०२

पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे॥ २.२.१॥

एकदेशोऽस्यास्तीत्येकदेशी अवयवी। तद्वाचिना सुबन्तेन सह पूर्व अपर अधर उत्तर इत्येते शब्दाः सामर्थ्यादेकदेशवचनाः समस्यन्ते, तत्पुरुषश्च समासो भवति। एकाधिकरणग्रहणमेकदेशिनो विशेषणम्। एकं चेदधिकरणमेकद्रव्यमेकदेशि भवति। षष्ठीसमासापवादोऽयं योगः। पूर्वं कायस्य, पूर्वकायः। अपरकायः। अधरकायः। उत्तरकायः। एकदेशिनेति किम्? पूर्वं नाभेः कायस्य। एकाधिकरण इति किम्। पूर्वं छात्राणामामन्त्रयस्व। कथं मध्याह्नः सायाह्न इति? ‘संख्याविसायपूर्वस्याह्नस्या०’ (६.३.११०) इति ज्ञापकात् सर्वेणैकदेशशब्देनाह्नः समासो भवति॥

अर्धं नपुंसकम्॥ २.२.२॥

एकदेशिनैकाधिकरण इति वर्तते। समप्रविभागेऽर्धशब्दो नपुंसकमाविष्टलिङ्गः, तस्येदं ग्रहणम्। अर्धमित्येतद् नपुंसकमेकदेशिनैकाधिकरणेन समस्यते, तत्पुरुषश्च समासो भवति। षष्ठीसमासापवादोऽयं योगः। अर्धं पिप्पल्याः, अर्धपिप्पली। अर्धकोशातकी। नपुंसकमिति किम्? ग्रामार्धः। नगरार्धः। एकदेशिनेत्येव- अर्धं पशोर्देवदत्तस्य। देवदत्तेन सह समासो न भवति। एकाधिकरण इत्येव- अर्धं पिप्पलीनाम्॥

द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्॥ २.२.३॥

एकदेशिनैकाधिकरण इति वर्तते। षष्ठीसमासापवादोऽयं योगः। अन्यतरस्यांग्रहणात् सोऽपि षष्ठीसमासो भवति। ‘पूरण०’ (२.२.११) इति प्रतिषेधश्चात एवान्यतरस्यांग्रहणसामर्थ्याद् न प्रवर्तते। द्वितीयादीनि शब्दरूपाण्येकदेशिनैकाधिकरणेन सहान्यतरस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति। द्वितीयं भिक्षायाः, द्वितीयभिक्षा। षष्ठीसमासपक्षे भिक्षाद्वितीयं वा। तृतीयं भिक्षायाः, तृतीयभिक्षा। भिक्षातृतीयं वा। चतुर्थं भिक्षायाः, चतुर्थभिक्षा। भिक्षाचतुर्थं वा। तुर्यं भिक्षायाः, तुर्यभिक्षा। भिक्षातुर्यं वा। तुरीयशब्दस्यापीष्यते। तुरीयं भिक्षायाः, तुरीयभिक्षा। भिक्षातुरीयं वा। एकदेशिनेत्येवद्वितीयं भिक्षाया भिक्षुकस्य। एकाधिकरण इत्येव- द्वितीयं भिक्षाणाम्॥

प्राप्तापन्ने च द्वितीयया॥ २.२.४॥

एकदेशिनैकाधिकरण इति निवृत्तम्। द्वितीयासमासे प्राप्ते वचनमिदम्। समासविधानात् सोऽपि भवति। प्राप्त आपन्न इत्येतौ द्वितीयान्तेन सह समस्येते, तत्पुरुषश्च समासो भवति। प्राप्तो जीविकाम्, प्राप्तजीविकः। जीविकाप्राप्त इति वा। आपन्नो जीविकाम्, आपन्नजीविकः। जीविकापन्न इति वा॥

कालाः परिमाणिना॥ २.२.५॥

परिमाणमस्यास्तीति परिमाणी, तद्वाचिना सुबन्तेन सह सामर्थ्यात् परिमाणवचनाः कालशब्दाः समस्यन्ते, तत्पुरुषश्च समासो भवति। षष्ठीसमासविषये योगारम्भः। मासो जातस्य, मासजातः। संवत्सरजातः। द्व्यहजातः। त्र्यहजातः॥

नञ्॥ २.२.६॥

नञ् समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। न ब्राह्मणः, अब्राह्मणः। अवृषलः॥

ईषदकृता॥ २.२.७॥

ईषदित्ययं शब्दोऽकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति॥ ईषद्गुणवचनेनेति वक्तव्यम्॥ ईषत्कडारः। ईषत्पिङ्गलः। ईषद्विकटः। ईषदुन्नतः ईषत्पीतम्। ईषद्रक्तम्। गुणवचनेनेति किम्? इह न भवति- ईषद् गार्ग्यः॥

**षष्ठी॥ २.२.८॥ **

षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। राज्ञः पुरुषः, राजपुरुषः। ब्राह्मणकम्बलः॥ कृद्योगा च षष्ठी समस्यत इति वक्तव्यम्॥ इध्मप्रव्रश्चनः। पलाशशातनः। किमर्थमिदमुच्यते? ‘प्रतिपदविधाना च षष्ठी न समस्यते’ इति वक्ष्यति, तस्यायं पुरस्तादपकर्षः॥

याजकादिभिश्च॥ २.२.९॥

पूर्वेण समासः सिद्ध एव, तस्य ‘कर्तरि च’( २.२.१६) इति प्रतिषेधे प्राप्ते वचनमिदमारभ्यते प्रतिप्रसवार्थम्। याजकादिभिः सह षष्ठी समस्यते, तत्पुरुषश्च समासो भवति। ब्राह्मणयाजकः। क्षत्रिययाजकः॥ याजक। पूजक। परिचारक। परिषेचक। स्नातक। अध्यापक। उत्सादक। उद्वर्तक। होतृ। पोतृ। भर्तृ। रथगणक। पत्तिगणक॥ तत्स्थैश्च गुणैः षष्ठी समस्यत इति वक्तव्यम्॥ चन्दनगन्धः। कपित्थरसः॥ गुणात्तरेण तरलोपश्चेति वक्तव्यम्॥ सर्वेषां श्वेततरः, सर्वश्वेतः। सर्वेषां महत्तरः, सर्वमहान्। ‘न निर्धारणे’ (२.२.१०) इति प्रतिषेधे प्राप्ते वचनमिदम्। सर्वशुक्ला गौः॥

न निर्धारणे॥ २.२.१०॥

पूर्वेण समासे प्राप्ते प्रतिषेध आरभ्यते। निर्धारणे या षष्ठी सा न समस्यते। जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणम्। क्षत्रियो मनुष्याणां शूरतमः। कृष्णा गवां संपन्नक्षीरतमा। धावन्नध्वगानां शीघ्रतमः॥ प्रतिपदविधाना च षष्ठी न समस्यत इति वक्तव्यम्॥ सर्पिषो ज्ञानम्। मधुनो ज्ञानम्॥

**पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन॥ २.२.११॥ **

पूरणगुणसुहितार्थ सद् अव्यय तव्य समानाधिकरण इत्येतैः सह षष्ठी न समस्यते। अर्थशब्दः प्रत्येकमभिसंबध्यते, तेन स्वरूपविधिर्न भवति। पूरणार्थे- छात्राणां पञ्चमः। छात्राणां दशमः। गुण-बलाकायाः शौक्ल्यम्। काकस्य कार्ष्ण्यम्। सुहितार्थास्तृप्त्यर्थाः-फलानां सुहितः। फलानां तृप्तः। सत्-ब्राह्मणस्य कुर्वन्। ब्राह्मणस्य कुर्वाणः। अव्यय-ब्राह्मणस्य कृत्वा। ब्राह्मणस्य हृत्वा। तव्य- ब्राह्मणस्य कर्तव्यम्। तव्यता सानुबन्धकेन समासो भवत्येव- ब्राह्मणकर्तव्यम्। समानाधिकरण- शुकस्य माराविदस्य। राज्ञः पाटलिपुत्रकस्य। पाणिनेःसूत्रकारस्य। किं च स्यात्? पूर्वनिपातानियमः स्यात्। अनन्तरायां तु प्राप्तौ प्रतिषिद्धायां ‘विशेषणं विशेष्येण०’ (२.१.५७) इति भवत्येव समासः। पूर्वनिपातश्च तदा नियोगतो विशेषणस्यैव॥

क्तेन च पूजायाम् ॥ २.२.१२॥

‘मतिबुद्धिपूजार्थेभ्यश्च’ (३.२.१८८) इति वक्ष्यति तस्येदं ग्रहणम्। पूजाग्रहण-मुपलक्षणार्थम्। क्तो यः पूजायां विहितस्तेन षष्ठी न समस्यते। राज्ञां मतः। राज्ञां बुद्धः। राज्ञां पूजितः। पूजायामिति किम्? छात्रस्य हसितम्, छात्रहसितम्॥

अधिकरणवाचिना च॥ २.२.१३॥

‘क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः’ (३.४.७६) इति वक्ष्यति, तस्येदं ग्रहणम्। अधिकरणवाचिना क्तेन षष्ठी न समस्यते। इदमेषामासितम्। इदमेषां यातम्। इदमेषां भुक्तम्॥

कर्मणि च॥ २.२.१४॥

क्तेनेति निवृत्तम्। कर्मग्रहणं षष्ठीविशेषणम्। कर्मणि च या षष्ठी सा न समस्यते। ‘उभयप्राप्तौ कर्मणि’ (२.३.६६) इति षष्ठ्या इदं ग्रहणम्। आश्चर्यो गवां दोहोऽगोपालकेन। रोचते मे ओदनस्य भोजनं देवदत्तेन। साधु खलु पयसः पानं देवदत्तेन। विचित्रा सूत्रस्य कृतिः पाणिनिना॥

तृजकाभ्यां कर्तरि॥ २.२.१५॥

कर्तृग्रहणं षष्ठीविशेषणम्। कर्तरि या षष्ठी सा तृचाकेन च सह न समस्यते। भवतः शायिका। भवत आसिका। भवतोऽग्रगामिका। तृच् कर्तर्येव विधीयते, तत्प्रयोगे कर्तरि षष्ठी नास्ति। तस्मात् तृज्ग्रहणमुत्तरार्थम्। कर्तरीति किम्? इक्षुभक्षिकां में धारयसि॥

कर्तरि च॥ २.२.१६॥

कर्तरि च यौ तृजकौ ताभ्यां सह षष्ठी न समस्यते। सामर्थ्यादकस्य विशेषणार्थं कर्तृग्रहणम्, इतरत्र व्यभिचाराभावात्। अपां स्रष्टा। पुरां भेत्ता। वज्रस्य भर्ता। ननु च भर्तृशब्दो ह्ययं याजकादिषु पठ्यते? संबन्धिशब्दस्य पतिपर्यायस्य तत्र ग्रहणम्। अकः खल्वपि-ओदनस्य भोजकः। सक्तूनां पायकः॥

नित्यं क्रीडाजीविकयोः॥ २.२.१७॥

नेति निवृत्तम्, न तृजकौ। नित्यं समासो विधीयते। क्रीडायां जीविकायां च नित्यं षष्ठी समस्यते, तत्पुरुषश्च समासो भवति। तृच् क्रीडाजीविकयोर्नास्तीत्यक एवोदाह्रियते। उद्दालकपुष्पभञ्जिका। वारणपुष्पप्रचायिका। जीविकायाम्-दन्तलेखकः। नखलेखकः। क्रीडाजीविकयोरिति किम्? ओदनस्य भोजकः॥

कुगतिप्रादयः॥ २.२.१८॥

नित्यमिति वर्तते। कुशब्दोऽव्ययं परिगृह्यते, गत्यादिभिः साहचर्यात्, न द्रव्यवचनः। कुगतिप्रादयः समर्थेन शब्दान्तरेण सह नित्यं समस्यन्ते, तत्पुरुषश्च समासो भवति। कुः पापार्थे- कुपुरुषः। गति- उररीकृतम्। प्रादयः- दुर्निन्दायाम्-दुष्पुरुषः। स्वती पूजायाम्-सुपुरुषः। अतिपुरुषः। आङीषदर्थे-आपिङ्गलः। प्रायिकं चैतदुपाधिवचनम्। अन्यत्रापि हि समासो दृश्यते। कोष्णम्। कदुष्णम्। कवोष्णम्। दुष्कृतम्। सुष्टुतम्। अतिस्तुतम्। आबद्धमिति॥ प्रादयो गताद्यर्थे प्रथमया॥ प्रगत आचार्यः, प्राचार्यः। प्रान्तेवासी॥ अत्यादयः क्रान्ताद्यर्थे द्वितीयया॥ अतिक्रान्तः खट्वाम्, अतिखट्वः। अतिमालः॥ अवादयः क्रुष्टाद्यर्थे तृतीयया॥ अवक्रुष्टः कोकिलया, अवकोकिलः॥ पर्यादयो ग्लानाद्यर्थे चतुर्थ्या॥ परिग्लानोऽध्ययनाय, पर्यध्ययनः। अलं कुमार्यै, अलंकुमारिः॥ निरादयः क्रान्ताद्यर्थे पञ्चम्या॥ निष्क्रान्तः कौशाम्ब्याः, निष्कौशाम्बिः। निर्वाराणसिः॥ इवेन सह समासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्॥ वास॑सीइव। वस्त्रे॑इव॥ प्रादिप्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधो वक्तव्यः॥ वृक्षं प्रति विद्योतते विद्युत्। साधुर्देवदत्तो मातरं प्रति॥

उपपदमतिङ्॥ २.२.१९॥

नित्यमिति वर्तते। उपपदमतिङन्तं समर्थेन शब्दान्तरेण सह समस्यते नित्यम्, तत्पुरुषश्च समासो भवति। कुम्भकारः। नगरकारः। अतिङिति किम्? एधानाहारको व्रजति। ननु च सुप् सुपेति वर्तते, तत्र कुतस्तिङन्तेन सह समासप्रसङ्गः? एवं तर्हि ज्ञापयत्येतयोर्योगयोः सुप् सुपेति न संबध्यत इति। तेन ‘गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः’ (परि० ७५) इत्येतदुपपन्नं भवति। अश्वक्रीती। धनक्रीती॥

अमैवाव्ययेन॥ २.२.२०॥

पूर्वेणैव समासे सिद्धे नियमार्थं वचनम्। अव्ययेनोपपदस्य यः समासः सोऽमैव भवति, नान्येन। स्वादुंकारं भुङ्क्ते। संपन्नंकारं भुङ्क्ते। लवणंकारं भुङ्क्ते। अमैवेति किम्? ‘कालसमयवेलासु तुमुन्’ (३.३.१६७)- कालो भेक्तुम्। एवकारकरणमुपपदविशेषणार्थम्। अमैव यत्तुल्यविधानमुपपदं तस्य समासो यथा स्यात्, अमा चान्येन च यत्तुल्यविधानं तस्य मा भूत्-अग्रे भुक्त्वा। अग्रे भोजम्॥

तृतीयाप्रभृतीन्यन्यतरस्याम्॥ २.२.२१॥

अमैवेत्यनुवर्तते। ‘उपदंशस्तृतीयायाम्’ (३.४.४७) इत्यतः प्रभृति यान्युपपदानि तान्यमैवाव्ययेन सहान्यतरस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति। उभयत्रविभाषेयम्। यदमैव तुल्यविधानमुपपदं तस्य प्राप्ते, यथा ‘उपदंशस्तृतीयायाम्’ (३.४.४७) इति। यत्पुनरमा चान्येन च तुल्यविधानं तस्याप्राप्ते, यथा ‘अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ’ (३.४.५९) इति। मूलकोपदंशं भुङ्क्ते। मूलकेनोपदंशं भुङ्क्ते। उच्चैःकारमाचष्टे। उच्चैः कारम्। अमैवेत्येव- ‘पर्याप्तिवचनेष्वलमर्थेषु’ (३.४.६६)। पर्याप्तो भोक्तुम्। प्रभुर्भोक्तुम्॥

क्त्वा च ॥ २.२.२२॥

अमैवेति पूर्वयोगेऽनुवृत्तम्, तेनान्यत्र न प्राप्नोतीति वचनमारभ्यते। क्त्वाप्रत्ययेन सह तृतीयाप्रभृतीन्युपपदान्यन्यतरस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति। उच्चैःकृत्य। उच्चैः कृत्वा। ‘अव्ययेऽयथाभिप्रेताख्याने०’ (३.४.५९) इति क्त्वाप्रत्ययः। समासपक्षे ल्यबेव। तृतीयाप्रभृतीनीत्येव-अलं कृत्वा। खलु कृत्वा॥

शेषो बहुव्रीहिः॥ २.२.२३॥

उपयुक्तादन्यः शेषः। शेषः समासो बहुव्रीहिसंज्ञो भवति। कश्च शेषः? यत्रान्यः समासो नोक्तः। वक्ष्यति- ‘अनेकमन्यपदार्थे’ (२.२.२४)- चित्रगुः। शबलगुः। कृष्णोत्तरासङ्गः। शेष इति किम्? उन्मत्तगङ्गम्। लोहितगङ्गम्। बहुव्रीहिप्रदेशाः- ‘न बहुव्रीहौ’ (१.१.२९) इत्येवमादयः॥

अनेकमन्यपदार्थे॥ २.२.२४॥

अनेकं सुबन्तमन्यपदार्थे वर्तमानं सह समस्यते, बहुव्रीहिश्च समासो भवति। प्रथमार्थमेकं वर्जयित्वा सर्वेषु विभक्त्यर्थेषु बहुव्रीहिर्भवति। प्राप्तमुदकं यं ग्रामम्, प्राप्तोदको ग्रामः। ऊढरथोऽनड्वान्। उपहृतपशू रुद्रः। उद्धृतौदना स्थाली। चित्रगुर्देवदत्तः। वीरपुरुषको ग्रामः। प्रथमार्थे तु न भवति। वृष्टे देवे गतः। अनेकग्रहणं किम्? बहूनामपि यथा स्यात्-

	सुसूक्ष्मजटकेशेन सुगजाजिनवाससा।

	समन्तशितिरन्ध्रेण द्वयोर्वृत्तौ न सिध्यति॥

॥ बहुव्रीहिः समानाधिकरणानामिति वक्तव्यम्॥ व्यधिकरणानां मा भूत्पञ्चभिर्भुक्तमस्य॥ अव्ययानां च बहुव्रीहिर्वक्तव्यः॥ उच्चैर्मुखः। नीचैर्मुखः॥ सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च वक्तव्यः॥ कण्ठे स्थितः कालोऽस्य, कण्ठेकालः। उरसिलोमा। उष्ट्रस्य मुखमिव मुखं यस्य सः, उष्ट्रमुखः। खरमुखः॥ समुदायविकारषष्ठ्याश्च बहुव्रीहिरुत्तरपदलोपश्चेति वक्तव्यम्॥ केशानां सङ्घातः, केशसंघातः, केशसंघातश्चूडास्य केशचूडः। सुवर्णस्य विकारोऽलंकारोऽस्य सुवर्णालंकारः॥ प्रादिभ्यो धातुजस्योत्तरपदस्य लोपश्च वा बहुव्रीहिर्वक्तव्यः॥ प्रपतितं पर्णमस्य, प्रपर्णः। प्रपतितपर्णः। प्रपतितं पलाशमस्य, प्रपलाशः। प्रपतितपलाशः॥ नञोऽस्त्यर्थानां बहुव्रीहिर्वा चोत्तरपदलोपश्च वक्तव्यः॥ अविद्यमानः पुत्रो यस्य, अपुत्रः। अविद्यमानपुत्रः। अभार्यः। अविद्यमानभार्यः॥ सुबधिकारेऽस्तिक्षीरादिवचनम्॥ अस्तिक्षीरा ब्राह्मणी। अस्त्यादयो निपाताः॥

संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये ॥ २.२.२५॥

संख्येये या संख्या वर्तते तया सहाव्ययासन्नादूराधिकसंख्याः समस्यन्ते, बहुव्रीहिश्च समासो भवति। अव्यय-उपदशाः। उपविंशाः। आसन्नदशाः। आसन्नविंशाः। अदूरदशाः। अदूरविंशाः। अधिकदशाः। अधिकविंशाः। संख्या- द्वित्राः। त्रिचतुराः। द्विदशाः। संख्ययेति किम्? पञ्च ब्राह्मणाः। अव्ययासन्नादूराधिकसंख्या इति किम्? ब्राह्मणाः पञ्च। संख्येय इति किम्? अधिका विंशतिर्गवाम्॥

दिङ्नामान्यन्तराले॥ २.२.२६॥

दिशां नामानि दिङ्नामानि। दिङ्नामानि सुबन्तान्यन्तराले वाच्ये समस्यन्ते, बहुव्रीहिश्च समासो भवति। दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालम्, दक्षिणपूर्वा दिक्। पूर्वोत्तरा। उत्तरपश्चिमा। पश्चिमदक्षिणा॥ सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः॥ नामग्रहणं रूढ्यर्थम्। इह मा भूत्-ऐन्द्र्याश्च कौबेर्याश्च दिशोर्यदन्तरालमिति॥

तत्र तेनेदमिति सरूपे॥ २.२.२७॥

तत्रेति सप्तम्यन्तं गृह्यते। तेनेति तृतीयान्तम्। सरूपग्रहणं प्रत्येकमभिसंबध्यते। तत्रेति सप्तम्यन्ते सरूपे पदे तेनेति च तृतीयान्ते इदमित्येतस्मिन्नर्थे समस्येते, बहुव्रीहिश्च समासो भवति। इतिकरणश्चेह विवक्षार्थो लौकिकमर्थमनुसारयति। ततो ग्रहणम्, प्रहरणम्, कर्मव्यतिहारः, युद्धं च समासार्थ इति सर्वमितिकरणाल्लभ्यते। यत् तत्रेति निर्दिष्टं ग्रहणं चेत् तद् भवति, यत् तेनेति निर्दिष्टं प्रहरणं चेत् तद् भवति, यदिदमिति निर्दिष्टं युद्धं चेत् तद् भवति। केशेषु केशेषु च गृहीत्वेदं युद्धं प्रवृत्तम्, केशाकेशि। कचाकचि। दण्डैश्च दण्डैश्च प्रहृत्येदं युद्धं प्रवृत्तम्, दण्डादण्डि। मुसलामुसलि। ‘इच् कर्मव्यतिहारे’ (५.४.१२७) इतीच् समासान्तः, स चाव्ययम्। ‘अन्येषामपि दृश्यते’ (६.३.१३७) इति पूर्वपदस्य दीर्घत्वम्। सरूपग्रहणं किम्? हलैश्च मुसलैश्च प्रहृत्येदं युद्धं प्रवृत्तम्॥

तेन सहेति तुल्ययोगे॥ २.२.२८॥

सहेत्येतच्छब्दरूपं तुल्ययोगे वर्तमानं तेनेति तृतीयान्तेन सह समस्यते, बहुव्रीहिश्च समासो भवति। सह पुत्रेणागतः, सपुत्रः। सच्छात्रः। सकर्मकरः। तुल्ययोग इति किम्? सहैव दशभिः पुत्रैर्भारं वहति गर्दभी। विद्यमानैरेव दशभिः पुत्रैर्भारं वहतीत्यर्थः। कथं सकर्मकः सलोमकः सपक्षक इति, न ह्यत्र तुल्ययोगो गम्यते? किं तर्हि? विद्यमानता। प्रायिकं तुल्ययोग इति विशेषणम्। अन्यत्रापि समासो दृश्यते॥

चार्थे द्वन्द्वः॥ २.२.२९॥

अनेकमिति वर्तते। अनेकं सुबन्तं चार्थे वर्तमानं समस्यते, द्वन्द्वसंज्ञश्च समासो भवति। समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः। तत्र समुच्चयान्वाचययोरसामर्थ्याद् नास्ति समासः। इतरेतरयोगे समाहारे च समासो विधीयते। प्लक्षश्च न्यग्रोधश्च, प्लक्षन्यग्रोधौ। धवश्च खदिरश्च पलाशश्च, धवखदिरपलाशाः। वाक् च त्वक् च, वाक्त्वचम्। वाग्दृषदम्। द्वन्द्वप्रदेशाः- ‘द्वन्द्वे च’ (१.१.३१) इत्येवमादयः॥

उपसर्जनं पूर्वम्॥ २.२.३०॥

समास इति वर्तते। उपसर्जनसंज्ञकं समासे पूर्वं प्रयोक्तव्यम्। पूर्ववचनं परप्रयोगनिवृत्त्यर्थम्। अनियमो हि स्यात्। द्वितीया- कष्टश्रितः। तृतीया- शङ्कुलाखण्डः। चतुर्थी- यूपदारु। पञ्चमी- वृकभयम्। षष्ठी- राजपुरुषः। सप्तमी- अक्षशौण्डः॥

राजदन्तादिषु परम्॥ २.२.३१॥

पूर्वनिपाते प्राप्ते परप्रयोगार्थं वचनम्। राजदन्तादिषु उपसर्जनं परं प्रयोक्तव्यम्। न केवलमुपसर्जनस्य, अन्यस्यापि यथालक्षणं विहितस्य पूर्वनिपातस्यायमपवादः परनिपातो विधीयते। दन्तानां राजा, राजदन्तः। वनस्यागे्र, अग्रेवणम्। निपातनादलुक्॥ राजदन्तः। अग्रेवणम्। लिप्तवासितम्। नग्नमुषितम्। सिक्तसंमृष्टम्। मृष्टलुञ्चितम्। अवक्लिन्नपक्वम्। अर्पितोप्तम्। उप्तगाढम्। पूर्वकालस्य परनिपातः। उलूखलमुसलम्। तण्डुलकिण्वम्। दृषदुपलम्। आरग्वायनबन्धकी। चित्ररथबाह्लीकम्। आवन्त्यश्मकम्। शूद्रार्यम्। स्नातकराजानौ। विष्वक्सेनार्जुनौ। अक्षिभ्रुवम्। दारगवम्। शब्दार्थौ। धर्मार्थौ। कामार्थौ। अनियमश्चात्रेष्यते। अर्थशब्दौ। अर्थधर्मौ। अर्थकामौ। तत्कथम्? वक्तव्यमिदम्-धर्मादिषूभयमिति। वैकारिमतम्। गजवाजम्। गोपालधानीपूलासम्। पूलासककरण्डम्। स्थूलपूलासम्। उशीरबीजम्। सिञ्जास्थम्। चित्रास्वाती। भार्यापती। जायापती। जम्पती। दम्पती। जायाशब्दस्य जम्भावो दम्भावश्च निपात्यते। पुत्रपती। पुत्रपशू। केशश्मश्रू। श्मश्रुकेशौ। शिरोबीजम्। सर्पिर्मधुनी। मधुसर्पिषी। आद्यन्तौ। अन्तादी। गुणवृद्धी। वृद्धिगुणौ॥

द्वन्द्वे घि॥ २.२.३२॥

पूर्वमिति वर्तते। द्वन्द्वे समासे घ्यन्तं पूर्वं प्रयोक्तव्यम्। पटुगुप्तौ। मृदुगुप्तौ। अनेकप्राप्तावेकस्य नियमः, शेषे त्वनियमः। पटुमृदुशुक्लाः। पटुशुक्लंमृदवः। द्वन्द्व इति किम्? विस्पष्टपटुः॥

अजाद्यदन्तम् ॥ २.२.३३॥

द्वन्द्व इति वर्तते। अजाद्यदन्तं शब्दरूपं द्वन्द्वे समासे पूर्वं प्रयोक्तव्यम्। उष्ट्रखरम्। उष्ट्रशशकम्॥ बहुष्वनियमः॥ अश्वरथेन्द्राः। इन्द्ररथाश्वाः॥ द्वन्द्वे घ्यन्तादजाद्यदन्तं विप्रतिषेधेन॥ इन्द्राग्नी। इन्द्रवायू। तपरकरणं किम्? अश्वावृषौ, वृषाश्व इति वा॥

अल्पाच्तरम्॥ २.२.३४॥

द्वन्द्व इति वर्तते। अल्पाच्तरं शब्दरूपं द्वन्द्वे समासे पूर्वं प्रयोक्तव्यम्। प्लक्षश्च न्यग्रोधश्च, प्लक्षन्यग्रोधौ। धवखदिरपलाशाः। बहुष्वनियमः- शङ्खदुन्दुभिवीणाः, वीणा-शङ्खदुन्दुभयः॥ ऋतुनक्षत्राणामानुपूर्व्येण समानाक्षराणां पूर्वनिपातो वक्तव्यः॥ हेमन्तशिशिरवसन्ताः। चित्रास्वाती। कृत्तिकारोहिण्यौ। समानाक्षराणामिति किम्? ग्रीष्मवसन्तौ॥ लघ्वक्षरं पूर्वं निपततीति वक्तव्यम्॥ कुशकाशम्। शरशादम्॥ अभ्यर्हितं च पूर्वं निपततीति वक्तव्यम्॥ मातापितरौ। श्रद्धामेधे। दीक्षातपसी॥ वर्णानामानुपूर्व्येण पूर्वनिपातः॥ ब्राह्मणक्षत्रियविट्शूद्राः। समानाक्षराणामित्यत्र नास्ति॥ भ्रातुश्च ज्यायसः पूर्वनिपातो वक्तव्यः॥ युधिष्ठिरार्जुनौ॥ संख्याया अल्पीयस्याः पूर्वनिपातो वक्तव्यः॥ द्वित्राः। त्रिचतुराः। नवतिशतम्॥

सप्तमीविशेषणे बहुव्रीहौ॥ २.२.३५॥

सर्वोपसर्जनत्वाद् बहुव्रीहेरनियमे प्राप्ते नियमार्थं वचनम्। सप्तम्यन्तं विशेषणं च बहुव्रीहिसमासे पूर्वं प्रयोक्तव्यम्। कण्ठेकालः। उरसिलोमा। विशेषणम्-चित्रगुः। शबलगुः॥ सर्वनामसंख्ययोरुपसंख्यानम्॥ सर्वश्वेतः। सर्वकृष्णः। द्विशुक्लः। द्विकृष्णः। अनयोरेव मिथः संप्रधारणायां परत्वात् संख्यायाः पूर्वनिपातः। द्व्यन्यः। त्र्यन्यः॥ वा प्रियस्य पूर्वनिपातः॥ गुडप्रियः। प्रियगुडः॥ सप्तम्याः पूर्वनिपाते प्राप्ते गड्वादिभ्यः सप्तम्यन्तं परम्॥ गडुकण्ठः। गडुशिराः। कथं वहेगडुः? प्राप्तस्य चाबाधा व्याख्येया॥

निष्ठा॥ २.२.३६॥

निष्ठान्तं च बहुव्रीहिसमासे पूर्वं प्रयोक्तव्यम्। कृतकटः। भिक्षितभिक्षः। अवमुक्तोपानत्कः। आहूतसुब्रह्मण्यः। ननु च विशेषणमेवात्र निष्ठा? नैष नियमः, विशेषणविशेष्यभावस्य विवक्षानिबन्धनत्वात्- कटे कृतमनेनेति विग्रहीतव्यम्॥ निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परवचनम्॥ शार्ङ्गजग्धी। पलाण्डुभक्षिती। मासजातः। संवत्सरजातः। सुखजातः। दुःखजातः। कथं कृतकटः, भुक्तौदनः? प्राप्तस्य चाबाधा व्याख्येया॥ प्रहरणार्थेभ्यश्च परे निष्ठासप्तम्यौ भवत इति वक्तव्यम्॥अस्युद्यतः। दण्डपाणिः। कथमुद्यतगदः, उद्यतासिः? प्राप्तस्य चाबाधा व्याख्येया॥

वाहिताग्न्यादिषु॥ २.२.३७॥

निष्ठेति पूर्वनिपाते प्राप्ते विकल्प उच्यते। आहिताग्न्यादिषु निष्ठान्तं पूर्वं वा प्रयोक्तव्यम्। अग्न्याहितः। आहिताग्निः। जातपुत्रः। पुत्रजातः। जातदन्तः। जातश्मश्रुः। तैलपीतः। घृतपीतः। ऊढभार्यः। गतार्थः। आकृतिगणश्चायम्। तेन गडुकण्ठप्रभृतय इहैव द्रष्टव्याः॥

कडाराः कर्मधारये॥ २.२.३८॥

गुणशब्दानां विशेषणत्वात् पूर्वनिपाते प्राप्ते विकल्प उच्यते। कडारादयः शब्दाः कर्मधारये समासे वा पूर्वं प्रयोक्तव्याः। कडारजैमिनिः। जैमिनिकडारः॥ कडार। गडुल। काण। खञ्ज। कुण्ठ। खञ्जर। खलति। गौर। वृद्ध। भिक्षुक। पिङ्गल। तनु। वटर।कर्मधारय इति किम्? कडारपुरुषो ग्रामः॥

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य द्वितीयः पादः॥