०२

कर्मण्यण्॥ ३.२.१॥

त्रिविधं कर्म-निर्वर्त्यम्, विकार्यम्, प्राप्यं चेति। सर्वत्र कर्मण्युपपदे धातोरण् प्रत्ययो भवति। निर्वर्त्यं तावत्-कुम्भकारः। नगरकारः। विकार्यम्-काण्डलावः। शरलावः। प्राप्यम्-वेदाध्यायः। चर्चापारः। ग्रामं गच्छति, आदित्यं पश्यति, हिमवन्तं शृणोतीत्यत्र न भवति, अनभिधानात्॥ शीलिकामिभक्ष्याचरिभ्यो णः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्॥ मां॒सशी॑लः। मां॒सशी॑ला।मां॒सका॑मः। मां॒सका॑मा। मां॒सभ॑क्षः। मां॒सभ॑क्षा। क॒ल्याणा॑चारः। क॒ल्याणा॑चारा॥ ईक्षिक्षमिभ्यां चेति वक्त व्यम्॥ सु॒खप्र॑तीक्षः। सु॒खप्र॑तीक्षा। ब॒हुक्ष॑मः। ब॒हुक्ष॑मा॥

ह्वावामश्च ॥ ३.२.२॥

‘ह्वेञ् स्पर्धायां शब्दे च’,‘वेञ् तन्तुसन्ताने’,‘माङ् माने’ इत्येतेभ्यश्च कर्मण्युपपदेऽण् प्रत्ययो भवति। कप्रत्ययस्यापवादः। स्वर्गह्वायः। तन्तुवायः। धान्यमायः॥

आतोऽनुपसर्गे॥ ३.२.३॥

आकारान्तेभ्योऽनुपसर्गेभ्यः कर्मण्युपपदे कप्रत्ययो भवति। अणोऽपवादः। गोदः। कम्बलदः। पार्ष्णित्रम्। अङ्गुलित्रम्। अनुपसर्ग इति किम्? गोसंदायः। वडवासंदायः॥

सुपि स्थः॥ ३.२.४॥

सुबन्त उपपदे तिष्ठतेः कप्रत्ययो भवति। समस्थः। विषमस्थः। अत्र योगविभागः कर्तव्यः, सुपीति। सुप्याकारान्तेभ्यः कप्रत्ययो भवति। द्वाभ्यां पिबतीति द्विपः। पादपः। कच्छपः। ततः स्थ इति। स्थश्च सुपि कप्रत्ययो भवति। किमर्थमिदम्? कर्तरि पूर्वयोगः। अनेन भावेऽपि यथा स्यात्। आखूनामुत्त्थानम्, आखूत्त्थः। शलभोत्त्थः। इत उत्तरं कर्मणीति च सुपीति च द्वयमप्यनुवर्तते। तत्र सकर्मकेषु धातुषु कर्मणीत्येतदुपतिष्ठते, अन्यत्र सुपीति॥

तुन्दशोकयोः परिमृजापनुदोः॥ ३.२.५॥

तुन्दशोकयोः कर्मणोरुपपदयोः परिमृजापनुदोर्धात्वोः कप्रत्ययो भवति। तुन्दपरिमृज आस्ते। शोकापनुदः पुत्रो जातः॥ आलस्यसुखाहरणयोरिति वक्तव्यम्॥ अलसस्तुन्दपरिमृज उच्यते। तुन्दपरिमार्ज एवान्यः। सुखस्याहर्ता शोकापनुदः। शोकापनोद एवान्यः॥ कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्॥ मूलानि विभुजतीति मूलविभुजो रथः। नखमुचानि धनूंषि। काकगुहास्तिलाः। कौ मोदते कुमुदम्॥

प्रे दाज्ञः ॥ ३.२.६॥

सोपसर्गार्थ आरम्भः। ददातेर्जानातेश्च धातोः प्रेणोपसृष्टात् कर्मण्युपपदे कप्रत्ययो भवति। अणोऽपवादः। सर्वप्रदः। पथिप्रज्ञः। प्र इति किम्? गोसंदायः॥

समि ख्यः ॥ ३.२.७॥

सोपसर्गार्थ आरम्भः। संपूर्वात् ख्या इत्येतस्माद् धातोः कर्मण्युपपदे कप्रत्ययो भवति। अणोऽपवादः। गां संचष्टे गोसंख्यः॥

गापोष्टक्॥ ३.२.८॥

कर्मण्यनुपसर्ग इति वर्तते। गायतेः पिबतेश्च धातोः कर्मण्युपपदेऽनुपसर्गे टक् प्रत्ययो भवति। कस्यापवादः। शक्रं गायति शक्रगः। सामगः। शक्रगी। सामगी॥ सुराशीध्वोः पिबतेरिति वक्त व्यम्॥ सुरापः। सुरापी। शीधुपः। शीधुपी। सुराशीध्वोरिति किम्? क्षीरपा ब्राह्मणी। पिबतेरिति किम्? सुरां पातीति सुरापा। अनुपसर्ग इत्येवशक्रसंगायः। सामसंगायः॥ बहुलं छन्दसीति वक्त व्यम्॥ या ब्राह्मणी सुरापी भवति, नैनां देवाः पतिलोकं नयन्ति। या ब्राह्मणी सुरापा भवति, नैनां देवाः पतिलोकं नयन्ति॥

हरतेरनुद्यमनेऽच्॥ ३.२.९॥

हरतेर्धातोरनुद्यमने वर्तमानात् कर्मण्युपपदेऽच् प्रत्ययो भवति। अणोऽपवादः। उद्यमनमुत्क्षेपणम्। अंशं हरतीत्यंशहरः। रिक्थहरः। अनुद्यमन इति किम्? भारहारः॥ अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुष्षु ग्रहेरुपसंख्यानम्॥ शक्तिग्रहः। लाङ्गलग्रहः। अङ्कुशग्रहः। यष्टिग्रहः। तोमरग्रहः। घटग्रहः। घटीग्रहः। धनुर्ग्रहः ॥ सूत्रे च धार्यर्थे॥ सूत्रग्रहः। सूत्रं धारयतीत्यर्थः। सूत्रग्राह एवान्यः॥

वयसि च॥ ३.२.१०॥

वयसि गम्यमाने हरतेः कर्मण्युपपदेऽच् प्रत्ययो भवति। उद्यमनार्थोऽयमारम्भः। कालकृता शरीरावस्था यौवनादिर्वयः। यदुद्यमनं क्रियमाणं संभाव्यमानं वा वयो गमयति, तत्रायं विधिः। अस्थिहरः श्वा। कवचहरः क्षत्रियकुमारः॥

आङि ताच्छील्ये॥ ३.२.११॥

आङ्पूर्वाद् हरतेः कर्मण्युपपदेऽच् प्रत्ययो भवति ताच्छील्ये गम्यमाने। ताच्छील्यं तत्स्वभावता। पुष्पाहरः। फलाहरः। पुष्पाद्याहरणे स्वाभाविकी फलानपेक्षा प्रवृत्तिरस्येत्यर्थः। ताच्छील्य इति किम्? भारमाहरतीति भाराहारः॥

अर्हः ॥ ३.२.१२॥

‘अर्ह पूजायाम्’ अस्माद् धातोः कर्मण्युपपदेऽच् प्रत्ययो भवति। अणोऽपवादः। स्त्रीलिङ्गे विशेषः। पूजार्हा। गन्धार्हा। मालार्हा॥

स्तम्बकर्णयो रमिजपोः ॥ ३.२.१३॥

स्तम्ब कर्ण इत्येतयोः सुबन्तयोरुपपदयोर्यथासंख्यं रमिजपोर्धात्वोरच् प्रत्ययो भवति। रमेरकर्मकत्वाज् जपेः शब्दकर्मकत्वात् कर्म न संभवतीति सुपीत्येतदिहाभिसंबध्यते॥ हस्तिसूचकयोरिति वक्त व्यम् ॥ स्तम्बे रमत इति स्तम्बेरमो हस्ती। कर्णे जपतीति कर्णेजपः सूचकः। हस्तिसूचकयोरिति किम्? स्तम्बे रन्ता। कर्णे जपिता मशकः॥

शमि धातोः संज्ञायाम् ॥ ३.२.१४॥

शम्युपपदे धातुमात्रात् संज्ञायां विषयेऽच् प्रत्ययो भवति। शंकरः। शंभवः। शंवदः। धातुग्रहणं किं यावता धातोरिति वर्तते एव? शमि संज्ञायामिति सिद्धे धातुग्रहणं कृञो हेत्वादिषु टप्रतिषेधार्थम्। शंकरा नाम परिव्राजिका। शंकरा नाम शकुनिका। तच्छीला च॥

अधिकरणे शेतेः॥ ३.२.१५॥

सुपीति संबध्यते। शेतेर्धातोरधिकरणे सुबन्त उपपदेऽच् प्रत्ययो भवति। खे शेते खशयः। गर्तशयः॥ पार्श्वादिषूपसंख्यानम्॥ पार्श्वाभ्यां शेते पार्श्वशयः। उदरशयः। पृष्ठशयः॥ दिग्धसहपूर्वाच्च॥ दिग्धेन सह शेते दिग्धसहशयः॥ उत्तानादिषु कर्तृषु॥ उत्तानः शेते उत्तानशयः। अवमूर्धा शेते अवमूर्धशयः॥ गिरौ डश्छन्दसि॥ गिरौ शेते, गिरि॒श (मा०सं० १६.४)॥

चरेष्टः ॥ ३.२.१६॥

अधिकरण इति वर्तते। चरेर्धातोरधिकरणे सुबन्त उपपदे टप्रत्ययो भवति। कुरुषु चरतीति कुरुचरः। मद्रचरः। कुरुचरी। मद्रचरी। प्रत्ययान्तरकरणं ङीबर्थम्॥

भिक्षासेनादायेषु च॥ ३.२.१७॥

अनधिकरणार्थ आरम्भः। भिक्षा सेना आदाय इत्येतेषूपपदेषु चरेर्धातोष्टप्रत्ययो भवति। भिक्षाचरः। सेनाचरः। आदायचरः॥

पुरोऽग्रतोऽग्रेषु सर्तेः ॥ ३.२.१८॥

पुरस्, अग्रतस्, अग्रे इत्येतेषूपपदेषु सर्तेर्धातोष्टप्रत्ययो भवति। पुरः सरति पुरःसरः। अग्रतःसरः। अग्रेसरः॥

पूर्वे कर्तरि ॥ ३.२.१९॥

पूर्वशब्दे कर्तृवाचिन्युपपदे सर्तेर्धातोष्टप्रत्ययो भवति। पूर्वःसरतीति पूर्वसरः। कर्तरीति किम्? पूर्वं देशं सरतीति पूर्वसारः॥

कृञो हेतुताच्छील्यानुलोम्येषु ॥ ३.२.२०॥

कर्मण्युपपदे करोतेर्धातोष्टप्रत्ययो भवति हेतौ, ताच्छील्ये, आनुलोम्ये च गम्यमाने। हेतुरैकान्तिकं कारणम्। ताच्छील्यं तत्स्वभावता। आनुलोम्यमनुकूलता। हेतौ तावत्-शोककरी कन्या। यशस्करी विद्या। कुलकरं धनम्। ताच्छील्ये-श्राद्धकरः। अर्थकरः। आनुलोम्ये-प्रैषकरः। वचनकरः। एतेष्विति किम्? कुम्भकारः। नगरकारः॥

दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलि-भक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुष्षु॥ ३.२.२१॥

कर्मणि सुपीति च द्वयमप्यनुवर्तते। तत्र यथायोगं सम्बन्धः। दिवादिषूपपदेषु करोतेर्धातोष्टप्रत्ययो भवति। अहेत्वाद्यर्थ आरम्भः। दिवाशब्दोऽधिकरणवचनः सुपीत्यस्य विशेषणम्। दिवा करोति प्राणिनश्चेष्टायुक्त ानिति दिवाकरः। विभां करोतीति विभाकरः। निशाकरः। प्रभाकरः। भास्करः। सकारस्य निपातनाद् विसर्जनीयजिह्वामूलीयौ न भवतः। कारकरः। अन्तकरः। अनन्तकरः। आदिकरः। बहुकरः। नान्दीकरः। किंकरः। लिपिकरः। लिबिकरः। बलिकरः। भक्तिकरः। कर्तृकरः। चित्रकरः। क्षेत्रकरः। संख्या-एककरः। द्विकरः। त्रिकरः। जङ्घाकरः। बाहुकरः। अहस्करः। यत्करः। तत्करः। धनुष्करः। अरुष्करः॥ किंयत्तद्बहुषु कृञोऽज्विधानम्॥ किंकरा। यत्करा। तत्करा। बहुकरा। अथवाजादिषु पाठः करिष्यते॥

कर्मणि भृतौ ॥ ३.२.२२॥

कर्मणीति स्वरूपग्रहणम्। कर्मशब्द उपपदे कर्मवाचिनि करोतेष्टप्रत्ययो भवति भृतौ गम्यमानायाम्। भृतिर्वेतनम्, कर्मनिर्वेशः। कर्म करोतीति कर्मकरः । भृतक इत्यर्थः। भृताविति किम् ? कर्मकारः॥

न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु ॥ ३.२.२३॥

शब्दादिषूपपदेषु करोतेष्टप्रत्ययो न भवति । हेत्वादिषु प्राप्तः प्रतिषिध्यते । शब्दकारः। श्लोककारः। कलहकारः। गाथाकारः। वैरकारः। चाटुकारः। सूत्रकारः। मन्त्रकारः। पदकारः॥

स्तम्बशकृतोरिन् ॥ ३.२.२४॥

स्तम्ब शकृत् इत्येतयोः कर्मणोरुपपदयोरिन् प्रत्ययो भवति॥ व्रीहिवत्सयोरिति वक्तव्यम्॥ स्तम्बकरिर्व्रीहिः। शकृत्करिर्वत्सः। व्रीहिवत्सयोरिति किम्? स्तम्बकारः। शकृत्कारः॥

हरतेर्दृतिनाथयोः पशौ ॥ ३.२.२५॥

दृति नाथ इत्येतयोः कर्मणोरुपपदयोर्हरतेर्धातोः पशौ कर्तरि इन् प्रत्ययो भवति । दृतिं हरति दृतिहरिः पशुः। नाथहरिः पशुः। पशाविति किम्? दृतिहारः। नाथहारः॥

फलेग्रहिरात्मंभरिश्च ॥ ३.२.२६॥

फलेग्रहिः आत्मम्भरिः इत्येतौ शब्दौ निपात्येते । फलशब्दस्य उपपदस्यैकारान्तत्वमिन्प्रत्ययश्च ग्रहेर्निपात्यते । फलानि गृह्णातीति फलेग्रहिर्वक्षः। आत्मशब्दस्योपपदस्य मुमागम इन्प्रत्ययश्च भृञो निपात्यते। आत्मानं बिभर्ति आत्मम्भरिः। अनुक्त समुच्चयार्थश्चकारः। कुक्षिम्भरिः। उदरम्भरिः॥

छन्दसि वनसनरक्षिमथाम् ॥ ३.२.२७॥

‘वन षण संभक्त ौ ’ ‘रक्ष पालने’ ‘मथे विलोडने’ एतेभ्यः कर्मण्युपपदे छन्दसि विषय इन् प्रत्ययो भवति। ब्र॒ह्म॒वनिं॑ त्वा क्षत्र॒वनि॑म् (तै०सं० १.३.१.२)। गो॒सनिं॒ वाच॑मुदेय॒म् (शौ०सं० ३.२०.१०)। यौ प॑थि॒रक्षी॒ श्वानौ॑ (शौ०सं० ८.१.९)। ह॑वि॒र्मथी॑नाम॒भ्या॒ विवा॑सताम् (ऋ० ७.१०४.२१)॥

एजेः खश् ॥ ३.२.२८॥

‘एजृ कम्पने’ इत्यस्माण् ण्यन्तात् कर्मण्युपपदे खश् प्रत्ययो भवति। खकारो मुमर्थः। शकारः सार्वधातुकसंज्ञार्थः। अङ्गमेजयति अङ्गमेजयः। जनमेजयः॥ खश्प्रकरणे वातशुनीतिलशर्धेष्वजधेट्तुदजहातीनामुपसंख्यानम्॥ वातमजा मृगाः। शुनिन्धयः। तिलन्तुदः। शर्धञ्जहा माषाः॥

नासिकास्तनयोर्ध्माधेटोः ॥ ३.२.२९॥

नासिकास्तनयोः कर्मणोरुपपदयोर्ध्माधेटोर्धात्वोःखश् प्रत्ययो भवति। यथासंख्यमत्र नेष्यते॥ स्तने धेटः॥ स्तनन्धयः॥ नासिकायां तु ध्मश्च धेटश्च॥ नासिकन्धमः। नासिकन्धयः। तच्चैतन्नासिकास्तनयोरिति लक्षणव्यभिचारचिह्नादल्पाच्तरस्या-पूर्वनिपातनाल्लभ्यते। धेटष्टित्तवात् स्त्रियां ङीप् प्रत्ययो भवति। स्तनन्धयी॥

नाडीमुष्ट्योश्च ॥ ३.२.३०॥

नाडी मुष्टि इत्येतयोः कर्मणोरुपपदयोर्ध्माधेटोः खश् प्रत्ययो भवति। अत्रापि घ्यन्तस्यापूर्वनिपातो लक्षणव्यभिचारचिह्नम्, तेन संख्यातानुदेशो न भवति। नाडिन्धमः। मुष्टिन्धमः। नाडिन्धयः। मुष्टिन्धयः। अनुक्त समुच्चयार्थश्चकारः। घटिन्धमः। घटिन्धयः। खारिन्धमः। खारिन्धयः। वातन्धमः पर्वतः। वातन्धयः॥

उदि कूले रुजिवहोः ॥ ३.२.३१॥

‘रुजो भङ्गे’ ‘वह प्रापणे’ इत्येताभ्यामुत्पूर्वाभ्यां कूले कर्मण्युपपदे खश् प्रत्ययो भवति। कूलमुद्रुजतीति कूलमुद्रुजो रथः। कूलमुद्वहः॥

वहाभ्रे लिहः॥ ३.२.३२॥

वह अभ्र इत्येतयोः कर्मणोरुपपदयोर्लिहेर्धातोः खश् प्रत्ययो भवति। वहं लेढीति वहंलिहो गौः। अभ्रंलिहो वायुः॥

परिमाणे पचः॥ ३.२.३३॥

परिमाणं प्रस्थादि, तस्मिन् कर्मण्युपपदे पचेः खश् प्रत्ययो भवति। प्रस्थं पचति प्रस्थंपचा स्थाली। द्रोणम्पचः। खारिम्पचः कटाहः॥

मितनखे च ॥ ३.२.३४॥

मित नख इत्येतयोः कर्मणोरुपपदयोः पचेः खश् प्रत्ययो भवति। अपरिमाणार्थ आरम्भः। मितं पचति मितम्पचा ब्राह्मणी। नखम्पचा यवागूः॥

विध्वरुषोस्तुदः ॥ ३.२.३५॥

विधु अरुस् इत्येतयोः कर्मणोरुपपदयोः तुदेर्धातोः खश् प्रत्ययो भवति। विधुन्तुदो राहुः। अरुन्तुदः॥

असूर्यललाटयोर्दृशितपोः॥ ३.२.३६॥

असूर्य ललाट इत्येतयोः कर्मणोरुपपदयोर्दृशितपोर्धात्वोः खश् प्रत्ययो भवति। असूर्यम्पश्या राजदाराः। ललाटन्तप आदित्यः। असूर्य इति चासमर्थसमासोऽयम्, दृशिना नञः संबन्धात्, सूर्यं न पश्यन्तीति। गुप्तिपरं चैतत्। एवं नाम गुप्ता यदपरिहार्यदर्शनं सूर्यमपि न पश्यन्तीति॥

उग्रंपश्येरंमदपाणिंधमाश्च॥ ३.२.३७॥

उग्रम्पश्य इरम्मद पाणिन्धम इत्येते शब्दा निपात्यन्ते। उगं्र पश्यतीत्युग्रम्पश्यः। इरया माद्यतीतीरम्मदः। पाणयो ध्मायन्त एष्विति पाणिन्धमाः पन्थानः॥

प्रियवशे वदः खच्॥ ३.२.३८॥

प्रिय वश इत्येतयोः कर्मणोरुपपदयोर्वदेधातोः खच् प्रत्ययो भवति। प्रियं वदतीति प्रियंवदः। वशंवदः। चकारः ‘खचि ह्रस्वः’ (६.४.९४) इति विशेषणार्थः। खकारो मुमर्थः। प्रत्ययान्तरकरणमुत्तरार्थम्॥ खच्प्रकरणे गमेः सुप्युपसंख्यानम्॥ मितंगमो हस्ती। मितंगमा हस्तिनी॥ विहायसो विह च॥ विहायसा गच्छति विहंगमः॥ खच्च डिद् वा वक्तव्यः॥ विहंगः, विहंगमः॥ डे च विहायसो विहादेशो वक्तव्यः॥ विहगः॥

द्विषत्परयोस्तापेः॥ ३.२.३९॥

द्विषत्परयोः कर्मणोरुपपदयोस्तापेर्धातोः खच् प्रत्ययो भवति। ‘तप दाहे’ चुरादिः, ‘तप संतापे’ भ्वादिः। द्वयोरपि ग्रहणम्। द्विषन्तं तापयति द्विषन्तपः। परन्तपः। द्विषत्परयोरिति द्वितकारको निर्देशः। तेन स्त्रियां न भवति। द्विषतीं तापयति द्विषतीतापः॥

वाचि यमो व्रते॥ ३.२.४०॥

वाक् शब्दे कर्मण्युपपदे यमेर्धातोः खच् प्रत्ययो भवति व्रते गम्यमाने। व्रत इति शास्त्रितो नियम उच्यते। वाचंयम आस्ते। व्रत इति किम्? वाग्यामः॥

पूःसर्वयोर्दारिसहोः॥ ३.२.४१॥

पुर् सर्व इत्येतयोः कर्मणोरुपपदयोर्यथासंख्यं दारिसहोर्धात्वोः खच् प्रत्ययो भवति। पुरं दारयति पुरंदरः। सर्वंसहो राजा॥ भगे च दारेरिति वक्तव्यम्॥ भगन्दरः॥

सर्वकूलाभ्रकरीषेषु कषः॥ ३.२.४२॥

सर्व कूल अभ्र करीष इत्येतेषु कर्मसूपपदेषु कषेर्धातोः खच् प्रत्ययो भवति। सर्वं कषति सर्वंकषः खलः। कूलंकषा नदी। अभ्रंकषो गिरिः। करीषंकषा वात्या॥

मेघर्तिभयेषु कृञः ॥ ३.२.४३॥

मेघ ऋति भय इत्येतेषु कर्मसूपपदेषु कृञः खच् प्रत्ययो भवति। मेघंकरः। ऋतिंकरः। भयंकरः। उपपदविधौ भयादिग्रहणं तदन्तविधिं प्रयोजयति। अभयंकरः॥

क्षेमप्रियमद्रेऽण् च ॥ ३.२.४४॥

क्षेम प्रिय मद्र इत्येतेषु कर्मसूपपदेषुकरोतेरण् प्रत्ययो भवति, चकारात् खच्च। क्षेमकारः। क्षेमंकरः। प्रियकारः। प्रियंकरः। मद्रकारः। मद्रंकरः। वेति वक्त व्ये पुनरण्ग्रहणं हेत्वादिषु टप्रतिषेधार्थम्॥

आशिते भुवः करणभावयोः ॥ ३.२.४५॥

अत्र सुपीत्युपतिष्ठते। आशितशब्दे सुबन्त उपपदे भवतेर्धातोः करणे भावे चार्थे खच् प्रत्ययो भवति। आशितो भवत्यनेन आशितंभव ओदनः। भावे-आशितस्य भवनम् आशितंभवं वर्तते॥

संज्ञायां भृतृवृजिधारिसहितपिदमः ॥ ३.२.४६॥

कर्मणीति सुपीति च प्रकृतं संज्ञावशाद् यथासंभवं संबध्यते। भृ तृ वृ जि धारि सहि तपि दम् इत्येतेभ्यो धातुभ्यः संज्ञायां विषये खच् प्रत्ययो भवति। विश्वम्भरा वसुन्धरा। रथंतरं साम। पतिंवरा कन्या। शत्रुंजयो हस्ती। युगंधरः पर्वतः। शत्रुंसहः। शत्रुंतपः। अरिंदमः। संज्ञायामिति किम्? कुटुम्बं बिभर्तीति कुटुम्बभारः॥

गमश्च ॥ ३.२.४७॥

गमेर्धातोः सुप्युपपदे संज्ञायां विषये खच् प्रत्ययो भवति। सुतंगमो नाम, यस्य पुत्रः सौतंगमिः। योगविभाग उत्तरार्थः॥

अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः॥ ३.२.४८॥

संज्ञायामिति नानुवर्तते। अन्त अत्यन्त अध्वन् दूर पार सर्व अनन्त इत्येतेषु कर्मसूपपदेषु गमेर्डप्रत्ययो भवति। अन्तगः। अत्यन्तगः। अध्वगः। दूरगः। पारगः। सर्वगः। अनन्तगः। डकारः टिलोपार्थः। डित्यभस्याप्यनुबन्धकरणसामर्थ्यादिति॥ डप्रकरणे सर्वत्रपन्नयोरुपसंख्यानम्॥ सर्वत्रगः। पन्नगः॥ उरसो लोपश्च॥ उरसा गच्छतीत्युरगः॥ सुदुरोरधिकरणे॥ सुखेन गच्छत्यस्मिन्निति सुगः। दुर्गः॥ निरो देशे॥ निर्गो देशः। अपर आह-॥ डप्रकरणेऽन्येष्वपि दृश्यत इति॥ स्त्र्यगारगः। ग्रामगः। गुरुतल्पगः॥

आशिषि हनः॥ ३.२.४९॥

ड इति वर्तते। आशिषि गम्यमानायां हन्तेर्धातोः कर्मण्युपपदे डप्रत्ययो भवति। तिमिं वध्यात् तिमिहः। शत्रुहः। आशिषीति किम्? शत्रुघातः॥ दारावाहनोऽणन्तस्य च टः संज्ञायाम्॥ दारावुपपद आङ्पूर्वाद् हन्तेरण् प्रत्ययो भवति, अन्तस्य च टकारादेशो भवति, संज्ञायां विषये। दारु आहन्ति, दार्वाघाटः॥ चारौ वा॥ आङ्पूर्वाद् हन्तेश्चारावुपपदेऽण्, अन्तस्य वा टकारादेशः। चार्वाघाटः। चार्वाघातः॥ कर्मणि समि च॥ कर्मण्युपपदे संपूर्वात् हन्तेर्धातोरण् प्रत्ययो भवति, अन्तस्य च वा टकारादेशः। वर्णान् संहन्ति वर्णसंघाटः। वर्णसंघातः। पदानि संहन्ति पदसंघाटः। पदसंघातः॥

अपे क्लेशतमसोः॥ ३.२.५०॥

अपपूर्वाद् हन्तेः क्लेशतमसोः कर्मणोरुपपदयोर्डप्रत्ययो भवति। क्लेशापहः पुत्रः। तमोऽपहः सूर्यः अनाशीरर्थ आरम्भः॥

कुमारशीर्षयोर्णिनिः॥ ३.२.५१॥

हन इति वर्तते। कुमार शीर्ष इत्येतयोरुपपदयोर्हन्तेर्णिनिः प्रत्ययो भवति। कुमारघाती। शीर्षघाती। निपातनाच्छिरसः शीर्षभावः॥

लक्षणे जायापत्योष्टक् ॥ ३.२.५२॥

हन्तेर्जायापत्योः कर्मणोरुपपदयोर्लक्षणवति कर्तरि टक् प्रत्ययो भवति। जायाघ्नो ब्राह्मणः। पतिघ्नी वृषली। अथ वा लक्षणे द्योत्ये टक् प्रत्ययः॥

अमनुष्यकर्तृके च ॥ ३.२.५३॥

अमनुष्यकर्तृके वर्तमानाद् हन्तेर्धातोः कर्मण्युपपदे टक् प्रत्ययो भवति। जायाघ्नस्तिलकालकः। पतिघ्नी पाणिरेखा। श्लेष्मघ्नं मधु। पित्तघ्नं घृतम्। अमनुष्यकर्तृक इति किम्? आखुघातः शूद्रः। इह कस्माद् न भवति-चौरघातो हस्ती? ‘कृत्यल्युटो बहुलम्’ (३.३.११३) इति बहुलवचनादण् भवति॥

शक्त ौ हस्तिकपाटयोः॥ ३.२.५४॥

शक्तौ गम्यमानायां हस्तिकपाटयोः कर्मणोरुपपदयोर्हन्तेष्टक् प्रत्ययो भवति। मनुष्यकर्तृकार्थ आरम्भः। हस्तिनं हन्तुं शक्त ो हस्तिघ्नो मनुष्यः। कं पाटयति प्रविशत इति कपाटघ्नश्चौरः। शक्ताविति किम्? विषेण हस्तिनं हन्ति हस्तिघातः॥

पाणिघताडघौ शिल्पिनि॥ ३.२.५५॥

पाणिघ ताडघ इत्येतौ शब्दौ निपात्येते शिल्पिनि कर्तरि। पाणि ताड इत्येतयोः कर्मणोरुपपदयोर्हन्तेर्धातोः टक् ‘प्रत्ययो भवति, तस्मिंश्च परतो हन्तेष्टिलोपो घत्वं च निपात्यते। पाणिघः। ताडघः। शिल्पिनीति किम्? पाणिघातः। ताडघातः॥ राजघ उपसंख्यानम्॥ राजानं हन्ति राजघः॥

आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन् ॥ ३.२.५६॥

आढ्यादिषु कर्मसूपपदेषु च्व्यर्थेष्वच्व्यन्तेषु करोतेर्धातोः करणे कारके ख्युन् प्रत्ययो भवति। च्वेर्विकल्पेन विधानाद् द्विविधाश्च्व्यर्थाः। च्व्यन्ता। अच्व्यन्ताश्च। तत्र च्व्यन्ताः पर्युदस्यन्ते। अनाढ्यमाढ्यं कुर्वन्त्यनेन आढ्यंकरणम्। सुभगंकरणम्। स्थूलंकरणम्। पलितंकरणम्। नग्नंकरणम्। अन्धंकरणम्। प्रियंकरणम्। च्व्यर्थेष्विति किम्? आढ्यं तैलेन कुर्वन्ति, अभ्यञ्जयन्तीत्यर्थः। प्रकृतेरविवक्षायामभूतप्रादुर्भावेऽपि प्रत्युदाहरणं भवति। अच्वाविति किम्? आढ्यीकुर्वन्त्यनेन । ननु च ख्युना मुक्ते ल्युटा भवितव्यम्। न च ल्युटः ख्युनश्च विशेषोऽस्ति। तत्र किं प्रतिषेधेन? एवं तर्हि प्रतिषेधसामर्थ्यात् ख्युन्यसति ल्युडपि न भवति, तेन ल्युटोऽप्ययमर्थतः प्रतिषेधः। उत्तरार्थश्च च्विप्रतिषेधः क्रियते॥

कर्तरि भुवः खिष्णुच्खुकञौ ॥ ३.२.५७॥

आढ्यादिषु सुबन्तेषूपपदेषु च्व्यर्थेष्वच्व्यन्तेषु भवतेर्धातोः कर्तरि कारके खिष्णुच् खुकञ् इत्येतौ प्रत्ययौ भवतः। अनाढ्य आढ्यो भवति आढ्यंभविष्णुः। आढ्यंभावुकः। सुभगंभविष्णुः। सुभगंभावुकः। स्थूलंभविष्णुः। स्थूलंभावुकः। पलितंभविष्णुः। पलितंभावुकः। नग्नंभविष्णुः। नग्नंभावुकः। (काठ०सं० २६.६)। अन्धंभविष्णुः। अन्धंभावुकः। प्रियंभविष्णुः। प्रियंभावुकः। कर्तरीति किम्? करणे मा भूत्। च्व्यर्थेष्वित्येवआढ्यो भविता। अच्वावित्येव-आढ्यीभविता।

उदात्तत्वाद् भुवः सिद्धमिकारादित्वमिष्णुचः।

नञस्तु स्वरसिद्ध्यर्थम् इकारादित्वमिष्यते॥ 

स्पृशोऽनुदके क्विन् ॥ ३.२.५८॥

स्पृशेर्धातोरनुदके सुबन्त उपपदे क्विन् प्रत्ययो भवति। ननु च सकर्मकत्वात् स्पृशेः कर्मैवोपपदं प्राप्नोति? नैष दोषः। कर्तरीति पूर्वसूत्रादनुवर्तते, तत्कर्तृप्रचयार्थ विज्ञायते। सुबन्तमात्रे चोपपदे कर्तृप्रचयो लभ्यते। घृतं स्पृशति घृतस्पृक्। मन्त्रेण स्पृशन्ति मन्त्रस्पृक्। जलेन स्पृशति जलस्पृक् । अनुदक इति किम्? उदकस्पर्शः। नकारः ‘क्विन्प्रत्ययस्य कुः’ (८.२.६२) इति विशेषणार्थः॥

ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च ॥ ३.२.५९॥

ऋत्विगादयः पञ्चशब्दाः क्विन्प्रत्ययान्ता निपात्यन्ते। अपरे त्रयो धातवो निर्दिश्यन्ते। ऋतुशब्द उपपदे यजेर्धातोः क्विन् प्रत्ययो निपात्यते। ऋतौ यजति, ऋतुं वा यजति, ऋतुप्रयुक्तो वा यजति ऋत्विक् । रूढिरेषा यथाकथंचिदनुगन्तव्या। धृषेः क्विन् प्रत्ययो द्विर्वचनमन्तोदात्तत्वं च निपात्यते। धृष्णोतीति दधृक् । सृजेः कर्मणि क्विन् अमागमश्च निपात्यते। सृजन्ति तामिति स्रक्। दिशेः कर्मणि क्विन् निपात्यते। दिशन्ति तामिति दिक्। उत्पूर्वात् स्निहः क्विन्नुपसर्गान्तलोपः षत्वं च निपात्यते। उष्णिक् । अञ्चु युजि क्रुञ्च इत्येतेषां धातूनां क्विन् प्रत्ययो भवति। निपातनैः सह निर्देशादत्रापि किञ्चिदलाक्षणिकं कार्यमस्ति। अञ्चतेः सुबन्तमात्र उपपदे क्विन् प्रत्ययो भवति। प्राङ्। प्रत्यङ् । उदङ्। युजेः क्रुञ्चेश्च केवलादेव। युङ्, युञ्जौ, युञ्जः। सोपपदात् तु ‘सत्सूद्विष०’ (३.२.६१) इत्यादिना क्विब् भवति। अश्वयुक् , अश्वयुजौ, अश्वयुजः। क्रुङ्, क्रुञ्चौ, क्रुञ्चः। नलोपः कस्माद् न भवति? निपातनसाहचर्यात्॥

त्यदादिषु दृशोऽनालोचने कञ् च ॥ ३.२.६०॥

त्यदादिषूपपदेषु दृशेर्धातोरनालोचनेऽर्थे वर्तमानात् कञ् प्रत्ययो भवति, चकारात् क्विन् च। त्यादृशः। त्यादृक् । तादृशः। तादृक् । यादृशः। यादृक्। कञो ञकारो विशेषणार्थः। ठक्ठञ्कञ् (४.१.१५) इति। अनालोचन इति किम्? तं पश्यति तद्दर्शः। चादृगादयो हि रूढिशब्दप्रकारा नैवात्र दर्शनक्रिया विद्यते॥ समानान्ययोश्चेति वक्तव्यम्॥ सदृशः। सदृक्। अन्यादृशः। अन्यादृक्॥ दृशेः क्सश्च वक्तव्यः॥ तादृक्षः। यादृक्षः। सदृक्षः। अन्यादृक्षः। कीदृक्षः॥

सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् ॥ ३.२.६१॥

सुपीत्यनुवर्तते। कर्मग्रहणं तु ‘स्पृशोऽनुदके क्विन्’ (३.२.५८) इत्यतः प्रभृति न व्याप्रियते। सदादिभ्यो धातुभ्यः सुबन्त उपपद उपसर्गेऽप्यनुपसर्गेऽपि क्विप् प्रत्ययो भवति। उपसर्गग्रहणं ज्ञापनार्थम्-अन्यत्र सुब्ग्रहण उपसर्गग्रहणं न भवतीति।‘वदः सुपि क्यप् च’(३.१.१०६) इति। सू इति द्विषा साहचर्यात् सूतेरादादिकस्य ग्रहणम्, न सुवतेस्तौदादिकस्य। ‘युजिर् योगे’ ‘युज समाधौ’ द्वयोरपि ग्रहणम् । ‘विद ज्ञाने’ ‘विद सत्तायाम्’‘विद विचारणे’ त्रयाणामपि ग्रहणम्। न लाभार्थस्य विदेः , अकारस्य विवक्षितत्वात्। सत्-शु॑चि॒षत् (ऋ० ४.४०.५)। अन्तरिक्ष॒सत् (ऋ०४.४०.५) उ॑प॒सत् (तै०सं०६.२.३.२)। सूः -अण्डसूः। शतसूः। प्र॒सूः (तै०सं०४.७.३.२)। द्विष-मित्रद्विट्। प्रद्विट्। द्रुह- मित्रध्रुक्। प्रध्रुक्। दुह् -गोधुक्। प्रधुक्। युज्-अश्वयुक्। प्रयुक्। विद-वेदवित्। प्रवित्। ब्रह्मवित्। भिद-काष्ठभित्। प्रभित्। छिद-रज्जुच्छिद्। प्रच्छिद्। जि-शत्रुजित्। प्रजित्। नी-सेनानीः। प्रणीः। ग्रामणीः। अग्रणीः। कथमत्र णत्वम्? ‘स एषां ग्रामणीः’ (५.२.७८) इति निपातनात्। नयतेः ‘पूर्वपदात् संज्ञायामगः’ (८.४.३) इति णत्वम्। राज्-राट्। विराट्। सम्राट्। ‘मो राजि समः क्वौ’ (८.३.२५) इति मत्वम्। ‘अन्येभ्योऽपि दृश्यते’(३.२.१७८),‘क्विप् च’ (३.२.७६) इति सामान्येन वक्ष्यति तस्यैवायं प्रपञ्चः॥

भजो ण्विः ॥ ३.२.६२॥

उपसर्गे सुपीति वर्तते। भजेर्धातोः सुबन्त उपपद उपसर्गऽप्यनुपसर्गेऽपि ण्विप्रत्ययो भवति। अर्धं भजते अर्धभाक्। उपसर्गेऽपि-प्रभाक् ॥

छन्दसि सहः ॥ ३.२.६३॥

उपसर्गे सुपीत्येव । छन्दसि विषये सहेर्धातोः सुबन्त उपपदे ण्विप्रत्ययो भवति। तु॑रा॒षाट् (ऋ०३.४८.४)। ‘सहेः साडःसः’ (८.३.५६) इति षत्वम्। ‘अन्येषामपि दृश्यते’ (६.३.१३७) इति दीर्घत्वम्॥

वहश्च॥ ३.२.६४॥

वहेर्धातोश्छन्दसि विषये सुबन्त उपपदे ण्विप्रत्ययो भवति। प्रष्ठवाट्। दित्यवाट्। योगविभाग उत्तरार्थः॥

कव्यपुरीषपुरीष्येषु ञ्युट्॥ ३.२.६५॥

कव्य पुरीष पुरीष्य इत्येतेषूपदेषु छन्दसि विषये वहेर्धातोर्ञ्युट् प्रत्ययो भवति। कव्य॒वाह॑नः पितृ॒णाम् (तै०सं०२.५.८.६)। पु॑रीष॒वाह॑णः (मा०सं०११.४४)। पु॒रीष्य॒वा॑ह॒नः (मै०सं०२.७.४)॥

हव्येऽनन्तः पादम्॥ ३.२.६६॥

हव्यशब्द उपपदे छन्दसि विषये वहेर्धातोर्ञ्युट् प्रत्ययो भवति, अनन्तः पादं चेद् वहिर्वर्तते। अ॒ग्निश्च॑ हव्य॒वाह॑नः॒ (शौ०सं०७.२०.१)। अनन्तः पादमिति किम्? ह॒व्य॒वाड॒ग्निर॒जरः॑ पि॒ता नः॑ (ऋ० ५.४.२)॥

जनसनखनक्रमगमो विट्॥ ३.२.६७॥

छन्दसि उपसर्ग सुपीत्यनुवर्तते। ‘जन जनने’ ‘जनी प्रादुर्भावे’ द्वयोरपि ग्रहणम्। तथा ‘षणु दाने’ , ‘वन षण संभक्तौ’ द्वयोरपि ग्रहणम्। जनादिभ्यो धातुभ्यः सुबन्त उपपदे छन्दसि विषये विट् प्रत्ययो भवति। टकारः सामान्यग्रहणाविघातार्थो ‘वेरपृक्तस्य’ (६.१.६७.) इति, विशेषणार्थश्च ‘विड्वनोरनुनासिकस्यात्’ (६.४.४१.) इति। अ॒ब्जाः। गो॒जाः(ऋ० ४.४०.५)। सन-गो॒षा इ॑न्द्रो नृ॒षा अ॑सि (ऋ० ९.२.१०)। खन-बिस॒खाः (ऋ०६.६१.२)। कूपखाः। क्रम-द॑धि॒क्राः(ऋ० ४.३८.१०)। गम-अग्रे॒गा ने॑तृ॒णाम् (तै०सं० १.३.६.१)॥

अदोऽनन्ने ॥ ३.२.६८॥

छन्दसीति निवृत्तम्। अदेर्धातोरनन्ने सुप्युपपदे विट् प्रत्ययो भवति। आममत्ति आमात्। सस्यात्। अनन्न इति किम्? अन्नादः॥

क्रव्ये च ॥ ३.२.६९॥

क्रव्यशब्द उपपदेऽदेर्धातोर्विट् प्रत्ययो भवति। क्रव्यमत्ति क्रव्यात्। पूर्वेणैव सिद्धे वचनमसरूपबाधनार्थम्। तेनाण् न भवति। कथं तर्र्हि क्रव्यादः? कृत्तविकृत्तशब्द उपपदेऽण्, तस्य च पृषोदरादिपाठात् क्रव्यभावः। कृत्तविकृत्तपक्वमांसभक्षः क्रव्याद उच्यते, आममांसभक्षः क्रव्यादिति ॥

दुहः कब् घश्च ॥ ३.२.७०॥

दुहेर्धातोः सुप्युपपदे कप् प्रत्ययो भवति, घकारश्चान्तादेशः। कामदुघा धेनुः। अर्घदुघा। घर्मदुघा॥

**मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्॥ ३.२.७१॥ **

श्वेतवह उक्थशस् पुरोडाश् इत्येतेभ्यो ण्विन् प्रत्ययो भवति मन्त्रे विषये। धातूपपदसमुदाया निपात्यन्ते अलाक्षणिककार्यसिद्ध्यर्थम्। प्रत्ययस्तु विधीयत एव। श्वेतशब्दे कर्तृवाचिन्युपपदे वहेर्धातोः कर्मणि कारके ण्विन् प्रत्ययो भवति। श्वेता एनं वहन्ति श्वेतवा इन्द्रः। उक्थशब्दे कर्मणि करणे वा उपपदे शंसतेर्धातोर्णि्वन् प्रत्ययो भवति, नलोपश्च निपात्यते। उक्थानि शंसत्युक्थैर्वा शंसति उ॒क्थ॒शा (तु०-ऋ० ४.२.१६) यजमानः। ‘दाशृ दाने’ इत्येतस्य पुरःपूर्वस्य डत्वम् , कर्मणि च प्रत्ययः। पुरो दाशन्त एनं पु॒रो॒डाः (ऋ०३.२८.२)॥ श्वेतवहादीनां डस्पदस्येति वक्तव्यम्॥ श्वेतवोभ्याम्। श्वेतवोभिः। पदस्येति किम् ? श्वेतवाहौ। श्वेतवाहः॥

अवे यजः ॥ ३.२.७२॥

अव उपपदे यजेर्धातोर्ण्विन् प्रत्ययो भवति मन्त्रे विषये। त्वं॑ यज्ञे॑ व॑रुणस्यावया॑ असि (काठ०सं०३५.६५)। योगविभाग उत्तरार्थः॥

विजुपे छन्दसि ॥ ३.२.७३॥

उप उपपदे यजेश्छन्दसि विषये विच् प्रत्ययो भविति। उपयड्भिरू र्ध्वं वहन्ति। उपयट्त्वम्। छन्दोग्रहणं ब्राह्मणार्थम्। विचः चित्करणं सामान्यग्रहणाविघातार्थम्-‘वेरपृक्तस्य’ (६.१.६७) इति। किमर्थमिदमुच्यते, यावता ‘अन्येभ्योऽपि दृश्यन्ते’ (३.२.७५) इति यजेरपि विच् सिद्ध एव ? यजेर्नियमार्थमेतत्। उपयजेश्छन्दस्येव, न भाषायामिति॥

आतो मनिन्क्वनिब्वनिपश्च ॥ ३.२.७४॥

छन्दसीति वर्तते, सुप्युपसर्गेऽपीति च। आकारान्तेभ्यो धातुभ्यः सुप्युपपदे छन्दसि विषये मनिन् क्वनिब् वनिब् इत्येते प्रत्यया भवन्ति। चकाराद् विज् भवति। सुदा॑मा॒ (ऋ० ६.२०.७)। अश्वत्थामा। क्वनिप्-सुधीवा। सुपीवा । वनिप्-भू॑रि॒दावा॑ (ऋ० ९.८७.४)। घृ॒त॒पावा॒ (शौ०सं० १३.१.२४)। विच् खल्वपि- की॒ला॒ल॒पाः (ऋ० १०.९१.१४)। शुभं॒याः (ऋ० ४.३.६)। रामस्योपदाः॥

अन्येभ्योऽपि दृश्यन्ते ॥ ३.२.७५॥

छन्दसीति निवृत्तम्। अन्येभ्योऽपि धातुभ्योऽनाकारान्तेभ्यो मनिन् क्वनिप् वनिप् इत्येते प्रत्यया दृश्यन्ते, विच्च। सुशर्मा। क्वनिप्-प्रात॒रित्वा॑ (ऋ० १.१२५.१)। प्रातरित्वानौ (काठ० सं० ३०.१)। वनिप्-वि॒जावाग्ने॒ (ऋ० ३.१.२३)। अग्रेगावा। विच् खल्वपि-रेड॑सि॒ (मा०सं० ६.१८)। अपिशब्दःसर्वोपाधिव्यभिचारार्थः। निरुपपदादपि भवति। धीवा॑ (शौ०सं० ३.५.६)। पी॑वा॒ (मै०सं० २.५.११)। दृशिग्रहणं प्रयोगानुसरणार्थम्॥

क्विप् च ॥ ३.२.७६॥

सर्वधातुभ्यः सोपपदेभ्यो निरुपपदेभ्यश्च छन्दसि भाषायां च क्विप् प्रत्ययो भवति। उखायाः स्रंसते उखास्रत्। पर्णध्वत्। वाहाद् भ्रश्यति वाहाभ्रट्। ‘अन्येषामपि दृश्यते’ (६.३.१३७) इति दीर्घः॥

स्थः क च॥ ३.२.७७॥

सुप्युपसर्गेऽपीति च वर्तते। स्था इत्येतस्माद् धातोः सुप्युपपदे कप्रत्ययो भवति, क्विप् च। किमर्थमिदमुच्यते, यावता ‘सुपि स्थः’ (३.२.४) इति कः सिद्ध एव, ‘अन्येभ्योऽपि दृश्यते’ (३.२.१७८) इति क्विप् ? बाधकबाधनार्थं पुनर्वचनम्। ‘शमि धातोःसंज्ञायाम्’ (३.२.१४) अचं बाधते-शंस्थः। शंस्थाः॥

सुप्यजातौ णिनिस्ताच्छील्ये ॥ ३.२.७८॥

अजातिवाचिनि सुबन्त उपपदे ताच्छील्ये गम्यमाने धातोर्णिनिः प्रत्ययो भवति। उष्णभोजी। शीतभोजी। अजाताविति किम्? ब्राह्मणानामन्त्रयिता। ताच्छील्य इति किम्? उष्णं भुङ्क्ते कदाचित्। सुपीति वर्तमाने पुनः सुब्ग्रहणमुपसर्गनिवृत्त्यर्थम्॥ उत्प्रतिभ्यामाङि सर्तेरुपसंख्यानम्॥ उदासारिण्यः। प्रत्यासारिण्यः॥ साधुकारिणि च॥ साधुकारी। साधुदायी॥ ब्रह्मणि वदः॥ ब्॒रह्म॒वा॒दिनो॑ वदन्ति (तै०सं० २.५.४.१)॥

कर्तर्युपमाने ॥ ३.२.७९॥

कर्तृवाचिन्युपमान उपपदे धातोर्णिनिप्रत्ययो भवति। उपपदकर्ता प्रत्ययार्थस्य कर्तुरुपमानम्। उष्ट्र इव क्रोशति उष्ट्रक्रोशी। ध्वाङ्क्षरावी। अताच्छील्यार्थ आरम्भः, जात्यर्थो वा। कर्तरीति किम्? अपूपानिव भक्षयति माषान्। उपमान इति किम्? उष्ट्रः क्रोशति॥

व्रते ॥ ३.२.८०॥

व्रत इति शास्त्रतो नियम उच्यते। व्रते गम्यमाने सुबन्त उपपदे धातोर्णिनिः प्रत्ययो भवति। समुदायोपाधिश्चायम्, धातूपपदप्रत्ययसमुदायेन व्रतं गम्यते। स्थण्डिलशायी। अश्राद्धभोजी। कामचारप्राप्तौ नियमः। सति शयने स्थण्डिल एव शेते नान्यत्र, सति भोजनेऽश्राद्धमेव भुङ्क्ते न श्राद्धमिति। व्रत इति किम्? स्थण्डिले शेते देवदत्तः। अताच्छील्यार्थ आरम्भः, जात्यर्थो वा॥

बहुलमाभीक्ष्ण्ये ॥ ३.२.८१॥

आभीक्ष्ण्ये गम्यमाने धातोर्बहुलं णिनिः प्रत्ययो भवति। आभीक्ष्ण्यं पौनःपुन्यम्, तात्पर्यमासेवैव, ताच्छील्यादन्यत्। कषायपायिणो गान्धाराः। क्षीरपायिण उशीनराः। सौवीरपायिणो बाह्लीकाः। बहुलग्रहणात् कुल्माषखाद इत्यत्र न भवति॥

मनः ॥ ३.२.८२॥

सुपीति वर्तते। मन्यतेः सुबन्त उपपदे णिनिः प्रत्ययो भवति। दर्शनीयमानी। शोभनमानी। बहुलग्रहणानुवृत्तेर्मन्यतेर्ग्रहणम्, न मनुतेः। उत्तरसूत्रे हि खश्प्रत्यये विकरणकृतो विशेषःस्यात्॥

आत्ममाने खश्च ॥ ३.२.८३॥

आत्मनो मननमात्ममानः। आत्ममाने वर्तमानाद् मन्यतेः सुप्युपपदे खश् प्रत्ययो भवति। चकाराद् णिनिश्च । यदा प्रत्ययार्थः कर्तात्मानमेव दर्शनीयत्वादिना धर्मेण युक्तं मन्यते, तदायं विधिः। दर्शनीयमात्मानं मन्यते दर्शनीयंमन्यः, दर्शनीयमानी। पण्डितंमन्यः, पण्डितमानी। आत्ममान इति किम्? दर्शनीयमानी देवदत्तस्य यज्ञदत्तः॥

भूते ॥ ३.२.८४॥

भूत इत्यधिकारो ‘वर्तमाने लट्’ (३.२.१२३) इति यावत् । यदित ऊर्ध्वमनु-क्रमिष्यामो भूत इत्येवं तद् वेदितव्यम्। धात्वधिकाराच्च धात्वर्थे भूत इति विज्ञायते। वक्ष्यति- ‘करणे यजः’ (३.२.८५)- अग्निष्टोमेनेष्टवान् अग्निष्टोमयाजी। भूत इति किम्? अग्निष्टोमेन यजते॥

करणे यजः ॥ ३.२.८५॥

णिनिरनुवर्तते, न खश्। यजतेर्धातोःकरण उपपदे णिनिप्रत्ययो भवति भूते। अग्निष्टोमयाजी। अग्निष्टोमः फलभावनायां करणं भवति॥

कर्मणि हनः ॥ ३.२.८६॥

कर्मण्युपपदे हन्तेर्धातोर्णिनिः प्रत्ययो भवति भूते काले। पितृव्यघाती। मातुलघाती ॥ कुत्सितग्रहणं कर्तव्यम्॥ इह मा भूत्-चौरं हतवान्॥

ब्रह्मभ्रूणवृत्रेषु क्विप् ॥ ३.२.८७॥

कर्मणीति वर्तते। ब्रह्मादिषु कर्मसूपपदेषु हन्तेर्धातोः क्विप् प्रत्ययो भवति भूते। ब्रह्महा। भ्रूणहा। वृत्रहा। किमर्थमिदमुच्यते, यावता सर्वधातुभ्यः क्विब् विहित एव? ब्रह्मादिषु हन्तेः क्विब्वचनं नियमार्थम्। चतुर्विधश्चात्र नियम इष्यते। ब्रह्मादिष्वेव हन्तेः, नान्यस्मिन्नुपपदे। पुरुषं हतवानिति। ब्रह्मादिषु हन्तेरेव, नान्यस्मात् स्यात्। ब्रह्माधीतवानिति। ब्रह्मादिषु हन्तेभूर्तकाले क्विबेव, नान्यः प्रत्ययः। तथा भूतकाल एव, नान्यस्मिन्। ब्रह्माणं हन्ति हनिष्यति वेति। तदेतद् वक्ष्यमाणबहुलग्रहणस्य पुरस्तादपकर्षणाद् लभ्यते॥

बहुलं छन्दसि ॥ ३.२.८८॥

पूर्वेण नियमादप्राप्तः क्विप् प्रत्ययो विधीयते। छन्दसि विषय उपपदान्तरेष्वपि हन्तेर्बहुलं क्विप् प्रत्ययो भवति। मातृहा सप्तमं नरकं प्रविशेत्। पितृहा (छा०उप०७.१५.२)। न च भवति- मातृघातः। पितृघातः॥

सुकर्मपापमन्त्रपुण्येषु कृञः ॥ ३.२.८९॥

कर्मणीति वर्तते, तदसंभवात् सुशब्दं वर्जयित्वा परिशिष्टानां विशेषणं भवति। स्वादिषु कर्मसूपपदेषु करोतेर्धातोः क्विप् प्रत्ययो भवति। सुकृत्। कर्मकृत्। पापकृत्। मन्त्रकृत्। पुण्यकृत्। अयमपि नियमार्थ आरम्भः। त्रिविधश्चात्र नियम इष्यते। धातुनियमं वर्जयित्वा कालोपपदप्रत्ययनियमः। धातोरनियतत्वादन्यस्मिन्नप्युपपदे भवति। शास्त्रकृत्। भाष्यकृत्॥

सोमे सुञः ॥ ३.२.९०॥

कर्मणीति वर्तते। सोमे कर्मण्युपपदे सुनोतेर्धातोः क्विप् प्रत्ययो भवति। सोमसुत्, सोमसुतौ, सोमसुतः। अयमपि नियमार्थ आरम्भः। चतुर्विधश्चात्र नियम इष्यते। धातुकालोपपदप्रत्ययविषयः॥

अग्नौ चेः ॥ ३.२.९१॥

कर्मणीत्येव। अग्नौ कर्मण्युपपदे चिनोतेर्धातोः क्विप् प्रत्ययो भवति। अग्निचित्, अग्निचितौ, अग्निचितः। अत्रापि पूर्ववच्चतुर्विधो नियम इष्यते॥

कर्मण्यग्न्याख्यायाम् ॥ ३.२.९२॥

चेः कर्मणीति वर्तते। कर्मण्युपपदे चिनोतेः कर्मण्येव कारके क्विप् प्रत्ययो भवति अग्न्याख्यायाम्, धातूपपदप्रत्ययसमुदायेन चेदग्न्याख्या गम्यते। श्येन इव चीयते श्येनचित्। कङ्कचित्। आख्याग्रहणं रूढिसंप्रत्ययार्थम्। अग्न्यर्थो हीष्टकाचय उच्यते श्येनचिदिति॥

कर्मणीनिर्विक्रियः ॥ ३.२.९३॥

कर्मण्युपपदे विपूर्वात् क्रीणातेर्धातोरिनिः प्रत्ययो भवति। कर्मणीति वर्तमाने पुनः कर्मग्रहणं कर्तुः कुत्सानिमित्ते कर्मणि यथा स्यात्, कर्ममात्रे मा भूत्। सोमविक्रयी। रसविक्रयी। इह न भवति-धान्यविक्रायः॥

दृशेः क्वनिप् ॥ ३.२.९४॥

कर्मणीत्येव। दृशेर्धातोःकर्मण्युपपदे क्वनिप् प्रत्ययो भवति। मेरुदृश्वा। परलोकदृश्वा। ‘अन्येभ्योऽपि दृश्यन्ते’(३.२.७५) इति क्वनिपि सिद्धे पुनर्वचनं प्रत्ययान्तर-निवृत्त्यर्थम्॥

राजनि युधिकृञ ः ॥ ३.२.९५॥

कर्मणीत्येव। राजन्शब्दे कर्मण्युपपदे युध्यतेः करोतेश्च क्वनिप् प्रत्ययो भवति। ननु च युधिरकर्मकः? अन्तर्भावितण्यर्थः सकर्मको भवति। राजयुध्वा। राजानं योधितवानित्यर्थः। राजकृत्वा॥

सहे च ॥ ३.२.९६॥

सहशब्दे चोपपदे युधिकृञोर्धात्वोः क्वनिप् प्रत्ययो भवति। असत्त्ववाचित्वाद् नोपपदं कर्मणा विशेष्यते। सहयुध्वा। सहकृत्वा॥

सप्तम्यां जनेर्डः ॥ ३.२.९७॥

सप्तम्यन्त उपपदे जनेर्धातोर्डः प्रत्ययो भवति। उपसरे जातः उपसरजः। मन्दुरजः॥

पञ्चम्यामजातौ ॥ ३.२.९८॥

पञ्चम्यन्त उपपदे जातिवर्जिते जनेर्डः प्रत्ययो भवति। बुद्धिजः। संस्कारजः। दुःखजः। अजाताविति किम्? हस्तिनो जातः। अश्वाज् जातः॥

उपसर्गे च संज्ञायाम् ॥ ३.२.९९॥

उपसर्गे चोपपदे जनेर्डः प्रत्ययो भवति संज्ञायां विषये। समुदायोपाधिःसंज्ञा। अथेमा मानवीः प्रजा ः॥

** अनौ कर्मणि ॥ ३.२.१००॥**

अनुपूर्वाज् जनेः कर्मण्युपपदे डः प्रत्ययो भवति। पुमांसमनुजातः पुमनुजः। स्त्र्यनुजः॥

अन्येष्वपि दृश्यते ॥ ३.२.१०१॥

अन्येष्वप्युपपदेषु कारकेषु जनेर्डप्रत्ययो दृश्यते। सप्तम्यामित्युक्तमसप्तम्यामपि दृश्यते। न जायत इत्यजः। द्विर्जाता द्विजाः। ‘पञ्चम्यामजातौ’ (३.२.९८) इत्युक्तम्,जातावपि दृश्यते। ब्राह्मणजो धर्मः। क्षत्रियजं युद्धम्। ‘उपसर्गे च संज्ञायाम्’ (३.२.९९) इत्युक्तम् , असंज्ञायामपि दृश्यते। अभिजाः। परिजाः केशाः। ‘अनौ कर्मणि’(३.२.१००) इत्युक्तमकर्मण्यपि दृश्यते। अनुजातःअनुजः। अपिशब्दः सर्वोपाधिव्यभिचारार्थः। तेन धात्वन्तरादपि भवति, कारकान्तरेऽपि। परितः खाता परिखा। आखा॥

निष्ठा ॥ ३.२.१०२॥

‘क्तक्तवतू निष्ठा’ (१.१.२६) इत्युक्तम्, स निष्ठासंज्ञकः प्रत्ययो भूते भवति। कृतम्। कृतवान्। भुक्तम्। भुक्तवान्। निष्ठायामितरेतराश्रयत्वादप्रसिद्धिः। संज्ञायां क्तक्तवतू भाव्येते, सतोश्चानयोः संज्ञया भाव्यम्। नैष दोषः। भाविनी संज्ञा विज्ञायते। स भूते भवति, यस्योत्पन्नस्य निष्ठेत्येषा संज्ञा भवति। सामर्थ्यात् क्तक्तवत्वोर्विधानमेतत्॥ आदिकर्मणि निष्ठा वक्तव्या॥ प्रकृतःकटं देवदत्तः। प्रकृतवान् कटं देवदत्तः॥

सुयजोर्ङ्वनिप् ॥ ३.२.१०३॥

सुनोतेर्यजतेश्च ङ्वनिप् प्रत्ययो भवति। सुत्वा॥ यज्वा॥

जीर्यतेरतृन् ॥ ३.२.१०४॥

‘भूते’ (३.२.८४) इति वर्तते। जीर्यतेरतृन् प्रत्ययो भवति भूते। जरन्, जरन्तौ, जरन्तः। वासरूपेण निष्ठा। जीर्णः। जीर्णवानिति॥

छन्दसि लिट्॥ ३.२.१०५॥

भूत इत्येव। छन्दसि विषये धातोर्लिट् प्रत्ययो भवति। अ॒हं सूर्य॑मुभ॒यतो॑ ददर्श॒ (मा०सं० ८.९)। अनु॒ द्यावा॑पृथि॒वी आत॑तान (तै०ब्रा० १.२.१.२३)। ननु च ‘छन्दसि लुङ्लङ्लिटः’(३.४.६) इति सामान्येन लिड् विहित एव? धातुसंबन्धे स विधिः, अयं त्वविशेषेण॥

लिटः कानज् वा ॥ ३.२.१०६॥

छन्दसि लिटः कानजादेशो भवति वा। अ॒ग्निं॑ चि॒क्या॒नः॑ (मै०सं० ३. ३.९)। सोमं सुषुवा॒णः॑ (मै०सं० ४.४.१०)। वरु॑णं सुषुवा॒णम् (तै०सं० २.१.९.१.) । न च भवति- अ॒हं सूर्य॑मुभ॒यतो॑ ददर्श॒ (मा०सं० ८.९.)। अनु॒ द्यावा॑पृथि॒वी आत॑तान (तै०ब्रा० १.२.१.२३)। लिड्ग्रहणं किम्, न पूर्वस्यैव प्रकृतस्यादेशविधाने विभक्तिविपरिणामो भविष्यति? लिण्मात्रस्य यथा स्यात्, योऽपि परोक्षे विहितस्तस्याप्ययमादेशो भवति॥

क्वसुश्च ॥ ३.२.१०७॥

छन्दसि लिटः क्वसुरादेशो भवति। जक्षि॒वान् (शौ०सं० ४.७.३)। प॑पि॒वान् (ऋ० १.६१.७)। न च भवति-अ॒हं सूर्य॑मुभ॒यतो॑ ददर्श॒ (मा०सं० ८.९.)। योगविभाग उत्तरार्थः॥

भाषायां सदवसश्रुवः ॥ ३.२.१०८॥

सद वस श्रु इत्येतेभ्यः परस्य लिटो भाषायां विषये वा क्वसुरादेशो भवति। आदेशविधानादेव लिडपि तद्विषयोऽनुमीयते । उपसेदिवान् कौत्सः पाणिनिम्। तेन मुक्ते यथाप्राप्तं प्रत्यया भवन्ति। उपासदत्। उपासीदत्। उपससाद। अनूषिवान् कौत्सः पाणिनिम्। अन्ववात्सीत्। अन्ववसत्। अनूवास। उपशुश्रुवान् कौत्सःपाणिनिम्। उपाश्रौषीत्। उपाशृणोत्। उपशुश्राव। लुङ्लङ्विषये परस्तादनुवृत्तेः क्वसुर्भवति॥

उपेयिवाननाश्वाननूचानश्च ॥ ३.२.१०९॥

उपेयिवान् अनाश्वान् अनूचान इत्येते शब्दा निपात्यन्ते। उपपूर्वादिणः क्वसुः, द्विर्वचनमभ्यासदीर्घत्वम्, तत्सामर्थ्यादेकादेशप्रतिबन्धः, तत्र ‘वस्वेकाजाद्घसाम्’(७.२.६७) इत्यनेकाच्त्वादिण् न प्राप्नोति, स निपात्यते, अभ्यासस्य श्रवणं धातुरूपस्य यणादेशः। उपेयिवान्। क्रादिनियमात् प्राप्तश्च ‘वस्वेकाजाद्घसाम्’ (७.२.६७) इति प्रतिषिद्धः, स पुनरिट् प्रतिप्रसूयते, तेनाजादौ न भवति। उपेयुषः। उपेयुषा। न चात्रोपसर्गस्तन्त्रम्, अन्योपसर्गपूर्वान्निरुपसार्गच्च भवत्येव। समीयिवान्। ईयिवान्। वावचनानुवृत्तेश्च पूर्ववल्लुङादयोऽपि भवन्ति। उपागात्। उपैत्। उपेयाय। अश्नातेः नञ्पूर्वात् क्वसुर्निपात्यते, इडभावश्च। अनाश्वान्। नाशीत्। नाश्नात्। नाश। वचेरनुपूर्वात् कर्तरि कानज् निपात्यते। अनूचानः। अन्ववोचत्। अन्वब्रवीत्। अनूवाच॥

लुङ्॥ ३.२.११०॥

भूत इत्येव। भूतेऽर्थ वर्तमानाद् धातोर्लुङ् प्रत्ययो भवति। अकार्षीत्। अहार्षीत्॥ वसतेर्लुङ् रात्रिशेषे जागरणसंततौ वक्तव्यः॥ क्व भवानुषितः? अहमत्रावात्सम्॥

अनद्यतने लङ्॥ ३.२.१११॥

भूत इत्येव। अनद्यतन अति बहुव्रीहिनिर्देशः। अविद्यमानाद्यतने भूतेऽर्थ वर्तमानाद् धातोर्लुङ् प्रत्ययो भवति। अकरोत्। अहरत्। बहुव्रीहिनिर्देशः किमर्थः? अद्य ह्यो वा अभुक्ष्महीति व्यामिश्रे मा भूत्॥ परोक्षे च लोकविज्ञाते प्रयोक्तुर्दर्शनविषये लङ् वक्तव्यः॥ अरुणद् यवनः साकेतम्। अरुणद् यवनो माध्यमिकानिति॥

अभिज्ञावचने लृट् ॥ ३.२.११२॥

अभिज्ञा स्मृतिः, तद्ववचन उपपदे भूतानद्यतने लृट् प्रत्ययो भवति। लङोऽपवादः। अभिजानासि देवदत्त कश्मीरेषु वत्स्यामः। वचनग्रहणं पर्यायार्थम्। अभिजानासि, स्मरसि, बुध्यसे, चेतयस इति॥

न यदि ॥ ३.२.११३॥

यच्छब्दसहितेऽभिज्ञावचन उपपदे लृट् प्रत्ययो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। अभिजानासि देवदत्त यत् कश्मीरेष्ववसाम। वासमात्रं स्मर्यते। नत्वपरं किंचिल्लक्ष्यते। तेनोत्तरसूत्रस्य नायं विषयः॥

विभाषा साकाङ्क्षे ॥ ३.२.११४॥

यदीति नानुवर्तते। उभयत्र विभाषेयम्। अभिज्ञावचन उपपदे यच्छब्दसहिते केवले च विभाषा लृट् प्रत्ययो भवति साकाङ्क्षश्चेत् प्रयोक्ता। लक्ष्यलक्षणयोः संबन्धे प्रयोक्तुराकांक्षा भवति। अभिजानासि देवदत्त कश्मीरेषु वत्स्यामस्तत्रौदनं भोक्ष्यामहे। अभिजानासि देवदत्त मगधेषु वत्स्यामस्तत्रौदनं भोक्ष्यामहे। यदि खल्वपि-अभिजानासि देवदत्त यत् कश्मीरेषु वत्स्यामः, यत् तत्रौदनं भोक्ष्यामहे। अभिजानासि देवदत्त यत् कश्मीरेष्ववसाम, यत् तत्रौदनमभुञ्ज्महि। वासो लक्षणम्, भोजनं तु लक्ष्यम्॥

परोक्षे लिट् ॥ ३.२.११५॥

भूतानद्यतन इति वर्तते। तस्य विशेषणं परोक्षग्रहणम्। भूतानद्यतनपरोक्षेऽर्थे वर्तमानाद् धातोर्लिट् प्रत्ययो भवति। ननु च धात्वर्थः सर्वः परोक्ष एव? सत्यमेतत्। अस्ति तु लोके धात्वर्थेनापि कारकेषु प्रत्यक्षाभिमानः। स यत्र नास्ति, तत् परोक्षमित्युच्यते। चकार। जहार। उत्तमविषयेऽपि चित्तव्याक्षेपात् परोक्षता संभवत्येव। तद्यथा-सुप्तोऽहं किल विललाप॥ अत्यन्तापह्नवे च लिड् वक्तव्यः॥ कलिङ्गेषु प्रस्थितोऽसि? नाहं कलिङ्गान् जगाम। दक्षिणापथं प्रविष्टोऽसि? नाहं दक्षिणापथं प्रविवेश॥

हशश्वतोर्लङ् च ॥ ३.२.११६॥

भूतानद्यतनपरोक्षेऽर्थे लिटि प्राप्ते, हशश्वतोरुपपदयोर्लङ् प्रत्ययो भवति, चकाराल् लिट् च। इति ह अकरोत्। इति ह चकार। शश्वदकरोत्। शश्वच् चकार॥

प्रश्ने चासन्नकाले ॥ ३.२.११७॥

भूतानद्यतनपरोक्ष इति वर्तते। तस्य विशेषणमेतत्। प्रष्टव्यः प्रश्नः। आसन्नकाले पृच्छ्यमाने भूतानद्यतनपरोक्षेऽर्थे वर्तमानाद् धातोर्लङ्लिटौ प्रत्ययौ भवतः। कश्चित् कञ्चित् पृच्छति। अगच्छद् देवदत्तः? जगाम देवदत्तः? अयजद् देवदत्तः? इयाज देवदत्तः? प्रश्न इति किम्? जगाम देवदत्तः। आसन्नकाल इति किम्? भवन्तं पृच्छामि, जघान कंसं किल वासुदेवः?॥

लट् स्मे ॥ ३.२.११८॥

भूतानद्यतनपरोक्ष इति वर्तते। स्मशब्द उपपदे भूतानद्यतनपरोक्षे लट् प्रत्ययो भवति। लिटोऽपवादः। नडेन स्म पुराधीयते। ऊर्णया स्म पुराधीयते॥

अपरोक्षे च ॥ ३.२.११९॥

अपरोक्षे च भूतानद्यतनेऽर्थे वर्तमानाद् धातोः स्म उपपदे लट् प्रत्ययो भवति। एवं स्म पिता ब्रवीति। इति स्मोपाध्यायः कथयति॥

ननौ पृष्टप्रतिवचने ॥ ३.२.१२०॥

अनद्यतने परोक्ष इति निवृत्तम्। भूतसामान्ये विधिरयम्। ननुशब्द उपपदे प्रश्नपूर्वके प्रतिवचने भूतेऽर्थे लट् प्रत्ययो भवति। लुङोऽपवादः। अकार्षीः कटं देवदत्त? ननु करोमि भोः। अवोचस्तत्र किंचिद् देवदत्त? ननु ब्रवीमि भोः। पृष्टप्रतिवचन इति किम्? नन्वकार्षीन् माणवकः॥

नन्वोर्विभाषा ॥ ३.२.१२१॥

भूत इत्येव। नशब्दे नुशब्दे चोपपदे पृष्टप्रतिवचने विभाषा लट् प्रत्ययो भवति भूते। अकार्षीः कटं देवदत्त? न करोमि भोः। नाकार्षम्। अहं नु करोमि। अहं न्वकार्षम्॥

पुरि लुङ् चास्मे ॥ ३.२.१२२॥

अनद्यतनग्रहणमिह मण्डूकप्लुत्यानुवर्तते। पुराशब्द उपपदे स्मशब्दवर्जिते भूतानद्यतनेऽर्थे विभाषा लुङ् प्रत्ययो भवति, लट् च। ताभ्यां मुक्ते पक्षे यथाविषयमन्येऽपि प्रत्यया भवन्ति। वसन्तीह पुरा छात्राः। अवात्सुरिह पुरा छात्राः। अवसन्निह पुरा छात्राः। ऊषुरिह पुरा छात्राः। अस्म इति किम्? नडेन स्म पुराधीयते॥

वर्तमाने लट् ॥ ३.२.१२३॥

प्रारब्धोऽपरिसमाप्तश्च वर्तमानः। तस्मिन् वर्तमानेऽर्थे वर्तमानाद् धातोर्लट् प्रत्ययो भवति। पचति। पठति॥

लटः शतृशानचावप्रथमासमानाधिकरणे ॥ ३.२.१२४॥

लटः शतृशानचावित्येतावादेशौ भवतः, अप्रथमान्तेन चेत् तस्य सामानाधिकरण्यं भवति। पचन्तं देवदत्तं पश्य। पचमानं देवदत्तं पश्य। पचता कृतम्। पचमानेन कृतम्। अप्रथमासमानाधिकरण इति किम्? देवदत्तः पचति। लडिति वर्तमाने पुनर्लड्ग्रहणमधिकविधानार्थम्। क्वचित् प्रथमासमानाधिकरणेऽपि भवति। सन् ब्राह्मणः। अस्ति ब्राह्मणः। विद्यमानो ब्राह्मणः। विद्यते ब्राह्मणः। जुह्वत्। जुहोति। अधीयानः। अधीते॥ माङ्याक्रोशे॥ मा पचन्। मा पचमानः। केचिद् विभाषाग्रहणमनुवर्तयन्ति ‘नन्वोर्विभाषा’(३.२.१२१) इति। सा च व्यवस्थिता। तत्र यथादर्शनं प्रयोगा नेतव्याः॥

सम्बोधने च ॥ ३.२.१२५॥

प्रथमासमानाधिकरणार्थ आरम्भः। संबोधने च विषये लटः शतृशानचौ प्रत्ययौ भवतः। हे पचन्। हे पचमान॥

लक्षणहेत्वोः क्रियायाः ॥ ३.२.१२६॥

लक्ष्यते चिह्न्यते येन तल्लक्षणम्। जनको हेतुः। धात्वर्थविशेषणं चैतत्। लक्षणे हेतौ चार्थे वर्तमानाद् धातोः परस्य लटः शतृशानचावादेशौ भवतः, तौ चेल्लक्षणहेतू क्रियाविषयौ भवतः। लक्षणे-शयाना भुञ्जते यवनाः। तिष्ठन्तोऽनुशासति गणकाः। हेतौ-अर्जयन् वसति। अधीयानो वसति। लक्षणहेत्वोरिति किम्? पचति। पठति। क्रियाया इति किम्? द्रव्यगुणयोर्मा भूत्। यः कम्पते सोऽश्वत्थः। यदुत्प्लवते तल्लघु। यन्निषीदति तद् गुरु। लक्षणहेत्वोरिति निर्देशः पूर्वनिपातव्यभिचारलिङ्गम्॥

तौ सत् ॥ ३.२.१२७॥

तौ शतृशानचौ सत्संज्ञौ भवतः। तौग्रहणमुपाध्यसंसर्गार्थम्। शतृशानज्मात्रस्य संज्ञा भवति। ब्राह्मणस्य कुर्वन्। ब्राह्मणस्य कुर्वाणः। ब्राह्मणस्य करिष्यन्। ब्राह्मणस्य करिष्यमाणः। सत्प्रदेशाः-‘पूरणगुणसुहितार्थसदव्ययतव्य०’(२.२.११) इत्येवमादयः॥

पूङ्यजोः शानन् ॥ ३.२.१२८॥

पूङो यजेश्च धातोः शानन् प्रत्ययो भवति। पवमानः। यजमानः। यदि प्रत्ययाः शानन्नादयो न लादेशाः, कथं सोमं पवमानः, नडमाघ्नान इति षष्ठीप्रतिषेधः? तृन्निति प्रत्याहारनिर्देशात्। क्व संनिविष्टानां प्रत्याहारः? ‘लटः शतृ०’ (३.२.१२४) इत्यतः प्रभृति आ तृनो (३.२.१३५) नकारात्। ‘द्विषः शतुर्वावचनम्’ (२.३.६९ वा०)। चौरस्य द्विषन्। चौरं द्विषन्॥

ताच्छील्यवयोवचनशक्तिषु चानश् ॥ ३.२.१२९॥

ताच्छील्यं तत्स्वभावता। क्यः शरीरावस्था यौवनादिः। शक्तिः सामर्थ्यम्। ताच्छील्यादिषु धातोश्चानश् प्रत्ययो भवति। ताच्छील्ये तावत्-कतीह मण्डयमानाः। कतीह भूषयमाणाः। वयोवचने-कतीह कवचं पर्यस्यमानाः। कतीह शिखण्डं वहमानाः। शक्तौ-कतीह निघ्नानाः। कतीह पचमानाः॥

इङ्धार्योः शत्रकृच्छ्रिणि ॥ ३.२.१३०॥

इङो धारेश्च धात्वोः शतृप्रत्ययो भवत्यकृच्छ्रिणि कर्तरि। अकृच्छ्रः सुखसाध्यो यस्य कर्तुर्धात्वर्थः सोऽकृच्छ्री। अधीयन् पारायणम्। धारयन्नुपनिषदम्। अकृच्छ्रिणीति किम्? कृच्छ्रेणाधीते। कृच्छ्रेण धारयति॥

द्विषोऽमित्रे ॥ ३.२.१३१॥

अमित्रः शत्रुः। अमित्रे कर्तरि द्विषेर्धातोः शतृप्रत्ययो भवति। द्विषन्, द्विषन्तौ, द्विषन्तः। अमित्र इति किम्? द्वेष्टि भार्या पतिम्॥

सुञो यज्ञसंयोगे ॥ ३.२.१३२॥

यज्ञेन संयोगो यज्ञसंयोगः। यज्ञसंयुक्तेऽभिषवे वर्तमानात् सुनोतेर्धातोः शतृप्रत्ययो भवति। सर्वे सुन्वन्तः। सर्वे यजमानाः सत्रिण उच्यन्ते। संयोगग्रहणं प्रधानकर्तृप्रतिपत्त्यर्थम्। याजकेषु मा भूत्। यज्ञसंयोग इति किम्? सुनोति सुराम्॥

अर्हः प्रशंसायाम्॥ ३.२.१३३॥

प्रशंसा स्तुतिः। अर्हतेर्धातोः प्रशंसायां शतृप्रत्ययो भवति। अर्हन्निह भवान् विद्याम्। अर्हन्निह भवान् पूजाम्। प्रशंसायामिति किम्? अर्हति चौरो वधम्॥

आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु ॥ ३.२.१३४॥

‘भ्राजभास०’ (३.२.१७७) इति क्विपं वक्ष्यति। आ एतस्मात् क्विप्संशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामस्तच्छीलादिषु कर्तृषु ते वेदितव्याः। अभिविधौ चायमाङ्। तेन क्विपोऽप्ययमर्थनिर्देशः। तदिति धात्वर्थः शीलादिविशेषणत्वेन निर्दिश्यते। तच्छीलो यःस्वभावतः फलनिरपेक्षस्तत्र प्रवर्तते। तद्धर्मा तदाचारः, यः स्वधर्मे ममायमिति प्रवर्तते विनापि शीलेन। तत्साधुकारी यो धात्वर्थं साधु करोति। उत्तरत्रैवोदाहरिष्यामः॥

तृन् ॥ ३.२.१३५॥

सर्वधातुभ्यस्तृन् प्रत्ययो भवति तच्छीलादिषु कर्तृषु। नकारः स्वरार्थः। तच्छीले तावत्-कर्ता कटान्। वदिता जनापवादान्। तद्धर्मणि-मुण्डयितारः श्राविष्ठायना भवन्ति वधूमूढाम्। अन्नमपहर्तार आह्वरका भवन्ति श्राद्धे सिद्धे। उन्नेतारस्तौल्वलायना भवन्ति पुत्रे जाते । तत्साधुकारिणि-कर्ता कटम्। गन्ता खेटम्॥ तृन्विधावृत्विक्षु चानुपसर्गस्य॥ होता॑। पोता॑। अनुपसर्गस्येति किम्? उ॒द्गा॒ता। प्र॒ति॒ह॒र्ता। तृजेव भवति। स्वरे विशेषः॥ नयतेःषुक् च॥ नेष्टा॑॥ त्विषेर्देवतायामकारश्चोपधाया अनिट्त्वं च॥ त्वष्टा॥ क्षदेश्च नियुक्ते॥ क्षत्ता। क्वचिदधिकृत उच्यते॥ छन्दसि तृच्च॥ क्ष॒त्तृभ्यः॑ संग्रही॒तृभ्यः॑ (मा०सं० १६.२६)। स्वरे विशेषः॥

अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् ॥ ३.२.१३६॥

अलंकृञादिभ्यो धातुभ्यस्तच्छीलादिषु कर्तृषु इष्णुच् प्रत्ययो भवति। अलंकरिष्णुः। निराकरिष्णुः। प्रजनिष्णुः। उत्पचिष्णुः। उत्पतिष्णुः। उन्मदिष्णुः। रोचिष्णुः। अपत्रपिष्णुः। वर्तिष्णुः। वर्धिष्णुः। सहिष्णुः। चरिष्णुः॥ अलंकृञो मण्डनार्थाद् युचः पूर्वविप्रतिषेधेनेष्णुज् वक्तव्यः॥

णेश्छन्दसि ॥ ३.२.१३७॥

ण्यन्ताद् धातोश्छन्दसि विषये तच्छीलादिषु कर्तृषु इष्णुच् प्रत्ययो भवति। दृषदं धारयिष्णवः(शा०आ० १२.२)। वी॒रुधः॑ पारयि॒ष्णवः॑ (ऋ० १०.९७.३)॥

भुवश्च ॥ ३.२.१३८॥

भवतेर्धातोश्छन्दसि विषये तच्छीलादिष्विष्णुच् प्रत्ययो भवति। भवि॒ष्णुः॑(मै०सं० १.८.१)। योगविभाग उत्तरार्थः। चकारोऽनुक्तसमुच्चयार्थः। भ्राजिष्णुना लोहितचन्दनेन॥

ग्लाजिस्थश्च क्स्नुः ॥ ३.२.१३९॥

छन्दसीति निवृत्तम्। ग्ला जि स्था इत्येतेभ्यो धातुभ्यश्चकाराद् भुवश्च तच्छीलादिषु क्स्नुः प्रत्ययो भवति। ग्लास्नुः। जिष्णुः। स्थास्नुः। भूष्णुः। गिच् चायं प्रत्ययः, न कित्। तेन स्थ ईकारो न भवति। ‘क्क्ङिति च’(१.१.५) इत्यत्र गकारोऽपि चर्त्वभूतो निर्दिश्यते, तेन गुणो न भवति। ‘श्र्युकः किति’(७.२.११) इत्यत्रापि गकारो निर्दिश्यते, तेन भुव इड् न भवति।

क्स्नोर्गित्त्वान्न स्थ ईकारः क्ङितोरीत्वशासनात्।

गुणाभावस्त्रिषु स्मार्यःश्र्युकोऽनिट्त्वं गकोरितोः॥

॥ दंशेश्छन्दस्युपसंख्यानम्॥ द॒ङ्क्ष्णवः॑ प॒शवः॑(मा०सं० १५.१५)॥

त्रसिगृधिधृषिक्षिपेः क्नुः ॥ ३.२.१४०॥

त्रसादिभ्यो धातुभ्यस्तच्छीलादिषु क्नुः प्रत्ययो भवति। त्रस्नुः। गृध्नुः। धृष्णुः। क्षिप्णुः॥

शमित्यष्टाभ्यो घिनुण् ॥ ३.२.१४१॥

इतिशब्द आद्यर्थः। शमादिभ्यो धातुभ्योऽष्टाभ्यस्तच्छीलादिषु कर्तृषु घिनुण् प्रत्ययो भवति। ‘शमु उपशमे’ इत्यतः प्रभृति ‘मदी हर्षे’ इत्येवमन्तः शमादिर्दिवाद्यन्तर्गणः। घकार उत्तरत्र कुत्वार्थः। उकार उच्चारणार्थः। णकारो वृद्ध्यर्थः। शमी। तमी। दमी। श्रमी। भ्रमी। क्षमी। क्लमी। प्रमादी। उन्मादी। अष्टाभ्य इति किम्? असिता॥

संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवद-परिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च ॥ ३.२.१४२॥

घिनुणनुवर्तते। संपृचादिभ्यो धातुभ्यो घिनुण् भवति तच्छीलादिषु। ‘पृची संपर्के’ इति रुधादिर्गृह्यते, न त्वदादिर्लुग्विकरणत्वात्। परिदेविर्भ्वादिर्गृह्यते ‘देवृ देवने’ इति। ‘क्षिप प्रेरणे’ दिवादिस्तुदादिश्च सामान्येन गृह्यते। ‘युज समाधौ’ दिवादिः, ‘युजिर् योगे’ रुधादिः। द्वयोरपि ग्रहणम्। ‘रञ्ज रागे’ इत्यस्य निपातनादनुनासिकलोपः। संपर्की। अनुरोधी। आयामी। आयासी। परिसारी। संसर्गी। परिदेवी। संज्वारी। परिक्षेपी। परिराटी। परिवादी। परिदाही। परिमोही। दोषी। द्वेषी। द्रोही। दोही। योगी। आक्रीडी। विवेकी। त्यागी। रागी। भागी। अतिचारी। अपचारी। आमोषी। अभ्याघाती॥

वौ कषलसकत्थस्रम्भः ॥ ३.२.१४३॥

‘कष हिंसार्थः’ ‘लस श्लेषणक्रीडनयोः’ ‘कत्थ श्लाघायाम्’ ‘स्रम्भु विश्वासे’ एतेभ्यो धातुभ्यो विशब्द उपपदे घिनुण् प्रत्ययो भवति। विकाषी। विलासी। विकत्थी। विस्रम्भी॥

अपे च लषः ॥ ३.२.१४४॥

‘लष कान्तौ’ अस्माद् धातोरप उपपदे चकाराद् वौ च घिनुण् भवति। अपलाषी। विलाषी॥

प्रे लपसृद्रुमथवदवसः ॥ ३.२.१४५॥

प्र उपपदे लपादिभ्यो घिनुण् भवति। प्रलापी। प्रसारी। प्रद्रावी। प्रमाथी। प्रवादी। प्रवासी। वस इति ‘वस निवासे’ इत्यस्य ग्रहणं नाच्छादनार्थस्य, लुग्विकरणत्वात्॥

निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ् ॥ ३.२.१४६॥

निन्दादिभ्यो धातुभ्यस्तच्छीलादिषु कर्तृषु वुञ् प्रत्ययो भवति। पञ्चम्यर्थे प्रथमा। ‘क्लिश उपतापे’ ‘क्लिशू विबाधने’ द्वयोरपि ग्रहणम्। निन्दकः। हिंसकः। क्लेशकः। खादकः। विनाशकः। परिक्षेपकः। परिराटकः। परिवादकः। व्याभाषकः। असूयकः। ण्वुलैव सिद्धे वुञ्विधानं ज्ञापनार्थम्-ताच्छीलिकेषु वासरूपन्यायेन तृजादयो न भवन्ति (महाभाष्य २.१३३) इति॥

देविक्रुशोश्चोपसर्गे॥ ३.२.१४७॥

देवयतेः क्रुशेश्चोपसर्ग उपपदे वुञ् प्रत्ययो भवति। आदेवकः। परिदेवकः। आक्रोशकः। परिक्रोशकः। उपसर्ग इति किम्? देवयिता। क्रोष्टा॥

चलनशब्दार्थादकर्मकाद् युच् ॥ ३.२.१४८॥

चलनार्थेभ्यः शब्दार्थेभ्यश्चाकर्मकेभ्यो धातुभ्यस्तच्छीलादिषु कर्तृषु युच् प्रत्ययो भवति। चलनः। चोपनः। शब्दार्थेभ्यः-शब्दनः। रवणः। अकर्मकादिति किम्? पठिता विद्याम्॥

अनुदात्तेतश्च हलादेः ॥ ३.२.१४९॥

अनुदात्तेद् यो धातुर्हलादिरकर्मकः, ततश्च युच् प्रत्ययो भवति। वर्तनः। वर्धनः। अनुदात्तेत इति किम्? भविता। हलादेरिति किम्? एधिता। आदिग्रहणं किम्? जुगुप्सनः। मीमांसनः। अकर्मकादित्येव-वसिता वस्त्रम्॥

जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ॥ ३.२.१५०॥

जुप्रभृतिभ्यो धातुभ्यो युच् प्रत्ययो भवति तच्छीलादिषु कर्तृषु। जु इति सौत्रो धातुः। जवनः। चङ्क्रमणः। दन्द्रमणः। सरणः। गर्धनः। ज्वलनः। शोचनः। लषणः। पतनः। पदनः। चलनार्थानां पदेश्च ग्रहणं सकर्मकार्थमिह। ज्ञापकार्थं च पदिग्रहणमन्ये वर्णयन्ति-‘ताच्छीलिकेषु मिथो वासरूपविधिर्नास्ति’ इति। तेनालंकृञस्तृन् न भवति, अलंकर्तेति। तथाहि-पदेरुकञा विशेषविहितेन सामान्यविहितस्य युचोऽसरूपत्वात् समावेशो भवेदेव, किमनेन विधानेन? ज्ञापकार्थं पुनर्विधीयते। प्रायिकं चैतज् ज्ञापकम्। क्वचित् समावेश इष्यत एव। गन्ता खेटं विकत्थनः॥

क्रुधमण्डार्थेभ्यश्च ॥ ३.२.१५१॥

‘क्रुध कोपे’ ‘मडि भूषायाम्’ इत्येतदर्थेभ्यश्च धातुभ्यो युच् प्रत्ययो भवति। क्रोधनः। रोषणः। मण्डनः। भूषणः॥

न यः ॥ ३.२.१५२॥

यकारान्ताद् धातोर्युच् प्रत्ययो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। क्नूयिता। क्ष्मायिता॥

सूददीपदीक्षश्च ॥ ३.२.१५३॥

सूद दीप दीक्ष इत्येतेभ्यश्च युच् प्रत्ययो न भवति। अनुदात्तेत्त्वात् प्राप्तः प्रतिषिध्यते। सूदिता। दीपिता। दीक्षिता। ननु च दीपेर्विशेषविहितो रप्रत्ययो दृश्यते, ‘नमिकम्पिस्म्य-जसकमहिंसदीपो रः’(३.२.१६७) इति। स एव बाधको भविष्यति, किं प्रतिषेधेन? वासरूपेण युजपि प्राप्नोति। ताच्छीलिकेषु च वासरूपविधिर्नास्तीति प्रायिकमेतद् इत्युक्तम्। तथा च समावेशो दृश्यते-कम्रा युवतिः, कमना युवतिः। कम्प्रा शाखा, कम्पना शाखेति। सूदेर्युचि प्रतिषिद्धे कथं मधुसूदनो रिपुसूदन इति? अनित्योऽयं प्रतिषेध इति योगविभागाद् विज्ञायते। अथ वा मधुसूदनादयो नन्द्यादिषु द्रक्ष्यन्ते। ‘कृत्यल्युटो बहुलम्’ (३.३.११३) इति ल्युडन्ता वा॥

लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ् ॥ ३.२.१५४॥

लषादिभ्यो धातुभ्यस्तच्छीलादिषु कर्तृषु उकञ् प्रत्ययो भवति। अपलाषुकं वृषलसंगतम्। प्रपातुका गर्भा भवन्ति। उपपादुकं सत्त्वम्। उपस्थायुका एनं पशवो भवन्ति। प्रभावुकमन्नं भवति। प्रवर्षुकाः पर्जन्याः। आघातुकं पाकलिकस्य मूत्रम्। कामुका एनं स्त्रियो भवन्ति। आगामुकं वाराणसीं रक्ष आहुः। किंशारुकं तीक्ष्णमाहुः॥

जल्पभिक्षकुट्टलुण्टवृङः षाकन् ॥ ३.२.१५५॥

जल्पादिभ्यो धातुभ्यस्तच्छीलादिषु कर्तृषु षाकन् प्रत्ययो भवति। षकारो ङीषर्थः। जल्पाकः। भिक्षाकः। कुट्टाकः। लुण्टाकः। वराकः। वराकः। वराकी॥

प्रजोरिनिः ॥ ३.२.१५६॥

प्रपूर्वाज् जवतेः तच्छीलादिषु कर्तृषु इनिः प्रत्ययो भवति। प्रजवी। प्रजविनौ॥

जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च ॥ ३.१.१५७॥

‘जि जये’ ‘दृङ् आदरे’ ‘क्षि क्षये’ ‘क्षि निवासगत्योः’ इति द्वयोरपि ग्रहणम्। प्रसू इति ‘षू प्रेरणे’ इत्यस्य ग्रहणम्। जिप्रभृतिभ्यो धातुभ्य इनिः प्रत्ययो भवति तच्छीलादिषु कर्तृषु। जयी। दरी। क्षयी। विश्रयी। अत्ययी। वमी। अव्यथी। अभ्यमी। परिभवी। प्रसवी॥

स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् ॥ ३.२.१५८॥

‘स्पृह ईप्सायाम्’ ‘गृह ग्रहणे’ ‘पत गतौ’ चुरादावदन्ताः पठ्यन्ते। ‘दय दानगतिरक्षणेषु’ ‘द्रा कुत्सायां गतौ’ निपूर्वस्तत्पूर्वश्च, तदो नकारान्तता च निपात्यते। डुधाञ् श्रत्पूर्वः। एतेभ्यस्तच्छीलादिषु कर्तृषु आलुच् प्रत्ययो भवति। स्पृहयालुः। गृहयालुः। पतयालुः। दयालुः। निद्रालुः। तन्द्रालुः। श्रद्धालुः॥ आलुचि शीङो ग्रहणं कर्तव्यम्॥ शयालुः॥

दाधेट्सिशदसदो रुः ॥ ३.२.१५९॥

दा धेट् सि शद सद इत्येतेभ्यो रुः प्रत्ययो भवति। दारुः। धारुर्वत्सो मातरम्। ‘न लोकाव्यय०’(२.३.६९) इत्युकारप्रश्लेषात् षष्ठी न भवति। सेरुः। शद्रुः। सद्र्रुः॥

सृघस्यदः क्मरच् ॥ ३.२.१६०॥

सृ घसि अद् इत्येतेभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु क्मरच् प्रत्ययो भवति। सृमरः। घस्मरः। अद्मरः॥

भञ्जभासमिदो घुरच् ॥ ३.२.१६१॥

भञ्ज भास मिद इत्येतेभ्यो घुरच् प्रत्ययो भवति तच्छीलादिषु कर्तृषु। भङ्गुरं काष्ठम्। घित्त्वात् कुत्वम्। भासुरं ज्योतिः। मेदुरः पशुः। भञ्जेः कर्मकर्तरि प्रत्ययः, स्वभावात्॥

विदिभिदिच्छिदेः कुरच् ॥ ३.२.१६२॥

ज्ञानार्थस्य विदेः ग्रहणं न लाभार्थस्य स्वभावात्। विदादिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु कुरच् प्रत्ययो भवति। विदुरः पण्डितः। भिदुरं काष्ठम्। छिदुरा रज्जुः। भिदिच्छिद्योः कर्मकर्तरि प्रयोगः॥ व्यधेः संप्रसारणं कुरच्च वक्तव्यः॥ विधुरः॥

इण्नश्जिसर्तिभ्यः क्वरप् ॥ ३.२.१६३॥

इण् नश् जि सर्ति इत्येतेभ्यो धातुभ्यस्तच्छीलादिषु कर्तृषु क्वरप् प्रत्ययो भवति। पकारस्तुगर्थः। इत्वरः। इत्वरी। नश्वरः। नश्वरी। जित्वरः। जित्वरी। सृत्वरः। सृत्वरी। ‘नेड् वशि कृति’ (७.२.८) इतीट्प्रतिषेधः॥

गत्वरश्च ॥ ३.२.१६४॥

गत्वर इति निपात्यते। गमेरनुनासिकलोपः क्वरप् प्रत्ययश्च। गत्वरः। गत्वरी॥

जागुरूकः ॥ ३.२.१६५॥

जागर्तेरूकः प्रत्ययो भवति तच्छीलादिषु कर्तृषु। जागरूकः॥

यजजपदशां यङः ॥ ३.२.१६६॥

यजादीनां यङन्तानामूकः प्रत्ययो भवति तच्छीलादिषु कर्तृषु। यायजूकः। जञ्जपूकः। दन्दशूकः॥

नमिकम्पिस्म्यजसकमहिंसदीपो रः ॥ ३.२.१६७॥

नम्यादिभ्यो धातुभ्यस्तच्छीलादिषु कर्तृषु रः प्रत्ययो भवति। नम्रं काष्ठम्। कम्प्रा शाखा। स्मेरं मुखम्। अजस्रं जुहोति। कम्रा युवतिः। हिंस्रं रक्षः। दीपं्र काष्ठम्। अजस्रमिति ‘जसु मोक्षणे’ नञ्पूर्वो रप्रत्ययान्तः क्रियासातत्ये वर्तते॥

सनाशंसभिक्ष उः ॥ ३.२.१६८॥

सन् इति सन् प्रत्ययो गृह्यते, न सनिर्धातुः, अनभिधानाद् व्याप्तिन्यायाद् वा। सन्नन्तेभ्यो धातुभ्य आशंसेर्भिक्षेश्च तच्छीलादिषु कर्तृषु उः प्रत्ययो भवति। चिकीर्षुः। जिहीर्षुः। आशंसुः। भिक्षुः। ‘आङः शसि इच्छायाम्’ इत्यस्य ग्रहणम्, न शंसेःस्तुत्यर्थस्य॥

विन्दुरिच्छुः ॥ ३.२.१६९॥

विदेर्नुमागम इषेश्छत्वमुकारश्च प्रत्ययो निपात्यते तच्छीलादिषु कर्तृषु वेदनशीलो विन्दुः। एषणशील इच्छुः॥

क्याच्छन्दसि ॥ ३.२.१७०॥

क्य इति क्यच्क्यङ्क्यषां सामान्येन निर्देशः। क्यप्रत्ययान्ताद् धातोश्छन्दसि विषये तच्छीलादिषु कर्तृषु उकारप्रत्ययो भवति। मित्र॒युः॑ (मै०सं० २.६.१२)। ‘न च्छन्दस्यपुत्रस्य’ (७.४.३५) इति प्रतिषेधाद् न दीर्घः। स॑ स्वे॒द॒युः॑ (मै०सं० ४.१२.२.४४)। सुम्न॒युः (ऋ० १.७९.१०)। छन्दसीति किम्? मित्रीयिता॥

आदृगमहनजनः किकिनौ लिट् च ॥ ३.२.१७१॥

आकारान्तेभ्य ऋवर्णान्तेभ्यो गम हन जन इत्येतेभ्यश्च छन्दसि विषये तच्छीलादिषु किकिनौ प्रत्ययौ भवतः। लिड्वच्च तौ भवतः। आदिति तकारो मुखसुखार्थः, न त्वयं तपरः, मा भूत् तादपि परस्तपर इति ऋकारे तत्कालग्रहणम्। प॒पिः सोमं॑ द॒दिर्गाः (ऋ० ६.२३.४)। मित्रावरुणा॒ ततु॑रिम् (ऋ० ४.३९.२)। दू॒रे ह्यध्वा॒ जगु॑रिः (ऋ० १०.१०८.१)। जग्मि॒र्युवा॑ (ऋ० ७.२०.१)। जघ्नि॑र्वृ॒त्रम् (ऋ० ९.६१.२०)। जज्ञि॒ बीज॒म् (तै० सं० ७.५.२०.१)। अथ किमर्थं कित्त्वम्, यावता ‘असंयोगाल्लिट् कित्’(१.२.५) इति कित्त्वं सिद्धमेव? ‘ऋच्छत्यृताम्’ (७.४.११) इति लिटि गुणः प्रतिषेधविषय आरभ्यते, तस्यापि बाधनार्थं कित्त्वम्॥ किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्॥ सेदिः॒ (श०ब्रा० ७.३.१.२३)। ने॒मिः (ऋ० २.५.३)॥ भाषायां धाञ्कृञ्सृजनिगमिनमिभ्यः किकिनौ वक्तव्यौ॥ दधिः। चक्रिः। सस्रिः। जज्ञिः। जग्मिः। नेमिः॥ सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ वक्तव्यौ॥ ‘दीर्घोऽकितः’ (७.४.८३)। सासहिः। वावहिः। चाचलिः। पापतिः॥

स्वपितृषोर्नजिङ् ॥ ३.२.१७२॥

छन्दसीति निवृत्तम्। स्वपेस्तृषेश्च तच्छीलादिषु कर्तृषु नजिङ् प्रत्ययो भवति। स्वप्-स्वप्नक् । तृष्णक् ॥ धृषेश्चेति वक्तव्यम्॥ धृष्णक् ॥

शृवन्द्योरारुः ॥ ३.२.१७३॥

‘शृ हिंसायाम्’ ‘वदि अभिवादनस्तुत्योः’ एताभ्यां धातुभ्यां तच्छीलादिषु कर्तृष्वारुः प्रत्ययो भवति। शरारुः। वन्दारुः॥

भियःक्रुक्लुकनौ ॥ ३.२.१७४॥

‘ञिभी भये’ अस्माद् धातोः तच्छीलादिषु कर्तृषु क्रुक्लुकनौ प्रत्ययौ भवतः। भीरुः। भीलुकः॥ क्रुक न्नपि वक्तव्यः॥ भीरुकः॥

स्थेशभासपिसकसो वरच्॥ ३.२.१७५॥

‘ष्ठा गतिनिवृत्तौ’ ‘ईश ऐश्वर्ये’ ‘भासृ दीप्तौ’ ‘पिसृ पेसृ गतौ’ ‘कस गतौ’ एतेभ्यस्तच्छीलादिषु कर्तृषु वरच् प्रत्ययो भवति। स्थावरः। ईश्वरः। भास्वरः। पेस्वरः। विकस्वरः॥

यश्च यङः॥ ३.२.१७६॥

‘या प्रापणे’ अस्माद् यङन्तात् तच्छीलादिषु कर्तृषु वरच् प्रत्ययो भवति। यायावरः॥

भ्राजभासधुर्विद्युतोर्जिपृजुग्रावस्तुवः क्विप् ॥ ३.२.१७७॥

भ्राजादिभ्यो धातुभ्यस्तच्छीलादिषु कर्तृषु क्विप् प्रत्ययो भवति। विभ्राट्, विभ्राजौ, विभ्राजः। भाः, भासौ, भासः। धूः, धुरौ, धुरः। विद्युत्, विद्युतौ, विद्युतः। ऊर्क् , ऊजौ, ऊर्जः। पूः, पुरौ, पुरः। जवतेर्दीर्घश्च निपात्यते। जूः, जुवौ, जुवः। ग्रावस्तुत्, ग्रावस्तुतौ, ग्रावस्तुतः। किमर्थमिदमुच्यते, यावता ‘अन्येभ्योऽपि दृश्यन्ते’, ‘क्विप् च’(३.२.७५,७६) इति क्विप् सिद्ध एव? ताच्छीलिकैर्बाध्यते। वासरूपविधिर्नास्तीत्युक्तम् (३.२.१४६)। अथ तु प्रायिकमेतत्, ततस्तस्यैवायं प्रपञ्चः॥

अन्येभ्योऽपि दृश्यते ॥ ३.२.१७८॥

अन्येभ्योऽपि धातुभ्यस्ताच्छीलिकेषु क्विप् प्रत्ययो दृश्यते। युक् । छित्। भित्। दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम्। क्वचिद् दीर्घः। क्वचिद् द्विर्वचनम्। क्वचित् संप्रसारणम्। क्वचिद् असंप्रसारणम्। तथा चाह॥ क्विब् वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च॥ वचि-वाक् । प्रच्छि-शब्दप्राट्। आयतस्तूः। कटप्रूः। जूः। श्रीः। जुग्रहणेनात्र नार्थः, भ्राजादिसूत्र एवं गृहीतत्वात्॥ द्युतिगमिजुहोतीनां द्वे च॥ दिद्युत्। जगत्॥ जुहोतेर्दीर्घश्च॥ जुहूः॥ ‘दृ भये’ इत्यस्य ह्रस्वश्च द्वे च॥ ददृत्॥ ध्यायतेः सम्प्रसारणं च॥ धीः॥

भुवः संज्ञान्तरयोः ॥ ३.२.१७९॥

भवतेर्धातोः संज्ञायामन्तरे च गम्यमाने क्विप् प्रत्ययो भवति। विभूर्नाम कश्चित्। अन्तरे-प्रतिभूः। धनिकाधमर्णयोरन्तरे यस्तिष्ठति, स प्रतिभूरुच्यते॥

विप्रसंभ्यो ड्वसंज्ञायाम् ॥ ३.२.१८०॥

भुव इति वर्तते। वि प्र सम् इत्येवंपूर्वाद् भवतेर्धातोर्डुप्रत्ययो भवति, न चेत् संज्ञा गम्यते। विभुः सर्वगतः। प्रभुः स्वामी। संभुर्जनिता। असंज्ञायामिति किम्? विभूर्नाम कश्चित्॥ डुप्रकरणे मितद्र्वादिभ्य उपसंख्यानम्॥ मितं द्रवति मितद्रुः। शंभुः॥

धःकर्मणि ष्ट्रन् ॥ ३.२.१८१॥

धयतेर्दधातेश्च कर्मणि कारके ष्ट्रन् प्रत्ययो भवति। षकारो ङीषर्थः। धयन्ति तां दधति वा भैषज्यार्थमिति धात्री। स्तनदायिनी आमलकी चोच्यते॥

दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ॥ ३.२.१८२॥

‘दाप् लवने’ ‘णीञ् प्रापणे’ ‘शसु हिंसायाम्’ ‘यु मिश्रणे’ ‘युजिर् योगे’ ‘ष्टुञ् स्तुतौ’ ‘तुद व्यथने’ ‘षिञ् बन्धने’ ‘षिच क्षरणे’ ‘मिह सेचने’ ‘पत्ऌ गतौ’ ‘दंश दशने’ ‘णह बन्धने’ एतेभ्यो धातुभ्यःकरणे कारके ष्ट्रन् प्रत्ययो भवति। दान्त्यनेनेति दात्रम्। नेत्रम्। शस्त्रम्। योत्रम्। योक्त्रम्। स्तोत्रम्। तोत्त्रम्। सेत्रम्। सेक्त्रम्। मेड्ढ्रम्। पत्त्रम्। दंष्ट्रा। अजादित्वात् टाप्, न ङीष्। दंशेरनुनासिकलोपेन निर्देशो ज्ञापनार्थः- क्ङितोऽन्यस्मिन्नपि प्रत्यये नलोपः क्वचिद् भवतीति। तेन ल्युट्यपि भवति। दशनम्। नद्ध्री॥

हलसूकरयोः पुवः ॥ ३.२.१८३॥

पू इति पूङ्पूञोस्सामान्येन ग्रहणम्। अस्माद् धातोः करणे कारके ष्ट्रन् प्रत्ययो भवति, तच्चेत् करणं हलसूकरयोरवयवो भवति। हलस्य पोत्रम्। सूकरस्य पोत्रम्। मुखमुच्यते॥

अर्तिलूधूसूखनसहचर इत्रः ॥ ३.२.१८४॥

‘ऋ गतौ’ ‘लूञ् छेदने’ ‘धू विधूनने’ ‘षू प्रेरणे’ ‘खनु अवदारणे’ ‘षह मर्षणे’ ‘चर गतिभक्षणयोः’ एतेभ्यो धातुभ्यः करणे कारक इत्रः प्रत्ययो भवति। अरित्रम्। लवित्रम्। धवित्रम्। सवित्रम्। खनित्रम्। सहित्रम्। चरित्रम्॥

पुवः संज्ञायाम् ॥ ३.२.१८५॥

पूङ्पूञोः सामान्येन ग्रहणम्। पवतेर्धातोःकरणे कारक इत्र प्रत्ययो भवति, समुदायेन चेत् संज्ञा गम्यते। दर्भः पवित्रम्। बर्हिष्पवित्रम्॥

कर्तरि चर्षिदेवतयोः ॥ ३.२.१८६॥

पुव इति वर्तते। पुवः करणे कर्तरि चेत्रप्रत्ययो भवति। ऋषिदेवतयोर्यथासंख्यं संबन्धः। ऋषौ करणे, देवतायां कर्तरि। पूयतेऽनेनेति पवित्रोऽयमृषिः। देवतायाम्- अग्निःपवित्रं स मा पुनातु। वायुः सोमः सूर्य इन्द्रः पवित्रं ते मा पुनन्तु (निरु० ५.६)॥

ञीतः क्तः ॥ ३.२.१८७॥

ञि इद् यस्यासौ ञीत्। ञीतो धातोर्वर्तमानेऽर्थे क्तप्रत्ययो भवति। भूते निष्ठा विहिता वर्तमाने न प्राप्नोतीति विधीयते। ‘ञिमिदा स्नेहने’- मिन्नः। ञिक्ष्विदा-क्ष्विण्णः। ञिधृषा-धृष्टः॥

मतिबुद्धिपूजार्थेभ्यश्च ॥ ३.२.१८८॥

मतिरिच्छा। बुद्धिर्ज्ञानम्। पूजा सत्कारः। एतदर्थेभ्यश्च धातुभ्यो वर्तमानार्थे क्तप्रत्ययो भवति। राज्ञां मतः। राज्ञामिष्टः। राज्ञां बुद्धः। राज्ञां ज्ञातः। राज्ञां पूजितः। राज्ञामर्चितः। अनुक्तसमुच्चयार्थश्चकारः।

शीलितो रक्षितः क्षान्त आक्रुष्टो जुष्ट इत्यपि।

रुष्टश्च रुषितश्चोभावभिव्याहृत इत्यपि॥ १॥

हृष्टतुष्टौ तथा कान्तस्तथोभौ संयतोद्यतौ।

कष्टं भविष्यतीत्याहुरमृतः पूर्ववत् स्मृतः ॥ २॥

कष्ट इति भविष्यति काले। अमृत इति पूर्ववत्। वर्तमान इत्यर्थः। तथा सुप्तः, शयितः, आशितः, लिप्तः, तृप्त इत्येवमादयोऽपि वर्तमाने द्रष्टव्याः॥

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य द्वितीयःपादः॥