Source: TW
स्पर्ध्-धातुः
२५६, २५७
स्पर्धँ सङ्घर्षे इति भ्वादिगणस्य आत्मनेपदी धातुः । सङ्घर्षः = पर-अभिभवेच्छा । अभिभवः = पराभवः / गर्वस्य नाशः । परस्य पराभवस्य इच्छा इत्युक्ते सङ्घर्षः ।
स्पर्ध इति धातुः धातुपाठे अकर्मकरूपेण पाठितः अस्ति ।
अकर्मकत्वम् चतुर्विधं भवति —
धातोर् अर्थान्तरे वृत्तेः,
धात्व्-अर्थेनोपसङ्ग्रहात् ।
प्रसिद्धेर् अविवक्षातः
कर्मणोऽकर्मिका क्रिया ।
स्पर्ध्-धातोः विषये — “धात्वर्थेनोपसङ्ग्रहाद् अकर्मकः” इति ७.१.५ इत्यत्र सिद्धान्तकौमुदी ।
स्पर्ध सङ्घर्षे । अकर्मकोऽयम् । …
‘स्पर्धमानः सः कृष्णम्’ इति तु ‘कृष्णम् प्राप्य’ इत्यस्य अध्याहारात् — हैमधातुपाठः ।
स्पर्धा द्वयोः कर्त्रोः मध्ये भवति । अतः सा द्विनिष्ठा ।
द्विनिष्ठक्रियायाम् एकम् कर्तृपदम् प्रथमया निर्दिश्यते, अपरं कर्तृपदं तु तृतीयायां भवति ।
तत्र “सह” इति शब्दम् उपयुज्य, तेन विना वा वाक्यं सम्भवति ।
यथा —
(सह शब्दम् उपयुज्य) — गङ्गा यमुनया सह सङ्गच्छते ।
रामः रावणेन सह युद्ध्यति । स्पर्धते ब्रह्मणा सह (ब्रह्मपुराणम्) ।
(सह शब्दं विना) — पुत्रेण पिता गच्छति ।
मेरुणा प्रेप्सुः स्पर्धते (स्कन्दपुराणम्) ।
नास्पर्ध्यैः स्पर्धते च यः (महाभारतम्) ।
वह् - नदी वहति, सेवकः भारं वहति । नटः नृत्यति । देवः वर्षति । वृक्षः वर्धते । रामः पठति ।
प्रेप्सु = one who has a desire to win
आर्षप्रयोगः
कुत्रचित् स्पर्ध्-धातुः सकर्मकरूपेण अपि प्रयुक्तः दृश्यते ।
यथा — स्पर्धते चापि सततम् अस्मानेव वृकोदरः इति महाभारते ।
अत्र “स्थितस्य गतिः चिन्तनीया” इति न्यायेन कश्चन मार्गः आश्रयणीयः —
(१) स्पर्ध्-धातोः समानार्थकः “ह्वे (स्पर्धायां शब्दे च)” इति धातुः तु धातुपाठे सकर्मकरूपेणैव परिगणितः अस्ति । अतः स्पर्ध्-धातुः अपि सकर्मकत्वेन प्रयोक्तुं शक्यः । कृष्णः चाणूरम् आह्वयते । स्पर्धते इत्यर्थः — इति १.३.३१ स्पर्धायामाङः इत्यत्र सिद्धान्तकौमुदी ।
(२) पर-अभिभवेच्छा इत्यस्य स्थाने केवलम् “अभिभवेच्छा” इत्येव स्पर्ध्-धातोः अर्थः स्वीक्रियते चेत् सकर्मकत्वं सिद्ध्यति ।
स्पर्ध् अकर्मकः इत्यत्र केचित् अभिभवेच्छा धात्वर्थः, तथा च स्पर्धार्थकस्य सकर्मकता दृश्यते, आह्वास्त मेरावमरावतीं या, इति । … श्रीहर्षोऽपि प्रायुङ्क्त — तन्नासत्ययुगान्तं तां वा त्रेता स्पर्धितुमर्हति इति । अतः अस्य सकर्मकत्वं न्याय्यम्, इत्याहुः — ७.१.५ आत्मनेपदेष्वनतः इत्यत्र तत्त्वबोधिनी ।
अभिभवपूर्वकाह्वाने वृत्तेः अस्य सकर्मकता — इति बालमनोरमा ।
(३) देवदत्तः यज्ञदत्तं स्पर्धते इत्यत्र स्पर्धापूर्वके शब्दने वृत्तिं स्वीकृत्य सकर्मकत्वम् वक्तुं शक्यम् — इति केचन ।