श्लेषालस्योपघातेषु
प्रतिघाते क्रमाल्लुठे्त् ।
लुण्ठेत् लोठति लोठेत
किन्तु गत्यां च लुण्ठति ।
णौ लोटयति भाषार्थे
लुट्येल् लोटति लोटने ।
लोटते प्रतिघातेऽर्थे
स्तेये लुण्टति लुण्टयेत् ॥
— दैवम् ।
लुटँ
- विलोडने (भ्वादिः, प.प.)
- प्रतिघाते (भ्वादिः, आ.प.)
- विलोडने (दिवादिः, प.प.)
- संश्लेषणे (तुदादिः, प.प.)
- भाषायाम् (चुरादिः, उ.प.)
लुठँ
- उपघाते (भ्वादिः, प.प.)
- प्रतिघाते (भ्वादिः, आ.प.)
- विलोडने (दिवादिः, प.प.)
- संश्लेषणे (तुदादिः, प.प.)
लुटिँ (लुण्ट्)
स्तेये (भ्वादिः, प.प.)
लुन्टँ / लुन्ठँ
स्तेये (चुरादिः, उ.प.)
ण्वुलि रूपाणि
- लुट् → लोटक
- लुठ् → लोठक
- लुटिँ → लुण्टक
- लुठिँ → लुण्ठक
- लुन्ट् → लुण्टक
- लुण्ठ → लुण्ठक
षाकन्
३.२.१५५ जल्पभिक्षकुट्टलुण्टवृङः षाकन्
इति सूत्रेण जल्पादिभ्यः धातुभ्यः ताच्छीलिकेषु अर्थेषु “षाकन्” इति कृत्प्रत्ययः भवति ।
- लुन्ट् / लुन्ठ् (स्तेये, चौरादिकः) + षाकन् → लुण्टाक, लुण्ठाक । लुण्टनं शीलम् अस्य सः लुण्टाकः । लुण्ठनं शीलम् अस्य सः लुण्ठाकः ।