इष्

इषँ (गतौ)

दिवादिः, परस्मैपदी । लटि इष्यति / अन्विष्यति । ल्युटि एषणम् / अन्वेषणम् ।

इषुँ (इच्छायाम्)

तुदादिः, परस्मैपदी । लटि इच्छति / अन्विच्छति । ल्युटि एषणम् / अन्वेषणम् ।

  • “७.३.७७‌ इषुगमियमां छः” इति सूत्रे अस्य उदित्त्वेन पाठः दृश्यते । उदित्त्वस्य फलम् “७.२.५६ उदितो वा” इति क्त्वाप्रत्ययस्य इड्विकल्पः, अतः “एषित्वा / इष्ट्वा” इति उभयथा रूपम् ।
  • केचन पण्डिताः तु अमुं धातुम् “अनुदितम्” (इषँ इति) मन्यन्ते । तत्र अयम् आशयः — “७.२.४८ तीषसहलुभरुषरिषः” इति सूत्रेण इष्-धातोः तकारादौ प्रत्यये परे इड्विकल्पः तादृशः एव सिद्धः, अतः तदर्थम् उदित्त्वं नैव आवश्यकम् — इति ।
    • अतः, “एवं चात्र सूत्रे तुदादौ च उदित्पाठः अनार्षः इति शब्देन्दुशेखरे स्थितम्” — इति बालमनोरमा ।
    • “इषेः तकारे श्यन्प्रत्ययात् प्रतिषेधो वक्तव्यः (७.२.४८ तीषसहलुभरुषरिषः इत्यत्र भाष्यम्) इति भाष्यात् तकारादौ आर्धधातुके इड्विकल्पः सिद्धः एव, इत्यतः उदित्त्वस्य फलं न” — इति कृदन्तरूपमाला ।

इषँ (आभीक्ष्ण्ये)

क्र्यादिः, परस्मैपदी ।
लटि इष्णाति / अन्विष्णाति । ल्युटि एषणम् / अन्वेषणम् ।

इतरे

चुरादौ अन्वेषयति — इति क्षीरतरङ्गिणी । अतः क्षीरतरङ्गिणीकारस्य मतेन चुरादिगणे कश्चन इष्-धातुः वर्तते ।

एष

भ्वादिगणे एषँ (गतौ) इति कश्चन आत्मनेपदी धातुः विद्यते । तस्य लटि रूपम् एषते / अन्वेषते इति भवति । तस्य ल्युटि रूपम् अपि “एषणम् / अन्वेषणम्” इत्येव ।

भ्रमः

“अन्वेष्टि इति भ्रान्तिप्रयोगः” — इति क्षीरतरङ्गिणी । अतः क्षीरतरङ्गिणीकारस्य मतेन, केनचित् अदादौ अपि इष्-धातुः पठितः अस्ति, सः न साधु ।

“इषति” इति कस्यापि इष्-धातोः रूपं नास्ति । अतश्च, अन्विषति इत्यपि अनुचितम् एव रूपम् ।