने धातोर्भाव इनुण् भवति। सांकूटिनम्। सांराविणम्। सान्द्राविणं वर्तते। अभिविधाविति किम्? संकोटः। संरावः। संद्रावः। भाव इति वर्तमाने पुनर्भावग्रहणं वासरूपनिरासार्थम्, तेन घञ् न भवति। ल्युटा तु समावेश इष्यते। संकूटनं वर्तते। तत् कथम्? ‘कृत्यल्युटो बहुलम्’ (३.३.११३) इति॥

आक्रोशेऽवन्योर्ग्रहः ॥ ३.३.४५॥

दृष्टानुवृत्तिसामर्थ्याद् घञनुवर्तते, नानन्तर इनुण्। अव नि इत्येतयोरुपपदयोर्ग्रहेर्धातोर्घञ् प्रत्ययो भवत्याक्रोशे गम्यमाने। आक्रोशः शपनम्। अवग्राहो हन्त ते वृषल भूयात्। निग्राहो हन्त ते वृषल भूयात्। आक्रोश इति किम्? अवग्रहः पदस्य। निग्रहश्चोरस्य॥

प्रे लिप्सायाम् ॥ ३.३.४६॥

ग्रह इत्येव। प्रशब्द उपपदे ग्रहेर्धातोर्घञ् प्रत्ययो भवति लिप्सायां गम्यमानायाम्। पात्रप्रग्राहेण चरति भिक्षुः पिण्डार्थी। स्रुवप्रग्राहेण चरति द्विजो दक्षिणार्थी। लिप्सायामिति किम्? प्रग्रहो देवदत्तस्य॥

परौ यज्ञे ॥ ३.३.४७॥

परिशब्द उपपदे ग्रहेर्घञ् प्रत्ययो भवति, यज्ञविषयश्चेत् प्रत्ययान्ताभिधेयः स्यात्। उत्तरपरिग्राहः। यज्ञ इति किम्? परिग्रहो देवदत्तस्य॥

नौ वृ धान्ये ॥ ३.३.४८॥

वृ इति वृङ्वृञोः सामान्येन ग्रहणम्। निशब्द उपपदे वृ इत्येतस्माद् धातोर्धान्यविशेषेऽभिधेये घञ् प्रत्ययो भवति। अपोऽपवादः। नीवारा नाम व्रीहयो भवन्ति। धान्य इति किम्? निवरा कन्या॥

उदि श्रयतियौतिपूद्रुवः ॥ ३.३.४९॥

उच्छब्द उपपदे श्रयत्यादिभ्यो घञ् प्रत्ययो भवति। अजपोरपवादः। उच्छ्रायः। उद्यावः। उत्पावः। उद्द्रावः। कथं पतनान्ताः समुच्छ्रयाः? वक्ष्यमाणं विभाषाग्रहणमिह सिंहावलोकितन्यायेन संबध्यते॥

विभाषाङि रुप्लुवोः ॥ ३.३.५०॥

आङ्युपपदे रौतेः प्लवतेश्च विभाषा घञ् प्रत्ययो भवति। आरावः, आरवः। आप्लावः, आप्लवः॥

**अवे ग्रहो वर्षप्रतिबन्धे ॥ ३.३.५१॥ **

विभाषेति वर्तते। अव उपपदे ग्रहेर्धातोर्घञ् प्रत्ययो भवति विभाषा वर्षप्रतिबन्धेऽभिधेये। प्राप्तकालस्य वर्षस्य कुतश्चिन्निमित्तादभावो वर्षप्रतिबन्धः। अवग्राहो देवस्य, अवग्रहो देवस्य। वर्षप्रतिबन्ध इति किम्? अवग्रहः पदस्य॥

प्रे वणिजाम् ॥ ३.३.५२॥

ग्रह इति वर्तते। विभाषेत्येव। प्रशब्द उपपदे ग्रहेर्धातोर्विभाषा घञ् प्रत्ययो भवति, प्रत्ययान्तवाच्यश्चेद् वणिजां संबन्धी भवति। वणिक्संबन्धेन च तुलासूत्रं लक्ष्यते, न तु वणिजस्तन्त्रम्। तुला प्रगृह्यते येन सूत्रेण स शब्दार्थः। तुलाप्रग्राहेण चरति, तुलाप्रग्रहेण चरति वणिगन्यो वा। वणिजामिति किम्? प्रग्रहो देवदत्तस्य॥

रश्मौ च ॥ ३.३.५३॥

ग्रहो विभाषा प्र इति वर्तते। प्रशब्द उपपदे ग्रहेर्धातोर्विभाषा घञ् प्रत्ययो भवति, रश्मिश्चेत् प्रत्ययान्तेनाभिधीयते। रथादियुक्तानामश्वादीनां संयमनार्था रज्जू रश्मिरिह गृह्यते। प्रग्राहः, प्रग्रहः॥

वृणोतेराच्छादने॥ ३.३.५४॥

विभाषा प्र इति वर्तते। प्रशब्द उपपदे वृणोतेर्धातोर्विभाषा घञ् प्रत्ययो भवति, प्रत्ययान्तेन चेदाच्छादनविशेष उच्यते। प्रावारः, प्रवरः। आच्छादन इति किम्? प्रवरा गौः॥

परौ भुवोऽवज्ञाने॥ ३.३.५५॥

विभाषेत्येव। परिशब्द उपपदे भवतेर्धातोर्विभाषा घञ् प्रत्ययो भवत्यवज्ञाने गम्यमाने। अवज्ञानमसत्कारः। परिभावः, परिभवः। अवज्ञान इति किम्? सर्वतो भवनं परिभवः॥

एरच् ॥ ३.३.५६॥

भावे, अकर्तरि च कारक इति प्रकृतमनुवर्तते यावत् ‘कृत्यल्युटो बहुलम्’ (३.३.११३) इति। इवर्णान्ताद् धातोर्भावे, अकर्तरि च कारके संज्ञायामच् प्रत्ययो भवति। घञोऽपवादः। चकारो विशेषणार्थः। ‘अन्तः’ (६.२.१४३) ‘थाथघञ्क्ताजबित्रकाणाम्’ (६.२.१४४) इति। चयः। अयः। जयः। क्षयः॥ अज्विधौ भयादीनामुपसंख्यानम्॥ नपुंसके क्तादिनिवृत्त्यर्थम्। भयम्। वर्षम्॥ जवसवौ छन्दसि वक्तव्यौ॥ ऊर्वोरस्तु मे जवः (पै०सं० २०.३६.७)। पञ्चौदनस् सवः (पै०सं० ८.१९.३)॥

ॠदोरप् ॥ ३.३.५७॥

ॠकारान्तेभ्य उवर्णान्तेभ्यश्च अप् प्रत्ययो भवति। घञोऽपवादः। पित्करणं स्वरार्थम्। करः। गरः। शरः। उवर्णान्तेभ्यः-यवः। स्तवः। लवः। पवः। दकारो मुखसुखार्थः। मा भूत् तादपि परस्तपरः॥

ग्रहवृदृनिश्चिगमश्च ॥ ३.३.५८॥

ग्रहादिभ्यो धातुभ्योऽप् प्रत्ययो भवति। घञोऽपवादः। निश्चिनोतेस्त्वचोऽपवादः। ग्रहः। वरः। दरः। नि॒श्चयः॑। गमः। निश्चिग्रहणं स्वरार्थम्॥ वशिरण्योरुपसंख्यानम्॥ वशः। रणः॥ घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम्॥ प्रतिष्ठन्तेऽस्मिन्निति प्रस्थः पर्वतस्य। प्रस्नात्यस्मिन् प्रस्नः। प्रपिबन्त्यस्यामिति प्रपा। आविध्यन्ति तेनेत्याविधः। विहन्यन्तेऽस्मिन्निति विघ्नः। आयुध्यतेऽनेनेत्यायुधम्॥

उपसर्गेऽदः॥ ३.३.५९॥

अबित्येव। उपसर्ग उपपदेऽदेर्धातोरप् प्रत्ययो भवति। विघसः। प्रघसः। उपसर्ग इति किम्? घासः॥

नौ ण च ॥ ३.३.६०॥

निशब्द उपपदेऽदेर्धातोर्णः प्रत्ययो भवति, चकारादप् च। न्यादः। निघसः॥

व्यधजपोरनुपसर्गे ॥ ३.३.६१॥

व्यध जप इत्येतयोरनुपसर्गयोरप् प्रत्ययो भवति। घञोऽपवादः। व्यधः। जपः। अनुपसर्ग इति किम्? आव्याधः। उपजापः॥

स्वनहसोर्वा ॥ ३.३.६२॥

अनुपसर्ग इत्येव। स्वनहसोरनुपसर्गयोर्वा अप् प्रत्ययो भवति। स्वनः, स्वानः। हसः, हासः। अनुपसर्ग इति किम्? प्रस्वानः। प्रहासः॥

यमः समुपनिविषु च ॥ ३.३.६३॥

अनुपसर्गे वेति वर्तते। सम् उप नि वि इत्येतेषूपपदेष्वनुपसर्गेऽपि यमेर्वा अप् प्रत्ययो भवति। घञोऽपवादः। संयमः, संयामः। उपयमः, उपयामः। नियमः, नियामः। वियमः, वियामः। अनुपसर्गात् खल्वपि-यमः, यामः॥

नौ गदनदपठस्वनः ॥ ३.३.६४॥

अबित्येव। निशब्द उपपदे गद नद पठ स्वन इत्येतेभ्यो धातुभ्यो वा अप् प्रत्ययो भवति। घञोऽपवादः। निगदः, निगादः। निनदः, निनादः। निपठः, निपाठः। निस्वनः, निस्वानः॥

क्वणो वीणायां च ॥ ३.३.६५॥

नौ वानुपसर्ग इति वर्तते। क्वणतेर्धातोर्निपूर्वादनुपसर्गाच्च वीणायां वाप् प्रत्ययो भवति। घञोऽपवादः। सोपसर्गार्थं वीणाया ग्रहणम्। निक्वणः, निक्वाणः। अनुपसर्गात्-क्वणः, क्वाणः। वीणायां खल्वपि-कल्याणप्रक्वणा वीणा। एतेष्विति किम्? अतिक्वाणो वर्तते॥

नित्यं पणः परिमाणे ॥ ३.३.६६॥

‘पण व्यवहारे स्तुतौ च’ अस्माद् धातोर्नित्यमप् प्रत्ययो भवति परिमाणे गम्यमाने। नित्यग्रहणं विकल्पनिवृत्त्यर्थम्। मूलकपणः। शाकपणः। संव्यवहाराय मूलकादीनां यः परिमितो मुष्टिर्बध्यते, तस्येदमभिधानम्। परिमाण इति किम्? पाणः॥

मदोऽनुपसर्गे ॥ ३.३.६७॥

मदेर्धातोरनुपसर्गादप् प्रत्ययो भवति। घञोऽपवादः। विद्यामदः। धनमदः। कुलमदः। अनुपसर्ग इति किम्? उन्मादः। प्रमादः॥

प्रमदसंमदौ हर्षे ॥ ३.३.६८॥

प्रमद संमद इत्येतौ शब्दौ निपात्येते हर्षेऽभिधेये। कन्यानां प्रमदः। कोकिलानां संमदः। हर्ष इति किम्? प्रमादः। संमादः। प्रसंभ्यामिति नोक्तम्। निपातनं रूढ्यर्थम्॥

समुदोरजः पशुषु ॥ ३.३.६९॥

समुदोरुपपदयोरजतेर्धातोः पशुविषये धात्वर्थेऽप् प्रत्ययो भवति। घञोऽपवादः। ‘अज गतिक्षेपणयोः’ इति पठ्यते। स संपूर्वः समुदाये वर्तते, उत्पूर्वश्च प्रेरणे। समजः पशूनाम्। समुदाय इत्यर्थः। उदजः पशूनाम्। प्रेरणमित्यर्थः। पशुष्विति किम्? समाजो ब्राह्मणानाम्। उदाजः क्षत्रियाणाम्॥

अक्षेषु ग्लहः ॥ ३.३.७०॥

ग्लह इति निपात्यते, अक्षविषयश्चेद् धात्वर्थो भवति। ग्रहेरप् सिद्ध एव, लत्वार्थं निपातनम्। अक्षस्य ग्लहः। अक्षेष्विति किम्? ग्रहः पादस्य। अन्ये ग्लहिं प्रकृत्यन्तरमाहुः। ते घञं प्रत्युदाहरन्ति। ग्लाहः॥

प्रजने सर्तेः ॥ ३.३.७१॥

सर्तेर्धातोः प्रजने विषयेऽप् प्रत्ययो भवति। घञोऽपवादः। प्रजनं प्रथमं गर्भग्रहणम्। गवामुपसरः। पशूनामुपसरः। स्त्रीगवीषु पुंगवानां गर्भाधानाय प्रथममुपसरणमुच्यते॥

ह्वः संप्रसारणं च न्यभ्युपविषु ॥ ३.३.७२॥

नि अभि उप वि इत्येतेषूपपदेषु ह्वयतेर्धातोः संप्रसारणमप् प्रत्ययश्च भवति। घञोऽपवादः। निहवः। अभिहवः। विहवः। एतेष्विति किम्? प्रह्वायः॥

आङि युद्धे ॥ ३.३.७३॥

आङ्युपपदे ह्वयतेर्धातोः संप्रासरणमप् प्रत्ययश्च भवति युद्धेऽभिधेये। आहूयन्तेऽस्मिन्नित्याहवः। युद्ध इति किम्? आह्वायः॥

निपानमाहावः ॥ ३.३.७४॥

आङ्पूर्वस्य ह्वयतेर्धातोः संप्रसारणमप् प्रत्ययो वृद्धिश्च निपात्यते, निपानं चेदभिधेयं भवति। निपिबन्त्यस्मिन्निति निपानमुदकाधार उच्यते। आहावः पशूनाम्। कूपोपसरेषु य उदकाधारस्तत्र हि पानाय पशव आहूयन्ते। निपानमिति किम्? आह्वायः॥

भावेऽनुपसर्गस्य ॥ ३.३.७५॥

अनुपसर्गस्य ह्वयतेः संप्रसारणमप् प्रत्ययश्च भवति भावेऽभिधेये। हवः। हवे॑ हवे सु॒हवं॒ शूर॒मिन्द्र॑म् (ऋ० ६.४७.११)। अनुपसर्गस्येति किम्? आह्वायः। भावग्रहणम् ‘अकर्तरि च कारके संज्ञायाम्’ (३.३.१९) इत्यस्य निरासार्थम्॥

हनश्च वधः ।॥ ३.३.७६॥

भावेऽनुपसर्गस्येति वर्तते। हन्तेर्धातोरनुपसर्गे भावेऽप् प्रत्ययो भवति, तत्संनियोगेन च वधादेशः, स चान्तोदात्तः। तत्रोदात्तनिवृत्तिस्वरेणाप उदात्तत्वं भवति। वधश्चोराणाम्। वधो दस्यूनाम्। भाव इत्येव-घातः। अनुपसर्गस्येत्येव-प्रघातः। विघातः। चकारो भिन्नक्रमत्वाद् नादेशेन संबध्यते। किं तर्हि? प्रकृतेन प्रत्ययेन। अप् च, यश्चापरः प्राप्नोति। तेन घञपि भवति। घातो वर्तते॥

मूर्तौ घनः ॥ ३.३.७७॥

हन इत्येव। मूर्तिः काठिन्यम्। मूर्तावभिधेयायां हन्तेरप् प्रत्ययो भवति, घनश्चादेशः। अभ्रघनः। दधिघनः। कथं घनं दधीति? धर्मशब्देन धर्मी भण्यते॥

अन्तर्घनो देशे ॥ ३.३.७८॥

अन्तःपूर्वाद् हन्तेरप् प्रत्ययो भवति, घनादेशश्च भवति देशेऽभिधेये। अन्तर्घनः। संज्ञीभूतो वाहीकेषु देशविशेष उच्यते। अन्ये णकारं पठन्ति-अन्तर्घणो देश इति, तदपि ग्राह्यमेव। देश इति किम्? अन्तर्घातोऽन्यः॥

अगारैकदेशे प्रघणः प्रघाणश्च ॥ ३.३.७९॥

प्रपूर्वस्य हन्तेः प्रघण प्रघाण इत्येतौ शब्दौ निपात्येते अगारैकदेशे वाच्ये। प्रघणः। प्रघाणः। द्वारप्रकोष्ठो बाह्य उच्यते। अगारैकदेश इति किम्? प्रघातोऽन्यः॥

उद्घनोऽत्याधानम् ॥ ३.३.८०॥

उत्पूर्वस्य हन्तेः उद्घन इति निपात्यतेऽत्याधानं चेद् भवति। उद्घनः। यस्मिन् काष्ठे स्थापयित्वा अन्यानि काष्ठानि तक्ष्यन्ते तदभिधीयते। उद्घातोऽन्यः॥

अपघनोऽङ्गम् ॥ ३.३.८१॥

अपपूर्वस्य हन्तेरपघन इति निपात्यते, अङ्गं चेत् तद् भवति। अपघनः अङ्गम्। अवयवः, एकदेशो न सर्वः। किं तर्हि? पाणिः पादश्चाभिधीयते। अपघातोऽन्यः॥

करणेऽयोविद्रुषु ॥ ३.३.८२॥

हन इति वर्तते। अयस् वि द्रु इत्येतेषूपपदेषु हन्तेर्धातोः करणे कारकेऽप् प्रत्ययो भवति, घनादेशश्च। अयो हन्यतेऽनेनेत्ययोघनः। विघनः। द्रुघनः। द्रुघण इति केचिदुदाहरन्ति। कथं णत्वम्? अरीहणादिषु पाठात्। ‘पूर्वपदात् संज्ञायामगः’ (८.४.३) इति वा॥

स्तम्बे क च ॥ ३.३.८३॥

करणे हन इति वर्तते। स्तम्बशब्द उपपदे करणे कारके हन्तेः कः प्रत्ययो भवति चकारादप् च, तत्र घनादेशः। स्तम्बघ्नः, स्तम्बघनः। स्त्रियां स्तम्बघ्ना स्तम्बघनेतीष्यते। करण इत्येव-स्तम्बघातः॥

परौ घः ॥ ३.३.८४॥

करणे हन इत्येव। परिशब्द उपपदे हन्तेर्धातोरप् प्रत्ययो भवति करणे कारके, घशब्दश्चादेशः। परिहन्यतेऽनेनेति परिघः। पलिघः॥

उपघ्न आश्रये ॥ ३.३.८५॥

उपपूर्वस्य हन्तेरप् प्रत्यय उपधालोपश्च निपात्यत आश्रयेऽभिधेये। आश्रयशब्दः सामीप्यं प्रत्यासत्तिं लक्षयति। पर्वतोपघ्नः। ग्रामोपघ्नः। आश्रय इति किम्? पर्वतोपघात एवान्यः॥

संघोद्घौ गणप्रशंसयोः ॥ ३.३.८६॥

समुदोरुपपदयोर्हन्तेर्धातोरप् प्रत्ययो भवति, टिलोपो घत्वं च निपात्यते, यथासंख्यं गणेऽभिधेये, प्रशंसायां गम्यमानायाम्। संघः पशूनाम्। उद्घो मनुष्याणाम्। गणप्रशंसयोरिति किम्? संघातः॥

**निघो निमितम् ॥ ३.३.८७॥ **

निघ इति निपूर्वाद् हन्तेरप् प्रत्ययः टिलोपो घत्वं च निपात्यते, निमितं चेदभिधेयं भवति। समन्ताद् मितं निमितम्, समारोहपरिणाहम्। निघा वृक्षाः। निघाः शालयः। निमितमिति किम्? निघातः॥

ड्वितः क्त्रिः ॥ ३.३.८८॥

भावेऽकर्तरि च कारक इति वर्तते। डु इद् यस्य, तस्माद् ड्वितो धातोः क्त्रिः प्रत्ययो भवति। ‘क्त्रेर्मम्नित्यम्’ (४.४.२०) इति वचनात् केवलो न प्रयुज्यते। ‘डुपचष् पाके’ -पक्त्रिमम्। ‘डुवप बीजसंताने’ -उप्त्रिमम्। ‘डुकृञ् करणे’ -कृत्रिमम्॥

ट्वितोऽथुच् ॥ ३.३.८९॥

टु इद् यस्य, तस्माट् ट्वितो धातोरथुच् प्रत्ययो भवति भावादौ। ‘टुवेपृ कम्पने’-वेपथुः। ‘टुओश्वि गतिवृद्ध्योः’ -श्वयथुः। ‘टुक्षु शब्दे’-क्षवथुः॥

यजयाचयतविच्छप्रच्छरक्षो नङ् ॥ ३.३.९०॥

भावेऽकर्तरि च कारक इति वर्तते। यजादिभ्यो धातुभ्यो नङ् प्रत्ययो भवति। ङकारो गुणप्रतिषेधार्थः। यज्ञः। याच्ञा। यत्नः। विश्नः। प्रश्नः। रक्ष्णः। प्रच्छेरसंप्रसारणं ज्ञापकात् ‘प्रश्ने चासन्नकाले’ (३.२.११७) इति॥

स्वपो नन् ॥ ३.३.९१॥

स्वपेर्धातोर्नन् प्रत्ययो भवति। नकारः स्वरार्थः। स्वप्नः॑॥

उपसर्गे घोः किः ॥ ३.३.९२॥

भावेऽकर्तरि च कारक इति वर्तते। उपसर्ग उपपदे घुसंज्ञकेभ्यो धातुभ्यः किः प्रत्ययो भवति। कित्करणमातो लोपार्थम्। प्रदिः। प्रधिः। अन्तर्धिः॥

कर्मण्यधिकरणे च ॥ ३.३.९३॥

घोरित्येव। कर्मण्युपपदे घुसंज्ञकेभ्यो धातुभ्यः किः प्रत्ययो भवत्यधिकरणे कारके। जलं धीयतेऽस्मिन्निति जलधिः। शरधिः। अधिकरणग्रहणमर्थान्तरनिरासार्थम्। चकारः प्रत्ययानुकर्षणार्थः॥

स्त्रियां क्तिन् ॥ ३.३.९४॥

भावेऽकर्तरि च कारक इति वर्तते। स्त्रीलिङ्गे भावादौ धातोः क्तिन् प्रत्ययो भवति। घञजपामपवादः। कृतिः। चितिः। मतिः॥ क्तिन्नाबादिभ्यश्च वक्तव्यः॥ आबादयः प्रयोगतोऽनुसर्तव्याः। आप्तिः। राद्धिः। दीप्तिः। स्रस्तिः। ध्वस्तिः। लब्धिः ॥ श्रुयजिस्तुभ्यः करणे॥ श्रूयतेऽनयेति श्रुतिः। इष्टिः स्तुतिः॥ ग्लाम्लाज्याहाभ्यो निः॥ ग्लानिः। म्लानिः। ज्यानिः। हानिः॥ ॠकारल्वादिभ्यः क्तिन्निष्ठावद् भवतीति वक्तव्यम्॥ कीर्णिः। गीर्णिः। जीर्णिः। शीर्णिः। लूनिः। धूनिः॥ संपदादिभ्यः क्विप्॥ संपत्। विपत्। प्रतिपत्॥ क्तिन्नपीष्यते॥ संपत्तिः। विपत्तिः॥

स्थागापापचो भावे ॥ ३.३.९५॥

स्त्रियामिति वर्तते। स्थादिभ्यो धातुभ्यः स्त्रीलिङ्गे भावे क्तिन् प्रत्ययो भवति। अङोऽपवादस्य बाधकः। प्रस्थितिः। उद्गीतिः। संगीतिः। प्रपीतिः। संपीतिः। पक्तिः। भावग्रहणमर्थान्तरनिरासार्थम्। कथमवस्था संस्थेति? व्यवस्थायामसंज्ञायाम् (१.१.३४) इति ज्ञापकाद् नात्यन्ताय बाधा भवतीति॥

मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः ॥ ३.३.९६॥

भावे स्त्रियामिति वर्तते। मन्त्रे विषये वृषादिभ्यो धातुभ्यः क्तिन् प्रत्ययो भवत्युदात्तः। प्रकृतिप्रत्यययोर्विभक्तिविपरिणामेन संबन्धः। कस्मादेवं कृतम्? वैचित्र्यार्थम्। वृ॒ष्टिः (ऋ० १.३.८.८)। इष्टिः (ऋ० ४.४.७)। प॒क्तिः(ऋ० १.२४.५)। म॒तिः (ऋ० १.१४१.१) वित्तिः॑ (मा०सं० १८.१४)। भूतिः॑ (मा०सं० १८.१४)। वी॒तिः (शौ०सं० २०.६९.३)। रा॒तिः (ऋ० १.३४.१)। सर्वत्र सर्वधातुभ्यः सामान्येन विहित एव क्तिन्। उदात्तार्थं वचनम्। इषेस्तु ‘इच्छा’ (३.३.१०१) इति निपातनं वक्ष्यति। ततः क्तिन्नपि विधीयते। मन्त्रादन्यत्रादिरुदात्तः॥

ऊतियूतिजूतिसातिहेतिकीर्तयश्च ॥ ३.३.९७॥

मन्त्र इति नानुवर्तते। ऊत्यादयः शब्दा निपात्यन्ते। उदात्त इति वर्तते। अवतेः ‘ज्वरत्वरस्रिव्यविमवामुपधायाश्च’ (६.४.२०) इत्यूठ्। ऊतिः स्वरार्थं वचनम्। यौतेर्जवतेश्च यूतिः, जूतिः। दीर्घत्वं च निपात्यते। सातिः। स्यतेरित्त्वाभावो निपात्यते। सनोतेर्वा ‘जनसनखनाम्०’ (६.४.४२) इत्यात्वे कृते स्वरार्थं निपातनम्। हन्तेर्हिनोतेर्वा हेतिः। कीर्तयतेः कीर्तिः॥

व्रजयजोर्भावे क्यप् ॥ ३.३.९८॥

उदात्त इत्येव। व्रजयजोर्धात्वोः स्त्रीलिङ्गे भावे क्यप् प्रत्ययो भवत्युदात्तः। क्तिनोऽपवादः। व्रज्या। इज्या। पित्करणमुत्तरत्र तुगर्थम्॥

संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः ॥ ३.३.९९॥

भाव इति न स्वर्यते। पूर्व एवात्रार्थाधिकारः। समजादिभ्यो धातुभ्यः स्त्रियां क्यप् प्रत्ययो भवत्युदात्तः संज्ञायां विषये। समजन्त्यस्यामिति समज्या। निषद्या। निपत्या। मन्या। विद्या। सुत्या। शय्या। भृत्या। इत्या। कथं तदुक्तम्- ‘स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिध्यति’ इति? भावाधिकारो भावव्यापारो वाच्यत्वेन विवक्षितः, न तु शास्त्रीयोऽधिकारः॥

कृञः श च ॥ ३.३.१००॥

करोतेर्धातोः स्त्रियां शः प्रत्ययो भवति, चकारात् क्यप् च। योगविभागोऽत्र कर्तव्यः, क्तिन्नपि यथा स्यात्। क्रिया। कृत्या। कृतिः॥

इच्छा ॥ ३.३.१०१॥

इषेर्धातोः शः प्रत्ययो यगभावश्च निपात्यते। इच्छा॥ परिचर्यापरिसर्यामृगयाटाट्यानामुपसंख्यानम्। परिचर्या। परिसर्या। मृगया। अटाट्या॥ जागर्तेरकारो वा॥ जागरा। जागर्या॥

अ प्रत्ययात् ॥ ३.३.१०२॥

प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारः प्रत्ययो भवति। क्तिनोऽपवादः। चिकीर्षा। जिहीर्षा। पुत्रीया। पुत्रकाम्या। लोलूया। कण्डूया॥

गुरोश्च हलः ॥ ३.३.१०३॥

हलन्तो यो धातुर्गुरुमान्, ततः स्त्रियामकारः प्रत्ययो भवति। क्तिनोऽपवादः। कुण्डा। हुण्डा। ईहा। ऊहा। गुरोरिति किम्? भक्तिः। हल इति किम्? नीतिः॥

षिद्भिदादिभ्योऽङ्॥ ३.३.१०४॥

षिद्भ्यो भिदादिभ्यश्च स्त्रियामङ् प्रत्ययो भवति। गणपरिपठितेषु भिदादिषु निष्कृष्य प्रकृतयो गृह्यन्ते? जृष्-जरा। त्रपूष्-त्रपा। भिदादिभ्यः खल्वपि-भिदा। छिदा। विदा। क्षिपा। गुहा गिर्योषध्योः (ग०सू० २९)। श्रद्धा। मेधा। गोधा। आरा। हारा। कारा। क्षिया। तारा। धारा। लेखा। रेखा। चूडा। पीडा। वपा। वसा। मृजा। क्रपेः संप्रसारणं च (ग०सू० ३०)। कृपा। भिदा विदारणे (ग०सू० ३१)। भित्तिरन्या। छिदा द्वैधीकरणे (ग०सू० ३२)। छित्तिरन्या। आरा शस्त्र्याम् (ग०सू० ३३)। आर्तिरन्या। धारा प्रपाते (ग०सू०३४)। धृतिरन्या॥

चिन्तिपूजिकथिकुम्बिचर्चश्च ॥ ३.३.१०५॥

‘चिति स्मृत्याम्’ ‘पूज पूजायाम्’ ‘कथ वाक्यप्रबन्धे’ ‘कुबि आच्छादने’ ‘चर्च अध्ययने’ चुरादिः। एभ्यो धातुभ्यो युचि प्राप्ते स्त्रियामङ् प्रत्ययो भवति। चिन्ता। पूजा। कथा। कुम्बा। चर्चा। चकाराद् युजपि भवति। चिन्तना॥

आतश्चोपसर्गे ॥ ३.३.१०६॥

आकारान्तेभ्य उपसर्ग उपपदे स्त्रियामङ् प्रत्ययो भवति। क्तिनोऽपवादः। प्रदा। उपदा। प्रधा। उपधा। श्रदन्तरोरुपसर्गवद् वृत्तिः। श्रद्धा। अन्तर्धा॥

ण्यासश्रन्थो युच् ॥ ३.३.१०७॥

ण्यन्तेभ्यो धातुभ्यः, आस श्रन्थ इत्येताभ्यां च स्त्रियां युच् प्रत्ययो भवति। अकारस्यापवादः। कारणा। हारणा। आसना। श्रन्थना। कथमास्या? ‘ऋहलोर्ण्यत्’ (३.१.१२४) भविष्यति। वासरूपप्रतिषेधश्च स्त्रीप्रकरणविषयस्यैवोत्सर्गापवादस्य। श्रन्थिः क्र्यादिर्गृह्यते- ‘श्रन्थ विमोचनप्रतिहर्षयोः’ इति, न चुरादिः-‘श्रन्थ ग्रन्थ संदर्भे’ इति, ण्यन्तत्वेनैव सिद्धत्वात्॥ घट्टिवन्दिविदिभ्य उपसंख्यानम्॥ घट्टना। वन्दना। वेदना। घट्टेर्भौवादिकस्य ग्रहणं ‘घट्ट चलने’ इति, न चौरादिकस्य ‘घट्ट संवरणे’ इत्यस्य ग्रहणम्, तस्य णेरित्येव सिद्धत्वात्॥ इषेरनिच्छार्थस्य युज्वक्तव्यः॥ अध्येषणा। अन्वेषणा ॥ परेर्वा ॥ पर्येषणा। परीष्टिः॥

रोगाख्यायां ण्वुल् बहुलम् ॥ ३.३.१०८ ॥

रोगाख्यायां गम्यमानायां धातोर्बहुलं ण्वुल् प्रत्ययो भवति। क्तिन्नादीनामपवादः। आख्याग्रहणं रोगास्य चेत् प्रत्ययान्तेन संज्ञा भवति। बहुलग्रहणं व्यभिचारार्थम्। प्रच्छर्दिका। प्रवाहिका। विचर्चिका। न च भवति-शिरोऽर्तिः॥ धात्वर्थनिर्देशे ण्वुल् वक्तव्यः॥ आशिका। शायिका वर्तते॥ इक्श्तिपौ धातुनिर्देशे॥ भिदिः। छिदिः। पचतिः। पठतिः॥ वर्णात् कारः॥ निर्देश इति प्रकृतम्। अकारः। इकारः॥ रादिफः॥ रेफः ॥ मत्वर्थाच्छः॥ अकारलोपश्च। मत्वर्थीयः। इणजादिभ्यः॥ आजिः। आतिः। आदिः॥ इक् कृष्यादिभ्यः॥ कृषिः। किरिः॥

संज्ञायाम् ॥ ३.३.१०९॥

संज्ञायां विषये धातोर्ण्वुल् प्रत्ययो भवति। उद्दालकपुष्पभञ्जिका। वारणपुष्पप्रचायिका। अभ्यूषखादिका। आचोषखादिका। शालभञ्जिका। तालभञ्जिका॥

विभाषाख्यानपरिप्रश्नयोरिञ् च ॥ ३.३.११०॥

पूर्वं परिप्रश्नः, पश्चादाख्यानम्। सूत्रेऽल्पाच्तरस्य पूर्वनिपातः। परिप्रश्न आख्याने च गम्यमाने धातोरिञ् प्रत्ययो भवति, चकाराद् ण्वुलपि। विभाषाग्रहणात् परोऽपि यः प्राप्नोति, सोऽपि भवति। कां त्वं कारिमकार्षीः, कां कारिकामकार्षीः कां क्रियामकार्षीः, कां कृत्यामकार्षीः, कां कृतिमकार्षीः? सर्वां कारिमकार्षम्, सर्वां कारिकामकार्षम्, सर्वां क्रियामकार्षम्, सर्वां कृत्यामकार्षम्, सर्वां कृतिमकार्षम्। कां गणिमजीगणः, कां गणिकामजीगणः, कां गणनामजीगणः? सर्वां गणिमजीगणम्, सर्वां गणिकाम्, सर्वां गणनाम्। एवं कां याजिम्, कां याजिकाम्, कां याचिम्, कां याचिकाम्, कां पाचिम्, कां पाचिकाम्, कां पचाम्, कां पक्तिम्, कां पाठिम्, कां पाठिकाम्, कां पठितिम् इति द्रष्टव्यम्। आख्यानपरिप्रश्नयोरिति किम्? कृतिः हृतिः॥

पर्यायार्हर्णोत्पत्तिषु ण्वुच् ॥ ३.३.१११॥

पर्यायः परिपाटी क्रमः। अर्हणमर्हः, तद्योग्यता। ऋणं तत्, यत् परस्य धार्यते। उत्पत्तिर्जन्म। एतेष्वर्थेषु धातोर्ण्वुच् प्रत्ययो भवति। क्तिन्नादीनामपवादः। पर्याये तावत्-भवतः शायिका। भवतोऽग्रग्रासिका। अर्हे-अर्हति भवानिक्षुभक्षिकाम्। ऋणे-इक्षुभक्षिकां मे धारयसि। ओदनभोजिकाम्। पयःपायिकाम्। उत्पत्तौ-इक्षुभक्षिका मे उदपादि। ओदनभोजिका। पयःपायिका। विभाषेत्येव-चिकीर्षोत्पद्यते। ण्वुलि प्रकृते प्रत्ययान्तरकरणं स्वरार्थम्॥

आक्रोशे नञ्यनिः ॥ ३.३.११२॥

विभाषेति निवृत्तम्। आक्रोशः शपनम्। आक्रोशे गम्यमाने नञ्युपपदे धातोरनिः प्रत्ययो भवति। क्तिन्नादीनामपवादः। अकरणिस्ते वृषल भूयात्। आक्रोश इति किम्? अकृतिस्तस्य कटस्य। नञीति किम्? मृतिस्ते वृषल भूयात्॥

कृत्यल्युटो बहुलम् ॥ ३.३.११३॥

भावेकर्तरि च कारक इति निवृत्तम्। कृत्यसंज्ञकाः प्रत्यया ल्युट् च बहुलमर्थेषु भवन्ति। यत्र विहितास्ततोऽन्यत्रापि भवन्ति। भावकर्मणोः कृत्या विहिताः कारकान्तरेऽपि भवन्ति। स्नानीयं चूर्णम्। दानीयो ब्राह्मणः। करणाधिकरणयोर्भावे च ल्युट्। अन्यत्रापि भवति। अपसेचनम्। अवस्रावणम्। राजभोजनाः शालयः। राजाच्छादनानि वासांसि। प्रस्कन्दनम्। प्रपतनम्। बहुलग्रहणादन्येऽपि कृतो यथाप्राप्तमभिधेयं व्यभिचरन्ति। पादाभ्यां ह्रियते पादहारकः। गले चोप्यते गलेचोपकः॥

नुपंसके भावे क्तः ॥ ३.३.११४॥

नपुंसकलिङ्गे भावे धातोः क्तः प्रत्ययो भवति। हसितम्। सहितम्। जल्पितम्॥

ल्युट् च ॥ ३.३.११५॥

नपुंसकलिङ्गे भावे धातोर्ल्युट् प्रत्ययो भवति। हसनं छात्रस्य। शोभनम्। जल्पनम्। शयनम्। आसनम्। योगविभाग उत्तरार्थः॥

कर्मणि च येन संस्पर्शात् कर्तुः शरीरसुखम् ॥ ३.३.११६॥

येन कर्मणा संस्पृश्यमानस्य कर्तुः शरीरसुखमुत्पद्यते, तस्मिन् कर्मण्युपपदे धातोर्नपुंसकलिङ्गे भावे ल्युट् प्रत्ययो भवति। पूर्वेणैव सिद्धे प्रत्यये नित्यसमासार्थं वचनम्। उपपदसमासो हि नित्यः समासः। पयःपानं सुखम्। ओदनभोजनं सुखम्। कर्मणीति किम्? तूलिकाया उत्त्थानं सुखम्। संस्पर्शादिति किम्? अग्निकुण्डस्योपासनं सुखम्। कर्तुरिति किम्? गुरोः स्नापनं सुखम्। स्नापयतेर्न गुरुः कर्ता, किं तर्हि? कर्म। शरीरग्रहणं किम्? पुत्रस्य परिष्वञ्जनं सुखम्। सुखं मानसी प्रीतिः। सुखमिति किम्? कण्टकानां मर्दनं दुःखम्। सर्वत्रासमासः प्रत्युदाह्रियते॥

करणाधिकरणयोश्च ॥ ३.३.११७॥

करणेऽधिकरणे च कारके धातोर्ल्युट् प्रत्ययो भवति। इध्मप्रव्रश्चनः। पलाशशातनः। अधिकरणे-गोदोहनी। सक्तुधानी॥

पुंसि संज्ञायां घः प्रायेण ॥ ३.३.११८॥

करणाधिकरणयोरित्येव। पुँल्लिङ्गयोः करणाधिकरणयोरभिधेययोर्धातोर्घः प्रत्ययो भवति, समुदायेन चेत् संज्ञा गम्यते। प्रायग्रहणमकार्त्स्न्यार्थम्। दन्तच्छदः। उरश्छदः पटः। अधिकरणे खल्वपि-एत्य तस्मिन् कुर्वन्ति इत्याकरः। आलयः। पुंसीति किम्? प्रसाधनम्। संज्ञायामिति किम्? प्रहरणो दण्डः। घकारः ‘छादेर्घे०’ (६.४.९६) इति विशेषणार्थः॥

गोचरसंचरवहव्रजव्यजापणनिगमाश्च ॥ ३.३.११९॥

गोचरादयः शब्दा घप्रत्ययान्ता निपात्यन्ते पूर्वस्मिन्नेवार्थे। ‘हलश्च’ (३.३.१२१) इति घञं वक्ष्यति, तस्यायमपवादः। गावश्चरन्त्यस्मिन्निति गोचरः। संचरन्तेऽनेनेति संचरः। वहन्ति तेन वहः। व्रजन्ति तेन व्रजः। व्यजन्ति तेन व्यजः। निपातनाद् ‘अजेर्व्यघञपोः’ (२.४.५६) इति वीभावो न भवति। एत्य तस्मिन्नापणन्त इत्यापणः। निगच्छन्ति तस्मिन्निति निगमः। चकारोऽनुक्तसमुच्चयार्थः। कषः। निकषः॥

अवे तृस्त्रोर्घञ् ॥ ३.३.१२०॥

अव उपपदे तरतेः स्तृणातेश्च धातोः करणाधिकरणयोः संज्ञायां घञ् प्रत्ययो भवति। घस्यापवादः। ञकारो वृद्ध्यर्थः, स्वरार्थश्च। घकार उत्तरत्र कुत्वार्थः। अवतारः। अवस्तारः। कथमवतारो नद्याः, न हीयं संज्ञा? प्रायानुवृत्तेरसंज्ञायामपि भवति॥

हलश्च ॥ ३.३.१२१॥

पुंसि संज्ञायां करणाधिकरणयोश्चेति सर्वमनुवर्तते। हलन्ताद् धातोः करणाधिकरणयोर्घञ् प्रत्ययो भवति। घस्यापवादः। लेखः। वेदः। वेष्टः। बन्धः। मार्गः। अपामार्गः। वीमार्गः॥

अध्यायन्यायोद्यावसंहाराधारावायाश्च ॥ ३.३.१२२॥

अध्यायादयः शब्दा घञन्ता निपात्यन्ते। ‘पुंसि संज्ञायां०’ (३.३.११८) घे प्राप्ते घञ् विधीयते। अहलन्तार्थ आरम्भः। अधीयतेऽस्मिन्नित्यध्यायः। नीयतेऽनेनेति न्यायः। उद्युवन्त्यस्मिन्नित्युद्यावः। संह्रियन्तेऽनेनेति संहारः। आध्रियन्तेऽस्मिन्नित्याधारः। आवयन्त्यस्मिन्नित्यावायः। चकारोऽनुक्तसमुच्चयार्थः। अवहारः॥

उदङ्कोऽनुदके॥ ३.३.१२३॥

उदङ्क इति निपात्यते, अनुदकविषयश्चेद् धात्वर्थो भवति। उत्पूर्वादञ्चतेर्घञ् निपात्यते। ननु च ‘हलश्च’ (३.३.१२१) इति सिद्ध एव घञ्? उदके प्रतिषेधार्थमिदं वचनम्। तैलोदङ्कः। अनुदक इति किम्? उदकोदञ्चनः। घः कस्माद् न प्रत्युदाह्रियते? विशेषाभावात्। घञ्यपि थाथादिस्वरेणान्तोदात्त एव॥

जालमानायः ॥ ३.३.१२४॥

आनाय इति निपात्यते, जालं चेत् तद् भवति। आङ्पूर्वाद् नयतेः करणे घञ् निपात्यते। आनायो मत्स्यानाम्। आनायो मृगाणाम्॥

खनो घ च ॥ ३.३.१२५॥

खनतेर्धातोः करणाधिकरणयोर्घः प्रत्ययो भवति, चकाराद् घञ् च। आखनः, आखानः॥ डो वक्तव्यः॥ आखः॥ डरो वक्तव्यः॥ आखरः॥ इको वक्तव्यः॥ आखनिकः॥ इकवको वक्तव्यः॥ आखनिकवकः॥

ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ॥ ३.३.१२६॥

करणाधिकरणयोरिति निवृत्तम्। ईषत् दुर् सु इत्येतेषूपपदेषु कृच्छ्राकृच्छ्रार्थेषु धातोः खल् प्रत्ययो भवति। कृच्छ्रं दुःखम्। तद् दुरो विशेषणम्। अकृच्छ्रं सुखम्। तदितरयोर्विशेषणम्, संभवात्। ईषत्करो भवता कटः। दुष्करः। सुकरः। ईषद्भोजः। दुर्भोजः। सुभोजः। ईषदादिष्विति किम्? कृच्छ्रेण कार्यः कटः। कृच्छ्राकृच्छ्रार्थेष्विति किम्? ईषत्कार्यः। लकारः स्वरार्थः। खित्करणमुत्तरत्र मुमर्थम्॥

कर्तृकर्मणोश्च भूकृञोः ॥ ३.३.१२७॥

भवतेः करोतेश्च धातोर्यथासंख्यं कर्तरि कर्मणि चोपपदे चकारादीषदादिषु च खल् प्रत्ययो भवति। ईषदाढ्यंभवं भवता। दुराढ्यंभवम्। ईषदाढ्यंकरः। स्वाढ्यंकरो देवदत्तो भवता॥ कर्तृकर्मणोश्च्व्यर्थयोरिति वक्तव्यम्॥ इह मा भूत्-स्वाढ्येन भूयते॥

आतो युच् ॥ ३.३.१२८॥

ईषदादयोऽनुवर्तन्ते। कर्तृकर्मणोरिति न स्वर्यते। कृच्छ्राकृच्छ्रार्थेषु ईषदादिषूपपदेष्वाकारान्तेभ्यो धातुभ्यो युच् प्रत्ययो भवति। खलोऽपवादः। ईषत्पानः सोमो भवता। दुष्पानः। सुपानः। ईषद्दानो गौर्भवता। दुर्दानः। सुदानः॥

छन्दसि गत्यर्थेभ्यः ॥ ३.३.१२९॥

ईषदादिषु कृच्छ्राकृच्छ्रार्थेषूपपदेषु गत्यर्थेभ्यो धातुभ्यश्छन्दसि विषये युच् प्रत्ययो भवति। खलोऽपवादः। सू॑पसद॒नो॑ऽग्निः (तै०सं० ७.५.२०.१) सूपसदनमन्तरिक्षम्॥

अन्येभ्योऽपि दृश्यते ॥ ३.३.१३०॥

अन्येभ्योऽपि धातुभ्यो गत्यर्थेभ्यश्छन्दसि विषये युच् प्रत्ययो दृश्यते। सुदोहनाम् (निरु० ११.४३) अकृणोद् ब्रह्मणे गाम्। सुवेद॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गाम् (ऋ० १०.११२.८)॥ भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज् वक्तव्यः॥ दुःशासनः। दुर्योधनः। दुर्दर्शनः। दुर्धर्षणः। दुर्मर्षणः॥

वर्तमानसामीप्ये वर्तमानवद् वा ॥ ३.३.१३१॥

समीपमेव सामीप्यम्। ष्यञः स्वार्थिकत्वं ज्ञाप्यते चातुर्वर्ण्यादिसिद्ध्यर्थम्। वर्तमानसमीपे भूते भविष्यति च वर्तमानाद् धातोर्वर्तमानवत् प्रत्यया वा भवन्ति। ‘वर्तमाने लट्’ (३.२.१२३) इत्यारभ्य यावद् ‘उणादयो बहुलम्’ (३.३.१) इति वर्तमाने प्रत्यया उक्तः, ते भूतभविष्यतोर्विधीयन्ते। कदा देवदत्तागतोऽसि? अयमागच्छामि। आगच्छन्तमेव मां विद्धि। अयमागमम्। एषोऽस्म्यागतः। कदा देवदत्त गमिष्यसि? एष गच्छामि। गच्छन्तमेव मां विद्धि। एष गमिष्यामि। गन्तास्मि। वत्करणं सर्वसादृश्यार्थम्। येन विशेषणेन वर्तमाने प्रत्यया विहिताः प्रकृत्युपपदादिना तथैवात्र भवन्ति। पवमानः। यजमानः। अलंकरिष्णुः। सामीप्यग्रहणं किम्? विप्रकर्षविवक्षायां मा भूत्। परुदगच्छत् पाटलिपुत्रम्। वर्षेण गमिष्यति। यो मन्यते गच्छामीति पदं वर्तमाने काल एव वर्तते, कालान्तरगतिस्तु वाक्याद् भवति, न च वाक्यगम्यः कालः पदसंस्कारवेलायामुपयुज्यत इति, तादृशं वाक्यार्थप्रतिपत्तारं प्रति प्रकरणमिदं नारभ्यते। तथा च श्वः करिष्यति वर्षेण गमिष्यतीति सर्वमुपपद्यते॥

आशंसायां भूतवच्च ॥ ३.३.१३२॥

वेत्येव। वर्तमानसामीप्य इति नानुवर्तते। आशंसनमाशंसा, अप्राप्तस्य प्रियार्थस्य प्राप्तुमिच्छा। तस्याश्च भविष्यत्कालो विषयः। तत्र भविष्यति काल आशंसायां गम्यमानायां धातोर्वा भूतवत् प्रत्यया भवन्ति, चकाराद् वर्तमानवच्च। उपाध्यायश्चेदागमत्, आगतः, आगच्छति, आगमिष्यति, एते व्याकरणमध्यगीष्महि, एते व्याकरणमधीतवन्तः, अधीमहे, अध्येष्यामहे। सामान्यातिदेशे विशेषानतिदेशात् लङ्लिटौ न भवतः। आशंसायामिति किम्? आगमिष्यति॥

क्षिप्रवचने लृट् ॥ ३.३.१३३॥

आशंसायामित्येव। क्षिप्रवचन उपपद आशंसायां गम्यमानायां धातोर्लृट् प्रत्ययो भवति। भूतवच्चेत्यस्यायमपवादः। उपाध्यायश्चेत् क्षिप्रमागमिष्यति, क्षिप्रं व्याकरणमध्येष्यामहे। वचनग्रहणं पर्यायार्थम्। क्षिप्रं शीघ्रमाशु त्वरितमध्येष्यामहे। नेति वक्तव्ये लृड्ग्रहणं लुटोऽपि विषये यथा स्यात्। श्वः क्षिप्रमध्येष्यामहे॥

आशंसावचने लिङ् ॥ ३.३.१३४॥

आशंसा येनोच्यते तदाशंसावचनम्, तस्मिन्नुपपदे धातोर्लिङ् प्रत्ययो भवति। भूतवच्चेत्यस्यायमपवादः। उपाध्यायश्चेदागच्छेत्, आशंसे युक्तोऽधीयीय। आशंसेऽवकल्पये युक्तोऽधीयीय। आशंसे क्षिप्रमधीयीय॥

नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः ॥ ३.३.१३५॥

भूतानद्यतने भविष्यदनद्यतने च लङ्लुटौ विहितौ, तयोरयं प्रतिषेधः। अनद्यतनवत् प्रत्ययविधिर्न भवति क्रियाप्रबन्धे सामीप्ये च गम्यमाने। क्रियाणां प्रबन्धः सातत्येनानुष्ठानम्। कालानां सामीप्यं तुल्यजातीयेनाव्यवधानम्। यावज्जीवं भृशमन्नमदात्। भृशमन्नं दास्यति। यावज्जीवं युक्तोऽध्यापिपत्। यावज्जीवमध्यापयिष्यति। सामीप्ये खल्वपियेयं पौर्णमास्यतिक्रान्ता, एतस्यामुपाध्यायोऽग्नीनाधित, सोमेनायष्ट, गामदित। येयममावास्यागामिनी एतस्यामुपाध्यायोऽग्नीनाधास्यते, सोमेन यक्ष्यते, स गां दास्यते। द्वौ प्रतिषेधौ यथाप्राप्तस्याभ्यनुज्ञापनाय॥

भविष्यति मर्यादावचनेऽवरस्मिन् ॥ ३.३.१३६॥

नानद्यतनवदिति वर्तते। अक्रियाप्रबन्धार्थम्, असामीप्यार्थं च वचनम्। भविष्यति काले मर्यादावचने सत्यवरस्मिन् प्रविभागेऽनद्यतनवत् प्रत्ययविधिर्न भवति। योऽयमध्वा गन्तव्य आ पाटलिपुत्रात्, तस्य यदवरं कौशाम्ब्याः, तत्र द्विरोदनं भोक्ष्यामहे, तत्र सक्तून् पास्यामः। भविष्यतीति किम्? योऽयमध्वा गत आ पाटलिपुत्रात्, तस्य यदवरं कौशाम्ब्याः, तत्र युक्ता अध्यैमहि, तत्र द्विरोदनमभुञ्ज्महि, तत्र सक्तूनपिबाम। मर्यादावचन इति किम्? योऽयमध्वा निरवधिको गन्तव्यः, तस्य यदवरं कौशाम्ब्याः, तत्र द्विरोदनं भोक्तास्महे, सक्तून् पातास्मः। अवरस्मिन्निति किम्? योऽयमध्वा गन्तव्य आ पाटलिपुत्रात्, तस्य यत्परं कौशाम्ब्याः, तत्र द्विरोदनं भोक्तास्महे, तत्र सक्तून् पातास्मः। इह सूत्रे देशकृता मर्यादा, उत्तरत्र कालकृता। तत्र न विशेषं वक्ष्यति॥

कालविभागे चानहोरात्राणाम् ॥ ३.३.१३७॥

भविष्यति मर्यादावचनेऽवरस्मिन्निति वर्तते। कालमर्यादाविभागे सत्यवरस्मिन् प्रविभागे भविष्यति कालेऽनद्यतनवत् प्रत्ययविधिर्न भवति, न चेदहोरात्रसंबन्धी विभागः, तैस्तेषां च विभागे प्रतिषेधः। पूर्वेणैव सिद्धे वचनमिदमहोरात्रनिषेधार्थम्। योगविभाग उत्तरार्थः। योऽयं संवत्सर आगामी, तत्र यदवरमाग्रहायण्याः, तत्र युक्ता अध्येष्यामहे, तत्रोदनं भोक्ष्यामहे। भविष्यतीत्येव-योऽयं वत्सरोऽतीतः, तस्य यदवरमाग्रहायण्याः, तत्र युक्ता अध्यैमहि, तत्रौदनमभुञ्ज्महि। मर्यादावचन इत्येव-योऽयं निरवधिकः काल आगामी, तस्य यदवरमाग्रहायण्याः, तत्र युक्ता अध्येतास्महे, तत्रौदनं भोक्तास्महे। अवरस्मिन्नित्येव-परस्मिन् विभाषां (३.३.१३८) वक्ष्यति। अनहोरात्राणामिति किम्? त्रिविधमुदाहरणम्। योऽयं मास आगामी, तस्य योऽवरः पञ्चदशरात्रः, योऽयं त्रिंशद्रात्र आगामी, तस्य योऽवरोऽर्धमासः, योऽयं त्रिंशदहोरात्र आगामी, तस्य योऽवरः पञ्चदशरात्रः, तत्र युक्ता अध्येतास्महे, तत्र सक्तून् पातास्मः। सर्वथाहोरात्रस्पर्शे प्रतिषेधः॥

परस्मिन् विभाषा ॥ ३.३.१३८॥

भविष्यति मर्यादावचने कालविभागे चानहोरात्राणामिति सर्वमनुवर्तते। कालमर्यादाविभागे सति भविष्यति काले परस्मिन् प्रविभागे विभाषानद्यतनवत् प्रत्ययविधिर्न भवति, न चेदहोरात्रसंबन्धी प्रविभागः। अवरस्मिन्वर्जं पूर्वमनुवर्तते। अवरस्मिन् पूर्वेण प्रतिषेध उक्तः, संप्रति परस्मिन्नप्राप्त एव विकल्प उच्यते। योऽयं संवत्सर आगामी, तस्य यत्परमाग्रहायण्याः, तत्र युक्ता अध्येष्यामहे, अध्येतास्महे। तत्र सक्तून् पास्यामः, तत्र सक्तून् पातास्मः। अनहोरात्राणामित्येव-योऽयं त्रिंशद्रात्र आगामी, तस्य यः परः पञ्चदशरात्रः, तत्र युक्ता अध्येतास्महे, तत्र सक्तून् पातास्मः। भविष्यतीत्येव-योऽयं संवत्सरोऽतीतः, तस्य यत् परमाग्रहायण्याः, तत्र युक्ता अध्यैमहि, तत्रौदनमभुञ्ज्महि। मर्यादावचन इत्येव-योऽयं निरवधिकः काल आगामी, तस्य यत् परमाग्रहायण्याः, तत्र युक्ता अध्येतास्महे, तत्र सक्तून् पातास्मः। कालविभाग इत्येव-योऽयमध्वा गन्तव्य आ पाटलिपुत्रात्, तस्य यत् परं कौशाम्ब्याः, तत्र युक्ता अध्येतास्महे, ओदनं भोक्तास्मह इति। सर्वत्रानद्यतनवत् प्रत्यया उदाहार्याः॥

लिङ्निमित्ते लृङ् क्रियातिपत्तौ ॥ ३.३.१३९॥

भविष्यतीत्यनुवर्तते। ‘हेतुहेतुमतोर्लिङ्’ (३.३.१५६) इत्येवमादिकं लिङो निमित्तम्। तत्र लिङ्निमित्ते भविष्यति काले लृङ् प्रत्ययो भवति क्रियातिपत्तौ सत्याम्। कुतश्चिद् वैगुण्यादनभिनिर्वृत्तिः क्रियायाः क्रियातिपत्तिः। दक्षिणेन चेदायास्यन्न शकटं पर्याभविष्यत्। यदि कमलकमाह्वास्यन्न शकटं पर्याभविष्यत्। अभोक्ष्यत भवान् घृतेन यदि मत्समीपमागमिष्यत्। भविष्यत्कालविषयमेतद् वचनम्। भविष्यदपर्याभवनं च हेतुमत्, तत्र हेतुभूतं च कमलकाह्वानम्। लिङ्गिलिङ्गिे बुद्ध्वा तदतिपत्तिं च प्रमाणान्तरादवगम्य वक्ता वाक्यं प्रयुङ्क्ते-यदि कमलकमाह्वास्यन्न शकटं पर्याभविष्यदिति, हेतुहेतुमतोराह्वानापर्याभवनयोर्भविष्यत्कालविषययोरतिपत्तिरितो वाक्यादवगम्यते॥

भूते च ॥ ३.३.१४०॥

लिङ्निमित्ते लृङ्क्रियातिपत्ताविति सर्वमनुवर्तते। पूर्वेण भविष्यति विहितः, संप्रति भूते विधीयते। भूते च काले लिङ्निमित्ते क्रियातिपत्तौ सत्यां लृङ् प्रत्ययो भवति। ‘उताप्योः०’ (३.३.१५२) इत्यारभ्य लिङ्निमित्तेषु विधानमेतत्। प्राक् ततो विकल्पं वक्ष्यति। दृष्टो मया भवत्पुत्रोऽन्नार्थी चङ्क्रम्यमाणः, अपरश्च द्विजो ब्राह्मणार्थी, यदि स तेन दृष्टोऽभविष्यत्, तदाभोक्ष्यत। न तु भुक्तवान्, अन्येन पथा स गतः॥

वोताप्योः ॥ ३.३.१४१॥

भूते लिङ्निमित्ते लृङ्क्रियातिपत्ताविति सर्वमनुवर्तते। वा आ उताप्योर्वोताप्योः। मर्यादायामयमाङ् नाभिविधौ। ‘उताप्योः समर्थयोर्लिङ्’ (३.३.१५२) इति वक्ष्यति। प्रागेतस्मात् सूत्रावधेर्यदित ऊर्ध्वमनुक्रमिष्यामः, तत्र भूते लिङ्निमित्ते क्रियातिपत्तौ लृङ् वा भवतीत्येतदधिकृतं वेदितव्यम्। वक्ष्यति-‘विभाषा कथमि लिङ् च’ (३.३.१४३)। कथं नाम तत्र भवान् वृषलमयाजयिष्यत्। यथाप्राप्तं च, याजयेत्॥

गर्हायां लडपिजात्वोः ॥ ३.३.१४२॥

गर्हा कुत्सेत्यनर्थान्तरम्। गर्हायां गम्यमानायामपिजात्वोरुपपदयोर्धातोर्लट् प्रत्ययो भवति। ‘वर्तमाने लट्’ (३.२.१२३) उक्तः कालसामान्ये न प्रताप्नोतीति विधीयते। कालविशेषविहितांश्चापि प्रत्ययानयं परत्वाद् अस्मिन् विषये बाधते। अपि तत्र भवान् वृषलं याजयति, जातु तत्र भवान् वृषलं याजयति। गर्हामहे, अहोऽन्याय्यमेतत्। लिङ्निमित्ताभावादिह क्रियातिपत्तौ लृङ् न भवति॥

विभाषा कथमि लिङ् च ॥ ३.३.१४३॥

गर्हायामिति वर्तते। कथंशब्द उपपदे गर्हायां गम्यमानायां धातोर्लिङ् प्रत्ययो भवति, चकाराल्लट् च। विभाषाग्रहणं यथास्वं कालविषये विहितानामबाधनार्थम्। कथं नाम तत्र भवान् वृषलं याजयेत्। कथं नाम तत्र भवान् वृषलं याजयति। कथं नाम तत्र भवान् वृषलं याजयिष्यति। कथं नाम तत्र भवान् वृषलं याजयिता। कथं नाम तत्र भवान् वृषलमयीयजत्। कथं नाम तत्र भवान् वृषलमयाजयत्। कथं नाम तत्र भवान् वृषलं याजयांचकार। अत्र लिङ्निमित्तमस्तीति भूतविवक्षायां क्रियातिपत्तौ वा लृङ्। भविष्यद्विवक्षायां सर्वत्र नित्येनैव लृङा भवितव्यम्॥

किंवृत्ते लिङ्लृटौ ॥ ३.३.१४४॥

गर्हायामित्येव। विभाषा न स्वर्यते। किंवृत्त उपपदे गर्हायां गम्यमानायां धातोर्लिङ्लृटौ प्रत्ययौ भवतः। सर्वलकाराणामपवादः। लिङ्ग्रहणं लटोऽपरिग्रहार्थम्। को नाम वृषलो यं तत्र भवान् याजयेत्। यं तत्र भवान् वृषलं याजयिष्यति। कतरो नाम, कतमो नाम यं तत्र भवान् वृषलं याजयेत्, याजयिष्यति। भूते क्रियातिपत्तौ वा लृङ्। भविष्यति तु नित्यम्। को नाम वृषलो यं तत्र भवानयाजयिष्यत्॥

अनवक्ऌप्त्यमर्षयोरकिंवृत्तेऽपि ॥ ३.३.१४५॥

गर्हायामिति निवृत्तम्। अनवक्ऌप्तिरसंभावना। अमर्षोऽक्षमा। किंवृत्तेऽकिंवृत्ते चोपपदेऽनवक्ऌप्त्यमर्षयोर्धातोर्लिङ्लृटौ प्रत्ययौ भवतः। सर्वलकाराणामपवादः। बह्वचः पूर्वनिपातो लक्षणव्यभिचारचिह्नम्। तेन यथासंख्यं न भवति। अनवक्ऌप्तौ तावत्-नावकल्पयामि, न संभावयामि, न श्रद्दधे, तत्र भवान् नाम वृषलं याजयेत्। तत्र भवान् नाम वृषलं याजयिष्यति। को नाम वृषलः, यं तत्र भवान् याजयेत्। को नाम तत्र भवान् वृषलं याजयिष्यति। अमर्षे- न मर्षयामि तत्र भवान् वृषलं याजयेत्, याजयिष्यति। को नाम वृषलः, यं तत्र भवान् याजयेत्, याजयिष्यति। भूतविवक्षायां तु क्रियातिपत्तौ वा लृङ् भवति। भविष्यति नित्यम्। नावकल्पयामि तत्र भवान् नाम वृषलमयाजयिष्यत्॥

किंकिलास्त्यर्थेषु ॥ ३.३.१४६॥

अनवक्ऌप्त्यमर्षयोरिति वर्तते। किंकिलशब्दः समुदाय एव उपपदम्। अस्त्यर्था अस्तिभवतिविद्यतयः। किंकिलास्त्यर्थेषूपपदेष्वनवक्ऌप्त्यमर्षयोर्धातोर्लृट् प्रत्ययो भवति। लिङोऽपवादः। किंकिल नाम तत्र भवान् वृषलं याजयिष्यति। अस्ति नाम तत्र भवान् वृषलं याजयिष्यति। भवति नाम तत्र भवान् वृषलं याजयिष्यति। विद्यते नाम तत्र भवान् वृषलं याजयिष्यति। न श्रद्दधे, न मर्षयामि। लिङ्निमित्तमिह नास्ति तेन लृङ् न भवति॥

जातुयदोर्लिङ्॥ ३.३.१४७॥

अनवक्ऌप्त्यमर्षयोरित्येव। जातु यदित्येतयोरुपपदयोरनवक्ऌप्त्यमर्षयोर्गम्य-मानयोर्धातोर्लिङ् प्रत्ययो भवति। लृटोऽपवादः। जातु तत्र भवान् वृषलं याजयेत्। यन्नाम तत्र भवान् वृषलं याजयेत्। न श्रद्दधे, न मर्षयामि॥ जातुयदोर्लिङ्विधाने यदायद्योरुपसंख्यानम्॥ यदा भवद्विधः क्षत्रियं याजयेत्। यदि भवद्विधः क्षत्रियं याजयेत्। न श्रद्दधे, न मर्षयामि। क्रियातिपत्तौ भूते वा लृङ्। भवष्यिति नित्यम्॥

यच्चयत्रयोः ॥ ३.३.१४८॥

अनवक्ऌप्त्यमर्षयोरित्येव। यच्च यत्र इत्येतयोरुपपदयोरनवक्ऌप्त्यमर्षयो-र्गम्यमानयोर्धातोर्लिङ् प्रत्ययो भवति। लृटोऽपवादः। योगविभाग उत्तरार्थः। यथासंख्यं नेष्यते। यच्च तत्र भवान् वृषलं याजयेत्। यत्र तत्र भवान् वृषलं याजयेत्। क्रियातिपत्तौ यथायथं लृङ् भवति॥

गर्हायां च ॥ ३.३.१४९॥

अनवक्ऌप्त्यमर्षयोरिति निवृत्तम्। गर्हा निन्दा कुत्सेत्यनर्थान्तरम्। यच्च यत्रेत्येतयोरुपपदयोर्धातोर्लिङ् प्रत्ययो भवति गर्हायां गम्यमानायाम्। सर्वलकाराणामपवादः। यच्च तत्र भवान् वृषलं याजयेत्। यत्र तत्र भवान् वृषलं याजयेद् ऋद्धो वृद्धः सन् ब्राह्मणः। गर्हामहे, अहोऽन्याय्यमेतत्। क्रियातिपत्तौ यथायथं लृङ् भवति॥

चित्रीकरणे च ॥ ३.३.१५०॥

यच्चयत्रयोरित्येव। चित्रीकरणमाश्चर्यमद्भुतं विस्मयनीयम्। यच्चयत्रयोरुपपदयोश्चित्रीकरणे गम्यमाने धातोर्लिङ् प्रत्ययो भवति। सर्वलकाराणामपवादः। यच्च तत्र भवान् वृषलं याजयेत्। यत्र तत्र भवान् वृषलं याजयेत्, आश्चर्यमेतत्। क्रियातिपत्तौ यथायथं लृङ् भवति॥

शेषे लृडयदौ ॥ ३.३.१५१॥

यच्चयत्राभ्यामन्यत्र चित्रीकरणं शेषः। शेष उपपदे चित्रीकरणे गम्यमाने धातोर्लृट् प्रत्ययो भवति, यदिशब्दश्चेद् न प्रयुज्यते। सर्वलकाराणामपवादः। आश्चर्यं चित्रमद्भुतम्, अन्धो नाम पर्वतमारोक्ष्यति। बधिरो नाम व्याकरणमध्येष्यते। अयदाविति किम्? आश्चर्यं यदि स भुञ्जीत। यदि सोऽधीयीत। लिङ्निमित्ताभावादिह लृङ् न भवति॥

उताप्योः समर्थयोर्लिङ्॥ ३.३.१५२॥

उत अपि इत्येतयोः समर्थयोर्धातोर्लिङ् प्रत्ययो भवति। सर्वलकाराणामपवादः। बाढमित्यस्मिन्नर्थे समानार्थत्वमनयोः। उत कुर्यात्। अपि कुर्यात्। उताधीयीत। अप्यधीयीत। बाढमध्येष्यत इत्यर्थः। समर्थयोरिति किम्? उत दण्डः पतिष्यति। अपि द्वारं धास्यति। प्रश्नः प्रच्छादनं च गम्यते। ‘वोताप्योः’ (३.३.१४१) इति विकल्पो निवृत्तः। इतः प्रभृति भूतेऽपि लिङ्निमित्ते क्रियातिपत्तौ नित्यं लृङ्। भविष्यति तु सर्वत्रैव नित्यः॥

कामप्रवेदनेऽकच्चिति ॥ ३.३.१५३॥

स्वाभिप्रायाविष्करणं कामप्रवेदनम्। काम इच्छाभिलाष इत्यनर्थान्तरम्। तस्य प्रवेदनं प्रकाशनम्। तस्मिन् गम्यमानेऽकच्चित्युपपदे धातोर्लिङ् प्रत्ययो भवति। सर्वलकाराणामपवादः। कामो मे भुञ्जीत भवान्। अभिलाषो मे भुञ्जीत भवान्। अकच्चितीति किम्?

कच्चिज्जीवति ते माता कच्चिज्जीवति ते पिता।

माराविद त्वां पृच्छामि कच्चिज्जीवति पार्वती॥

संभावनेऽलमिति चेत् सिद्धाप्रयोगे ॥ ३.३.१५४॥

लिङित्येव। संभावनं क्रियासु योग्यताध्यवसानम्, शक्तिश्रद्धानम्। तदिदानीमलमर्थेन विशेष्यते। तच्चेत् संभावनं पर्याप्तमवितथं भवति। सिद्धाप्रयोग इत्यलमो विशेषणम्। सिद्धश्चेदलमोऽप्रयोगः। क्व चासौ सिद्धः? यत्र गम्यते चार्थो न चासौ प्रयुज्यते। तदीदृशसंभावनोपाधिकेऽर्थे वर्तमानाद् धातोर्लिङ् प्रत्ययो भवति। सर्वलकाराणामपवादः। अपि पर्वतं शिरसा भिन्द्यात्। अपि द्रोणपाकं भुञ्जीत। अलमिति किम्? विदेशस्थायी देवदत्तः प्रायेणागमिष्यति ग्रामम्। सिद्धाप्रयोग इति किम्? अलं देवदत्तो हस्तिनं हनिष्यति। क्रियातिपत्तौ भूते भविष्यति च नित्यं लृङ् भवति॥

विभाषा धातौ संभावनवचनेऽयदि ॥ ३.३.१५५॥

संभावनेऽलमिति चेत् सिद्धाप्रयोग इति सर्वमनुवर्तते। संभावनमुच्यते येन स संभावनवचनः। संभावनवचने धातावुपपदे यच्छब्दवर्जिते धातोर्विभाषा लिङ् भवति। पूर्वेण नित्यप्राप्तौ विकल्पार्थं वचनम्। संभावयामि भुञ्जीत भवान्। संभावयामि भोक्ष्यते भवान्। अवकल्पयामि भुञ्जीत भवान्, भोक्ष्यते भवान्। श्रद्दधे भुञ्जीत भवान्, भोक्ष्यते भवान्। अयदीति किम्? संभावयामि यद् भुञ्जीत भवान्॥

हेतुहेतुमतोर्लिङ्॥ ३.३.१५६॥

हेतुः कारणम्। हेतुमत् फलम्। हेतुभूते हेतुमति चार्थे वर्तमानाद् धातोर्लिङ् प्रत्ययो भवति। सर्वलकाराणामपवादः। दक्षिणेन चेद् यायाद् न शकटं पर्याभवेत्। यदि कमलकमाह्वयेद् न शकटं पर्याभवेत्। दक्षिणेन यानं हेतुः। अपर्याभवनं हेतुमत्। विभाषा चायमिष्यते। भविष्यति च काले। तेन लृडपि भवति। दक्षिणेन चेद् यास्यति न शकटं पर्याभविष्यति। तत्र विभाषाग्रहणं तावदनन्तरमेवानुवर्तते। लिङिति वर्तमाने पुनर्लिङ्ग्रहणं कालविशेषप्रतिपत्त्यर्थम्। तेनेह न भवति-हन्तीति पलायते, वर्षतीति धावति। क्रियातिपत्तौ लृङ् भवति॥

इच्छार्थेषु लिङ्लोटौ ॥ ३.३.१५७॥

इच्छार्थेषु धातुषूपपदेषु धातोर्लिङ्लोटौ प्रत्ययौ भवतः। सर्वलकाराणामपवादः। इच्छामि भुञ्जीत भवान्। इच्छामि भुङ्क्ता भवान्। कामये। प्रार्थये॥ कामप्रवेदन इति वक्व्यम्॥ इह मा भूत्-इच्छन् करोति॥

समानकर्तृकेषु तुमुन् ॥ ३.३.१५८॥

इच्छार्थेषु धातुषु समानकर्तृकेषूपपदेषु धातोस्तुमुन् प्रत्ययो भवति। तुमुन्प्रकृत्यपेक्षमेव समानकर्तृकत्वम्। इच्छति भोक्तुम्। कामयते भोक्तुम्। वष्टि भोक्तुम्। वाञ्छति भोक्तुम्। समानकर्तृकेष्विति किम्? देवदत्तं भुञ्जानमिच्छति यज्ञदत्तः। इह कस्माद् न भवति-इच्छन् करोति? अनभिधानात्॥

लिङ् च ॥ ३.३.१५९॥

इच्छार्थेषु समानकर्तृकेषु धातुषूपपदेषु धातोर्लिङ् प्रत्ययो भवति। भुञ्जीयेतीच्छति। अधीयीयेतीच्छति। क्रियातिपत्तौ लृङ् भवति। योगविभागः उत्तरार्थः॥

इच्छार्थेभ्यो विभाषा वर्तमाने ॥ ३.३.१६०॥

इच्छार्थेभ्यो धातुभ्यो वर्तमाने काले विभाषा लिङ् प्रत्ययो भवति। लटि प्राप्ते वचनम्। इच्छति। इच्छेत्। वष्टि। उश्यात्। कामयते। कामयेत॥

विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्॥ ३.३.१६१॥

विधिः प्रेरणम्। निमन्त्रणं नियोगकरणम्। आमन्त्रणं कामचारकरणम्। अधीष्टः सत्कारपूर्वको व्यापारः। संप्रश्नः संप्रधारणम्। प्रार्थनं याच्ञा। विध्यादिष्वर्थेषु धातोर्लिङ् प्रत्ययो भवति। सर्वलकाराणामपवादः। विध्यादयश्च प्रत्ययार्थविशेषणम्। विध्यादिविशिष्टेषु कर्त्रादिषु लिङ् प्रत्ययो भवति। विधौ तावत्-कटं कुर्यात्। ग्रामं भवानागच्छेत्। निमन्त्रणे-इह भवान् भुञ्जीत। इह भवानासीत। आमन्त्रणे-इह भवानासीत। इह भवान् भुञ्जीत। अधीष्टे-अधीच्छामो भवन्तम्, माणवकं भवानुपनयेत। संप्रश्ने-किं नु खलु भो व्याकरणमधीयीय। प्रार्थने-भवति मे प्रार्थना व्याकरणमधीयीय॥

लोट् च ॥ ३.३.१६२॥

लोट् प्रत्ययो भवति धातोर्विध्यादिष्वर्थेषु। योगविभाग उत्तरार्थः। विधौ तावत्-कटं तावद् भवान् करोतु। ग्रामं भवानागच्छतु। निमन्त्रणे-अमुत्र भवानास्ताम्। अमुत्र भवान् भुङ्क्ताम्। आमन्त्रणे-इह भवान् भुङ्क्ताम्। अधीष्टे-अधीच्छामो भवन्तम्, माणवकं भवानध्यापयतु, माणवकं भवानुपनयताम्। संप्रश्ने-किं नु खलु भो व्याकरणमध्ययै। प्रार्थने-भवति मे प्रार्थना व्याकरणमध्ययै। छन्दोऽध्ययै॥

प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ॥ ३.३.१६३॥

प्रेषणं प्रैषः। कामचाराभ्यनुज्ञानमतिसर्गः। निमित्तभूतस्य कालस्यावसरः प्राप्तकालता। एतेष्वर्थेषु धातोः कृत्यसंज्ञकाः प्रत्यया भवन्ति, चकाराल्लोट् च। भवता कटः करणीयः, कर्तव्यः, कृत्यः, कार्यः। लोट् खल्वपि-करोतु कटं भवानिह प्रेषितः, भवानति-सृष्टः, भवतः प्राप्तकालः कटकरणे। किमर्थं प्रैषादिषु कृत्या विधीयन्ते, न सामान्येन भावकर्मणोर्विहिता एव, ते प्रैषादिष्वन्यत्र च भविष्यन्ति? विशेषविहितेनानेन लोटा बाध्यन्ते। वासरूपविधिना भविष्यन्ति? एवं तर्हि ज्ञापयति-स्त्र्यधिकारात् परेण वासरूपविधिर्नावश्यं भवतीति। विधिप्रैषयोः को विशेषः? केचिदाहुः-अज्ञातज्ञापनं विधिः, प्रेषणं प्रैष इति॥

लिङ् चोर्ध्वमौहूर्तिके ॥ ३.३.१६४॥

प्रेषादयो वर्तन्ते। प्रैषादिषु गम्यमानेषूर्ध्वमौहूर्तिकेऽर्थे वर्तमानाद् धातोर्लिङ् प्रत्ययो भवति। चकाराद् यथाप्राप्तं च। ऊर्ध्वं मुहूर्तादुपरि मुहूर्तस्य भवता खलु कटःकर्तव्यः, करणीयः, कार्यः। भवान् खलु कटं कुर्यात्। भवान् खलु करोतु। भवानिह प्रेषितः। भवानतिसृष्टः। भवान् प्राप्तकालः॥

स्मे लोट् ॥ ३.३.१६५॥

प्रैषादिषूर्ध्वमौहूर्तिक इति वर्तते। स्मशब्द उपपदे प्रैषादिषु गम्यमानेषूर्ध्वमौहूर्तिकेऽर्थे वर्तमानाद् धातोर्लोट् प्रत्ययो भवति। लिङ्कृत्यानामपवादः। ऊर्ध्वं मुहूर्ताद् भवान् कटं करोतु स्म, ग्रामं गच्छतु स्म, माणवकमध्यापयतु स्म॥

अधीष्टे च ॥ ३.३.१६६॥

स्म इति वर्तते। अधीष्टं व्याख्यातम् (३.३.१६१)। स्मशब्द उपपदेऽधीष्टे गम्यमाने धातोर्लोट् प्रत्ययो भवति। लिङोऽपवादः। अङ्ग स्म राजन् माणवकमध्यापय। अङ्ग स्म राजन्नग्निहोत्रं जुहुधि॥

कालसमयवेलासु तुमुन् ॥ ३.३.१६७॥

कालादिषूपपदेषु धातोस्तुमुन् प्रत्ययो भवति। कालो भोक्तुम्। समयो भोक्तुम्। वेला भोक्तुम्। इह कस्माद् न भवति-कालः पचति भूतानि (मै०उ० ६.१५) इति? प्रैषादिग्रहणमिहाभिसंबध्यते। इह कस्माद् न भवति-कालो भोजनस्य? वासरूपेण ल्युडपि भवति। उक्तमिदम्-स्त्र्यधिकारात् परत्र वासरूपविधिरनित्यः (३.३.१६३) इति॥

लिङ् यदि ॥ ३.३.१६८॥

कालादयोऽनुवर्तन्ते। यच्छब्द उपपदे कालादिषु धातोर्लिङ् प्रत्ययो भवति । तुमुनोऽपवादः। कालो यद् भुञ्जीत भवान्। समयो यद् भुञ्जीत भवान्। वेला यद् भुञ्जीत भवान्॥

अर्हे कृत्यतृचश्च ॥ ३.३.१६९॥

अर्हतीत्यर्हः, तद्योग्यः। अर्हे कर्तरि वाच्ये गम्यमाने वा धातोः कृत्यतृचः प्रत्यया भवन्ति, चकाराल्लिङ् च। भवता खलु कन्या वोढव्या, वाह्या, वहनीया। भवान् खलु कन्याया वोढा। भवान् खलु कन्यां वहेत्। भवानेतदर्हेदिति। अथ कस्मादर्हे कृत्यतृचो विधीयन्ते। यावता सामान्येन विहितत्वादर्हेऽपि भविष्यन्ति? योऽयमिह लिङ् विधीयते, तेन बाधा मा भूदिति। वासरूपविधिश्चानित्यः॥

आवश्यकाधमर्ण्ययोर्णिनिः ॥ ३.३.१७०॥

अवश्यंभाव आवश्यकम्। उपाधिरयम्, नोपपदम्। अवश्यंभावविशिष्ट आधमर्ण्यविशिष्टे च कर्तरि वाच्ये धातोर्णिनिः प्रत्ययो भवति। अवश्यंकारी। मयूरव्यंसकादित्वात् समासः। आधमर्ण्ये खल्वपि-शतं दायी। सहस्रं दायी। निष्कं दायी॥

कृ त्याश्च ॥ ३.३.१७१॥

आवश्यकाधमर्ण्ययोरिति वर्तते। कृत्यसंज्ञकाश्च प्रत्यया आवश्यकाधमर्ण्ययोरुपाधिभूतयोर्धातोर्भवन्ति। भवता खल्ववश्यं कटः कर्तव्यः। अवश्यं करणीयः। अवश्यं कार्यः। अवश्यं कृत्यः। आधमर्ण्ये-भवता शतं दातव्यम्। सहस्रं देयम्। किमर्थमिदम्, यावता सामान्येन विहिता अस्मिन्नपि विषये भविष्यन्ति? विशेषविहितेन णिनिना बाध्येरन्। कर्तरि णिनिः, भावकर्मणोः कृत्याः, तत्र कुतो बाधप्रसङ्गः? तत्र केचिदाहुः-भव्यगेयादयः कर्तृवाचिनः कृत्याः, त इहोदाहरणमिति॥

शकि लिङ् च ॥ ३.३.१७२॥

शकीति प्रकृत्यर्थविशेषणम्। शक्नोत्यर्थोपाधिके धात्वर्थे लिङ् प्रत्ययो भवति, चकारात् कृत्याश्च। भवता खलु भारो वोढव्यः,वहनीयः, वाह्यः। भवान् खलु भारं वहेत्। भवानिह शक्तः। सामान्यविहितानां पुनर्वचनं लिङा बाधा मा भूदिति॥

आशिषि लिङ्लोटौ॥ ३.३.१७३॥

आशंसनमाशीः, अप्राप्तस्येष्टस्यार्थस्य प्राप्तुमिच्छा। प्रकृत्यर्थविशेषणं चैतत्। आशीर्विशिष्टेऽर्थे वर्तमान् धातोर्लिङ्लोटौ प्रत्ययौ भवतः। चिरं जीव्याद् भवान्। चिरं जीवतु भवान्। आशिषीति किम्? चिरं जीवति देवदत्तः॥

क्तिच्क्त ौ च संज्ञायाम्॥ ३.३.१७४॥

आशिषीत्येव। आशिषि विषये धातोः क्तिच्क्तौ प्रत्ययौ भवतः, समुदायेन चेत् संज्ञा गम्यते। तनुतात् तन्तिः। सनुतात् सातिः। भवतात् भूतिः। क्तः खल्वपि-देवा एनं देयासुर्देवदत्तः। सामान्येन विहितः क्तः पुनरु च्यते, क्तिचा बाधा मा भूदिति। चकारो विशेषणार्थः ‘न क्तिचि दीर्घश्च’ (६.४.३९) इति॥

माङि लुङ्॥ ३.३.१७५॥

माङ्युपपदे धातोर्लुङ् प्रत्ययो भवति। सर्वलकाराणामपवादः। मा कार्षीत्। मा हार्षीत्। कथं मा भवतु तस्य पापम्, मा भविष्यतीति? असाधुरेवायम्। केचिदाहुः-अङिदपरो माशब्दो विद्यते, तस्यायं प्रयोगः॥

स्मोत्तरे लङ् च ॥ ३.३.१७६॥

स्मशब्दोत्तरे माङ्युपपदे धातोर्लङ् प्रत्ययो भवति, चकाराल्लुङ् च। मा स्म करोत्। मा स्म कार्षीत्। मा स्म हरत्। मा स्म हार्षीत्॥

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य तृतीयः पादः॥