Source: TW
भू-धातुः
२५५
धातुपाठे भू इत्याख्याः त्रयः धातवः वर्तन्ते —
भू सत्तायाम्
भू सत्तायाम् (to be, to exist) इति भ्वादिगणीयः । अस्मात् णिच्-प्रत्यये कृते भावयति / भावयते इति रूपद्वयम् ।
भू अवकल्कने
भू अवकल्कने / अवकल्पने (to mix / to think) इति चुरादिगणीयः उभयपदी धातुः ।
भू प्राप्तौ
भू प्राप्तौ (to obtain) इति चुरादिगणीयः आत्मनेपदी धातुः ।
अयं धातुः आधृषीयः अस्ति ।
आ धृषाद् वा इति गणसूत्रेण अस्मात् धातोः विकल्पेन एव णिच्-प्रत्ययः विधीयते ।
अतः णिच्-प्रत्ययस्य अभावे भवते इत्यपि रूपं भवति ।
यस्तु भावयते धर्मं योनिमात्रं तितिक्षति; यश्च तप्तो न तपति, भृशं सोऽर्थस्य भाजनम् ।
देवं (देवत्वं) भवते (प्राप्नोति) सः देवभूः ।
एते त्रयः अपि दैवधातुपाठे श्लोकरूपेण परिगणिताः सन्ति —
सत्तायां भवति प्राप्तौ णिचि भावयते तङि, भवते शपि तत्रैव भावयत्यवकल्पने ॥
२५५
भू (प्राप्तौ) इति धातोः णिजभावपक्षे आत्मनेपदम् उत परस्मैपदम् इत्यस्मिन् विषये वैयाकरणानाम् मतान्तराणि सन्ति !
धातुप्रदीपकारस्य (मैत्रेयरक्षितस्य) मतम् णिजभावपक्षे अपि आत्मनेपदित्वम् एव इति । तेन दत्तं स्पष्टीकरणम् इत्थम् — धातुपाठे आ कुस्मात् आत्मनेपदिनः इति एकम् गणसूत्रं वर्तते । आकुस्मीयगणे पाठिताः धातवः आत्मनेपदिनः सन्ति इति अस्य आशयः । भू (प्राप्तौ) इति धातुः वस्तुतः अत्र एव पाठनीयः । परन्तु तस्य विषये णिच्-प्रत्ययः विकल्पेन इष्यते; अतः अस्य धातोः आकुस्मीये गणे ग्रहणं न कृतम् , अपितु आधृषीये गणे ग्रहणं कृत्वा “आत्मनेपदी” इति निर्देशः स्पष्टरूपेण कृतः । अतश्च, णिजभावपक्षे अपि अयम् आत्मनपदी एव ज्ञेयः — इति ।
कृदन्तरूपमालायाम् — आत्मनेपदम् णिजभावपक्षे अपि प्रामाणिकम् । बहुवैयाकरणसम्मतं च इति ज्ञेयम् ।
सिद्धान्तकौमुद्याम् ७.४.२ इत्यत्र — भू प्राप्तौ आत्मनेपदी । भावयते, भवते । णिच्-सन्नियोगेनैव आत्मनेपदम् इत्येके । भवति ।
अत्र “इत्येके” इत्यनेन धनपालः, शाकटायनः, सुधाकरः इत्यादीनाम् बहूनां वैयाकरणानाम् मतम् प्रतिपादितम् । एते सर्वेऽपि वैयाकरणाः णिजभावे परस्मैपदमेव स्वीकुर्वन्ति — इत्याशयः ।
श्रीकृष्णलीलाशुकमुनिभिः दैवधातुपाठस्य पुरुषकारः इत्याख्या व्याख्या रचिता । तत्र तु अस्य धातोः णिजभावे परस्मैपदित्वम् ज्ञापितम् अस्ति । तेषां मतम् इदम् — भू (प्राप्तौ) इति धातोः विषये णिच्-प्रत्ययस्य प्रकरणे आत्मनेपदीत्वम् उक्तम् अस्ति । एतादृशम् द्वे कार्ये यत्र युगपद् उच्येते, तत्र सन्नियोगशिष्टानाम् अन्यतरापाये उभयोः अपि अपायः इति न्यायेन प्रधानकार्यस्य निवृत्तौ जातायाम् अपरस्य कार्यस्य अपि निवृत्तिः एव भवति । अतः, भू (प्राप्तौ) इति धातोः विषये णिच्-प्रत्ययस्य निवृत्तौ आत्मनेपदत्वस्यापि निवृत्तिः भवेत् । णिजभावपक्षे अयं धातुः परस्मैपदमेव स्वीकरोति इति अस्य आशयः ।
सुधाकरः अपि अस्य धातोः परस्मैपदित्वम् एव प्रतिपादयति । तस्य मतम् इदम् — णिच्-संन्नियोगेन एव आत्मनेपदित्वम् सम्भवति, अतः “मनोरमा भाः भवते” इत्यादीनां प्रयोगाणां साधुत्वज्ञापनम् कष्टाय एव ।
माधवीयधातुवृत्तौ उभयथा मतं प्रदर्शितम् । तत्र अन्ते उक्तः विशेषः अयम् — कस्मिंश्चित् प्राचीने व्याकरणे भुवो णिङ् इति सूत्रम् अस्ति । अत्र णिङ्-प्रत्यये उपयुक्तः ङकारः भू-धातोः (णि-प्रत्ययं विना अपि) आत्मनेपदित्वम् एव निदर्शयति । अतः अत्र संन्नियोगन्यायस्य बाधं कृत्वा, णिच्-प्रत्ययस्य अनुपस्थितौ अपि भू-धातोः आत्मनेपदित्वम् एव भवति इत्याशयः । ६.४.८४ वर्षाभ्वश्च इत्यस्य सूत्रस्य व्याख्याने कैयटः ब्रूते — वर्षासु भवति, वर्षा वा भवते । अत्रापि कैयटेन अस्य धातोः आत्मेनपदित्वम् एव निर्दिष्टम् अस्ति ।
दैवधातुपाठव्याख्यानम्
माधवीयधातुवृत्तिः
भू प्राप्तौ इति चुरादिगणस्य धातोः विषये णिजभावपक्षे आत्मनेपदित्वम्, परस्मैपदित्वं च उभयथा अपि युक्तिसम्मतम् एव !