आ कडारादेका संज्ञा ॥ १.४.१॥
‘कडाराः कर्मधारये’ (२.२.३८) इति वक्ष्यति। आ एतस्मात् सूत्रावधेर्यदित ऊर्ध्वमनुक्रमिष्यामः, तत्र एका संज्ञा भवतीति वेदितव्यम्। का पुनरसौ? या परानवकाशा च। अन्यत्र संज्ञासमावेशान्नियमार्थं वचनम्, एकैव संज्ञा भवतीति। वक्ष्यति- ‘ह्रस्वं लघु’ (१.४.१०)। भिदि, छिदि-भेत्ता। छेत्ता। ‘संयोगे गुरु’ (१.४.११)। शिक्षि, भिक्षि-शिक्षा। भिक्षा। संयोगपरस्य ह्रस्वस्य लघुसंज्ञा प्राप्नोति गुरुसंज्ञा च। एका संज्ञेति वचनाद् गुरुसंज्ञैव भवति। अततक्षत्। अररक्षत्। ‘सन्वल्लघुनि०’ (७.४.९३) इत्येष विधिर्न भवति॥
विप्रतिषेधे परं कार्यम् ॥ १.४.२॥
तुल्यबलविरोधो विप्रतिषेधः। यत्र द्वौ प्रसङ्गावन्यार्थावेकस्मिन् युगपत् प्राप्नुतः स तुल्यबलविरोधो विप्रतिषेधः। तस्मिन् विप्रतिषेधे परं कार्यं भवति। उत्सर्गापवादनित्यानित्यान्तरङ्गबहिरङ्गेषु तुल्यबलता नास्तीति नायमस्य योगस्य विषयः। बलवतैव तत्र भवितव्यम्। अप्रवृत्तौ पर्यायेण वा प्रवृत्तौ प्राप्तायां वचनमारभ्यते। ‘अतो दीर्घो यञि’ (७.३.१०१) ‘सुपि च’ (७.३.१०२) इत्यस्यावकाशः- वृक्षाभ्याम्। प्लक्षाभ्याम्। ‘बहुवचने झल्येत्’(७.३.१०३) इत्यस्यावकाशः-वृक्षेषु। प्लक्षेषु। इहोभयं प्राप्नोतिवृक्षेभ्यः, प्लक्षेभ्य इति। परं भवति विप्रतिषेधेन॥
यू स्त्र्याख्यौ नदी ॥ १.४.३॥
ई च ऊ च यू। अविभक्तिकोऽय निर्देशः। स्त्रियमाचक्षाते स्त्र्याख्यौ। मूलविभुजादिदर्शनात् (३.२.५ वा०) कप्रत्ययः। ईकारान्तमूकारान्तं च स्त्र्याख्यं शब्दरूपं नदीसंज्ञं भवति। ईकारान्तम्- कुमारी। गौरी। लक्ष्मीः। शार्ङ्गरवी। ऊकारान्तम्-ब्रह्मबन्धूः। यवागूः। यू इति किम्? मात्रे। दुहित्रे। स्त्र्याख्याविति किम्? ग्रामणीः। सेनानीः। खलपूः। आख्याग्रहणं किम्? शब्दार्थे स्त्रीत्व एव यथा स्यात् पदान्तराख्ये मा भूत्। ग्रामण्ये स्त्रियै। खलप्वे स्त्रियै। नदीप्रदेशाः-‘आण् नद्याः’ (७.३.११२) इत्येवमादयः॥
नेयङुवङ्स्थानावस्त्री ॥ १.४.४॥
पूर्वेणातिप्रसक्ता नदीसंज्ञा प्रतिषिध्यते। स्थितिः स्थानम्। इयङुवङोः स्थानमनयोरितीयङुवङ्स्थानौ, तौ यू नदीसंज्ञौ न भवतः, स्त्रीशब्दं वर्जयित्वा। हे श्रीः। हे भ्रूः। अस्त्रीति किम्? हे स्त्रि॥
वामि ॥ १.४.५॥
पूर्वेण नित्ये प्रतिषेधे प्राप्त आमि विकल्पः क्रियते। इयङुवङ्स्थानौ यू आमि परतो वा नदीसंज्ञौ न भवतः। श्रियाम्, श्रीणाम्। भ्रुवाम्, भ्रूणाम्। अस्त्रीत्येव-स्त्रीणाम्॥
ङिति ह्रस्वश्च ॥ १.४.६॥
दीर्घस्य नदीसंज्ञा विहिता ह्रस्वस्य न प्राप्नोति, इयङुवङ्स्थानयोश्च प्रतिषिद्धा। तस्मान् ङिति वा विधीयते। ङिति परतो ह्रस्वश्च य्वोः संबन्धी यः स्त्र्याख्यः, स्त्र्याख्यावियङुवङ्स्थानौ च यू वा नदीसंज्ञौ भवतः। कृत्यै, कृतये। धेन्वै, धेनवे। श्रियै, श्रिये। भ्रुवै, भ्रुवे। अस्त्रीत्येव-स्त्रियै। स्त्र्याख्यावित्येव-अग्नये। वायवे। भानवे॥
शेषो घ्यसखि ॥ १.४.७॥
ह्रस्व इति वर्तते। शेषोऽत्र घिसंज्ञो भवति, सखिशब्दं वर्जयित्वा। कश्च शेषः? ह्रस्वमिवर्णोवर्णान्तं यन्न स्त्र्याख्यम्,स्त्र्याख्यं च यन्न नदीसंज्ञकं स शेषः। अग्नये। वायवे। कृतये। धेनवे। असखीति किम्? सख्या। सख्ये। सख्युः। सख्यौ। घिप्रदेशाः-‘द्वन्द्वे घि’ (२.२.३२) इत्येवमादयः॥
पतिः समास एव ॥ १.४.८॥
पतिशब्दस्य घिसंज्ञायां सिद्धायामयं नियमः क्रियते। पतिशब्दः समास एव घिसंज्ञो भवति। प्रजापतिना। प्रजापतये। समास इति किम्? पत्या। पत्ये। एवकार इष्टतोऽवधारणार्थः। दृढमुष्टिना। दृढमुष्टये॥
षष्ठीयुक्तश्छन्दसि वा ॥ १.४.९॥
पतिरिति वर्तते। पूर्वेण नियमेनासमासे न प्राप्नोतीति वचनमारभ्यते। षष्ठ्यन्तेन युक्तः पतिशब्दः छन्दसि विषये वा घिसंज्ञो भवति। कुलु॒ञ्चानां॒ पत॑ये॒ नमः॑ (तै०सं० ४.५.३.१)। कुलुञ्चानां पत्ये नमः। षष्ठीग्रहणं किम्? मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथासः॑ (ऋ० १०.८५.३६)। छन्दसीति किम्? ग्रामस्य पत्ये॥
ह्रस्वं लघु ॥ १.४.१०॥
मात्रिकस्य ह्रस्वसंज्ञा कृता, तस्यानेन लघुसंज्ञा विधीयते। ह्रस्वमक्षरं लघुसंज्ञं भवति। भेत्ता। छेत्ता। अचीकरत्। अजीहरत्। लघुप्रदेशाः-‘पुगन्तलघूपधस्य च’ (७.३.८६) इत्येवमादयः॥
संयोगे गुरु ॥ १.४.११॥
ह्रस्वमिति वर्तते। पूर्वेण लघुसंज्ञायां प्राप्तायां गुरुसंज्ञा विधीयते। संयोगे परतो ह्रस्वमक्षरं गुरुसंज्ञं भवति। कुण्डा। हुण्डा। शिक्षा। भिक्षा। गुरुप्रदेशाः-‘गुरोश्च हलः’ (३.३.१०३) इत्येवमादयः॥
**दीर्घं च ॥ १.४.१२॥ **
संयोग इति नानुवर्तते। सामान्येन संज्ञाविधानम्। दीर्घं चाक्षरं गुरुसंज्ञं भवति। ईहांचक्रे। ईक्षांचक्रे॥
यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् ॥ १.४.१३॥
यस्मात् प्रत्ययो विधीयते धातोर्वा प्रातिपदिकाद् वा तदादि शब्दरूपं प्रत्यये परतोऽङ्गसंज्ञं भवति। कर्ता। हर्ता। करिष्यति। हरिष्यति। अकरिष्यत्। औपगवः। कापटवः। यस्मादिति संज्ञिनिर्देशार्थम्, तदादीति संबन्धात्। प्रत्ययग्रहणं किम्? न्यविशत। व्यक्रीणीत। ‘नेर्विशः’ (१.३.१७) इत्युपसर्गाद् विधिरस्ति, तदादेरङ्गसंज्ञा स्यात्। विधिग्रहणं किम्? प्रत्ययपरत्वमात्रे मा भूत्। स्त्री इयती॥ तदादिवचनं स्यादिनुमर्थम्॥ करिष्यावः, करिष्यामः। कुण्डानि। पुनः प्रत्ययग्रहणं किमर्थम्? लुप्तप्रत्यये मा भूत्। श्र्यर्थम्। भ्र्वर्थम्। अङ्गप्रदेशाः-‘अङ्गस्य’ (६.४.१) इत्येवमादयः॥
सुप्तिङन्तं पदम् ॥ १.४.१४॥
सुप्तिङिति प्रत्याहारग्रहणम्। सुबन्तं तिङन्तं च शब्दरूपं पदसंज्ञं भवति। ब्राह्मणाः पठन्ति। पदसंज्ञायामन्तग्रहणमन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेः प्रतिषेधार्थम्। गौरी ब्राह्मणितरा। पदप्रदेशाः-‘पदस्य’ (८.१.१६) ‘पदात्’ (८.१.१७) इत्येवमादयः॥
नः क्ये ॥ १.४.१५॥
क्य इति क्यच्क्यङ्क्यषां सामान्यग्रहणम्। नान्तं शब्दरूपं क्ये परतः पदसंज्ञं भवति। क्यच्-राजीयति। क्यङ्-राजायते। क्यष्-वर्मायति, वर्मायते। सिद्धे सत्यारम्भो नियमार्थः। नान्तमेव क्ये परतः पदसंज्ञं भवति नान्यत्। वाच्यति। स्रुच्यति॥
सिति च ॥ १.४.१६॥
‘यचि भम्’ (१.४.१८) इति वक्ष्यति, तस्यायं पुरस्तादपवादः। सिति प्रत्यये परतः पूर्वं पदसंज्ञं भवति। ‘भवतष्ठक्छसौ’ (४.२.११५)-भवदीयः। ‘ऊर्णाया युस्’ (५.२.१२३)-ऊर्णायुः। ‘ऋतोरण्’ (५.१.१०५),‘छन्दसि घस्’ (५.१.१०६)-ऋत्वियः॥
स्वादिष्वसर्वनामस्थाने ॥ १.४.१७॥
स्वादिष्विति सुशब्दादेकवचनाद् (४.१.२) आरभ्य आ कपः (५.४.१५१) प्रत्यया गृह्यन्ते। स्वादिषु प्रत्ययेषु परतः सर्वनामस्थानवर्जितेषु पूर्वं पदसंज्ञं भवति। राजभ्याम्, राजभिः। राजत्वम्। राजता। राजतरः। राजतमः। असर्वनामस्थान इति किम्? राजानौ, राजानः॥
यचि भम् ॥ १.४.१८॥
स्वादिष्वसर्वनामस्थान इति वर्तते। पूर्वेण पदसंज्ञायां प्राप्तायां तदपवादो भसंज्ञा विधीयते। यकारादावजादौ च स्वादौ सर्वनामस्थानवर्जिते प्रत्यये परतः पूर्वं भसंज्ञं भवति। यकारादौ-गार्ग्यः। वात्स्यः। अजादौ-दाक्षिः। प्लाक्षिः॥ नभोऽङ्गिरोमनुषां वत्युपसंख्यानम्॥ नभ इव नभस्वत्। अङ्गिरा इव अङ्गिरस्वत्। मनुरिव मनुष्वत्॥ वृषण्वस्वश्वयोः॥ वृषन्नित्येतत् वस्वश्वयोः परतो भसंज्ञं भवति छन्दसि विषये। वृष॑ण्वसुः (ऋ०१.१११.१)। वृ॒षणश्वस्य मेने (श०ब्रा० ३.३.४.१८)। भप्रदेशाः-‘भस्य’ (६.४.१२९) इत्येवमादयः॥
तसौ मत्वर्थे ॥ १.४.१९॥
भमिति वर्तते। तकारान्तं सकारान्तं शब्दरूपं मत्वर्थे प्रत्यये परतो भसंज्ञं भवति। उदश्वित्वान् घोषः। विद्युत्वान् बलाहकः। सकारान्तम्- यशस्वी। पयस्वी। तसाविति किम्? तक्षवान् ग्रामः॥
अयस्मयादीनिच्छन्दसि ॥ १.४.२०॥
अयस्मयादीनि शब्दरूपाणि छन्दसि विषये साधूनि भवन्ति। भपदसंज्ञाधिकारे विधानात् तेन मुखेन साधुत्वमयस्मयादीनां विधीयते। अयस्मयं वर्म (पै०सं० १.३.७.५)। अयस्मयानि (कौ०सू० ८१.१८) पात्राणि। क्वचिदुभयमपि भवति। स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ (ऋ० ४.५०.५)। पदत्वात् कुत्वं भत्वाज् जश्त्वं न भवति। छन्दसीति किम्? अयोमयं वर्म। आकृतिगणोऽयम्।
बहुषु बहुवचनम् ॥ १.४.२१॥
ङ्याप्प्रातिपदिकात् स्वादयः, लस्य तिबादय इति सामान्येन बहुवचनं विहितम्, तस्यानेन बहुत्वसंख्या वाच्यत्वेन विधीयते। बहुषु बहुवचनं भवति। बहुत्वमस्य वाच्यं भवतीति यावत्। कर्मादयोऽप्यपरे विभक्तीनामर्था वाच्याः, तदीये बहुत्वे बहुवचनम्। कर्मादिषु बहुषु बहुवचनमित्यर्थः। ब्राह्मणाः पठन्ति। यत्र च संख्या संभवति तत्रायमुपदेशः। अव्ययेभ्यस्तु निःसंख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एव॥
द्व्येकयोर्द्विवचनैकवचने ॥ १.४.२२॥
द्वित्वैकत्वयोरर्थयोर्द्विवचनैकवचने भवतः। एतदपि सामान्यविहितयोर्द्विवचनैकवचन-योरर्थाभिधानम्। द्वित्वे द्विवचनं भवति, एकत्व एकवचनं भवति। ब्राह्मणौ पठतः। ब्राह्मणः पठति॥
कारके ॥ १.४.२३॥
कारक इति विशेषणमपादानादिसंज्ञाविषयमधिक्रियते। कारक इत्यधिकारो वेदितव्यः। यदित ऊर्ध्वमनुक्रमिष्यामः कारक इत्येवं तद् वेदितव्यम्। कारकशब्दश्च निमित्तपर्यायः। कारकं हेतुरित्यनर्थान्तरम्। कस्य हेतुः? क्रियायाः। वक्ष्यति-‘ध्रुवमपायेऽपादानम्’ (१.४.२४)- ग्रामादागच्छति। पर्वतादवरोहति। कारक इति किम्? वृक्षस्य पर्णं पतति। कुड्यस्य पिण्डः पतति। ‘अकथितं च’ (१.४.५१)- अकथितं च कारकं कर्मसंज्ञं भवति। माणवकं पन्थानं पृच्छति। कारक इति किम्? माणवकस्य पितरं पन्थानं पृच्छति। कारकसंशब्दनेषु चानेनैव विशेषणेन व्यवहारो विज्ञायते॥
ध्रुवमपायेऽपादानम् ॥ १.४.२४॥
ध्रुवं यदपाययुक्तमपाये साध्ये यदवधिभूतं तत् कारकमपादानसंज्ञं भवति। ग्रामादागच्छति। पर्वतादवरोहति। सार्थाद् धीनः। रथात् पतितः॥ जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्॥ अधर्माज् जुगुप्सते। अधर्माद् विरमति। धर्मात् प्रमाद्यति। अपादानप्रदेशाः-‘अपादाने पञ्चमी’ (२.३.२८) इत्येवमादयः॥
भीत्रार्थानां भयहेतुः ॥ १.४.२५॥
बिभेत्यर्थानां त्रायत्यर्थानां च धातूनां प्रयोगे भयहेतुर्यस्तत् कारकमपादानसंज्ञं भवति। चौरेभ्यो बिभेति। चौरेभ्य उद्विजते। त्रायत्यर्थानाम्- चौरेभ्यस्त्रायते। चौरेभ्यो रक्षति। भयहेतुरिति किम्? अरण्ये बिभेति। अरण्ये त्रायते॥
पराजेरसोढः ॥ १.४.२६॥
परापूर्वस्य जयतेः प्रयोगेऽसोढो योऽर्थः, सोढुं न शक्यते, तत् कारकमपादानसंज्ञं भवति। अध्ययनात् पराजयते। असोढ इति किम्? शत्रून् पराजयते॥
वारणार्थानामीप्सितः ॥ १.४.२७॥
वारणार्थानां धातूनां प्रयोगे य ईप्सितोऽर्थः, तत् कारकमपादानसंज्ञं भवति। प्रवृत्तिविघातो वारणम्। यवेभ्यो गा वारयति। यवेभ्यो गा निवर्तयति। ईप्सित इति किम्? यवेभ्यो गा वारयति क्षेत्रे॥
अन्तर्धौ येनादर्शनमिच्छति ॥ १.४.२८॥
व्यवधानमन्तर्धिः। अन्तर्धिनिमित्तं येनादर्शनमात्मन इच्छति, तत् कारकमपादानसंज्ञं भवति। उपाध्यायाद् अन्तर्धत्ते। उपाध्यायाद् निलीयते। मा मामुपाध्यायो द्राक्षीदिति निलीयते। अन्तर्धाविति किम्? चौरान् न दिदृक्षते। इच्छतिग्रहणं किम्? अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात्॥
आख्यातोपयोगे ॥ १.४.२९॥
आख्याता प्रतिपादयिता। उपयोगो नियमपूर्वकं विद्याग्रहणम्। उपयोगे साध्ये य आख्याता, तत् कारकमपादानसंज्ञं भवति। उपाध्यायादधीते। उपाध्यायादागमयति। उपयोग इति किम्? नटस्य गाथां शृणोति॥
जनिकर्तुः प्रकृतिः॥ १.४.३०॥
जनेः कर्ता जनिकर्ता। जन्यर्थस्य जन्मनः कर्ता जायमानः, तस्य या प्रकृतिः कारणं हेतुः, तत् कारकमपादानसंज्ञं भवति। शृङ्गाच् छरो जायते। गोमयाद् वृश्चिको जायते॥
भुवः प्रभवः ॥ १.४.३१॥
कर्तुरिति वर्तते। भवनं भूः। प्रभवत्यस्मादिति प्रभवः। भूकर्तुः प्रभवो यः, तत् कारकमपादानसंज्ञं भवति। हिमवतो गङ्गा प्रभवति। काश्मीरेभ्यो वितस्ता प्रभवति। प्रथमत उपलभ्यत इत्यर्थः॥
कर्मणा यमभिप्रैति स सम्प्रदानम् ॥ १.४.३२॥
कर्मणा करणभूतेन कर्ता यमभिप्रैति, तत् कारकं संप्रदानसंज्ञं भवति। अन्वर्थसंज्ञाविज्ञानाद् ददातिकर्मणेति विज्ञायते। उपाध्यायाय गां ददाति। माणवकाय भिक्षां ददाति॥ क्रियाग्रहणमपि कर्तव्यम्॥ क्रिययापि यमभिप्रैति स संप्रदानम्। श्राद्धाय निगर्हते। युद्धाय संनह्यते। पत्ये शेते। संप्रदानप्रदेशाः-‘चतुर्थी संप्रदाने’ (२.३.१३) इत्येवमादयः॥ कर्मणः करणसंज्ञा वक्तव्या संप्रदानस्य च कर्मसंज्ञा॥ पशुना रुद्रं यजते। पशुं रुद्राय ददातीत्यर्थः॥
रुच्यर्थानां प्रीयमाणः ॥ १.४.३३॥
रुचिना समानार्था रुच्यर्थाः। अन्यकर्तृकोऽभिलाषो रुचिः। रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणो योऽर्थः, तत् कारकं संप्रदानसंज्ञं भवति। देवदत्ताय रोचते मोदकः। यज्ञदत्ताय स्वदतेऽपूपः। देवदत्तस्थस्याभिलाषस्य मोदकः कर्ता। प्रीयमाण इति किम्? देवदत्ताय रोचते मोदकः पथि॥
श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः॥ १.४.३४॥
श्लाघ, ह्नुङ्, स्था, शप् इत्येतेषां ज्ञीप्स्यमानो योऽर्थः, तत् कारकं संप्रदानसंज्ञं भवति। ज्ञीप्स्यमानो ज्ञपयितुमिष्यमाणो बोधयितुमभिप्रेतः। देवदत्ताय श्लाघते। देवदत्तं श्लाघमानस्तां श्लाघां तमेव ज्ञपयितुमिच्छतीत्यर्थः। एवं देवदत्ताय ह्नुते। यज्ञदत्ताय ह्नुते। देवदत्ताय तिष्ठते। यज्ञदत्ताय तिष्ठते। देवदत्ताय शपते। यज्ञदत्ताय शपते। ज्ञीप्स्यमान इति किम्? देवदत्तः श्लाघते॥
धारेरुत्तमर्णः ॥ १.४.३५॥
धारयतेः प्रयोग उत्तमर्णो योऽर्थः, तत् कारकं संप्रदानसंज्ञं भवति। उत्तममृणं यस्य स उत्तमर्णः। कस्य चोत्तममृणम्? यदीयं धनम्, धनस्वामी प्रयोक्ता उत्तमर्णः, स संप्रदानसंज्ञो भवति। देवदत्ताय शतं धारयति। यज्ञदत्ताय शतं धारयति। उत्तमर्ण इति किम्? देवदत्ताय शतं धारयति ग्रामे॥
स्पृहेरीप्सितः ॥ १.४.३६॥
‘स्पृह ईप्सायाम्’ चुरादावदन्तः पठ्यते। तस्येप्सितो योऽर्थः, तत् कारकं संप्रदानसंज्ञं भवति। ईप्सित इत्यभिप्रेत उच्यते। पुष्पेभ्यः स्पृहयति। फलेभ्यः स्पृहयति। ईप्सित इति किम्? पुष्पेभ्यो वने स्पृहयति॥
क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः ॥ १.४.३७॥
अमर्षः क्रोधः। अपकारो द्रोहः। अक्षमेर्ष्या। गुणेषु दोषाविष्करणमसूया। क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः, तत् कारकं संप्रदानसंज्ञे भवति। क्रोधस्तावत् कोप एव, द्रोहादयोऽपि कोपप्रभवा एव गृह्यन्ते। तस्मात् सामान्येन विशेषणं ‘यं प्रति कोप’ इति। देवदत्ताय क्रुध्यति। देवदत्ताय द्रुह्यति। देवदत्तायेर्ष्यति। देवदत्तायासूयति। यं प्रति कोप इति किम्? भार्यामीर्ष्यति, मैनामन्यो द्राक्षीदिति॥
**क्रुधद्रुहोरुपसृष्टयोः कर्म ॥ १.४.३८॥ **
पूर्वेण संप्रदानसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते। क्रुधद्रुहोरुपसृष्टयोरुपसर्गसंबद्धयोर्यं प्रति कोपः, तत् कारकं कर्मसंज्ञं भवति। देवदत्तमभिक्रुध्यति। देवदत्तमभिद्रुह्यति। उपसृष्टयोरिति किम्? देवदत्ताय क्रुध्यति। यज्ञदत्ताय द्रुह्यति॥
राधीक्ष्योर्यस्य विप्रश्नः ॥ १.४.३९॥
राधेरीक्षेश्च कारकं संप्रदानसंज्ञं भवति। कीदृशम्? यस्य विप्रश्नः, विविधः प्रश्नः विप्रश्नः। स कस्य भवति? यस्य शुभाशुभं पृच्छ्यते। देवदत्ताय राध्यति। देवदत्तायेक्षते। नैमित्तिकः पृष्टः सन् देवदत्तस्य दैवं पर्यालोचयतीत्यर्थः॥
प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता ॥ १.४.४०॥
प्रति आङ्इत्येवंपूर्वस्य शृणोतेः कारकं संप्रदानसंज्ञं भवति। कीदृशम्? पूर्वस्य कर्ता। प्रतिपूर्व आङ्पूर्वश्च शृणोतिरभ्युपगमे प्रतिज्ञाने वर्तते। स चाभ्युपगमः परेण प्रयुक्तस्य सतो भवति। तत्र प्रयोक्ता पूर्वस्याः क्रियायाः कर्ता संप्रदानसंज्ञो भवति। देवदत्ताय गां प्रतिशृणोति। देवदत्ताय गामाशृणोति। प्रतिजानीत इत्यर्थः॥
अनुप्रतिगृणश्च ॥ १.४.४१॥
पूर्वस्य कर्तेति वर्तते। अनुपूर्वस्य प्रतिपूर्वस्य च गृणातेः कारकं पूर्वस्याः क्रियायाः कर्तृभूतं संप्रदानसंज्ञं भवति। होत्रेऽनुगृणाति। होत्रे प्रतिगृणाति। होता प्रथमं शंसति, तमन्यः प्रोत्साहयति। अनुगरः प्रतिगर इति हि शंसितुः प्रोत्साहने वर्तते। होत्रेऽनुगृणाति। होतारं शंसन्तं प्रोत्साहयतीत्यर्थः॥
साधकतमं करणम् ॥ १.४.४२॥
क्रियासिद्धौ यत् प्रकृष्टोपकारकं विवक्षितम्, तत् साधकतमं कारकं करणसंज्ञं भवति। दात्रेण लुनाति। परशुना छिनत्ति। तमब्ग्रहणं किम्? गङ्गायां घोषः। कूपे गर्गकुलम्। करणप्रदेशाः-‘कर्तृकरणयोस्तृतीया’ (२.३.१८) इत्येवमादयः॥
**दिवः कर्म च ॥ १.४.४३॥ **
पूर्वेण करणसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते। दिवः साधकतमं यत् कारकम्, तत् कर्मसंज्ञं भवति चकारात् करणसंज्ञं च। अक्षान् दीव्यति। अक्षैर्दीव्यति॥
परिक्रयणे सम्प्रदानमन्यतरस्याम् ॥ १.४.४४॥
साधकतममिति वर्तते। पूर्वेण करणसंज्ञायां प्राप्तायां संप्रदानसंज्ञा पक्षे विधीयते। परिक्रयणे साधकतमं कारकमन्यतरस्यां संप्रदानसंज्ञं भवति। परिक्रयणं नियतकालं वेतनादिना स्वीकरणम्, नात्यन्तिकः क्रय एव। शतेन परिक्रीतोऽनुब्रूहि। शताय परिक्रीतोऽनुब्रूहि। सहस्रेण परिक्रीतोऽनुब्रूहि। सहस्राय परिक्रीतोऽनुब्रूहि॥
आधारोऽधिकरणम् ॥ १.४.४५॥
आध्रियन्तेऽस्मिन् क्रिया इत्याधारः। कर्तृकर्मणोः क्रियाश्रयभूतयोर्धारणक्रियां प्रति य आधारः, तत् कारकमधिकरणसंज्ञं भवति। कट आस्ते। कटे शेते। स्थाल्यां पचति। अधिकरणप्रदेशाः-‘सप्तम्यधिकरणे च’ (२.३.३६) इत्येवमादयः॥
अधिशीङ्स्थासां कर्म ॥ १.४.४६॥
पूर्वेणाधिकरणसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते। अधिपूर्वाणां शीङ् स्था आस् इत्येतेषामाधारो यः, तत् कारकं कर्मसंज्ञं भवति। ग्राममधिशेते। ग्राममधितिष्ठति। पर्वतमध्यास्ते॥
अभिनिविशश्च ॥ १.४.४७॥
अभिनिपूर्वस्य विशतेराधारो यः, तत् कारकं कर्मसंज्ञं भवति। ग्राममभिनिविशते। कथं कल्याणेऽभिनिवेशः, पापेऽभिनिवेशः, या या संज्ञा यस्मिन् यस्मिन् संज्ञिन्यभिनिविशत इति? अन्यतरस्यामिति वर्तते,‘परिक्रयणे संप्रदानमन्यतरस्याम्’ (१.४.४४) इत्यतः। सा च व्यवस्थितविभाषा विज्ञायते॥
उपान्वध्याङ्वसः ॥ १.४.४८॥
उप अनु अधि आङ्इत्येवंपूर्वस्य वसतेराधारो यः, तत् कारकं कर्मसंज्ञं भवति। ग्राममुपवसति सेना। पर्वतमुपवसति। ग्राममनुवसति। ग्राममधिवसति। ग्राममावसति॥ वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः॥ ग्राम उपवसति। भोजननिवृत्तिं करोतीत्यर्थः॥
कर्तुरीप्सिततमं कर्म ॥ १.४.४९॥
कर्तुः क्रियया यदाप्तुमिष्टतमम्, तत् कारकं कर्मसंज्ञं भवति। कटं करोति। ग्रामं गच्छति। कर्तुरिति किम्? माषेष्वश्वं बध्नाति। कर्मण ईप्सिता माषा न कर्तुः। तमब्ग्रहणं किम्? पयसौदनं भुङ्क्ते। कर्मेत्यनुवर्तमाने पुनः कर्मग्रहणमाधारनिवृत्त्यर्थम्। इतरथाधारस्यैव हि स्यात्। गेहं प्रविशतीति। ओदनं पचति सक्तून् पिबतीत्यादिषु न स्यात्। पुनः कर्मग्रहणात् सर्वत्र सिद्धं भवति। कर्मप्रेदशाः-‘कर्मणि द्वितीया’ (२.३.२) इत्येवमादयः॥
तथायुक्तं चानीप्सितम् ॥ १.४.५०॥
येन प्रकारेण कर्तुरीप्सिततमं क्रियया युज्यते, तेनैव चेत् प्रकारेण यदनीप्सितं युक्तं भवति, तस्य कर्मसंज्ञा विधीयते। ईप्सितादन्यत् सर्वमनीप्सितं द्वेष्यमितरच्च। विषं भक्षयति। चौरान् पश्यति। ग्रामं गच्छन् वृक्षमूलान्युपसर्पति॥
अकथितं च ॥ १.४.५१॥
अकथितं च यत् कारकम्, तत् कर्मसंज्ञं भवति। केनाकथितम्? अपादानादिभिर्विशेषकथाभिः। परिगणनं कर्तव्यम्-
दुहियाचिरुधिप्रच्छिभिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ।
ब्रुविशासिगुणेन च यत् सचते तदकीर्तितमाचरितं कविना॥
उपयुज्यत इत्युपयोगः पयःप्रभृति, तस्य निमित्तं गवादि, तस्योपयुज्यमानपयःप्रभृतिनिमित्तस्य गवादेः कर्मसंज्ञा विधीयते। पाणिना कांस्यपात्र्यां गां दोग्धि पयः पाण्यादिकमप्युपयोगनिमित्तम्, तस्य कस्माद् न भवति? नैतदस्ति। विहिता हि तत्र करणादिसंज्ञा। तदर्थमाह- अपूर्वविधाविति। ब्रुविशासिगुणेन च यत् सचते। ब्रुविशास्योर्गुणः साधनं प्रधानं कर्म धर्मादिकम्, तेन यत् संबध्यते, तदकीर्तितमाचरितं कविना, तदकथितमुक्तं सूत्रकारेण। दुहि-गां दोग्धि पयः। याचि- पौरवं गां याचते। रुधि-गामवरुणद्धि व्रजम्। प्रच्छि-माणवकं पन्थानं पृच्छति। भिक्षि-पौरवं गां भिक्षते। चिञ्-वृक्षमवचिनोति फलानि। ब्रुवि-माणवकं धर्मं ब्रूते। शासि-माणवकं धर्ममनुशास्ति॥
गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ ॥ १.४.५२॥
अर्थशब्दः प्रत्येकमभिसंबध्यते। गत्यर्थानां बुद्ध्यर्थानां प्रत्यवसानार्थानां च धातूनां तथा शब्दकर्मकाणामकर्मकाणां चाण्यन्तानां यः कर्ता, स ण्यन्तानां कर्मसंज्ञो भवति। गच्छति माणवको ग्रामम्। गमयति माणवकं ग्रामम्। याति माणवको ग्रामम्। यापयति माणवकं ग्रामम्॥ गत्यर्थेषु नीवह्योः प्रतिषेधो वक्तव्यः॥ नयति भारं देवदत्तः। नाययति भारं देवदत्तेन। वहति भारं देवदत्तः। वाहयति भारं देवदत्तेन॥ वहेरनियन्तृकर्तृकस्येति वक्तव्यम्॥ इह प्रतिषेधो मा भूत्-वहन्ति यवान् बलीवर्दाः। वाहयति यवान् बलीवर्दानिति। बुद्धि-बुध्यते माणवको धर्मम्। बोधयति माणवकं धर्मम्। वेत्ति माणवको धर्मम्। वेदयति माणवकं धर्मम्। प्रत्यवसानमभ्यवहारः-भुङ्क्ते माणवक ओदनम्। भोजयति माणवकमोदनम्। अश्नाति माणवक ओदनम्। आशयति माणवकमोदनम्॥ आदिखाद्योः प्रतिषेधो वक्तव्यः॥ अत्ति माणवक ओदनम्। आदयते माणवकेनौदनम्। खादति माणवकः। खादयति माणवकेन॥ भक्षेरहिंसार्थस्य प्रतिषेधो वक्तव्यः॥ भक्षयति पिण्डीं देवदत्तः। भक्षयति पिण्डीं देवदत्तेनेति। अहिंसार्थस्येति किम्? भक्षयन्ति बलीवर्दाः सस्यम्, भक्षयन्ति बलीवर्दान् सस्यम्। शब्दकर्मणाम्- अधीते माणवको वेदम्। अध्यापयति माणवकं वेदम्। पठति माणवको वेदम्। पाठयति माणवकं वेदम्। अकर्मकाणाम्-आस्ते देवदत्तः। आसयति देवदत्तम्। शेते देवदत्तः। शाययति देवदत्तम्। एतेषामिति किम्? पचत्योदनं देवदत्तः। पाचयत्योदनं देवदत्तेनेति। अण्यन्तानामिति किम्? गमयति देवदत्तो यज्ञदत्तम्, तमपरः प्रयुङ्क्ते, गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः॥
हृक्रोरन्यतरस्याम् ॥ १.४.५३॥
अणि कर्ता स णाविति वर्तते। हरतेः करोतेश्चाण्यन्ततोर्यःकर्ता, स ण्यन्तयोरन्यतरस्यां कर्मसंज्ञो भवति। हरति भारं माणवकः। हारयति भारं माणवकम्, माणवकेनेति वा। करोति कटं देवदत्तः, कारयति कटं देवदत्तम्, देवदत्तेनेति वा॥ अभिवादिदृशोरात्मनेपद उपसंख्यानम्॥ अभिवदति गुरुं देवदत्तः। अभिवादयते गुरुं देवदत्तम्, देवदत्तेनेति वा। पश्यन्ति भृत्या राजानम्। दर्शयते भृत्यान् राजा, भृत्यैरिति वा। आत्मनेपद इति किम्? दर्शयति चैत्रं मैत्रमपरः। प्राप्तविकल्पत्वाद् द्वितीयैव। अभिवादयति गुरुं माणवकेन पिता। अप्राप्तविकल्पत्वात्तृतीयैव॥
स्वतन्त्रः कर्ता ॥ १.४.५४॥
स्वतन्त्र इति प्रधानभूत उच्यते, अगुणभूतः। यः क्रियासिद्धौ स्वातन्त्र्येण विवक्ष्यते, तत् कारकं कर्तृसंज्ञं भवति। देवदत्तः पचति। स्थाली पचति। कर्तृप्रदेशाः-‘कर्तृकरणयोस्तृतीया’ (२.३.१८) इत्येवमादयः॥
तत्प्रयोजको हेतुश्च ॥ १.४.५५॥
तदित्यनन्तरः कर्ता परामृश्यते। तस्य प्रयोजकः तत्प्रयोजकः। निपातनात् समासः। स्वतन्त्रस्य प्रयोजको योऽर्थः, तत् कारकं हेतुसंज्ञं भवति चकारात् कर्तृसंज्ञं च। संज्ञासमावेशार्थश्चकारः। कुर्वाणं प्रयुङ्क्ते, कारयति। हारयति। हेतुत्वाद् णिचो निमित्तं कर्तृत्वाच्च कर्तृप्रत्ययेनोच्यते। हेतुप्रदेशाः-‘हेतुमति च’ (३.१.२६) इत्येवमादयः॥
प्राग्रीश्वरान्निपाताः ॥ १.४.५६॥
‘अधिरीश्वरे’ (१.४.९७) इति वक्ष्यति। प्रागेतस्मादवधेर्यानित ऊर्ध्वमनुक्रमिष्यामः निपातसंज्ञास्ते वेदितव्याः। वक्ष्यति ‘चादयोऽसत्त्वे’ (१.४.५७) च वा ह अह। प्राग्वचनं संज्ञासमावेशार्थम्। गत्युपसर्गकर्मप्रवचनीयसंज्ञाभिस्सह निपातसंज्ञा समाविशति। रेफोच्चारणम् ‘ईश्वरे तोसुन्कसुनौ’ (३.४.१३) इत्ययमवधिर्मा विज्ञायीति॥
रीश्वराद् वीश्वरान् मा भूत् कृन्मेजन्तः परोऽपि सः।
समासेष्वव्ययीभावो लौकिकं चातिवर्तते॥
चादयोऽसत्त्वे ॥ १.४.५७॥
चादयो निपातसंज्ञा भवन्ति न चेत् सत्त्वे वर्तन्ते। प्रसज्यप्रतिषेधोऽयम्, सत्त्वमिति च द्रव्यमुच्यते। च। वा। ह। अह। एव। एवम्। नूनम्। शश्वत्। युगपत्। सूपत्। कूपत्। कुवित्। नेत्। चेत्। चण्। कच्चित्। यत्र। नह। हन्त। माकिम्। नकिम्। माङ्। माङो ङकारो विशेषणार्थो ‘माङि लुङ्’ (३.३.१७५) इति। इह न भवति- मा भवतु, मा भविष्यति। नञ्। यावत्। तावत्। त्वा। त्वै। द्वै। रै। श्रौषट्। वौषट्। स्वाहा। वषट्। स्वधा। ओम्। किल। तथा। अथ। सु। स्म। अस्मि। अ। इ। उ। ऋ। ऌ। ए। ऐ। ओ। औ। अम्। तक्। उञ्। उकञ्। वेलायाम्। मात्रायाम्। यथा। यत्। यम्। तत्। किम्। पुरा। अद्धा। धिक्। हाहा। हे। है। प्याट्। पाट्। थाट्। अहो। उताहो। हो। तुम्। तथाहि। खलु। आम्। आहो। अथो। ननु। मन्ये। मिथ्या। असि। ब्रूहि। तु। नु। इति। इव। वत्। चन। बत। इह। शम्। कम्। अनुकम्। नहिकम्। हिकम्। सुकम्। सत्यम्। ऋतम्। श्रद्धा। इद्धा। मुधा। नोचेत्। नचेत्। नहि। जातु। कथम्। कुतः। कुत्र। अव। अनु। हाहौ। हैहा। ईहा। आहोस्वित्। छम्बट्। खम्। दिष्ट्या। पशु। वट्। सह। आनुषक्। अङ्ग। फट्। ताजक्। अये। अरे। चटु। बाट्। कुम्। खुम्। घुम्। हुम्। आईम्। शीम्। सीम्। वै। उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः (ग०सू० १६)। उपसग᐀्प्रतिरूपकाः-
अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि।
सुदत्तमनुदत्तं च निदत्तमिति चेष्यते॥
‘अच उपसर्गात् तः’ (७.४.४७) इति तत्वं न भवति। दुर्नीतम्। दुर्नयः। दुर्निर्णयः। ‘उपसर्गाद०’ (८.४.१४) इति णत्वं न भवति। असत्त्व इति किम्? पशुर्वै पुरुषः। पशुः पुरोडाशः। निपातप्रदेशाः-‘स्वरादिनिपातमव्ययम्’ (१.३.३७) इत्येवमादयः॥
प्रादयः ॥ १.४.५८॥
प्रादयोऽसत्त्वे निपातसंज्ञा भवन्ति। प्र। परा। अप। सम्। अनु। अव। निस्। निर्। दुस्। दुर्। वि। आङ्। नि। अधि। अपि। अति। सु। उत्। अभि। प्रति। परि। उप। पृथग्योगकरणमुत्तरसंज्ञाविशेषणार्थम्। ‘उपसर्गाः क्रियायोगे’ (१.४.५९) इति चादीनामुपसर्गसंज्ञा मा भूत्। असत्त्व इत्येव-परा जयन्ति सेनाः॥
उपसर्गाः क्रियायोगे ॥ १.४.५९॥
प्रादयः क्रियायोग उपसर्गसंज्ञा भवन्ति। प्रणयति। परिणयति। प्रणायकः। परिणायकः। क्रियायोग इति किम्? प्रगतो नायकोऽस्माद् देशात् प्रनायको देशः॥ मरुच्छब्दस्य चोपसंख्यानं कर्तव्यम्॥ मरुद्भिर्दत्तो मरुत्तः। संज्ञाविधानसामर्थ्यादनजन्तत्वेऽपि ‘अच उपसर्गात् तः’ (७.४.४७) इति तत्वं भवति ॥ श्रच्छब्दस्योपसंख्यानम्॥ ‘आतश्चोपसर्गे’ (३.३.१०६) इत्यङ् भवति। श्रद्धा। उपसर्गप्रदेशाः-‘उपसर्गे घोः किः’ (३.३.९२) इत्येवमादयः॥
गतिश्च ॥ १.४.६०॥
गतिसंज्ञकाश्च प्रादयो भवन्ति क्रियायोगे। प्र॒कृत्य॑। प्रकृ॑तम्। यत् प्र॒क॒रोति॑। योगविभाग उत्तरार्थः। उत्तरत्र गतिसंज्ञैव यथा स्यात्, उपसर्गसंज्ञा मा भूत्। ऊरीस्यादित्यत्र ‘उपसर्गप्रादुर्भ्यामस्तिर्यच्परः’ (८.३.८७) इति षत्वं प्रसज्येत। चकारः संज्ञासमावेशार्थः। प्रणी॑तम्। अ॒भिषि॑क्तम्। ‘गतिरनन्तरः’ (६.२.४९) इति स्वरः,‘उपसर्गाद्०’ (८.४.१४, ८.३.६५) इति णत्वषत्वे च भवतः॥ कारिकाशब्दस्योपसंख्यानम्॥ कारिकाकृत्य। कारि॑काकृतम्। यत् का॑रिकाक॒रोति॑॥ पुनश्चनसौ छन्दसि गतिसंज्ञौ भवत इति वक्तव्यम्॥ पुनरुत्स्यूतं ॑ वा॑सो॒ दे॑य॒म् (मै० सं० १.७.२)। ‘गतिर्गतौ’ (८.१.७०) इति निघातो भवति। (उ॒शिग्दू॒तः) चनो॑ हितः (ऋ० ३.११.२)। ‘गतिरनन्तरः’ (६.२.४९) इति स्वरः। गतिप्रदेशाः-‘कुगतिप्रदायः’ (२.२.१८) इत्येवमादयः॥
ऊर्यादिच्विडाचश्च ॥ १.४.६१॥
ऊर्यादयः शब्दाः च्व्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञा भवन्ति। च्विडाचोः कृभ्वस्तियोगे विधानम्। तत्साहचर्यादूर्यादीनामपि तैरेव योगे गतिसंज्ञा विधीयते। ऊरीउररीशब्दावङ्गीकरणे विस्तारे च। ऊरीकृत्य। ऊरी॑कृतम्। यदू॑रीक॒रोति॑। उररीकृत्य। उर॑रीकृतम्। यदु॑ररीक॒रोति॑। पापी। ताली। आताली। वेताली। धूसी। शकला। संशकला। ध्वंसकला। भ्रंशकला। एते शकलादयो हिंसायाम्। शकलाकृत्य। संशकलाकृत्य। ध्वंसकलाकृत्य। भ्रंशकलाकृत्य। गुलगुधा पीडार्थे। गुलगुधाकृत्य। सजूः सहार्थे। सजूःकृत्य। फलू, फली, विक्ली, आक्ली इति विकारे। फलूकृत्य। फलीकृत्य। विक्लीकृत्य। आक्लीकृत्य। आलोष्टी, कराली, केवाली, शेवाली, वर्षाली, मस्मसा, मसमसा। एते हिंसायाम्। वषट्। वौषट्। श्रौषट्। स्वाहा। स्वधा। बन्धा। प्रादुस्। श्रुत्। आविस्। च्व्यन्ताः खल्वपि- शुक्लीकृत्य। शुक्ली॑कृतम्। यत् शु॑क्लीक॒रोति॑। डाच्- पटपटाकृत्य। पट॑पटाकृतम्। यत् प॑टपटाक॒रोति॑॥
अनुकरणं चानितिपरम् ॥ १.४.६२॥
इतिः परो यस्मादिति बहुव्रीहिः। अनुकरणमनितिपरं क्रियायोगे गतिसंज्ञं भवति। खाट्कृत्य। खाट्कृ॑तम्। यत् खा॑ट्क॒रोति॑। अनितिपरमिति किम्? खाडिति कृत्वा निरष्ठीवत्॥
आदरानादरयोः सदसती ॥ १.४.६३॥
प्रीतिसंभ्रम आदरः। परिभवौदासीन्यमनादरः। आदरानादरयोर्यथाक्रमं सदसच्छब्दौ गतिसंज्ञौ भवतः। सत्कृत्य। सत्कृ॑तम्। यत् स॑त्क॒रोति॑। असत्कृत्य। अस॑त्कृतम्। यद॑सत्क॒रोति॑। आदरानादरयोरिति किम्? सत् कृत्वा काण्डं गतः। असत् कृत्वा काण्डं गतः॥
भूषणेऽलम् ॥ १.४.६४॥
अलमिति प्रतिषेधे, सामर्थ्ये, पर्याप्तौ, भूषणे चेति विशेषणमुपादीयते। भूषणे योऽलंशब्दः स गतिसंज्ञो भवति। अलंकृत्य। अलं॑कृतम्। यद॑लंक॒रोति॑। भूषण इति किम्? अलं भुक्त्वौदनं गतः॥
अन्तरपरिग्रहे ॥ १.४.६५॥
अन्तःशब्दोऽपरिग्रहेऽर्थे गतिसंज्ञो भवति। परिग्रहः स्वीकरणं तदभावे गतिसंज्ञा विधीयते। अन्तर्हत्य। अ॒र्न्तह॑तम्। यद॑न्त॒र्हन्ति॑। अपरिग्रह इति किम्? अन्तर्हत्वा मूषिकां श्येनो गतः। परिगृह्य गत इत्यर्थः॥ अन्तःशब्दस्याङ्किविधिणत्वेषूपसर्गसंज्ञा वक्तव्या॥ अन्तर्धा। अन्तर्धिः। अन्तर्णयति॥
कणेमनसी श्रद्धाप्रतीघाते ॥ १.४.६६॥
कणेशब्दो मनस्शब्दश्च श्रद्धाप्रतीघाते गतिसंज्ञौ भवतः। कणेहत्य पयः पिबति। मनोहत्य पयः पिबति। तावत् पिबति यावदस्याभिलाषो निवृत्तः। श्रद्धा प्रतिहतेत्यर्थः। श्रद्धाप्रतीघात इति किम्? कणे हत्वा गतः। मनो हत्वा गतः॥
पुरोऽव्ययम् ॥ १.४.६७॥
असिप्रत्ययान्तः पुरः शब्दोऽव्ययम्, स गतिसंज्ञो भवति। समासस्वरोपचाराः प्रयोजनम्। पुरस्कृत्य। पुरस्कृ॑तम्। यत् पु॑रस्क॒रोति॑। अव्ययमिति किम्? पूः, पुरौ। पुरः कृत्वा गतः॥
अस्तं च ॥ १.४.६८॥
अस्तंशब्दो मकारान्तोऽव्ययमनुपलब्धौ वर्तते, स गतिसंज्ञो भवति। अस्तंगत्य सविता पुनरुदेति। अ॒स्तंग॑तानि धनानि। यद॑स्तं॒गच्छ॑ति। अव्ययमित्येव- अस्तं कृत्वा काण्डं गतः। क्षिप्तमित्यर्थः॥
अच्छ गत्यर्थवदेषु ॥ १.४.६९॥
अच्छशब्दोऽव्ययमभिशब्दस्यार्थे वर्तते। स गत्यर्थेषु धातुषु वदतौ च गतिसंज्ञो भवति। अच्छगत्य। अच्छ॑गतम्। यद॑च्छ॒गच्छ॑ति। वदतौ-अच्छोद्य। अच्छो॑दितम्। यद॑च्छ॒वद॑ति। अव्ययमित्येव-उदकमच्छं गच्छति॥
अदोऽनुपदेशे॥ १.४.७०॥
अदः शब्दस्त्यदादिषु पठ्यते, सोऽनुपदेशे गतिसंज्ञो भवति। उपदेशः परार्थः प्रयोगः। स्वयमेव तु यदा बुद्ध्या परामृशति तदा नास्त्युपदेश इति सोऽस्य विषयः। अदःकृत्य। अ॒दःकृ॑तम्। यद॑दःक॒रोति॑। अनुपदेश इति किम्? अदः कृत्वा काण्डं गत इति परस्य कथयति॥
तिरोऽन्तर्धौ ॥ १.४.७१॥
अन्तर्धिर्व्यवधानम्। तत्र तिरःशब्दो गतिसंज्ञो भवति। तिरोभूय। तिरो॑भूतम्। यत् ति॑रो॒भव॑ति। अन्तर्धाविति किम्? तिरो भूत्वा स्थितः। पार्श्वतो भूत्वेत्यर्थः॥
विभाषा कृञि ॥ १.४.७२॥
अन्तर्धाविति वर्तते। प्राप्तविभाषेयम्। तिरःशब्दः करोतौ परतो विभाषा गतिसंज्ञो भवति। तिरःकृत्य। तिरस्कृत्य। तिर॑स्कृतम्। यत् ति॑रस्क॒रोति॑। तिरःकृत्वा। तिरस्कृत्वा। अन्तर्धावित्येव-तिरः कृत्वा काष्ठं तिष्ठति॥
उपाजेऽन्वाजे ॥ १.४.७३॥
विभाषा कृञीति वर्तते। उपाजेऽन्वाजेशब्दौ विभक्तिप्रतिरूपकौ निपातौ दुर्बलस्य सामर्थ्याधाने वर्तते,तौ कृञि विभाषा गतिसंज्ञौ भवतः। उपाजेकृत्य, उपाजे कृत्वा। अन्वाजेकृत्य, अन्वाजे कृत्वा॥
साक्षात्प्रभृतीनि च ॥ १.४.७४॥
विभाषा कृञीति वर्तते। साक्षात्प्रभृतीनि शब्दरूपाणि कृञि विभाषा गतिसंज्ञानि भवन्ति॥ साक्षात्प्रभृतिषु च्व्यर्थवचनम्॥ साक्षात्कृत्य, साक्षात्कृत्वा। मिथ्याकृत्य, मिथ्या कृत्वा॥ साक्षात्। मिथ्या। चिन्ता। भद्रा। लोचना। विभाषा। संपत्का। आस्था। अमा। श्रद्धा। प्राजर्या। प्राजरुहा। वीजर्या। वीजरुहा। संसर्या। अर्थे। लवणम्। उष्णम्। शीतम्। उदकम्। आर्द्रम्। गतिसंज्ञासंनियोगेन लवणादीनां मकारान्तत्वं निपात्यते। अग्नौ। वशे। विकम्पने। विहसने। प्रहसने। प्रतपने। प्रादुस्। नमस्। आविस्॥
अनत्याधान उरसिमनसी ॥ १.४.७५॥
विभाषा कृञीति वर्तते। अत्याधानमुपश्लेषणम्, तदभावेऽनत्याधान उरसिमनसी शब्दौ विभाषा कृञि गतिसंज्ञौ भवतः। उरसिकृत्य, उरसि कृत्वा। मनसिकृत्य, मनसि कृत्वा। अनत्याधान इति किम्? उरसि कृत्वा पाणिं शेते॥
मध्येपदेनिवचने च ॥ १.४.७६॥
विभाषा कृञीति वर्तते चकारादनत्याधान इति च। मध्ये पदे निवचने इत्येते शब्दा अनत्याधाने विभाषा कृञि गतिसंज्ञा भवन्ति। मध्येकृत्य, मध्ये कृत्वा। पदेकृत्य, पदे कृत्वा। निवचनं वचनाभावः। निवचनेकृत्य, निवचने कृत्वा। वाचं नियम्येत्यर्थः। अनत्याधान इत्येव-हस्तिनः पदे कृत्वा शिरः शेते॥
नित्यं हस्ते पाणावुपयमने ॥ १.४.७७॥
कृञीति वर्तते। हस्ते पाणौ इत्येतौ शब्दौ कृञि नित्यं गतिसंज्ञौ भवत उपयमने। उपयमनं दारकर्म। पाणौकृत्य। हस्तेकृत्य। दारकर्म कृत्वेत्यर्थः। उपयमन इति किम्? हस्ते कृत्वा कार्षापणं गतः॥
प्राध्वं बन्धने ॥ १.४.७८॥
कृञीति वर्तते। प्राध्वमिति मकारान्तमव्ययमानुकूल्ये वर्तते, तदानुकूल्यं बन्धनहेतुकं यदा भवति तदा प्राध्वंशब्दः कृञि नित्यं गतिसंज्ञो भवति। प्राध्वंकृत्य। बन्धन इति किम्? प्राध्वं कृत्वा शकटं गतः॥
जीविकोपनिषदावौपम्ये ॥ १.४.७९॥
कृञीति वर्तते। जीविका उपनिषदित्येतौ शब्दावौपम्ये विषये कृञि गतिसंज्ञौ भवतः। जीविकाकृत्य। उपनिषत्कृत्य। औपम्य इति किम्? जीविकां कृत्वा गतः॥
ते प्राग् धातोः ॥ १.४.८०॥
ते गत्युपसर्गसंज्ञकाः धातोः प्राक् प्रयोक्तव्याः। तथा चैवोदाहृताः। तेग्रहणमुपसर्गार्थम्। गतयो ह्यनन्तराः॥
छन्दसि परेऽपि ॥ १.४.८१॥
प्राक् प्रयोगे प्राप्ते छन्दसि परेऽप्यभ्यनुज्ञायन्ते। छन्दसि विषये गत्युपसर्गसंज्ञकाः परेऽपि पूर्वेऽपि प्रयोक्तव्याः। न च परेषां प्रयुज्यमानानां संज्ञाकार्यं किञ्चिदस्ति। केवलं परप्रयोगेऽपि क्रियायोग एषामस्तीति ज्ञाप्यते। याति नि हस्तिना, नियाति हस्तिना। हन्ति नि मुष्टिना, निहन्ति मुष्टिना॥
व्यवहिताश्च ॥ १.४.८२॥
व्यवहिताश्च गत्युपसर्गसंज्ञकाः छन्दसि दृश्यन्ते। आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः (ऋ० ३.४५.१)। आ या॑हि (ऋ० ६.१६.१०)॥
कर्मप्रवचनीयाः ॥ १.४.८३॥
कर्मप्रवचनीया इत्यधिकारो वेदितव्यः। यानित ऊर्ध्वमनुक्रमिष्यामः कर्मप्रवचनीयसंज्ञास्ते वेदितव्याः। ‘अधिरीश्वरे’ (१.४.९७) इति यावद् वक्ष्यति। कर्मप्रवचनीयप्रदेशाः- ‘कर्मप्रवचनीययुक्ते द्वितीया’ (२.३.८) इत्येवमादयः ॥
अनुर्लक्षणे ॥ १.४.८४॥
अनुशब्दो लक्षणे द्योत्ये कर्मप्रवचनीयसंज्ञो भवति। शाकल्यस्य संहितामनु प्रावर्षत्। अनडुद्यज्ञम् (मा०गृ० २.१०.७) अन्वसिञ्चत्। अगस्त्यमन्वसिञ्चन् प्रजाः। किमर्थमिदमुच्यते, यावता ‘लक्षणेत्थंभूताख्यान०’ (१.४.९०) इति सिद्धैवानोः कर्मप्रवचनीयसंज्ञा? हेत्वर्थं तु वचनं हेतुतृतीयां बाधित्वा द्वितीयैव यथा स्यात्॥
तृतीयार्थे ॥ १.४.८५॥
अनुशब्दस्तृतीयार्थे द्योत्ये कर्मप्रवचनीयसंज्ञो भवति। नदीमन्ववसिता सेना। पर्वतमन्ववसिता सेना। पर्वतेन संबद्धेत्यर्थः॥
हीने ॥ १.४.८६॥
हीन इति न्यून उच्यते स च उत्कृष्टापेक्षः। तेनेयं हीनोत्कृष्टसंबन्धे संज्ञा विज्ञायते। हीने द्योत्येऽयमनुः कर्मप्रवचनीयसंज्ञो भवति। अनु शाकटायनं वैयाकरणाः। अन्वर्जुनं योद्धारः॥
उपोऽधिके च ॥ १.४.८७॥
उपशब्दोऽधिके हीने च द्योत्ये कर्मप्रवचनीयसंज्ञो भवति। उप खार्यां द्रोणः। उप निष्के कार्षापणम्। हीने-उप शाकटायनं वैयाकरणाः॥
अपपरी वर्जने ॥ १.४.८८॥
अपपरी शब्दौ वर्जने द्योत्ये कर्मप्रवचनीयसंज्ञौ भवतः। प्रकृतेन संबन्धिना कस्यचिदनभिसंबन्धो वर्जनम्। अप त्रिगर्तेभ्यो वृष्टो देवः। परिपरि त्रिगर्तेभ्यो वृष्टो देवः। वर्जन इति किम्? ओदनं परिषिञ्चति॥
आङ् मर्यादावचने ॥ १.४.८९॥
आङित्येष शब्दो मर्यादावचने कर्मप्रवचनीयसंज्ञो भवति। अवधिर्मर्यादा। वचनग्रहणादभिविधिरपि गृह्यते। आ पाटलिपुत्राद् वृष्टो देवः। आ कुमारं यशः पाणिनेः। आ सांकाश्यात्। आ मथुरायाः। मर्यादावचन इति किम्? ईषदर्थ क्रियायोगे च मा भूत्॥
लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः ॥ १.४.९०॥
लक्षण इत्थंभूताख्याने भागे वीप्सायां च विषयभूतायां प्रति परि अनु इत्येते कर्मप्रवचनीयसंज्ञा भवन्ति। लक्षणे तावत्-वृक्षं प्रति विद्योतते विद्युत्। वृक्षं परि। वृक्षमनु। इत्थंभूताख्याने-साधुर्देवदत्तो मातरं प्रति। मातरं परि। मातरमनु। भागे-यदत्र मां प्रति स्यात्। मां परि स्यात्। मामनु स्यात्। वीप्सायाम्- वृक्षंवृक्षं प्रति सिञ्चति। परि सिञ्चति। अनु सिञ्चति। लक्षणादिष्विति किम्? ओदनं परिषिञ्चति। अथ परिशब्दयोगे पञ्चमी कस्माद् न भवति ‘पञ्चम्यपाङ्परिभिः’ (२.३.१०) इति? वर्जनविषये सा विधीयते, अपशब्दसाहचर्यात्॥
अभिरभागे ॥ १.४.९१॥
लक्षणादिष्वेव भागवर्जितेष्वभिः कर्मप्रवचनीयसंज्ञो भवति। वृक्षमभि विद्योतते। साधुर्देवदत्तो मातरमभि। वृक्षंवृक्षमभि सिञ्चति । अभाग इति किम्? भागः स्वीक्रियमाणोऽशः। यदत्र ममाभिष्यात् तद् दीयताम्। यदत्र मम भवति तद् दीयतामित्यर्थः॥
प्रतिः प्रतिनिधिप्रतिदानयोः ॥ १.४.९२॥
मुख्यसदृशः प्रतिनिधिः। दत्तस्य प्रतिनिर्यातनं प्रतिदानम्। प्रतिनिधिविषये प्रतिदानविषये च प्रतिः कर्मप्रवचनीयसंज्ञो भवति। अभिमन्युरर्जुनतः प्रति। माषानस्मै तिलेभ्यः प्रति यच्छति॥
अधिपरी अनर्थकौ ॥ १.४.९३॥
अधिपरी शब्दावनर्थकावनर्थान्तरवाचिनौ कर्मप्रवचनीयसंज्ञौ भवतः। कुतोऽध्यागच्छति? कुतः पर्यागच्छति? गत्युपसर्गसंज्ञाबाधनार्था कर्मप्रवचनीयसंज्ञा विधीयते॥
सुः पूजायाम् ॥ १.४.९४॥
सुशब्दः पूजायामर्थे कर्मप्रवचनीयसंज्ञो भवति। सु सिक्तं भवता। सु स्तुतं भवता। धात्वर्थः स्तूयते। उपसर्गसंज्ञाश्रयं षत्वं न भवति। पूजायामिति किम्? सुषिक्तं किं तवात्र॥
अतिरतिक्रमणे च ॥ १.४.९५॥
अतिशब्दोऽतिक्रमणे चकारात् पूजायां च कर्मप्रवचनीयसंज्ञो भवति। निष्पन्नेऽपि वस्तुनि क्रियाप्रवृत्तिरतिक्रमणम्। अति सिक्तमेव भवता। अति स्तुतमेव भवता। पूजायाम्-अति सिक्तं भवता। अति स्तुतं भवता। शोभनं कृतमित्यर्थः॥
अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु ॥ १.४.९६॥
पदार्थे संभावनेऽन्ववसर्गे गर्हायां समुच्चये च वर्तमानोऽपिः कर्मप्रवचनीयसंज्ञो भवति। पदान्तरस्याप्रयुज्यमानस्यार्थः पदार्थः- सर्पिषोऽपि स्यात्। मधुनोऽपि स्यात्। मात्रा बिन्दुः स्तोकमित्यस्यार्थेऽपिशब्दो वर्तते। संभावनमधिकार्थवचनेन शक्तेरप्रतिघाताविष्करणम्-अपि सिञ्चेन् मूलकसहस्रम्। अपि स्तुयाद् राजानम्। अन्ववसर्गः कामचाराभ्यनुज्ञानम्-अपि सिञ्च। अपि स्तुहि। गर्हा निन्दा- धिग् जाल्मं देवदत्तम्, अपि सिञ्चेत् पलाण्डुम्। अपि स्तुयाद् वृषलम्। समुच्चये-अपि सिञ्च, अपि स्तुहि। सिञ्च च स्तुहि च। उपसर्गसंज्ञाबाधनात् षत्वं न भवति॥
अधिरीश्वरे ॥ १.४.९७॥
ईश्वरः स्वामी, स च स्वमपेक्षते। तदयं स्वस्वामिसम्बन्धे कर्मप्रवचनीयसंज्ञो भवति। तत्र कदाचित् स्वामिनः कर्मप्रवचनीयविभक्तिः सप्तमी भवति, कदाचित् स्वात्। अधि ब्रह्मदत्ते पञ्चालाः। अधि पञ्चालेषु ब्रह्मदत्तः॥
विभाषा कृञि ॥ १.४.९८॥
अधिः करोतौ विभाषा कर्मप्रवचनीयसंज्ञो भवति। यदत्र मामधि॑करि॒ष्यति॑। कर्मप्रवचनीयसंज्ञापक्षे गतिसंज्ञाबाधनात् ‘तिङि चोदात्तवति’ (८.१.७१) इति निघातो न भवति॥
लः परस्मैपदम् ॥ १.४.९९॥
ल इति षष्ठ्यादेशापेक्षा। लादेशाः परस्मैपदसंज्ञा भवन्ति। तिप्, तस्, झि। सिप्, थस्, थ। मिप्, वस्, मस्। शतृक्वसू च। परस्मैपदप्रदेशाः-‘सिचि वृद्धिः परस्मैपदेषु’ (७.२.१) इत्येवमादयः॥
तङानावात्मनेपदम् ॥ १.४.१००॥
तङिति प्रत्याहारो नवानां वचनानाम्। आन इति शानच्कानचोर्ग्रहणम्। पूर्वेण परस्मैपदसंज्ञायां प्राप्तायां तङानयोरात्मनेपदसंज्ञा विधीयते। त, आताम्, झ। थास्, आथाम्, ध्वम्। इट्, वहि, महिङ्। आनः खल्वपि-शानच्कानचौ। ल इत्येव- कतीह निघ्नानाः। आत्मनेपदप्रदेशाः-‘अनुदात्तङित आत्मनेपदम्’ (१.३.१२) इत्येवमादयः॥
तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः ॥ १.४.१०१॥
तिङोऽष्टादश प्रत्ययाः नव परस्मैपदसंज्ञकाः नवात्मनेपदसंज्ञकाः। तत्र परस्मैपदेषु त्रयस्त्रिकाः यथाक्रमं प्रथममध्यमोत्तमसंज्ञा भवन्ति। आत्मनेपदेष्वपि त्रयस्त्रिकाः प्रथममध्यमोत्तमसंज्ञा भवन्ति। तिप्, तस्, झि इति प्रथमः। सिप्, थस्, थ इति मध्यमः। मिप्, वस्, मस्, इत्युत्तमः। आत्मनेपदेषु- त, आताम्, झ इति प्रथमः। थास्, आथाम्, ध्वम् इति मध्यमः। इट्, वहि, महिङ् इत्युत्तमः। प्रथममध्यमोत्तमप्रदेशाः-‘शेषे प्रथमः’ (१.४.१०८) इत्येवमादयः॥
तान्येकवचनद्विवचनबहुवचनान्येकशः ॥ १.४.१०२॥
तानि एकवचनद्विवचनबहुवचनसंज्ञानि भवन्ति। एकश एकैकं पदम्। तिबित्येकवचनम्। तसिति द्विवचनम्। झीति बहुवचनम्। एवं सर्वत्र। एकवचनद्विवचनबहुवचनप्रदेशाः-‘बहुषु बहुवचनम्’ (१.४.२१) इत्येवमादयः॥
सुपः ॥ १.४.१०३॥
तिङां त्रिकेष्वेकवचनादिसंज्ञा विहिताः, संप्रति सुपां त्रिकेषु विधीयन्ते। सुपश्च त्रीणि त्रीणि पदान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि भवन्ति। सु इत्येकवचनम्। औ इति द्विवचनम्। जसिति बहुवचनम्। एवं सर्वत्र॥
विभक्तिश्च ॥ १.४.१०४॥
त्रीणित्रीणीत्यनुवर्तते। त्रीणित्रीणि विभक्तिसंज्ञाश्च भवन्ति सुपस्तिङश्च। विभक्तिप्रदेशाः-‘अष्टन आ विभक्तौ’ (७.२.८४) इत्येवमादयः॥
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः॥ १.४.१०५॥
‘लस्य’ (३.४.७७) इत्यधिकृत्य सामान्येन तिबादयो विहिताः, तेषामयं पुरुषनियमः क्रियते। युष्मद्युपपदे सति व्यवहिते चाव्यवहिते सति समानाधिकरणे समानाभिधेये तुल्यकारके स्थानिनि प्रयुज्यमानेऽप्यप्रयुज्यमानेऽपि- पचसि। पचथः। पचथ॥
प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च ॥ १.४.१०६॥
प्रहासः परिहासः क्रीडा। प्रहासे गम्यमाने मन्योपपदे धातोर्मध्यमपुरुषो भवति, मन्यतेश्चोत्तमः, स चैकवद् भवति। एहि मन्य ओदनं भोक्ष्यस इति, नहि भोक्ष्यसे, भुक्तः, सोऽतिथिभिः। एहि मन्ये रथेन यास्यसि, नहि यास्यसि, यातस्तेन ते पिता। मध्यमोत्तमयोः प्राप्तयोरुत्तममध्यमौ विधीयेते। प्रहास इति किम्? एहि मन्यस ओदनं भोक्ष्य इति। सुष्ठु मन्यसे, साधु मन्यसे॥
अस्मद्युत्तमः ॥ १.४.१०७॥
उत्तमपुरुषो नियम्यते। अस्मद्युपपदे समानाभिधेये प्रयुज्यमानेऽप्यप्रयुज्यमानेऽप्युत्तमपुरुषो भवति। अहं पचामि। आवां पचावः। वयं पचामः। अप्रयुज्यमानेऽपि-पचामि। पचावः। पचामः॥
शेषे प्रथमः ॥ १.४.१०८॥
शेष इति मध्यमोत्तमविषयादन्य उच्यते। यत्र युष्मदस्मदी समानाधिकरणे उपपदे न स्तः, तत्र शेषे प्रथमपुरुषो भवति। पचति। पचतः। पचन्ति॥
परः संनिकर्षः संहिता ॥ १.४.१०९॥
परशब्दोऽतिशये वर्तते। संनिकर्षः प्रत्यासत्तिः। परो यः संनिकर्षो वर्णनामर्धमात्राकालव्यवधानं स संहितासंज्ञो भवति। दध्यत्र। मध्वत्र। संहिताप्रदेशाः- ‘संहितायाम्’ (६.१.७२) इत्येवमादयः॥
विरामोऽवसानम् ॥ १.४.११०॥
विरतिर्विरामः। विरम्यतेऽनेनेति वा विरामः। सोऽवसानसंज्ञो भवति। दधिँ। मधुँ। वृक्षः। प्लक्षः। अवसानप्रदेशाः-‘खरवसानयोर्विसर्जनीयः’ (८.३.१५) इत्येवमादयः॥
॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायस्य चतुर्थः पादः॥