०१

प्रत्ययः॥ ३.१.१॥

अधिकारोऽयम्। प्रत्ययशब्दः संज्ञात्वेनाधिक्रियते। आ पञ्चमाध्यायपरिसमाप्तेर्यानित ऊर्ध्वमनुक्रमिष्यामः, प्रत्ययसंज्ञास्ते वेदितव्याः, प्रकृत्युपपदोपाधिविकारागमान् वर्जयित्वा। वक्ष्यति-‘तव्यत्तव्यानीयरः’(३.१.९६)। कर्त्तव्यम्। करणीयम्। प्रत्ययप्रदेशाः- ‘प्रत्ययलोपे प्रत्ययलक्षणम्’ (१.१.६२) इत्येवमादयः॥

परश्च॥ ३.१.२॥

अयमप्यधिकारो योगेयोग उपतिष्ठते, परिभाषा वा। परश्च स भवति धातोर्वा प्रातिपदिकाद् वा यः प्रत्ययसंज्ञः। कर्तव्यम्। तैत्तिरीयम्। चकारः पुनरस्यैव समुच्चयार्थः। तेनोणादिषु परत्वं न विकल्प्यते॥

आद्युदात्तश्च ॥ ३.१.३॥

अयमप्यधिकारः परिभाषा वा। आद्युदात्तश्च स भवति यः प्रत्ययसंज्ञः। अनियतस्वर-प्रत्ययप्रसङ्गेऽनेकाक्षु च प्रत्ययेषु देशस्यानियमे सति वचनमिदमादेरुदात्तार्थम्।क र्तव्य॑॑म्। तैत्त्िारीय॑॑म्॥

अनुदात्तौ सुप्पितौ ॥ ३.१.४॥

पूर्वस्यायमपवादः। सुपः पितश्च प्रत्यया अनुदात्ता भवन्ति। दृषदौ॑॑। दृषद॑॑ः। पितःखल्वपि-पच॑॑ति। पठ॑॑ति॥

गुप्तिज्किद्भ्यः सन्॥ ३.१.५॥

‘गुप गोपने’ , ‘तिज निशाने’ , ‘कित निवासे’ एतेभ्यो धातुभ्यः सन् प्रत्ययो भवति। प्रत्ययसंज्ञा चाधिकृतैव। जुगुप्सते। तितिक्षते। चिकित्सति॥ निन्दाक्षमाव्याधिप्रतीकारेषु सन्निष्यतेऽन्यत्र यथाप्राप्तं प्रत्यया भवन्ति॥ गोपयति। तेजयति। सङ्केतयति। गुपादिष्वनुबन्धकरणमात्मनेपदार्थम्॥

मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य॥ ३.१.६॥

‘मान पूजाायाम्’, ‘बध बन्धने’, ‘दान अवखण्डने’, ‘शान अवतेजने’ इत्येतेभ्यो धातुभ्यः सन् प्रत्ययो भवति, अभ्यासस्य चेकारस्य दीर्घादेशो भवति। मीमांसते। बीभत्सते। दीदांसते। शीशांसते। उत्तरसूत्रे वाग्रहणं सर्वस्य शेषो विज्ञायते, तेन क्वचिद् न भवत्यपि। मानयति। बाधयति। दानयति। निशानयति॥ अत्रापि सन्नर्थविशेष इष्यते॥ मानेर्जिज्ञासायाम्, बधेर्वैरूप्ये, दानेरार्जवे, शानेर्निशाने॥

धातोः कर्मणः समानकर्तृकादिच्छायां वा ॥ ३.१.७॥

इषिकर्म यो धातुरिषिणैव समानकर्तृकः, तस्मादिच्छायामर्थे वा सन् प्रत्ययो भवति। कर्मत्वं समानकर्तृकत्वं च धातोरर्थद्वारकम्। कर्तुमिच्छति, चिकीर्षति। जिहीर्षति। धातुग्रहणं किम्? सोपसर्गादुत्पत्तिर्मा भूत्-प्रकर्तुमैच्छत्, प्राचिकीर्षत्। कर्मण इति किम्? करणान् मा भूत्-गमनेनेच्छति। समानकर्तृकादिति किम्? देवदत्तस्य भोजनमिच्छति यज्ञदत्तः। इच्छायामिति किम्? कर्तुं जानाति। वावचनाद् वाक्यमपि भवति। धातोरिति विधानादत्र सन आर्धधातुकसंज्ञा भवति, न पूर्वत्र॥ आशङ्कायामुपसंख्यानम्॥ आशङ्के पतिष्यति कूलम्। पिपतिषति कूलम्। श्वा मुमूर्षति॥ इच्छासन्नन्तात् प्रतिषेधो वक्त व्यः॥ चिकीर्षितुमिच्छति। विशेषणं किम्? जुगुप्सिषते। मीमांसिषते॥

शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः।

सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते॥

सुप आत्मनः क्यच् ॥ ३.१.८॥

कर्मण इच्छायां वेत्यनुवर्तते। इषिकर्मण एषितुरेवात्मसंबन्धिनः सुबन्ताद् इच्छायामर्थे वा क्यच् प्रत्ययो भवति। आत्मनः पुत्रमिच्छति पुत्रीयति। सुब्ग्रहणं किम्? वाक्यान् मा भूत्-महान्तं पुत्रमिच्छति। आत्मन इति किम्? राज्ञः पुत्रमिच्छति। ककारो ‘नः क्ये’(१.४.१५) इति सामान्यग्रहणार्थः। चकारस्तदविघातार्थः॥ क्यचि मान्ताव्ययप्रतिषेधो वक्तव्यः॥ इदमिच्छति। उच्चैरिच्छति। नीचैरिच्छति॥ छन्दसि परेच्छायामिति वक्त व्यम्॥ मा त्वा॒ वृका॑ अघा॒यवो॑ विदन् (मा०सं० ४.३४)॥

काम्यच्च ॥ ३.१.९॥

सुबन्तात् कर्मण आत्मेच्छायां काम्यच् प्रत्ययो भवति। आत्मनः पुत्रमिच्छति, पुत्रकाम्यति। वस्त्रकाम्यति। योगविभाग उत्तरत्र क्यचोऽनुवृत्त्यर्थः। ककारस्येत्संज्ञा प्रयोजनाभावान् न भवति। चकारादित्वाद् वा काम्यचः। उपयट्काम्यति।

उपमानादाचारे ॥ ३.१.१०॥

क्यजनुवर्तते, न काम्यच्। उपमानात् कर्मणः सुबन्तादाचारेऽर्थे वा क्यच् प्रत्ययो भवति। आचारक्रियायाः प्रत्ययार्थत्वात् तदपेक्षयैवोपमानस्य कर्मता। पुत्रमिवाचरति, पुत्रीयति छात्रम्। प्रावारीयति कम्बलम्॥ अधिकरणाच्चेति वक्तव्यम्॥ प्रासादीयति कुट्याम्। पर्यङ्कीयति मञ्चके॥

कर्तुः क्यङ् सलोपश्च ॥ ३.१.११॥

आचार इत्यनुवर्तते। उपमानात् कर्तुःसुबन्तादाचारेऽर्थे वा क्यङ् प्रत्ययो भवति, सकारस्य च लोपो भवति। अन्वाचयशिष्टः सलोपः, तदभावेऽपि क्यङ् भवत्येव-श्येन इवाचरति काकः, श्येनायते। कुमुदं पुष्करायते। सलोपविधावपि वाग्रहणं संबध्यते, सा च व्यवस्थितविभाषा भवति।

ओजसोऽप्सरसो नित्यं पयसस्तु विभाषया। (तु०-जैनेन्द्र सू० २.१.९)। ओ॒जा॒यमा॑नं॒ यो अहिं॑ ज॒घान॒ (ऋ०२.१२.११)। ओजायते। अप्सरायते। पयायते। पयस्यते। सलोपविधौ च कर्तुरिति स्थानषष्ठी संपद्यते, तत्रालोऽन्त्यनियमे सति, हंसायते सारसायत इति सलोपो न भवति॥ आचारेऽवगल्भक्लीबहोडेभ्यः क्विब् वा वक्तव्यः॥ अवगल्भते। अवगल्भायते। क्लीबते। क्लीबायते। होडते। होडायते॥ सर्वप्रातिपदिकेभ्य इत्येके॥ अश्व इवाचरति, अश्वायते। अश्वति। गर्दभायते। गर्दभति॥

भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः ॥ ३.१.१२॥

भृश इत्येवमादिभ्यः प्रातिपदिकेभ्योऽच्व्यन्तेभ्यो भुवि भवत्यर्थे क्यङ् प्रत्ययो भवति, हलन्तानां च लोपः। अच्वेरिति प्रत्येकमभिसंबध्यते। किमर्थं पुनरिदमुच्यते, यावता भवतियोगे च्विर्विधीयते, तेनोक्तार्थत्वाच् च्व्यन्तेभ्यो न क्यङ् भविष्यति? तत्सदृश-प्रतिपत्त्यर्थं तर्हि च्विप्रतिषेधः क्रियते। अभूततद्भावविषयेभ्यो भृशादिभ्यः क्यङ् प्रत्ययः। अभृशो भृशो भवति, भृशायते। शीघ्रायते॥ भृश। शीघ्र। मन्द। चपल। पण्डित। उत्सुक। उन्मनस्। अभिमनस्। सुमनस्। दुर्मनस्। रहस्। रेहस्। शश्वत्। बृहत्। वेहत्। नृषत्। शुधि। अधर। ओजस्। वर्चस्। भृशादिः। अच्वेरिति किम्? भृशीभवति॥

लोहितादिडाज्भ्यः क्यष् ॥ ३.१.१३॥

लोहितादिभ्यो डाजन्तेभ्यश्च भवत्यर्थे क्यष् प्रत्ययो भवति। लोहितायति। लोहितायते। डाजन्तेभ्यः-पटपटायति। पटपटायते॥ लोहितडाज्भ्यः क्यष्वचनम्, भृशादिष्वितराणि॥ यानि लोहितादिषु पठ्यन्ते तेभ्यःक्यङेव, अपरिपठितेभ्यस्तु क्यषेव भवति। वर्मायति। वर्मायते। निद्रायति। निद्रायते। करुणायति। करुणायते। कृपायति। कृपायते। आकृतिगणश्चायम्। तथा च ककारः सामान्यग्रहणार्थोऽनुबध्यते ‘नःक्ये’ (१.४.१५) इति। नहि पठितानां मध्ये नकारान्तः शब्दोऽस्ति। कृभ्वस्तिभिरिव क्यषापि योगे डाज् भवतीत्येतदेव वचनं ज्ञापकम्। अच्वेरित्यनुवृत्तेरभूततद्भावे क्यष् विज्ञायते॥ लोहित। नील। हरित। पीत। मद्र। फेन। मन्द। लोहितादिः॥

कष्टाय क्रमणे ॥ ३.१.१४॥

क्यङ नुवर्तते, न क्यष्। कष्टशब्दाच् चतुर्थीसमर्थात् क्रमणेऽर्थेऽनार्जवे क्यङ् प्रत्ययो भवति। कष्टाय कर्मणे क्रामति, कष्टायते। अत्यल्पमिदमुच्यते॥ सत्रकष्टकक्षकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम्॥ कण्वचिकीर्षा पापचिकीर्षा, तस्यामेतेभ्यः क्यङ् प्रत्ययो भवति। सत्रायते। कष्टायते। कक्षायते। कृच्छ्रायते। गहनायते। कण्वचिकीर्षायामिति किम्? अजः कष्टं क्रामति॥

कर्मणो रोमन्थतपोभ्यां वर्तिचरोः ॥ ३.१.१५॥

रोमन्थशब्दात् तपः शब्दाच्च कर्मणो यथाक्रमं वर्तिचरोरर्थयोः क्यङ् प्रत्ययो भवति। रोमन्थं वर्तयति, रोमन्थायते गौः॥ हनुचलन इति वक्तव्यम्॥ इह मा भूत्-कीटो रोमन्थं वर्तयति॥ तपसः परस्मैपदं च ॥ तपश्चरति, तपस्यति॥

बाष्पोष्मभ्यामुद्वमने ॥ ३.१.१६॥

कर्मण इति वर्तते। बाष्पशब्दादूष्मशब्दाच्च कर्मण उद्वमनेऽर्थे क्यङ् प्रत्ययो भवति। बाष्पमुद्वमति, बाष्पायते। ऊष्मायते॥ फेनाच्चेति वक्त व्यम्॥ फेनमुद्वमति, फेनायते॥

शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे ॥ ३.१.१७॥

शब्द वैर कलह अभ्र कण्व मेघ इत्येतेभ्यः करणे करोत्यर्थे क्वङ् प्रत्ययो भवति। शब्दं करोति, शब्दायते। वैरायते। कलहायते। अभ्रायते। कण्वायते। मेघायते॥ सुदिनदुर्दिननीहारेभ्यश्चेति वक्तव्यम्॥ सुदिनायते। दुर्दिनायते। नीहारायते॥ अटाट्टशीकाकोटापोटासोटाप्रुष्टाप्लुष्टाग्रहणं कर्तव्यम्॥ अटायते। अट्टायते। शीकायते। कोटायते। पोटायते। सोटायते। प्रुष्टायते। प्लुष्टायते॥

सुखादिभ्यः कर्तृवेदनायाम् ॥ ३.१.१८॥

कर्मग्रहणमनुवर्तते। सुख इत्येवमादिभ्यः कर्मभ्यो वेदनायामर्थेऽनुभवे क्यङ् प्रत्ययो भवति, वेदयितुश्चेत् कर्तुः संबन्धीनि सुखादीनि भवन्ति। सुखं वेदयते, सुखायते। दुःखायते। कर्तृग्रहणं किम्? सुखं वेदयते प्रसाधको देवदत्तस्य॥ सुख। दुःख। तृप्त। गहन। कृच्छ्र। अस्र। अलीक। प्रतीप। करुण। कृपण। सोढ। सुखादिः॥

नमोवरिवश्चित्रङः क्यच् ॥ ३.१.१९॥

करण इति वर्तते। नमस् वरिवस् चित्रङ् इत्येतेभ्यो वा क्यच् प्रत्ययो भवति, करणविशेषे पूजादौ। नमसः पूजायाम्-नमस्यति देवान्। वरिवसः परिचर्यायाम्-वरिवस्यति गुरून्। चित्रङ आश्चर्ये-चित्रीयते। ङकार आत्मनेपदार्थः॥

पुच्छभाण्डचीवराण्णिङ् ॥ ३.१.२०॥

करण इति वर्तते। पुच्छ भाण्ड चीवर इत्येतेभ्यो णिङ् प्रत्ययो भवति, करणविशेषे॥ पुच्छादुदसने पर्यसने वा॥ उत्पुच्छयते। परिपुच्छयते॥ भाण्डात् समाचयने॥ संभाण्डयते॥ चीवरादर्जने परिधाने वा॥ संचीवरयते भिक्षुः। ङकार आत्मनेपदार्थः। णकारः सामान्यग्रहणार्थः ‘णेरनिटि’ (६.४.५१) इति॥

मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् ॥ ३.१.२१॥

मुण्ड मिश्र श्लक्ष्ण लवण व्रत वस्त्र हल कल कृत तूस्त इत्येतेभ्येः करणे णिच् प्रत्ययो भवति। मुण्डं करोति, मुण्डयति। मिश्रयति। श्लक्ष्णयति। लवणयति। व्रताद् भोजने तन्निवृत्तौ च-पयो व्रतयति। वृषलान्नं व्रतयति। वस्त्रात् समाच्छादने-संवस्त्रयति। हलिं गृह्णाति, हलयति। कलिं गृह्णाति, कलयति। हलिकल्योरदन्तत्वनिपातनं सन्वद्भावप्रतिषेधार्थम्। अजहलत्। अचकलत्। कृतं गृह्णाति, कृतयति। तूस्तानि विहन्ति, वितूस्तयति केशान्। विशदीकरोतीत्यर्थः॥

धातोरेकाचो हलादेः क्रियासमभिहारे यङ्॥ ३.१.२२॥

एकाज् यो धातुर्हलादिः क्रियासमभिहारे वर्तते, तस्माद् यङ् प्रत्ययो भवति। पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः। पुनःपुनः पचति, पापच्यते। यायज्यते। भृशं ज्वलति, जाज्वल्यते। देदीप्यते। धातोरिति किम्? सोपसर्गादुत्पत्तिर्मा भूत्-भृशं प्राटति। एकाच इति किम्? भृशं जागर्ति। हलोदेरिति किम्? भृशमीक्षते॥ सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतीनां ग्रहणं यङ्विधावनेकाजहलाद्यर्थम्॥ सोसूच्यते। सोसूत्र्यते। मोमूत्र्यते। अटाट्यते। अरार्यते। अशाश्यते। प्रोर्णोनूयते। भृशं शोभते, भृशं रोचत इत्यत्र नेष्यते, अनभिधानात्॥

नित्यं कौटिल्ये गतौ ॥ ३.१.२३॥

गतिवचनाद् धातोःकौटिल्ये गम्यमाने नित्यं यङ् प्रत्ययो भवति। कुटिलं क्रामति, चङ् क्रम्यते। दन्द्रम्यते। नित्यग्रहणं विषयनियमार्थम्, गतिवचनान्नित्यं कौटिल्य एव भवति, न तु क्रियासमभिहारे। भृशं क्रामति॥

लुपसदचरजपजभदहदशगभ्यो भावगर्हायाम्॥ ३.१.२४॥

लुप सद चर जप जभ दह दश ग इत्येतेभ्यो भावगर्हायां धात्वर्थगर्हायां यङ् प्रत्ययो भवति। गर्हितं लुम्पति, लोलुप्यते। एवं सासद्यते। चञ्चूर्यते। जञ्जप्यते। जञ्जभ्यते। दन्दह्यते। दन्दश्यते। निजेगिल्यते। भावगर्हायामिति किम् ? साधु जपति। भावग्रहणं किम् ? साधनगर्हायां मा भूत्- मन्त्रं जपति वृषलः। नित्यग्रहणं विषयनियमार्थमनुवर्तते। एतेभ्यो नित्यं भावगर्हायामेव भवति, न तु क्रियासमभिहारे। भृशं लुम्पति॥

सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् ॥ ३.१.२५॥

सत्यादिभ्यश्चूर्णपर्यन्तेभ्यश्चुरादिभ्यश्च णिच् प्रत्ययो भवति। सत्यमाचष्टे, सत्यापयति॥ अर्थवेदसत्यानामापुग् वक्तव्यः॥ अर्थमाचष्टे, अर्थापयति। वेदापयति। आपुग्वचनसामर्थ्याट्टिलोपो न भवति। पाशाद्विमोचने-विपाशयति। रूपाद् दर्शने-निरूपयति। वीणयोपगायति, उपवीणयति। तूलेनानुकुष्णाति, अनुतूलयति। श्लोकैरुपस्तौति, उपश्लोकयति। सेनयाभियाति, अभिषेणयति। लोमान्यनुमार्ष्टि, अनुलोमयति। त्वचं गृह्णाति, त्वचयति। अकारान्तस्त्वचशब्दः। वर्मणा संनह्यति, संवर्मयति। वर्णं गृह्णाति, वर्णयति। चूर्णैरवध्वंसयति, अवचूर्णयति। चुरादिभ्यः स्वार्थे-चोरयति। चिन्तयति। स्वाभाविकत्वादर्थाभिधानस्य यथायथं प्रत्ययार्था निर्दिश्यन्ते॥

हेतुमति च ॥ ३.१.२६॥

हेतुः स्वतन्त्रस्य कर्तुः प्रयोजकः, तदीयो व्यापारः प्रेषणादिलक्षणो हेतुमान्, तस्मिन्नभिधेये धातोर्णिच् प्रत्ययो भवति। कटं कारयति। ओदनं पाचयति॥ तत्करोतीत्युपसंख्यानं सूत्रयतीत्याद्यर्थम्॥ सूत्रं करोति, सूत्रयति॥ आख्यानात् कृतस्तदाचष्ट इति णिच् कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकम्॥ आख्यानात् कृदन्ताण् णिज् वक्तव्यस्तदाचष्ट इत्येतस्मिन्नर्थे, कृल्लुक् , प्रकृतिप्रत्यापत्तिः, प्रकृतिवच्च कारकं भवति। कंसवधमाचष्टे, कंसं घातयति। बलिबन्धमाचष्टे, बलिं बन्धयति। राजागमनमाचष्टे, राजानमागमयति॥ आङ्लोपश्च कालात्यन्तसंयोगे मर्यादायाम्॥ आरात्रिविवासमाचष्टे, रात्रिं विवासयति॥ चित्रीकरणे प्रापि॥ उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं संभावयते, सूर्यमुद्गमयति॥ नक्षत्रयोगे ज्ञि॥ पुष्ययोगं जानाति, पुष्येण योजयति। मघाभिर्योजयति॥

कण्ड्वादिभ्यो यक्॥ ३.१.२७॥

कण्डूञ् इत्येवमादिभ्यो, यक् प्रत्ययो भवति। द्विविधाः कण्ड्वादयः, धातवः प्रातिपदिकानि च। तत्र धात्वधिकाराद् धातुभ्य एव प्रत्ययो विधीयते, न तु प्रातिपदिकेभ्यः। तथा च गुणप्रतिषेधार्थः ककारोऽनुबध्यते।

धातुप्रकरणाद् धातुः कस्य चासञ्जनादपि।

आह चायमिमं दीर्घं मन्ये धातुर्विभाषितः॥

कण्डूञ्- कण्डूयति, कण्डूयते। ञित्त्वात् कर्त्रभिप्राये क्रियाफले (१.३.७२) इत्यात्मनेपदम्॥ कण्डूञ्। मन्तु। हृणीङ् । वल्गु। अस्मनस्। महीङ् । लेट्। लोट्। इरस्। इरज्। इरञ्। द्रवस्। मेधा। कुषुभ। मगध। तन्तस्। पम्पस्। सुख। दुःख। सपर। अरर। भिषज्। भिष्णज्। इषुध। चरण। चुरण। तुरण। भुरण। गद्गद। एला। केला। खेला। लिट्। लोट्॥

गुपूधूपविच्छिपणिपनिभ्य आयः ॥ ३.१.२८॥

‘गुपू रक्षणे’, ‘धूप सन्तापे’ , ‘विच्छ गतौ’ , ‘पण व्यवहारे स्तुतौ च’, ‘पन च’ इत्येतेभ्यो धातुभ्य आयप्रत्ययो भवति। गोपायति। धूपायति। विच्छायति। पणायति। पनायति। स्तुत्यर्थेन पनिना साहचर्यात् तदर्थः पणिः प्रत्ययमुत्पादयति, न व्यवहारार्थः। शतस्य पणते। सहस्रस्य पणते। अनुबन्धश्च केवले चरितार्थः, तेनायप्रत्ययान्ताद् नात्मनेपदं भवति॥

ऋतेरीयङ् ॥ ३.१.२९॥

ऋतिः सौत्रो धातुर्घृणायां वर्तते, तत ईयङ् प्रत्ययो भवति। ङकार आत्मनेपदार्थः। ऋतीयते, ऋतीयेते, ऋतीयन्ते। ऋतेश्छङिति सिद्ध ईयङ्वचनं ज्ञापनार्थम्-धातुविहितानां प्रत्ययानाम् आयन्नादयो न भवन्तीति॥

कमेर्णिङ् ॥ ३.१.३०॥

कमेर्धातोर्णिङ् प्रत्ययो भवति। णकारो वृद्ध्यर्थः। ङ कार आत्मनेपदार्थः। कामयते, कामयेते, कामयन्ते॥

आयादय आर्धधातुके वा॥ ३.१.३१॥

आर्धधातुकविषय आर्धधातुकविवक्षायामायादयः प्रत्यया वा भवन्ति। गोप्ता, गोपायिता। अर्तिता, ऋतीयिता। कमिता, कामयिता, नित्यं प्रत्ययप्रसङ्गे तदुत्पत्तिरार्ध-धातुकविषये विकल्प्यते, तत्र यथायथं प्रत्यया भवन्ति। गुप्तिः, गोपाया॥

सनाद्यन्ता धातवः॥ ३.१.३२॥

सन् आदिर्येषां ते सनादयः। सनादयोऽन्ते येषां ते सनाद्यन्ताः। सनाद्यन्ताः समुदाया धातुसंज्ञका भवन्ति। प्रत्ययग्रहणपरिभाषा एव पदसंज्ञायामन्तवचनेन लिङ्गेन प्रतिषिद्धा सती पुनरिहान्तवचनेन प्रतिप्रसूयते। चिकीर्षति। पुत्रीयति। पुत्रकाम्यति॥

स्यतासी लृलुटोः ॥ ३.१.३३॥

लृरूपमुत्सृष्टानुबन्धं सामान्यमेकमेव, तस्मिन् लुटि च परतो धातोर्यथासंख्यं स्यतासी प्रत्ययौ भवतः। करिष्यति। अकरिष्यत्। श्वः कर्ता। इदित्करणमनुनासिकलोपप्रतिबन्धार्थम्। मन्ता। संगन्ता॥

सिब् बहुलं लेटि ॥ ३.१.३४॥

धातोः सिप् प्रत्ययो भवति बहुलं लेटि परतः। जोषि॑ष॒त् (ऋ०२.३५.१)। तारिषत् (ऋ०२.२५.१२)। मन्दिषत् । न च भवति-पता॑ति दि॒द्युत् (ऋ० ७.२५.१)। उद॒धिं च्या॑वया॒ति। (तै०सं० ३.५.५.२)॥

कास्प्रत्ययादाममन्त्रे लिटि ॥ ३.१.३५॥

‘कासृ शब्दकुत्सायाम्’ ततः प्रत्ययान्तेभ्यश्च धातुभ्य आम् प्रत्ययो भवति लिटि परतोऽमन्त्रविषये। कासाञ्चक्रे। प्रत्ययान्तेभ्यः- लोलूयाञ्चके। अमन्त्र इति किम्? कृ॒ष्णो नो॑नाव (ऋ० १.७९.२)॥ कास्यनेकाच इति वक्तव्यं चुलुम्पाद्यर्थम्॥

आमोऽमित्त्वमदन्तत्वादगुणत्वं विदेस्तथा।

आस्कासोरांविधानाच् च पररूपं कतन्तवत्॥

इजादेश्च गुरुमतोऽनृच्छः ॥ ३.१.३६॥

इजादिर्यो धातुर्गुरुमान् ऋच्छतिवर्जितः, तस्माच्च लिटि परत आम् प्रत्ययो भवति। ‘ईह चेष्टायाम्’, ‘ऊह वितर्के’। ईहाञ्चक्रे। ऊहाञ्चके्र। इजादेरिति किम्? ततक्ष। ररक्ष। गुरुमत इति किम्? इयज। उवप। अनृच्छ इति किम्? आनर्च्छ, आनर्च्छतुः, आनर्च्छुः॥ ऊर्णोतेश्च प्रतिषेधो वक्तव्यः॥ प्रोर्णुनाव। अथवा-

वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः प्रयोजनम्।

आमश्च प्रतिषेधार्थम् एकाचश्चेडुपग्रहात्॥

दयायासश्च ॥ ३.१.३७॥

‘दय दानगतिरक्षणेषु’ , ‘अय गतौ’ , ‘आस उपवेशने’ एतेभ्यश्च लिटि परत आम् प्रत्ययो भवति। दयाञ्चक्रे। पलायाञ्चक्रे। आसाञ्चक्रे॥

उषविदजागृभ्योऽन्यतरस्याम् ॥ ३.१.३८॥

‘उष दाहे’, ‘विद ज्ञाने’,‘जागृ निद्राक्षये’ एतेभ्यो लिटि परतोऽन्यतरस्यामाम् प्रत्ययो भवति। ओषाञ्चकार, उवोष। विदाञ्चकार, विवेद। जागराञ्चकार, जजागार। विदेरदन्तत्वप्रतिज्ञानाद् आमि गुणो न भवति॥

भीह्रीभृहुवां श्लुवच्च ॥ ३.१.३९॥

‘ञिभी भये’, ‘ह्री लज्जायाम्’ , ‘डुभृञ् धारणपोषणयोः’ , ‘हु दानादनयोः’ एतेभ्यो लिटि परत आम् प्रत्ययो भवत्यन्यतरस्याम्, श्लाविव चास्मिन् कार्यं भवति। किं पुनस्तत्? द्वित्वमित्त्वं च। बिभयाञ्चकार, बिभाय। जिह्रयाञ्चकार, जिह्राय। बिभराञ्चकार, बभार। जुहवाञ्चकार, जुहाव॥

कृञ्चानुप्रयुज्यते लिटि ॥ ३.१.४०॥

आम्प्रत्ययस्य पश्चात् कृञनुप्रयुज्यते लिटि परतः। कृञिति प्रत्याहारेण कृभ्वस्तयो गृह्यन्ते, तत्सामर्थ्यादस्तेर्भूभावो न भवति। पाचयाञ्चकार। पाचयाम्बभूव। पाचयामास॥

विदाङ्कुर्वन्त्वित्यन्यतरस्याम् ॥ ३.१.४१॥

विदाङ्कुर्वन्त्वित्येतदन्यतरस्यां निपात्यते। किं पुनरिह निपात्यते? विदेर्लोटि आम्प्रत्ययः, गुणाभावः, लोटो लुक् , कृञश्च लोट्परस्यानुप्रयोगः। अत्र भवन्तो विदाङ्कुर्वन्तु, विदन्तु। इतिकरणः प्रदर्शनार्थः, न केवलं प्रथमपुरुषबहुवचनम्। किं तर्हि? सर्वाण्येव लोड्वचनान्यनुप्रयुज्यन्ते। विदाङ्करोतु। विदाङ्कुरुतात्। विदाङ्कुरुताम्। विदाङ्कुरु। विदाङ्कुरुतमित्यादि॥

अभ्युत्सादयांप्रजनयांचिकयांरमयामकः पावयांक्रियाद्विदा मक्रन्नितिच्छन्दसि ॥ ३.१.४२॥

अभ्युत्सादयामित्येवमादयश्छन्दसि विषयेऽन्यतरस्यां निपात्यन्ते। सदिजनिरमीणां ण्यन्तानां लुङ्याम् प्रत्ययो निपात्यते। चिनोतेरपि तत्रैवाम्प्रत्ययो द्विर्वचनं कुत्वं च। अकरिति चतुर्भिरपि प्रत्येकमनुप्रयोगः संबध्यते। पावयाङ्क्रियादिति पवतेः पुनातेर्वा ण्यन्तस्य लिङ्यां निपात्यते, क्रियादिति चास्यानुप्रयोगः। विदामक्रन्निति विदेर्लुङ्यां निपात्यते, गुणाभावश्च, अक्रन्निति चास्यानुप्रयोगः। अभ्युत्साद॒या॑म॒कः (मै०सं० १.६.५)। अभ्युदसीषददिति भाषायाम्। प्॒रजन॒या॑म॒कः (मै०सं० १.६.१०)। प्राजीजनदिति भाषायाम्। चिकयामकः। अचैषीदिति भाषायाम्। रमयामकः (काठ०सं० ७.७)। अरीरमदिति भाषायाम्। पा॒व॒या॑ङ्क्रिया॒त् (मै०सं० २.१.३)। पाव्यादिति भाषायाम्। वि॒दा॑म॒क्र॒न् (मै०सं०१.४.७)। अवेदिषुरिति भाषायाम्। इतिकरणः प्रयोगदर्शनार्थः॥

च्लि लुङि॥ ३.१.४३॥

धातोश्च्लिः प्रत्ययो भवति लुङि परतः। इकार उच्चारणार्थः, चकारः स्वरार्थः। अस्य सिजादीनादेशान् वक्ष्यति। तत्रैवोदाहरिष्यामः॥

च्लेः सिच् ॥ ३.१.४४॥

च्लेः सिजादेशो भवति। इकार उच्चारणार्थः, चकारः स्वरार्थः। अकार्षीत्। अहार्षीत्। आगमानुदात्तत्वं हि प्रत्ययस्वरमिव चित्स्वरमपि बाधेतेति स्थानिन्यादेशे च द्विश्चकारोऽनुबध्यते॥ स्पृशमृशकृषतृपदृपां सिज् वा वक्तव्यः॥ अस्प्राक्षीत्, अस्पार्क्षीत्, अस्पृक्षत्। अम्राक्षीत्, अमार्क्षीत्, अमृक्षत्। अक्राक्षीत्, अकार्क्षीत्, अकृक्षत्। अत्राप्सीत्, अतार्प्सीत्, अतृपत्। अद्राप्सीत्,अदार्प्सीत्। अदृपत्॥

शल इगुपधादनिटः क्सः ॥ ३.१.४५॥

शलन्तो यो धातुरिगुपधः, तस्मात् परस्य च्लेरनिटः क्स आदेशो भवति। दुह-अधुक्षत्। लिह-अलिक्षत्। शल इति किम्? अभैत्सीत्। अच्छैत्सीत्। इगुपधादिति किम्? अधाक्षीत्। अनिट इति किम्? अकोषीत्। अमोषीत्॥

श्लिष आलिङ्गने॥ ३.१.४६॥

श्लिषेर्धातोरालिङ्गनक्रियावचनात् परस्य च्लेःक्स आदेशो भवति। आलिङ्गनमुपगूहनं परिष्वङ्गः। अत्र नियमार्थमेतत्। आश्लिक्षत् कन्यां देवदत्तः। आलिङ्गन इति किम्? समाश्लिषज्जतु काष्ठम्॥

न दृशः॥ ३.१.४७॥

पूर्वेण क्सः प्राप्तः प्रतिषिध्यते। दृशेर्धातोः परस्य च्लेः क्सादेशो न भवति। अस्मिन् प्रतिषिद्धे ‘इरितो वा’ (३.१.५७) इत्यङ्सिचौ भवतः। अदर्शत्। अद्राक्षीत्॥

णिश्रिद्रुस्रुभ्यः कर्तरि चङ् ॥ ३.१.४८॥

सिजपवादश्चङ् विधीयते। ण्यन्तेभ्यो धातुभ्यः श्रि द्रु स्रु इत्येतेभ्यश्च परस्य च्लेश्चङादेशो भवति कर्तृवाचिनि लुङि परतः। ङकारो गुणवृद्धिप्रतिषेधार्थः, चकारः‘चङि’ (६.१.११) इति विशेषणार्थः। अचीकरत्। अजीहरत्। अशिश्रियत्। अदुद्रुवत्। असुस्रुवत्। कर्तरीति किम्? अकारयिषातां कटौ देवदत्तेन॥ कमेरुपसंख्यानम्॥ ‘आयादय आर्धधातुके वा’ (३.१.३१) इति यदा णिङ् नास्ति तदैतदुपसंख्यानम्। अचकमत। णिङ्पक्षे सन्वद्भावः। अचीकमत।

नाकमिष्टं सुखं यान्ति सुयुक्तै र्वडवारथैः।

अथ पत्काषिणो यान्ति येऽचीकमतभाषिणः॥

विभाषा धेट्श्व्योः ॥ ३.१.४९॥

‘धेट् पाने’, ‘टुओश्वि गतिवृद्ध्योः’ एताभ्यामुत्तरस्य च्लेर्विभाषा चङादेशो भवति। धेटस्तावत्-अदधत्। सिच्पक्षे ‘विभाषा घ्राधेट्०’ (२.४.७८) इति लुक्। अधात्। अधासीत्। श्वयतेः खल्वपि-अशिश्वियत्। अङोऽप्यत्र विकल्प इष्यते। अश्वत्। अश्वयीत्। कर्तरीत्येव-अधिषातां गावौ वत्सेन॥

गुपेश्छन्दसि ॥ ३.१.५०॥

गुपेः परस्य च्लेश्छन्दसि विषये विभाषा चङादेशो भवति। यत्र आयप्रत्ययो नास्ति, तत्रायं विधिः। इमान् मे मित्रावरुणौ गृहानजूगुपतं युवम् (आश्व०श्रौ० २.५.१२)। अगौप्तम्। अगोपिष्टम्। अगोपायिष्टमिति वा। भाषायां तु चङन्तं वर्जयित्वा शिष्टं रूपत्रयं भवति॥

नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः॥ ३.१.५१॥

‘ऊन परिहाणे’, ‘ध्वन शब्दे’, ‘इल प्रेरणे’ , ‘अर्द गतौ याचने च’ एतेभ्यो धातुभ्यो ण्यन्तेभ्यः पूर्वेण च्लेश्चङि प्राप्ते छन्दसि विषये न भवति। काम॑मूनयीः (ऋ० १.५.३.३)। औनिन इति भाषायाम्। मा त्वा॒ग्निर्ध्व॑नयीत् (ऋ० १.१६२.१५)। अदिध्वनदिति भाषायाम्। काम॑मैलयीत्। ऐलिलदिति भाषायाम्। मैनमर्दयीत्। आर्दिददिति भाषायाम्॥

अस्यतिवक्ति ख्यातिभ्योऽङ्॥ ३.१.५२॥

‘असु क्षेपणे’ , ‘वच परिभाषणे’, ब्रूञादेशो वा। ‘ख्या प्रकथने’ चक्षिङादेशो वा, एभ्यः परस्य च्लेरङादेशो भवति कर्तृवाचिनि लुङि परतः। अस्यतेः पुषादिपाठादेवाङि सिद्धे पुनर्ग्रहणमात्मनेपदार्थम्। पर्यास्थत, पर्यास्थेताम्, पर्यास्थन्त। वक्ति -अवोचत्, अवोचताम्, अवोचन्। ख्याति-आख्यत्, आख्यताम्, आख्यन्। कर्तरीति किम्? पर्यासिषातां गावौ वत्सेन॥

लिपिसिचिह्वश्च॥ ३.१.५३॥

‘लिप उपदेहे’ , ‘षिच क्षरणे’, ‘ह्वेञ् स्पर्धायाम्’ एतेभ्यश्च परस्य च्लेरङादेशो भवति। अलिपत्। असिचत्। आह्वत्। पृथग्योग उत्तरार्थः॥

आत्मनेपदेष्वन्यतरस्याम्॥ ३.१.५४॥

पूर्वेण प्राप्ते विभाषारभ्यते। लिपिसिचिह्व आत्मनेपदेषु परतश्च्लेरङादेशो भवत्यन्यतरस्याम्। ‘स्वरितञितः०’ (१.३.७२) इत्यात्मनेपदम्। अलिपत, अलिप्त। असिचत, असिक्त । अह्वत, अह्वास्त॥

पुषादिद्युताद्य्ऌदितः परस्मैपदेषु॥ ३.१.५५॥

पुषादिभ्यो द्युतादिभ्य, ऌदिद्भ्यश्च धातुभ्यः परस्य च्लेः परस्मैपदेषु परतोऽङादेशो भवति। पुषादिर्दिवाद्यन्तर्गणो गृह्यते, न भ्वादिक्र् ्याद्यन्तर्गणः। पुष-अपुषत्। द्युतादि-अद्युतत्। अश्वितत्। ऌदिद्भ्यः-गम्ऌ-अगमत्। शक्ऌ-अशकत्। परस्मैपदेष्विति किम्? व्यद्योतिष्ट। अलोटिष्ट।

सर्तिशास्त्यर्तिभ्यश्च॥ ३.१.५६॥

‘सृ गतौ’, ‘शासु अनुशिष्टौ’, ‘ऋ गतौ’ इत्येतेभ्यः परस्य च्लेरङादेशो भवति। सर्ति -असरत्। शास्ति-अशिषत्। अर्ति-आरत्। पृथग्योगकरणमात्मनेपदार्थम्। सम॑रन्त॒ (ऋ० ४.१९.९)। चकारः परस्मैपदेष्वित्यनुकर्षणार्थः। तच्चोत्तरत्रोपयोगं यास्यति॥

**इरितो वा॥ ३.१.५७॥ **इरितो धातोः परस्य च्लेरङादेशो वा भवति। भिदिर्-अभिदत्, अभैत्सीत्। छिदिर्-अच्छिदत्, अच्छैत्सीत्। परस्मैपदेष्वित्येव-अभित्त। अच्छित्त॥

जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च॥ ३.१.५८॥

वेति वर्तते। ‘जृष् वयोहानौ’, स्तम्भुः सौत्रो धातुः, ‘म्रुचु म्लुचु गत्यर्थौ’, ‘ग्रुचु ग्लुचु स्तेयकरणे’,‘ग्लुञ्चु षस्ज गतौ’, ‘टुओश्वि गतिवृद्ध्योः’ एतेभ्यो धातुभ्यः परस्य च्लेर्वाङादेशो भवति। अजरत्, अजारीत्। अस्तभत् अस्तम्भीत्। अम्रुचत्, अम्रोचीत्। अम्लुचत् अम्लोचीत्। अग्रुचत् अग्रोचीत्। अग्लुचत् , अग्लोचीत्। अग्लुचत्, अग्लुञ्चीत्। अश्वत्, अश्वयीत्, अशिश्वियत्। ग्लुचुग्लुञ्च्वोरन्यतरोपादानेऽपि रूपत्रयं सिद्ध्यत्यर्थभेदात् तु द्वयोरुपादानं कृतम्। केचित् तु वर्णयन्ति-द्वयोरुपादानसामर्थ्याद् ग्लुञ्चेरनुनासिकलोपो न भवति, अग्लुञ्चदिति॥

कृमृदृरुहिभ्यश्छन्दसि॥ ३.१.५९॥

कृ मृ दृ रुहि इत्येतेभ्यः परस्य च्लेश्छन्दसि विषयेऽङादेशो भवति। शकलाङ्गुष्ठकोऽकरत्। अथोऽमरत्। अदरदर्थान्। सानु॒मारु॑ह॒त् (ऋ० १.१०.२)। अन्तरि॑क्षा॒द् दिव॒मारु॑हम् (शौ०सं० ४.१४.३)। छन्दसीति किम्? अकार्षीत्। अमृत। अदारीत्। अरुक्षत्॥

चिण् ते पदः॥ ३.१.६०॥

‘पद गतौ’ अस्माद् धातोः परस्य च्लेश्चिणादेशो भवति तशब्दे परतः। सामर्थ्यादा-त्मनेपदैकवचनं गृह्यते। उदपादि सस्यम्। समपादि भैक्षम्। त इति किम्? उदपत्साताम्। उदपत्सत॥

दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्॥ ३.१.६१॥

चिण् त इति वर्तते। ‘दीपी दीप्तौ’, ‘जनी प्रादुर्भावे’,‘बुध अवगमने’, ‘पूरी आप्यायने’ ,‘तायृ संतानपालनयोः’ ‘ओप्यायी वृद्धौ’ एतेभ्यः परस्य च्लेस्तशब्दे परतोऽन्यतरस्यां चिणादेशो भवति। अदीपि, अदीपिष्ट। अजनि, अजनिष्ट। अबोधि, अबुद्ध। अपूरि, अपूरिष्ट। अतायि, अतायिष्ट। अप्यायि, अप्यायिष्ट॥

अचः कर्मकर्तरि॥ ३.१.६२॥

अजन्ताद् धातोः परस्य च्लेः कर्मकर्तरि तशब्दे परतश्चिणादेशो भवति। प्राप्तविभाषेयम्। अकारि कटः स्वयमेव, अकृत कटः स्वयमेव। अलावि केदारः स्वयमेव, अलविष्ट केदारः स्वयमेव। अच इति किम् ? अभेदि काष्ठं स्वयमेव। कर्मकर्तरीति किम्? अकारि कटो देवदत्तेन॥

दुहश्च॥ ३.१.६३॥

‘दुह प्रपूरणे’ अस्मात् परस्य च्लेश्चिणादेशो भवत्यन्यतरस्याम्। अदोहि गौः स्वयमेव, अदुग्ध गौः स्वयमेव। कर्मकर्तरीत्येव-अदोहि गौर्गोपालकेन॥

न रुधः॥ ३.१.६४॥

‘रुधिर् आवरणे’ अस्मात् परस्य च्लेः कर्मकर्तरि चिणादेशो न भवति। अन्ववारुद्ध गौः स्वयमेव। कर्मकर्तरीत्येव-अन्ववारोधि गौर्गोपालकेन ॥

तपोऽनुतापे च॥ ३.१.६५॥

नेति वर्तते। ‘तप सन्तापे’ अस्मात् परस्य च्लेश्चिणादेशो न भवति कर्मकर्तरि अनुतापे च। अनुतापः पश्चात्तापः। तस्य ग्रहणमकर्मकर्त्रर्थम्, तत्र हि भावकर्मणोरपि प्रतिषेधो भवति। अतप्त तपस्तापसः। अन्ववातप्त पापेन कर्मणा॥

चिण् भावकर्मणोः॥ ३.१.६६॥

धातोः परस्य च्लेश्चिणादेशो भवति भावे कर्मणि तशब्दे परतः। भावे तावत्-अशायि भवता। कर्मणि खल्वपि-अकारि कटो देवदत्तेन। अहारि भारो यज्ञदत्तेन। चिण्ग्रहणं विस्पष्टार्थम्॥

सार्वधातुके यक्॥ ३.१.६७॥

भावकर्मवाचिनि सार्वधातुके परतो धातोर्यक् प्रत्ययो भवति। आस्यते भवता। शय्यते भवता। कर्मणि-क्रियते कटः। गम्यते ग्रामः। ककारो गुणवृद्धिप्रतिषेधार्थः। यग्निवधाने कर्मकर्तर्युपसंख्यानम्, विप्रतिषेधाद्धि यकः शपो बलीयस्त्वम्। क्रियते कटः स्वयमेव। पच्यत ओदनः स्वयमेव॥

कर्तरि शप्॥ ३.१.६८॥

कर्तृवाचिनि सार्वधातुके परतो धातोः शप् प्रत्ययो भवति। पकारः स्वरार्थः, शकारः सार्वधातुकसंज्ञार्थः। भवति। पचति॥

दिवादिभ्यः श्यन्॥ ३.१.६९॥

दिव् इत्येवमादिभ्यो धातुभ्यः श्यन् प्रत्ययो भवति। शपोऽपवादः। नकारः स्वरार्थः, शकारः सार्वधातुकार्थः। दीव्यति। सीव्यति॥

वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः॥ ३.१.७०॥

उभयत्र विभाषेयम्। ‘टुभ्राशृ टुभ्लाशृ दीप्तौ’, ‘भ्रमु अनवस्थाने’, ‘भ्रमु चलने’ , द्वयोरपि ग्रहणम्, ‘क्रमु पादविक्षेपे’, ‘क्लमु ग्लानौ’, ‘त्रसी उद्वेगे’, ‘त्रुटी छेदने’, ‘लष कान्तौ’ एतेभ्यो वा श्यन् प्रत्ययो भवति। भ्राश्यते, भ्राशते। भ्लाश्यते, भ्लाशते। भ्राम्यति, भ्रमति। क्राम्यति, क्रामति। क्लाम्यति, क्लामति। त्रस्यति, त्रसति। त्रुट्यति, त्रुटति। लष्यति, लषति॥

यसोऽनुपसर्गात्॥ ३.१.७१॥

‘यसु प्रयत्ने’ दैवादिकः। तस्मान्नित्यं श्यनि प्राप्तेऽनुपसर्गाद् विकल्प उच्यते। यसोऽनुपसर्गाद् वा श्यन् प्रत्ययो भवति। यस्यति, यसति। अनुपसर्गादिति किम् ? आयस्यति। प्रयस्यति॥

संयसश्च ॥ ३.१.७२॥

सोपसर्गार्थ आरम्भः। संपूर्वाच्च यसेर्वा श्यन् प्रत्ययो भवति। संयस्यति। संयसति॥

स्वादिभ्यः श्नुः॥ ३.१.७३॥

‘षुञ् अभिषवे’ इत्येवमादिभ्यो धातुभ्यः श्नुप्रत्ययो भवति। शपोऽपवादः। सुनोति। सुनोति॥

श्रुवः शृ चः॥ ३.१.७४॥

श्रुवः श्नुप्रत्ययो भवति, तत्संनियोगेन श्रुवः शृ इत्ययमादेशो भवति। शृणोति, शृणुतः, शृण्वन्ति॥

अक्षोऽन्यतरस्याम्॥ ३.१.७५॥

‘अक्षू व्याप्तौ’ भौवादिकः, अस्मादन्यतरस्यां श्नुप्रत्ययो भवति। अक्ष्णोति। अक्षति॥

तनूकरणे तक्षः॥ ३.१.७६॥

‘तक्षू त्वक्षू तनूकरणे’ अस्मात् तनूकरणेऽर्थे वर्तमानादन्यतरस्यां श्नुप्रत्ययो भवति। अनेकार्थत्वाद् धातूनां विशेषणोपादानम्। तक्षति काष्ठम्, तक्ष्णोति काष्ठम्। तनूकरण इति किम्? संतक्षति वाग्भिः॥

तुदादिभ्यः शः॥ ३.१.७७॥

‘तुद व्यथने’ इत्येवमादिभ्यो धातुभ्यः शप्रत्ययो भवति। शपोऽपवादः। शकारः सार्वधातुकसंज्ञार्थः। तुदति। नुदति॥

रुधादिभ्यः श्नम् ॥ ३.१.७८॥

‘रुधिर् आवरणे’ इत्येवमादिभ्यो धातुभ्यः श्नम् प्रत्ययो भवति। शपोऽपवादः। मकारो देशविध्यर्थः। शकारः ‘श्नान्नलोपः’ (६.४.२३) इति विशेषणार्थः। रुणद्धि। भिनत्ति॥

तनादिकृञ्भ्य उः ॥ ३.१.७९॥

‘तनु विस्तारे’ इत्येवमादिभ्यो धातुभ्यः कृञश्च उप्रत्ययो भवति। शपोऽपवादः। तनोति। सनोति। क्षणोति। कृञः खल्वपि-करोति। तनादिपाठादेव उप्रत्यये सिद्धे करोतेरुपादानं नियमार्थम्, अन्यत् तनादिकार्यं मा भूदिति। ‘तनादिभ्यस्तथासोः’ (२.४.७९) इति विभाषा सिचो लुङ् न भवति। अकृत । अकृथाः॥

धिन्विकृण्व्योर च ॥ ३.१.८०॥

‘हिवि धिवि जिवि प्रीणनार्थाः’, ‘कृवि हिंसाकरणयोश्च’ इत्येतयोर्धात्वोरुप्रत्ययो भवति, अकारश्चान्तादेशः। धिनोति। कृणोति। अतो लोपस्य स्थानिवद्भावाद् गुणो न भवति॥

क्र्यादिभ्यः श्ना ॥ ३.१.८१॥

‘डुक्रीञ् द्रव्यविनिमये’ इत्येवमादिभ्यो धातुभ्यः श्नाप्रत्ययो भवति। शपोऽपवादः। शकारः सार्वधातुकसंज्ञार्थः। क्रीणाति। प्रीणाति॥

स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च ॥ ३.१.८२॥

आद्याश्चत्वारो धातवः सौत्राः, ‘स्कुञ् आप्रवणे’ एतेभ्यः श्नाप्रत्ययो भवति श्नुश्च। स्तभ्नाति, स्तभ्नोति। स्तुभ्नाति, स्तुभ्नोति। स्कभ्नाति, स्कभ्नोति। स्कुभ्नाति, स्कुभ्नोति। स्कुनाति, स्कुनोति। उदित्त्वप्रतिज्ञानात् सौत्राणामपि धातूनां सर्वार्थत्वं विज्ञायते, नैतद्विकरणविषयत्वमेव॥

हलः श्नः शानज्झौ॥ ३.१.८३॥

हल उत्तरस्य श्नाप्रत्ययस्य शानजादेशो भवति हौ परतः। मुषाण। पुषाण। हल इति किम्? क्रीणीहि। हाविति किम्? मुष्णाति। श्न इति स्थानिनिर्देश आदेशसंप्रत्ययार्थः। इतरथा हि प्रत्ययान्तरमेव सर्वविषयं विज्ञायेत॥

छन्दसि शायजपि ॥ ३.१.८४॥

छन्दसि विषये श्नः शायजादेशो भवति, शानजपि। गृ॒भा॒य जि॒ह्वया॒ मधु॑ (ऋ० ८.१७.५)। शानचः खल्वपि-ब॒धा॒न दे॑व (मा०सं० १.२५)॥

व्यत्ययो बहुलम् ॥ ३.१.८५॥

यथायथं विकरणाः शबादयो विहिताः, तेषां छन्दसि विषये बहुलं व्यत्ययो भवति। व्यतिगमनं व्यत्ययो व्यतिहारः। विषयान्तरे विधानम्, क्वचिद् द्विविकरणता, क्वचित् त्रिविकरणता च। आ॒ण्डा शुष्ण॑स्य॒ भेद॒ति (ऋ० ८.४०.११)। भिनत्तीति प्राप्ते। ताश्चि॒न्नु न म॑रन्ति॒ (ऋ० १.१९१.१२)। न म्रियन्त इति प्राप्ते। द्विविकरणता-इन्द्रो वस्तेन नेषतु। नयत्विति प्राप्ते। त्रिविकरणता-इन्द्रे॑ण यु॒जा त॑रुषेम वृ॒त्रम् (ऋ० ७.४८.२)। तीर्यास्म इति प्राप्ते। बहुलग्रहणं सर्वविधिव्यभिचारार्थम्।

सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च।

व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेन॥

लिङ्याशिष्यङ् ॥ ३.१.८६॥

आशिषि विषये यो लिङ्, तस्मिन् परतश्छन्दसि विषयेऽङ् प्रत्ययो भवति। शपोऽपवादः। ‘छन्दस्युभयथा’ (३.४.११७) इति लिङः सार्वधातुकसंज्ञाप्यस्ति। स्थागागमिवचिविदिशकिरुहयः प्रयोजनम्। स्था-उपस्थेयं वृषभं तुग्रियाणाम्। गा-स॒त्यमुप॑गेषम् (तै०सं० १.२.१०.२) गमि-गृ॒हं ग॑मेम (ऋ० १०.४०.११)। वचि-मन्त्रं॑ वोचेमा॒ग्नये॑ (ऋ० १.७४.१)। विदि-विदे॑यमेनां॒ मन॑सि॒ प्रवि॑ष्टाम् (शौ०सं० १९.४.२)। शकि-व्रतं चरिष्यामि तच्छकेयम् (आश्व०श्रौ० ८.१४.६)। रुहि-स्वर्गं लोकमारुहेयम्॥ दृशेरग् वक्तव्यः॥ पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च (ऋ० १.२४.१)॥

कर्मवत् कर्मणा तुल्यक्रियः ॥ ३.१.८७॥

कर्मणि क्रिया कर्म, कर्मस्थया क्रियया तुल्यक्रियःकर्ता कर्मवद् भवति। यस्मिन् कर्मणि कर्तृभूतेऽपि तद्वत् क्रिया लक्ष्यते यथा कर्मणि, स कर्ता कर्मवद् भवति। कर्माश्रयाणि कार्याणि प्रतिपद्यते। ‘कर्तरि शप्’ (३.१.६८) इति कर्तृग्रहणमिहानुवृत्तं प्रथमया विपरिणम्यते। यगात्मनेपदचिण्चिण्वद्भावाः प्रयोजनम्। भिद्यते काष्ठं स्वयमेव। अभेदि काष्ठं स्वयमेव। कारिष्यते कटः स्वयमेव। वत्करणं स्वाश्रयमपि यथा स्यात्। भिद्यते कुसूलेनेति। अकर्मकाणां भावे लः सिद्धो भवति। ‘लिङ्याशिष्यङ्’ (३.१.८६) इति द्विलकारको निर्देशः। तत्र लानुवृत्तेर्लान्तस्य कर्ता कर्मवद् भवतीति कुसूलाद् द्वितीया न भवति। कर्मणेति किम्? करणाधिकरणाभ्यां तुल्यक्रियस्य मा भूत्- साध्वसिश्छिनत्ति। साधु स्थाली पचति। धात्वधिकारात् समाने धातौ कर्मवद्भावः। इह न भवति-पचत्योदनं देवदत्तः, राध्यत्योदनः स्वयमेवेति। कर्मस्थभावकानां कर्मस्थक्रियाणां च कर्ता कर्मवद् भवति, न कर्तृस्थभावकानां न वा कर्तृस्थक्रियाणाम्।

कर्मस्थः पचतेर्भावः कर्मस्था च भिदेः क्रिया ।

मासासिभावः कर्तृस्थः कर्तृस्था च गमेः क्रिया॥

तपस्तपः कर्मकस्यैव॥ ३.१.८८॥

‘तप संतापे’ अस्य कर्ता कर्मवद् भवति, स च तपः कर्मकस्यैव नान्यकर्मकस्य। क्रियाभेदाद् विध्यर्थमेतत्। उपवासादीनि तपांसि तापसं तपन्ति। दुःखयन्तीत्यर्थः। स तापसस्त्वगस्थिभूतः स्वर्गाय तपस्तप्यते। अर्जयतीत्यर्थः। पूर्वेणाप्राप्तः कर्मवद्भावो विधीयते। तप्यते तपस्तापसः। अतप्त तपस्तापसः। तपः कर्मकस्यैवेति किम्? उत्तपति सुवर्णं सुवर्णकारः॥

न दुहस्नुनमां यक्चिणौ ॥ ३.१.८९॥

दुह स्नु नम् इत्येतेषां कर्मकर्तरि यक्चिणौ कर्मवद्भावापदिष्टौ न भवतः। दुहेरनेन यक् प्रतिषिध्यते। चिण् तु ‘दुहश्च’ (३.१.६३) इति पूर्वमेव विभाषितः। दुग्धे गौः स्वयमेव। अदुग्ध गौः स्वयमेव। अदोहि गौः स्वयमेव। प्रस्नुते गौः स्वयमेव। प्रास्नोष्ट गौः स्वयमेव। नमते दण्डः स्वयमेव। अनंस्त दण्डः स्वयमेव॥ यक्चिणोः प्रतिषेधे णिश्रन्थिग्रन्थिब्रूञात्मनेपदाकर्मकाणामुपसंख्यानम्॥ कारयति कटं देवदत्तः। कारयते कटः स्वयमेव। अचीकरत् कटं देवदत्तः। अचीकरत कटः स्वयमेव। उत्पुच्छयते गां गोपः। उत्पुच्छयते गौः स्वयमेव। उदपुपुच्छत गौः स्वयमेव। श्रथ्नाति ग्रन्थं देवदत्तः। श्रथ्नीते ग्रन्थः स्वयमेव। अश्रन्थिष्ट ग्रन्थः स्वयमेव। ग्रथ्नाति श्लोकं देवदत्तः। ग्रथ्नीते श्लोकःस्वयमेव। अग्रन्थिष्ट श्लोकः स्वयमेव। ब्रवीति श्लोकं देवदत्तः। ब्रूते श्लोकः स्वयमेव। अवोचच् छ्लोकं देवदत्तः। अवोचत श्लोकः स्वयमेव। आत्मनेपदाकर्मकाणाम्-आहते माणवकः स्वयमेव। आवधिष्ट माणवकः स्वयमेव, आहतेति वा। विकुर्वते सैन्धवाः स्वयमेव। व्यकृषत सैन्धवाः स्वयमेव॥

कुषिरजोः प्राचां श्यन् परस्मैपदं च ॥ ३.१.९०॥

‘कुष निष्कर्षे’, ‘रञ्ज रागे’ अनयोर्धात्वोः कर्मकर्तरि प्राचामाचार्याणां मतेन श्यन् प्रत्ययो भवति, परस्मैपदं च। यगात्मनेपदयोरपवादौ। कुष्यति पादः स्वयमेव। रज्यति वस्त्रं स्वयमेव। प्राचांग्रहणं विकल्पार्थम्। कुष्यते। रज्यते। व्यवस्थितविभाषा चेयम्। तेन लिट्लिङो स्यादिविषये च न भवतः। चुकुषे पादः स्वयमेव। ररञ्जे वस्त्रं स्वयमेव। कोषिषीष्ट पादः स्वयमेव। रङ्क्षीष्ट वस्त्रं स्वयमेव। कोषिष्यते पादः स्वयमेव। रङ्क्ष्यते वस्त्रं स्वयमेव। अकोषि पादः स्वयमेव। अरञ्जि वस्त्रं स्वयमेव॥

धातोः ॥ ३.१.९१॥

धातोरित्ययमधिकारो वेदितव्यः। आ तृतीयाध्यायपरिसमाप्तेर्यदित ऊर्ध्वमनुक्रमिष्यामो धातोरित्येवं तद् वेदितव्यम्। वक्ष्यति-‘तव्यत्तव्यानीयरः’ (३.१.९६) इति। कर्तव्यम्। करणीयम्। धातुग्रहणमनर्थकम्, यङ्विधौ धात्वधिकारात्। कृदुपपदसंज्ञार्थं तर्हि। अस्मिन् धात्वधिकारे ते यथा स्याताम्, पूर्वत्र मा भूतामिति। आर्धधातुकसंज्ञार्थं च द्वितीयं धातुग्रहणं कर्तव्यम्। धातोरित्येवं विहितस्य यथा स्यात्। इह मा भूत्-लूभ्यां लूभिरिति॥

तत्रोपपदं सप्तमीस्थम् ॥ ३.१.९२॥

तत्रैतस्मिन् धात्वधिकारे तृतीये यत् सप्तम्या निर्दिष्टं तदुपपदसंज्ञं भवति। वक्ष्यति-‘कर्मण्यण्’(३.२.१)- कुम्भकारः। स्थग्रहणं सूत्रेषु सप्तमीनिर्देशप्रतिपत्त्यर्थम्। इतरथा हि सप्तमी श्रूयते यत्र, तत्रैव स्यात्। स्तम्बेरमः कर्णेजप इति। यत्र वा सप्तमीश्रुतिरस्ति ‘सप्तम्यां जनेर्डः’ (३.२.९७) इति। उपसरजः, मन्दुरज इति। स्थग्रहणात्तु सर्वत्र भवति। गुरुसंज्ञाकरणमन्वर्थसंज्ञाविज्ञाने सति समर्थपरिभाषाव्यापारार्थम्। पश्य कुम्भम्, करोति कटमिति प्रत्ययो न भवति। उपपदप्रदेशाः- ‘उपपदमतिङ्’ (२.२.१९) इत्येवमादयः॥

कृदतिङ् ॥ ३.१.९३॥

अस्मिन् धात्वधिकारे तिङ्वर्जितः प्रत्ययः कृत्संज्ञको भवति। कर्तव्यम्। करणीयम्। अतिङिति किम्? चीयात्। स्तूयात्। कृत्प्रदेशाः-‘कृत्तद्धितसमासाश्च’ (१.२.४६) इत्येवमादयः॥

वासरूपोऽस्त्रियाम् ॥ ३.१.९४॥

अस्मिन् धात्वधिकारेऽसमानरूपोऽपवादप्रत्ययो वा बाधको भवति स्त्र्यधिकारविहितप्रत्ययं वर्जयित्वा। ‘ण्वुल्तृचौ’ (३.१.१३३) इत्युत्सर्गौ, ‘इगुपधज्ञाप्रीकिरःकः’ (३.१.१३५) इत्यपवादः, तद्विषये ‘ण्वुल्तृचौ’ (३.१.१३३) अपि भवतः। विक्षेपकः। विक्षेप्ता। विक्षिपः। असरूप इति किम्? ‘कर्मण्यण्’ (३.२.१) इत्युत्सर्गः, ‘आतोऽनुपसर्गे कः’ (३.२.३) इत्यपवादः, स नित्यं बाधको भवति। गोदः। कम्बलदः। ‘नानुबन्धकृतमसारूप्यम्’। अस्त्रियामिति किम्? ‘स्त्रियां क्ति न्’ (३.३.९४) इत्युत्सर्गः, ‘अ प्रत्ययात्’ (३.३.१०२) इत्यपवादः, स बाधक एव भवति। चिकीर्षा। जिहीर्षा॥

कृत्याः ॥ ३.१.९५॥

‘ण्वुल्तृचौ’ (३.१.१३३) इति वक्ष्यति। प्रागेतस्माण् ण्वुल्संशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः, कृत्यसंज्ञकास्ते वेदितव्याः। तत्रैवोदाहरिष्यामः। कृत्यप्रदेशाः- ‘कृत्यैरधिकार्थवचने’ (२.१.३३),‘कृत्यानां कर्तरि वा’ (२.३.७१) इत्येवमादयः॥

तव्यत्तव्यानीयरः ॥ ३.१.९६॥

धातोरिति वर्तते। धातोस्तव्यत् तव्य अनीयर् इत्येते प्रत्यया भवन्ति। तकाररेफौ स्वरार्थौ। क॒र्त॒व्य॑म्। क॒र्तव्य॑म्। क॒र॒णीय॑म्॥ वसेस्तव्यत् कर्तरि णिच्च॥ वास्तव्यः॥ केलिमर उपसंख्यानम्॥ पचेलिमा माषाः। भिदेलिमानि काष्ठानि। कर्मकर्तरि चायमिष्यते॥

अचो यत् ॥ ३.१.९७॥

अजन्ताद् धातोर्यत् प्रत्ययो भवति। तकारो ‘यतोऽनावः’ (६.१.२१३) इति स्वरार्थः। गेयम्। पेयम्। चेयम्। जेयम्। अज्ग्रहणं किं यावता हलन्ताण् ण्यतं वक्ष्यति? अजन्तभूतपूर्वादपि यथा स्यात्। दित्स्यम्। धित्स्यम्॥ तकिशसिचतियतिजनीनामुपसंख्यानम्॥ तकि-तक्यम्। शसि-शस्यम्। चति-चत्यम्। यति-यत्यम्। जनि-जन्यम्॥ हनो वा वध च॥ वध्यम्। घात्यम्॥

पोरदुपधात्॥ ३.१.९८॥

पवर्गान्ताद् धातोरकारोपधाद् यत् प्रत्ययो भवति। ण्यतोऽपवादः। शप्-शप्यम्। लभ्-लभ्यम्। पोरिति किम्? पाक्यम्। वाक्यम्। अदुपधादिति किम्? कोप्यम्। गोप्यम्। तपरकरणं तत्कालार्थम्। आप्यम्॥

शकिसहोश्च ॥ ३.१.९९॥

‘शक्ऌ शक्त ौ’,‘षह मर्षणे’ अनयोर्धात्वोर्यत् प्रत्ययो भवति। शक्यम्। सह्यम्॥

गदमदचरयमश्चानुपसर्गे ॥ ३.१.१००॥

‘गद व्यक्तायां वाचि’,‘मदी हर्षे’,‘चर गतिभक्षणयोः’,‘ यम उपरमे’ एतेभ्यश्चानुपसर्गेभ्यो यत् प्रत्ययो भवति। गद्यम्। मद्यम्। चर्यम्। यम्यम्। अनुपसर्ग इति किम्? प्रगाद्यम्। प्रमाद्यम्। यमेःपूर्वेणैव सिद्धेऽनुपसर्गनियमार्थं वचनम्॥ चरेराङि चागुरौ॥ आचर्यो देशः। अगुराविति किम्? आचार्य उपनेता॥

अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु ॥ ३.१.१०१॥

अवद्य पण्य वर्या इत्येते शब्दा निपात्यन्ते गर्ह्य पणितव्यानिरोध इत्येतेष्वर्थेषु यथासंख्यम्। अवद्यमिति निपात्यते गर्ह्यं चेत् तद् भवति। अवद्यं पापम्। अनुद्यमन्यत्। ‘वदः सुपि क्यप् च’ (३.१.१०६)। पण्यमिति निपात्यते पणितव्यं चेत् तद् भवति। पण्यः कम्बलः। पण्या गौः। पाण्यमन्यत्। वर्येति स्त्रियां निपात्यते अनिरोधश्चेद् भवति। अनिरोधोऽप्रतिबन्धः। शतेन वर्या। सहस्रेण वर्या। वृत्यान्या। स्त्रीलिङ्गनिर्देशः किमर्थः? वार्या ऋत्विजः॥

वह्यं करणम् ॥ ३.१.१०२॥

वहेर्धातोः करणे यत् प्रत्ययो निपात्यते। वहत्यनेनेति वह्यं शकटम्। करण इति किम्? वाह्यमन्यत्॥

अर्यः स्वामिवैश्ययोः ॥ ३.१.१०३॥

‘ऋ गतौ’ अस्माण् ण्यति प्राप्ते स्वामिवैश्ययोरभिधेययोर्यत् प्रत्ययो निपात्यते। अ॒र्यः स्वामी। अर्यो॑ वैश्यः। ‘यतोऽनावः’ (६.१.२१३) इत्याद्युदात्तत्वे प्राप्ते॥ स्वामिन्यन्तोदात्तत्वं च वक्त व्यम्॥ स्वामिवैश्ययोरिति किम्? आर्यो ब्राह्मणः॥

उपसर्या काल्या प्रजने॥ ३.१.१०४॥

उपसर्येति निपात्यते काल्या चेत् प्रजने भवति। उपपूर्वात् सर्तेर्यत् प्रत्ययः। प्राप्तकाला काल्या। प्रजनः प्रजननम्, प्रथमगर्भग्रहणम्। गर्भग्रहणे प्राप्तकाला। उपसर्या गौः। उपसर्या वडवा। काल्या प्रजन इति किम्? उपसार्या शरदि मधुरा॥

अजर्यं संगतम्॥ ३.१.१०५॥

अजर्यमिति निपात्यते, संगतं चेद् भवति। जीर्यतेर्नञ्पूर्वात् संगते संगमने कर्तरि यत् प्रत्ययो निपात्यते। न जीर्यतीत्यजर्यम्। अजर्यमार्यसंगतम्। अजर्यं नोऽस्तु संगतम्। संगतमिति किम्? अजरिता कम्बलः॥

वदः सुपि क्यप् च ॥ ३.१.१०६॥

अनुपसर्ग इति वर्तते, वदेर्धातोः सुबन्त उपपदेऽनुपसर्गे क्यप् प्रत्ययो भवति, चकाराद् यच्च। ब्रह्मोद्यम्, ब्रह्मवद्यम्। सत्योद्यम्, सत्यवद्यम्। सुपीति किम्? वाद्यम्। अनुपसर्ग इत्येव-प्रवाद्यम्॥

भुवो भावे॥ ३.१.१०७॥

सुप्यनुपसर्ग इत्यनुवर्तते। भवतेर्धातोः सुबन्त उपपदेऽनुपसर्गे भावे क्यप् प्रत्ययो भवति। यत् तु नानुवर्तते। ब्रह्मभूयं गतः। ब्रह्मत्वं गतः। देवभूयं गतः, देवत्वं गतः। भावग्रहणमुत्तरार्थम्। सुपीत्येव-भव्यम्। अनुपसर्ग इत्येव-प्रभव्यम्॥

हनस्त च ॥ ३.१.१०८॥

सुप्यनुपसर्ग इति वर्तते, भाव इति च। हन्तेर्धातोः सुबन्त उपपदेऽनुपसर्गे भावे क्यप् प्रत्ययो भवति, तकारश्चान्तादेशः। ब्रह्महत्या। अश्वहत्या। सुपीत्येव-घातः। ण्यत् तु भावे न भवत्यनभिधानात्। अनुपसर्ग इत्येव-प्राघातो वर्तते॥

एतिस्तुशास्वृदृजुषः क्यप् ॥ ३.१.१०९॥

सुप्यनुपसर्गे भाव इति निवृत्तम्। सामान्येन विधानमेतत्। एति स्तु शास् वृ दृ जुष् इत्येतेभ्यः क्यप् प्रत्ययो भवति। इत्यः। स्तुत्यः। शिष्यः। वृत्यः। आदृत्यः। जुष्यः। क्यबिति वर्तमाने पुनः क्यब्ग्रहणं बाधकबाधनार्थम्। ‘ओरावश्यके’ (३.१.१२५) इति ण्यतं बाधित्वा क्यबेव भवति। अवश्यस्तुत्यः। वृग्रहणे वृञो ग्रहणमिष्यते, न वृङः। वार्या ऋत्विजः॥ शंसिदुहिगुहिभ्यो वेति वक्तव्यम्॥ शस्यम्, शंस्यम्। दुह्यम्, दोह्यम्। गुह्यम्, गोह्यम्॥ आङ्पूर्वादञ्जेः संज्ञायामुपसंख्यानम्॥ आज्यं घृतम्। कथमुपेयम्? एरेतद्रूपम्, नेणः॥

ऋदुपधाच्चाक्ऌपिचृतेः ॥ ३.१.११०॥

ऋकारोपधाच्च धातोः क्यप् प्रत्ययो भवति क्ऌपिचृती वर्जयित्वा। वृतु-वृत्यम्। वृधु-वृध्यम्। अक्ऌपिचृतेरिति किम्? कल्प्यम्। चर्त्यम्। तपरकरणं किम्? ‘कृत संशब्दने’ । ण्यदेव भवति। कीर्त्यम्॥ पाणौ सृजेर्ण्यद् वक्तव्यः॥ पाणिसर्ग्या रज्जुः॥ समवपूर्वाच्च॥ समवसर्ग्या॥

ई च खनः ॥ ३.१.१११॥

खनेर्धातोः क्यप् प्रत्ययो भवति, ईकारश्चान्तादेशः। खेयम्। दीर्घनिर्देशः प्रश्लेषार्थः। तत्र द्वितीय इकारो ‘ये विभाषा’ (६.४.४३) इत्यात्वबाधनार्थः॥

भृञोऽसंज्ञायाम् ॥ ३.१.११२॥

भृञो धातोरसंज्ञायां विषये क्यप् प्रत्ययो भवति। भृत्याः कर्मकराः। भर्तव्या इत्यर्थः। असंज्ञायामिति किम्? भार्यो नाम क्षत्रियः॥ संपूर्वाद् विभाषा॥ संभृत्याः, संभार्याः॥

संज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्रसिध्यति।

स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिध्यति॥

मृजेर्विभाषा ॥ ३.१.११३॥

मृजेर्धातोर्विभाषा क्यप् प्रत्ययो भवति। ऋदुपधत्वात् प्राप्तविभाषेयम्। परिमृज्यः, परिमार्ग्यः॥

राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः ॥ ३.१.११४॥

राजसूय सूर्य मृषोद्य रुच्य कुप्य कृष्टपच्य अव्यथ्य इत्येते शब्दाः क्यपि निपात्यन्ते। राज्ञा सोतव्यः, राजा वेह सूयते राजसूयः क्रतुः। सूसर्तिभ्यां क्यप् सर्तेरुत्वं सुवतेर्वा रुडागमः। सरति सुवति वा सूर्यः। मृषापूर्वस्य वदतेः पक्षे यति प्राप्ते नित्यं क्यब् निपात्यते। मृषोद्यम्। रोचतेऽसौ रुच्यः। कर्तरि क्यप्। गुपेरादेः कत्वं च संज्ञायाम्। कुप्यम्। गोप्यमन्यत्। कृष्टे पच्यन्ते कृष्टपच्याः। कर्मकर्तरि निपातनम्। न व्यथते अव्यथ्यः॥

भिद्योद्ध्यौ नदे ॥ ३.१.११५॥

भिदेरुज्झेश्च क्यब् निपात्यते नदेऽभिधेये। उज्झेर्धत्वं च। भिनत्ति कूलं भिद्यः। उज्झत्युदकम् उद्ध्यः। नद इति किम्? भेत्ता। उज्झिता॥

पुष्यसिद्ध्यौ नक्षत्रे ॥ ३.१.११६॥

पुषेः सिधेश्चाधिकरणे क्यब् निपात्यते नक्षत्रेऽभिधेये। पुष्यन्त्यस्मिन्नर्था इति पुष्यः। सिध्यन्त्यस्मिन्निति सिद्ध्यः। नक्षत्र इति किम्? पोषणम्, सेधनम्॥

विपूयविनीयजित्या मुञ्जकल्कहलिषु ॥ ३.१.११७॥

वपूय विनीय जित्य इत्येते शब्दा निपात्यन्ते यथासंख्यं मुञ्ज कल्क हलि इत्येतेष्वर्थेषु बोध्येषु। विपूर्वात् पवतेर्नयतेश्च तथा जयतेर्यति प्राप्ते कर्मणि क्यब् निपात्यते। विपूयो मुञ्जः। विपव्यमन्यत्। विनीयःकल्कः। विनेयमन्यत्। जित्यो हलिः। जेयमन्यत्॥

प्रत्यपिभ्यां ग्रहेश्छन्दसि ॥ ३.१.११८॥

प्रति अपि इत्येवंपूर्वाद् ग्रहेः क्यप् प्रत्ययो भवति छन्दसि विषये। मत्तस्य न प्रतिगृह्यम् (काठ०सं० १४.५)। तस्मान् नापिगृह्यम् (काठ०सं० २७.३)। छन्दसीति किम्? प्रतिग्राह्यम्। अपिग्राह्यम्॥

पदास्वैरिबाह्यापक्ष्येषु च ॥ ३.१.११९॥

पदेऽस्वैरिणि बाह्यायां पक्ष्ये चार्थे ग्रहेर्धातोः क्यप् प्रत्ययो भवति। पदे तावत्- प्रगृह्यं पदम्, यस्य प्रगृह्यसंज्ञा विहिता। अवगृह्यं पदम्, यस्यावग्रहः क्रियते। अस्वैरी परतन्त्रः। गृह्यका इमे। गृहीतका इत्यर्थः। बाह्यायाम्-ग्रामगृह्या सेना। नगरगृह्या सेना। ग्रामनगराभ्यां बहिर्भूतेत्यर्थः। स्त्रीलिङ्गनिर्देशादन्यत्र न भवति। पक्षे भवः पक्ष्यः। वासुदेवगृह्याः। अर्जुनगृह्याः। तत्पक्षाश्रिता इत्यर्थः॥

विभाषा कृवृषोः ॥ ३.१.१२०॥

कृञो वृषश्च विभाषा क्यप् प्रत्ययो भवति। करोतेर्ण्यति प्राप्ते, वर्षतेर्ऋदुपधत्वाद् नित्ये क्यपि प्राप्ते विभाषारभ्यते। कृत्यम्, कार्यम्। वृष्यम्, वर्ष्यम्॥

युग्यं च पत्रे ॥ ३.१.१२१॥

युग्यमिति निपात्यते पत्रं चेत् तद् भवति। पतत्यनेनेति पत्रम्, वाहनमुच्यते। युग्यो गौः। युग्योऽश्वः। युग्यो हस्ती। युजेः क्यप् कुत्वं च निपात्यते। पत्र इति किम्? योग्यमन्यत्॥

अमावस्यदन्यतरस्याम् ॥ ३.१.१२२॥

अमाशब्दः सहार्थे वर्तते। तस्मिन्नुपपदे वसेर्धातोः कालेऽधिकरणे ण्यत् प्रत्ययो भवति, तत्रान्यतरस्यां वृद्ध्यभावो निपात्यते। सह वसतोऽस्मिन् काले सूर्यचन्द्रमसावित्यमावास्या, अमावस्या। एकदेशविकृतस्यानन्यत्वात्‘अमावास्याया वा’ (४.३.३०) इत्यत्रामावस्याशब्दस्यापि ग्रहणं भवति।

अमावसोरहं ण्यतोर्निपातयाम्यवृद्धिताम्।

तथैकवृत्तिता तयोः स्वरश्च मे प्रसिध्यति॥

छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्य-खान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि॥ ३.१.१२३॥

निष्टर्क्यादयः शब्दाश्छन्दसि विषये निपात्यन्ते। यदिह लक्षणेनानुपपन्नं तत् सर्वं निपातनात् सिद्धम्। निष्टर्क्य इति ‘कृती छेदने’ इत्यस्माद् निस्पूर्वात् क्यपि प्राप्ते ण्यत्, आद्यन्तविपर्ययश्च, निसश्च षत्वं निपात्यते। निष्टर्क्यं (ऐ०आ० ५.१.३) चिन्वीत पशुकामः। देवशब्द उपपदे ह्वयतेर्जुहोतेर्वा क्यप्, दीर्घस्तुगभावश्च। देवहूयः (श०ब्रा० २.१.३.२)। प्रपूर्वादुत्पूर्वाच्च नयतेः क्यप्। प्रणीयः। उन्नीयः। उत्पूर्वाच्छिषेःक्यप्। उ॒च्िछष्यः॑(मै०सं० ३.९.२)। ‘मृङ् प्राणत्यागे’, ‘स्तृञ् आच्छादने’, ‘ध्वृ हूर्छने’, एतेभ्यो यत् प्रत्ययः। मर्यः॑ (तै०आ० १.३.२)। स्त॒र्या। स्त्रियामेव निपातनम्। ध्वर्यः। खनेर्यत्। खन्या॑ (तै०सं० ७.४.१३.१)। एतस्मादेव ण्यत्। खान्यः। देवशब्द उपपदे यजेर्यः। देवय॒ज्या (ऋ० १०.३०.१५)। स्त्रीलिङ्गनिपातनम्। आङ्पूर्वात् पृच्छेः क्यप्। आपृच्छ्यः॑ (ऋ० १.६०.२)। प्रतिपूर्वात् सीव्यतेः क्यप् षत्वं च। प्रतिषीव्यः। ब्रह्मण्युपपदे वदेर्ण्यत्। ब्रह्म॒वाद्य॑म् (तै०सं० २.५.८.३)। भवतेः स्तौतेश्च ण्यत्, आवादेशश्च भवति। भा॒व्य॑म् (शौ०सं० १३.१.५४), स्ताव्यः। उपपूर्वस्य चिनोतेर्ण्यदायादेशौ। उपचाय्यपृडम् (काठ०सं० ११.१)। पृडे चोत्तरपदे निपातनमेतत्॥ हिरण्य इति वक्तव्यम्॥ हिरण्यादन्यत्र उपचेयपृडमेव।

निष्टर्क्ये व्यत्ययं विद्यान्निसः षत्वं निपातनात्।

ण्यदायादेश इत्येता उपचाय्ये निपातितौ ॥ १॥

ण्यदेकस्माच्चतुर्भ्यः क्यप् चतुर्भ्यश्च यतो विधिः।

ण्यदेकस्माद्यशब्दश्च द्वौ क्यपौ ण्यद्विधिश्चतुः॥ २॥

ऋहलोर्ण्यत् ॥ ३.१.१२४॥

पञ्चम्यर्थे षष्ठी, ऋवर्णान्ताद् धातोर्हलन्ताच्च ण्यत् प्रत्ययो भवति। कार्यम्। हार्यम्। धार्यम्। वाक्यम्। पाक्यम्॥

ओरावश्यके ॥ ३.१.१२५॥

अवश्यंभाव आवश्यकम्। उवर्णान्ताद् धातोर्ण्यत् प्रत्ययो भवत्यावश्यके द्योत्ये। यतोऽपवादः। लाव्यम्। पाव्यम्। आवश्यक इति किम्? लव्यम्। आवश्यके द्योत्य इति चेत् स्वरसमासानुपपत्तिः, अवश्यलाव्यम् अवश्यपाव्यमिति। नैष दोषः। मयूरव्यंसकादित्वात् (२.१.७२) समासः, उत्तरपदप्रकृतिस्वरे च यत्नःकरिष्यते॥

आसुयुवपिरपिलपित्रपिचमश्च ॥ ३.१.१२६॥

आङ्पूर्वात् सुनोतेः यु वपि रपि लपि त्रपि चम् इत्येतेभ्यश्च ण्यत् प्रत्ययो भवति। यतोऽपवादः। आसाव्यम्। याव्यम्। वाप्यम्। राप्यम्। लाप्यम्। त्राप्यम्। आचाम्यम्। अनुक्तसमुच्चयार्थश्चकारः। दभि-दाभ्यम्॥

आनाय्योऽनित्ये ॥ ३.१.१२७॥

आनाय्य इति निपात्यतेऽनित्येऽभिधेये। नयतेराङ्पूर्वाण् ण्यदायादेशौ निपात्येते। आनाय्यो दक्षिणाग्निः। रूढिरेषा। तस्मादनित्यविशेषे दक्षिणाग्नावेवावतिष्ठते। तस्य चानित्यत्वं नित्यमजागरणात्। यश्च गार्हपत्यादानीयते दक्षिणाग्निराहवनीयेन सहैकयोनिः, तत्रैतन्निपातनम्, न दक्षिणाग्निमात्रे। तस्य हि योनिर्विकल्प्यते वैश्यकुलाद् वित्तवतो भ्राष्ट्राद् वा गार्हपत्याद् वा (तु०-पार०गृ० १.२.३) इति।

आनाय्योऽनित्य इति चेद् दक्षिणाग्नौ कृतं भवेत्।

एकयोनौ च तं विद्यादानेयो ह्यन्यथा भवेत्॥

प्रणाय्योऽसंमतौ ॥ ३.१.१२८॥

अविद्यमाना संमतिरस्मिन्नित्यसंमतिः। संमननं संमतिः। संमतता पूजा। प्रणाय्य इति निपात्यतेऽसंमतावभिधेये। प्रणाय्यश्चोरः। असंमताविति किम्? प्रणेयोऽन्यः। यद्येवं कथमेतत्-‘ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात् प्रणाय्याय वा अन्तेवासिने नान्यस्मै कस्मैचन’ (छा०उप० ३.११.५,६) इति? संमतिरभिलाषोऽप्युच्यते। तदभावेन निष्कामतया असंमतिरन्तेवासी भवति। तस्मै निष्कामाय मोक्षार्थं यतमानायान्तेवासिने प्रणाय्याय ब्रह्म प्रब्रूयादिति युज्यते॥

पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु ॥ ३.१.१२९॥

पाय्यादयः शब्दा निपात्यन्ते यथासंख्यं माने हविषि निवासे सामिधेन्यां चाभिधेयायाम्। पाय्य इति माङो ण्यत् प्रत्ययः, आदेः पत्वं च निपात्यते माने। पाय्यं मानम्। मेयमन्यत्। संपूर्वान्नयतेर्ण्यदायादेशावुपसर्गदीर्घत्वं च निपात्यते। सान्नाय्यं (तै०सं० २.५.३.७) हविः। सन्नेयमन्यत्। रूढित्वाच्च हविर्विशेष एवावतिष्ठते। निपूर्वाच्चिनोतेर्ण्यदायादेशावादिकुत्वं च निपात्यते। निकाय्यो निवासः। निचेयमन्यत्। धाय्येति धाञो ण्यत् प्रत्ययो निपात्यते सामिधेनी चेत् सा भवति। धाय्या सामिधेनी। धेयमन्यत्। सामिधेनीशब्द ऋग्विशेषस्य वाचकः। तत्र च धाय्येति न सर्वा सामिधेन्युच्यते। किं तर्हि? काचिदेव। रूढिशब्दो ह्ययम्। तथा चासामिधेन्यामपि दृश्यते-‘धाय्याः शंसत्यग्निर्नेता त्वं सोमक्रतुभिः’ (ऐ०ब्रा० ३.१८; ५.१) इति॥

क्रतौ कुण्डपाय्यसंचाय्यौ॥ ३.१.१३०॥

कुण्डपाय्य संचाय्य इत्येतौ शब्दौ निपात्येते क्रतावभिधेये। कुण्डशब्दे तृतीयान्त उपपदे पिबतेर्धातोरधिकरणे यत् प्रत्ययो निपात्यते युक् च। कुण्डेन पीयतेऽस्मिन् सोम इति कुण्ड॒पाय्यः॑ (ऋ० ८.१७.१३) क्रतुः। ‘यतोऽनावः’ (६.१.२१३) इति स्वरः। संपूर्वाच्चिनोतेर्ण्यदायादेशौ निपात्येते। संचीयतेऽस्मिन् सोम इति संचाय्यः क्रतुः। क्रताविति किम्? कुण्डपानम्। संचयः॥

अग्नौ परिचाय्योपचाय्यसमूह्याः ॥ ३.१.१३१॥

परिचाय्य उपचाय्य समूह्य इत्येते शब्दा निपात्यन्तेऽग्नावभिधेये। परिपूर्वाद् उपपूर्वाच्च चिनोतेर्ण्यदायादेशौ निपात्येते। परिचा॒य्य॑म् (तै०सं० ५.४.११.३)। उपचा॒य्यः॑ (मै०सं० ३.४.७)। संपूर्वाद् वहेः संप्रसारणं दीर्घत्वं च निपात्यते। स॒मू॒ह्यं॑ चिन्वीत प॒शुका॑मः (तै०सं० ५.४.११.२)। अग्नाविति किम्? परिचेयम्। उपचेयम्। संवाह्यम्॥

चित्याग्निचित्ये च ॥ ३.१.१३२॥

चित्यशब्दोऽग्निचित्याशब्दश्च निपात्येते। चीयतेऽसौ चित्योऽग्निः। अग्निचयनमेवाग्निचित्या (शा०ब्रा० १९.७)। भावे यकारप्रत्ययस्तुक् च। तेनान्तोदात्तत्वं भवति। अग्नावित्येव-चेयमन्यत्॥

ण्वुल्तृचौ ॥ ३.१.१३३॥

धातोरिति वर्तते। सर्वधातुभ्यो ण्वुल्तृचौ प्रत्ययौ भवतः। कारकः। कर्ता। हारकः। हर्ता। चकारः सामान्यग्रहणार्थः। ‘तुश्छन्दसि’ (५.३.५९), ‘तुरिष्ठेमेयस्सु’ (६.४.१५४) इति॥

नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ॥ ३.१.१३४॥

आदिशब्दः प्रत्येकं संबध्यते। त्रिभ्यो गणेभ्यस्त्रयः प्रत्यया यथासंख्यं भवन्ति। नन्द्यादिभ्यो ल्युः, ग्रहादिभ्यो णिनिः, पचादिभ्योऽच्। नन्दिग्रहिपचादयश्च न धातुपाठतः संनिविष्टा गृह्यन्ते। किं तर्हि? नन्दनरमणेत्येवमादिषु प्रातिपदिकगणेष्वपोद्धृत्य प्रकृतयो निर्दिश्यन्ते। नन्दिवाशिमदिदूषिसाधिवर्धिशोभिरोचिभ्यो ण्यन्तेभ्यः संज्ञायाम् (ग०सू० २२)। नन्दनः। वाशनः। मदनः। दूषणः। साधनः। वर्धनः। शोभनः। रोचनः। सहितपिदमेः संज्ञायाम् (ग०सू० २३)। सहनः। तपनः। दमनः। जल्पनः। रमणः। दर्पणः। संक्रन्दनः। संकर्षणः। संहर्षणः। जनार्दनः। यवनः। मधुसूदनः। विभीषणः। लवणः। निपातनाण् णत्वम्। वित्तविनाशनः। कुलदमनः। शत्रुदमनः। इति नन्द्यादिः॥ ग्रह। उत्सह। उद्दस। उद्भास। स्था। मन्त्र। संमर्द। ग्राही। उत्साही। उद्दासी। उद्भासी। स्थायी। मन्त्री। संमर्दी। रक्षश्रुवसवपशां नौ (ग०सू०२४)। निरक्षी। निश्रावी। निवासी। निवापी। निशायी। याचिव्याहृसंव्याहृव्रजवदवसां प्रतिषिद्धानाम्। (ग०सू० २५)। अयाची। अव्याहारी। असंव्याहारी। अव्राजी। अवादी। अवासी। अचामचित्तकर्तृकाणाम् (ग०सू० २६)। प्रतिषिद्धानामित्येव- अकारी। अहारी। अविनायी। अविशायी। विशयी विषयी देशे (ग०सू० २७)। विशयी, विषयी देशः। अभिभावी भूते (ग०सू० २८)। अभिभावी। अपराधी। उपरोधी। परिभावी। परिभवी। इति ग्रह्यादिः॥ पच। वच। वप। वद। चल। शल। तप। पत। नदट्। भषट्। वस। गरट्। प्लवट्। चरट्। तरट्। चोरट्। ग्राहट्। जर। मर। क्षर। क्षम। सूदट्। देवट्। मोदट्। सेव। मेष। कोप। मेधा। नर्त। व्रण। दर्श। दंश। दम्भ। जारभर। श्वपच। पचादिराकृतिगणः।

अज्विधिः सर्वधातुभ्यः पठ्यन्ते च पचादयः।

अण्बाधनार्थमेव स्यात् सिध्यन्ति श्वपचादयः॥

इगुपधज्ञाप्रीकिरः कः ॥ ३.१.१३५॥

इगुपधेभ्यो जानातेः प्रीणातेः किरतेश्च कप्रत्ययो भवति। विक्षिपः। विलिखः। बुधः। कृशः। जानातीति ज्ञः। प्रीणातीति प्रियः। किरतीति किरः। देवसेवमेषादयः पचादौ पठितव्याः॥

आतश्चोपसर्गे ॥ ३.१.१३६॥

आकारान्तेभ्यो धातुभ्य उपसर्ग उपपदे कप्रत्ययो भवति। णस्यापवादः। प्रस्थः। सुग्लः। सुम्लः॥

पाघ्राध्माधेट्दृशः शः ॥ ३.१.१३७॥

पादिभ्यो धातुभ्य उपसर्ग उपपदे शप्रत्ययो भवति। उत्पिबः। विपिबः। उज्जिघ्रः। विजिघ्रः। उद्धमः। विधमः। उद्धयः। विधयः। उत्पश्यः। विपश्यः। उपसर्ग इति केचिन्नानुवर्तयन्ति। पश्यतीति पश्यः (छा०उप० ७.२६.२)॥ जिघ्रतेः संज्ञायां प्रतिषेधो वक्तव्यः॥ व्याघ्रः॥

अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च ॥ ३.१.१३८॥

अनुपसर्गेभ्यो लिम्पादिभ्यः शप्रत्ययो भवति। लिम्पतीति लिम्पः। विन्दतीति विन्दः। धारयतीति धारयः। पारयतीति पारयः। वेदयतीति वेदयः। उदेजयतीत्युदेजयः। चेतयतीति चेतयः। सातिः सौत्रो धातुः। सातयः। साहयः। अनुपसर्गादिति किम्? प्रलिपः॥ नौ लिम्पेरिति वक्तव्यम्॥ निलिम्पा नाम देवाः॥ गवादिषु विन्देः संज्ञायाम्॥ गोविन्दः। अरविन्दः॥

ददातिदधात्योर्विभाषा ॥ ३.१.१३९॥

दाञो धाञश्च विभाषा शप्रत्ययो भवति। णस्यापवादः। ददः, दायः। दधः, धायः। अनुपसर्गादित्येव-प्रदः। प्रधः॥

ज्वलितिकसन्तेभ्यो णः ॥ ३.१.१४०॥

इतिशब्द आद्यर्थः। ‘ज्वल दीप्तौ’ इत्येवमादिभ्यो धातुभ्यः ‘कस गतौ’ इत्येवमन्तेभ्यो विभाषा णप्रत्ययो भवति। अचोऽपवादः। ज्वालः, ज्वलः। चालः, चलः। अनुपसर्गादित्येव-प्रज्वलः॥ तनोतेर्णस्योपसंख्यानं कर्तव्यम्॥ अवतनोतीत्यवतानः॥

श्याद्व्यधास्रुसंस्र्वतीणवसावहृलिहश्लिषश्वसश्च ॥ ३.१.१४१॥

अनुपसर्गादिति, विभाषेति च निवृत्तम्। श्यैङ आकारान्तेभ्यश्च धातुभ्यः, व्यध, आस्रु, संस्रु, अतीण्, अवसा, अवहृ, लिह, श्लिष, श्वस् इत्येतेभ्यश्च णप्रत्ययो भवति। आकारान्तत्वादेव श्यायतेः प्रत्यये सिद्धे पुनर्वचनं बाधकबाधनार्थम्। उपसर्गे कं बाधित्वायमेव भवति। अवश्यायः। प्रतिश्यायः। दायः। धायः। व्याधः। आस्रावः। संस्रावः। अत्यायः। अवसायः। अवहारः। लेहः। श्लेषः। श्वासः॥

दुन्योरनुपसर्गे ॥ ३.१.१४२॥

दुनोतेर्नयतेश्चानुपसर्गे णप्रत्ययो भवति। दुनोतीति दावः। नयतीति नायः। अनुपसर्ग इति किम्? प्रदवः। प्रणयः॥

विभाषा ग्रहः ॥ ३.१.१४३॥

विभाषा ग्रहेर्धातोर्णप्रत्ययो भवति। अचोऽपवादः। ग्राहः,ग्रहः। व्यवस्थितविभाषा चेयम्। जलचरे नित्यं ग्राहः। ज्योतिषि नेष्यते, तत्र ग्रह एव॥ भवतेश्चेति वक्तव्यम्॥ भवतीति भावः, भवः॥

** गेहे कः ॥ ३.१.१४४॥**

ग्रहेर्धातोः कप्रत्ययो भवति गेहे कर्तरि। गृहं वेश्म। तात्स्थ्याद् दाराश्च। गृह्णन्तीति गृहा दाराः। गृहाणि वेश्मानि॥

शिल्पिनि ष्वुन् ॥ ३.१.१४५॥

धातोः ष्वुन् प्रत्ययो भवति शिल्पिनि कर्तरि॥ नृतिखनिरञ्जिभ्यः परिगणनं कर्तव्यम्॥ नर्तकः। खनकः। रजकः। नर्तकी। खनकी। रजकी। रञ्जेरनुनासिकलोपश्च॥

गस्थकन् ॥ ३.१.१४६॥

गायतेस्थकन् प्रत्ययो भवति शिल्पिनि कर्तरि। गाथकः। गाथिका॥

ण्युट् च ॥ ३.१.१४७॥

चकारेण ग इत्यनुकृष्यते। गायतेर्ण्युट् प्रत्ययो भवति शिल्पिनि कर्तरि। गायनः। गायनी। योगविभाग उत्तरार्थः॥

हश्च व्रीहिकालयोः ॥ ३.१.१४८॥

चकारेण ण्युडनुकृष्यते। जहातेर्जिहातेश्च धातोर्ण्युट् प्रत्ययो भवति व्रीहौ काले च कर्तरि। हायना नाम व्रीहयः, जहत्युदकमिति कृत्वा। काले-हायनः संवत्सरः, जिहीते भावानिति कृत्वा॥

प्रुसृल्वः समभिहारे वुन् ॥ ३.१.१४९॥

॒प्रु सृ लू इत्येतेभ्यो धातुभ्यः समभिहारे वुन् प्रत्ययो भवति। प्रवकः। सरकः। लवकः। समभिहारग्रहणेनात्र साधुकारित्वं लक्ष्यते। साधुकारिणि वुन्विधानात् सकृदपि यः सुष्ठु करोति, तत्र भवति। बहुशो यो दुष्टं करोति, तत्र न भवति॥

आशिषि च ॥ ३.१.१५०॥

आशिषि गम्यमानायां धातुमात्राद् वुन् प्रत्ययो भवति। जीवतात् जीवकः। नन्दतात् नन्दकः। आशीः प्रार्थनाविशेषः। स चेह क्रियाविषयः। अमुष्याः क्रियायाः कर्ता भवेदित्येवमाशास्यते॥

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य प्रथमःपादः॥