अवधीर

अवधीर इति धातुः

Source: TW

[[२८२]]

अनेके धातवः, ये धातुपाठे न सन्ति तेऽपि शिष्टप्रयोगम् अनुसृत्य चुरादिगणे स्वीकृताः दृश्यन्ते ।+++(5)+++

बहुलमेतन्निदर्शनम् ।… बाहुलकमन्येऽपि बोध्याः ॥+++(5)+++
तद्यथा । पर्ण हरितभावे । अपपर्णत् । विष्क दर्शने । क्षिप प्रेरणे । वस निवासे । तुत्थ आवरणे । एवमान्दोलयति । प्रेङ्खोलयति । विडम्बयति । अवधीरयतीत्यादि — चुरादिगणस्य अन्ते सिद्धान्तकौमुदी ।+++(5)+++

अवधीर इति कश्चन धातुः कैश्चित् पण्डितैः चुरादिगणे स्वीकृतः अस्ति । “तिरस्करोति” इति अस्य धातोः अर्थः ।
अत्र “अव” इति उपसर्गः न, अपितु “अवधीर” इति सम्पूर्णः धातुः ।+++(5)+++
अतएव अस्य क्त्वाप्रत्ययान्तं रूपम् “अवधीरयित्वा” इति, लङ्लकाररूपम् “आवधीरयत्”, एवमेव लुङ्लकाररूपम् “आववधीरत्” इति भवति ।

धीर इति कश्चन पृथक् धातुः अपि कैश्चित् पण्डितैः चुरादिगणे स्वीक्रियते ।
अस्यां स्थितौ “अव + धीर” इत्यत्र ल्यप्-प्रत्यये कृते “अवधीर्य” इति रूपं सिद्ध्यति । यथा, “इतीव धाराम् अवधीर्य मण्डलीक्रियाश्रियामण्डि…” इति श्रीहर्षः ।

अवधीयरयति इत्यादौ अवशब्दस्य पृथक्करणम् अस्ति वा, न वा ?
आद्ये बोपदेवेन अवशब्दात् प्राक् आडागमं वकारद्वित्वं च कृत्वा चङि आववधीरद् इति उदाहृतम्, तत् न सङ्गच्छेत् ।
द्वितीये तु “इतीव धाराम् अवधीर्य” इति श्रीहर्षप्रयोगः न सङ्गच्छेत्, इति चेत्, अत्राहुः -
नायं धातुः चुरादौ पठितः, किं तु “बहुलमेतन्निदर्शनम्” इति बाहुलकाद् ऊहितः ।
ऊहश्च धीर इत्यस्यापि सम्भवति, अवधीर इत्यस्यापि, प्रयोगद्वयप्रामाण्यात् मुनित्रयविरोधाभावात् च । यदा तु अवधीर इति विशिष्टस्य एव धातुत्वम्, तदा अवधीरयित्वा इति साधुः । धीर इत्यस्यैव धातुत्वे तु अवधीर्य इत्यस्य साधुत्वम्, इति — ३.१.१२‌ भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः इत्यत्र तत्त्वबोधिनी ।

नैषधीयचरितस्य श्रीनारायणरचितायां नैषधीयप्रकाशव्याख्यायां “अवधीर्य” इति शब्दस्य स्पष्टीकरणम् “अवधीर” इति धातोः ल्यबन्तं रूपं न सम्भवति, तथा च “धीर्” इति पृथक् धातुः अपि न वर्तते । तर्हि “अवधीर्य” इत्यस्य साधुत्वम् कथम्, इति चेत् — अधि + ईर् (प्रेरणे) + ल्यप् → अधीर्य । अव + अधीर्य → अवधीर्य । शकन्ध्वादिषु पररूपं वाच्यम् इति वार्त्तिकस्य आधारेण अकार-अकारयोः पररूपः अकारः ।