विद्

Source: TW

धातुपाठे आहत्य चत्वारः विद्-धातवः सन्ति —

  • विद् ज्ञाने, अदादिः, परस्मैपदी, सकर्मकः, सेट् । रामः व्याकरणं वेत्ति । रामेण व्याकरणं विदितम् ।
  • विद् सत्तायाम्, दिवादिः, आत्मेनपदी, अकर्मकः अनिट् । अरण्ये सिंहः विद्यते । अरण्ये सिंहः विन्नः
    • ८.२.४२ रदाभ्यां निष्ठातो नः पूर्वस्य च दः इत्यनेन दकारस्य, नकारस्य च अपि नकारः ।
  • विद् लाभे, तुदादिः, उभयपदी, सकर्मकः, अनिट् । मुनिः सिद्धिं विन्दति / विन्दते । मुनिना सिद्धिः विन्ना
    • भोगम् (धनम्), प्रत्ययः (प्रसिद्धः) एतयोः अर्थयोः तु ८.२.५८ वित्तो भोगप्रत्यययोः इति सूत्रेण निष्ठातकारस्य नकाराभावः । देवदत्तस्य वित्तं बहु । देवदत्तः वित्तः पुरुषः ।
  • विद् विचारणे, रुधादिः, आत्मनेपदी, सकर्मकः, अनिट् । छात्रः उत्तरं विन्ते । छात्रेण उत्तरम् वित्तम् / छात्रेण उत्तरं विन्नम्
    • ८.२.५६ नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् इति निष्ठातकारस्य वैकल्पिकम् नत्वम् ।

सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे । विन्दति विन्दते प्राप्तौ श्यन्लुक्श्नंशेष्विदं क्रमात् ।

वेत्तेस्तु विदितो निष्ठा विद्यतेर्विन्न इष्यते ।
विन्तेर्विन्नश्च वित्तश्च, भोगवित्तश्च विन्दतेः ।