बन्ध्

Source: TW

बन्ध्-धातुः
२५९

बन्ध् (बन्धने, to tie) इति क्र्यादिगणस्य परस्मैपदी धातुः । बध्नाति, बध्नीतः, बध्नन्ति इति लट्लकारस्य रूपाणि ।

अयं धातुः सकर्मकः । यस्य बन्धनं (गतिनिरोधः, स्वातन्त्र्यस्य अपाकरणम्) क्रियते तस्य कर्मत्वेन ग्रहणं भवति । यथा, देवदत्तः गां बध्नाति । आरक्षकः चौरं बध्नाति ।

कुत्रचित् बन्धनस्य साधनम् अपि कर्मत्वेन प्रयुज्यते ।+++(5)+++ तत्र युक्तिद्वयस्य आश्रयं स्वीकृत्य साधुत्वं वक्तुं शक्यम् —

कण्ठे रज्जुं बध्नाति
इत्यत्र वस्तुतः रज्ज्वा कण्ठं बन्ध्नाति इति अर्थः विवक्षितः ।
एवमेव, हस्ते रक्षां बध्नाति इत्यत्रापि
रक्षया हस्तं बध्नाति इत्यर्थः ।
परन्तु उभयत्र बन्धनं शिथिलम् अस्ति (कण्ठस्य हस्तस्य वा दृढं बन्धनं न क्रियते)
अतः अत्र कण्ठस्य, हस्तस्य वा अधिकरणत्वेन प्रयोगं कृत्वा साधनस्य कर्मत्वेन प्रयोगः साधुत्वं प्राप्नोति ।+++(5)+++

बधान द्रागेव द्रढिम् अरमणीयं परिकरम् — इति गङ्गालहर्यां जगन्नाथः ।
परिकर = waist-band, girdle, कमरपट्टा इति हिन्द्याम् ।
बधान इति बन्ध्-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनम् ।
परिकरं बधान इत्यत्रापि परिकरशब्दस्य कर्मत्वेन प्रयोगः दृश्यते ।
अत्र बधान शब्दस्य “आवृणु” (आवरणं कुरु) इति अर्थं स्वीकृत्य परिकरशब्दस्य कर्मत्वं प्रतिपादितम् ।+++(5)+++
द्राक् = झटिति ।

रचना (to arrange / to put in order/ to hold together) अस्मिन् अर्थे अपि बन्ध्-धातुः प्रयुज्यते ।
यथा, वानराः सेतुं बध्नन्ति । मल्लः मुष्टिं बध्नाति । भक्तः अञ्जलिं बध्नाति । एवमेव, मुष्टिबन्धः, सेतुबन्धः, आञ्जलिकबन्धः, हृदयबन्धः, पदबन्धः, चक्रबन्धः, पट्टबन्धः आदयः प्रयोगाः अपि ज्ञेयाः ।

लड्डुकं बध्नाति इति प्रयोगः अपि अनेनैव प्रकारेण साधुत्वं प्राप्तुं शक्नोति । अत्र सुसंश्लिष्टता / पिण्डीकरणम् (to closely hold the small particles together by making a lump) इत्यस्मिन् सन्दर्भे रचनाविशेषे बन्ध्-धातोः प्रयोगः कृतः दृश्यते ।

…यदा बध्यमानः, पिण्डीक्रियमाणः ग्रासः दध्यादिवशेन तत्रानुकूल्यं प्रतिपद्यते… इति वर्णनम् माधवीयधातुवृत्तौ दृश्यते ।

षिञ् बन्धने इत्यस्य विवरणे प्रक्रियासर्वस्वे “स्वयमेव सिनो ग्रासः सुखबद्धस्तथोच्यते । दध्यादियोगात् ग्रासो हि सुसंश्लिष्टो भवेन्मिथः” इति विवरणम् ।