णिच्

णिच् इति द्वादशभ्यः सनादिप्रत्ययेभ्यः अन्यतमः । अस्य प्रयोगेण नित्यं आतिदेशिकधातोः निर्माणं भवति ।

सर्वेऽपि णिजन्तधातवः इकारान्ताः सन्ति । यथा — पठ् + णिच् → पाठि । कथ + णिच् → कथि । दा + णिच् → दापि ।

स्वार्थे

चुरादिगणस्य धातुभ्यः स्वार्थे णिच्-प्रत्ययः भवति । यथा, देवदत्तः कथां कथयति ।

कुत्रचित् अन्यगणस्य धातुभ्यः अपि स्वार्थे णिच्-प्रत्ययः भवति । देवदत्तः हस्तिनम् आरोहयति (पक्षे - आरोपयति) ।

प्रेरणार्थे

सर्वेभ्यः धातुभ्यः प्रेरणार्थे णिच्-प्रत्ययः भवति । यथा, पिता पुत्रेण पत्रं लेखयति । देवदत्तः यज्ञदत्तेन धनं चोरयति ।

तत्करोति तदाचष्टे

सर्वेभ्यः प्रातिपदिकेभ्यः “तत्करोति तदाचष्टे” इति गणसूत्रेण णिच्-प्रत्ययः भवति । सत्यम् आचष्टे = सत्यापयति । श्लोकेन उपस्तौति = श्लोकयति । अश्वेन अतिक्रामति = अश्वयति ।

एतादृशे णिच्-प्रत्यये परे “प्रातिपदिकाद्धात्वर्थे बहुलम् इष्ठवच्च” इति गणसूत्रेण इष्ठन्-प्रत्ययसदृशी प्रक्रिया भवति ।

प्रक्रिया

धातुपाठे पाठिताः धातवः द्विधा — हलन्ताः, अजन्ताः च । तत्र अजन्तधातुषु —

  • ९०+ धातवः अदन्ताः (अन्ते ह्रस्वः अकारः वर्तते) । एते सर्वेऽपि चुरादिगणस्य अन्ते स्थापिताः सन्ति । एतेषां णिजन्तप्रकियायाम् “६.४.४८ अतो लोपः” इत्यनेन अकारस्य लोपे कृते रूपं सिद्ध्यति । कथ + णिच् → कथ् + इ → कथि । अग्रे कथयति इति रूपम् ।
  • आकारान्तधातूनां णिजन्तप्रक्रियायाम् “७.३.३६ अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ” इत्यनेन पुगागमे कृते रूपं सिद्ध्यति । यथा — दा → दापयति । धा → धापयति ।
  • इ/उ/ऋवर्णान्तधातूनां णिजन्तप्रक्रियायाम् ७.२.११५‌ अचो ञ्णिति इत्यनेन वृद्धिं कृत्वा रूपं सिद्ध्यति । यथा — नी → नाययति । भू → भावयति । कृ → कारयति ।
  • ए/ओ/ऐ/औवर्णान्तधातूनां णिजन्तप्रक्रियायाम् आदौ ६.१.४५‌ आदेच उपदेशेऽशिति इत्यनेन आकारादेशः भवति, ततः ७.३.३६ अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ इत्यनेन पुगागमे कृते रूपं सिद्ध्यति । यथा — ग्लै → ग्लापयति । दै → दापयति ।
  • हलन्तधातुषु
    • येषु धातुषु उपधायाम् अकारः विद्यते, तेषाम् अकारस्य “७.२.११६ अत उपधायाः” इत्यनेन वृद्धिः (आकारः) भवति । यथा, पठ् → पाठयति । लड् → लाडयति ।
    • येषु धातुषु उपधायाम् ह्रस्वः इकारः/उकारः/ऋकारः विद्यते, तेषाम् “७.३.८६ पुगन्तलघूपधस्य” च इत्यनेन उपधागुणः भवति । लिख् → लेखयति । चुर् → चोरयति । कृष् → कर्षयति ।
    • केचन हलन्तधातवः “मितः” स्वीक्रियन्ते । एतेषां विषये उपधावृद्धौ कृतायाम् ततः ६.४.९२ मितां ह्रस्वः इत्यनेन उपधाह्रस्वः भवति । यथा, घट् → घाटि → घटि → घटयति । व्यथ् → व्याथि →‌ व्यथि → व्यथयति ।
  • केषाञ्चन अजन्त/हलन्तधातूनां विषये कानिचन विशिष्टानि कार्याणि भवन्ति । यथा, ‘वा’ धातोः विशिष्टेषु स्थलेषु “जुक्” आगमः भवति (वाजयति इति रूपम्) । ‘ली’ धातोः विशिष्टेषु स्थलेषु “नुक्” आगमः भवति (लीनयति इति रूपम्) ।
  • अन्येषाम् धातूनां विषये किमपि परिवर्तनं न भवति । यथा, क्षम्प् → क्षम्पयति । तर्क् → तर्कयति ।

मित्

धातुपाठे वस्तुतः कस्मिन् अपि धातौ “म्” इति इत्संज्ञकः वर्णः न विद्यते । तथापि, धातुपाठे विद्यमानैः भिन्नैः गणसूत्रैः केचन धातवः मित्त्वं स्वीकुर्वन्ति । मित्त्वस्य फलम् अस्ति “६.४.९२ मितां ह्रस्वः” इत्यनेन उपधाह्रस्वः इति ।

धातुपाठे विद्यमानेन “घटादयः मितः” इति गणसूत्रेण घटादिगणे विद्यमानाः (~६० धातवः) मितः स्वीक्रियन्ते । एतेषां सर्वेषां ण्यन्तप्रक्रियायाम् उपधाह्रस्वः भवति । यथा, घट् + णिच् → घाटि → घटि → घटयति । श्रा → श्रापि → श्रपि → श्रपयति ।

केचन धातवः केवलं विशिष्टे अर्थे एव घटादौ स्वीक्रियन्ते, न हि अन्येषु अर्थेषु ।
यथा, ज्ञा धातुः मारण-तोषण-निशामनेषु घटादिगणे स्वीक्रियते, अतः एतेषु अर्थेषु अस्य ण्यन्तं रूपं “ज्ञपयति” इति भवति । परन्तु “अवबोधने” इत्यस्मिन् अर्थे अयं घटादिगणे न स्वीक्रियते, अतः तस्मिन् अर्थे अस्य ण्यन्तं रूपं “ज्ञापयति” इत्येव भवति ।

धातुपाठे विद्यमानेन “जनीजॄष्क्नसुरञ्जोऽमन्ताश्च” इति गणसूत्रेण दिवादिगणस्य जन्, जॄष्, क्नस्, रञ्ज् एते धातवः तथा च ‘अम्’ येषाम् अन्ते विद्यते ते धातवः (क्रम्, गम्, रम्, नम् आदयः) मितः स्वीक्रियन्ते । एतेषां सर्वेषां ण्यन्तप्रक्रियायाम् उपधाह्रस्वः भवति । यथा, जनयति, जरयति, क्नसयति, रञ्जयति, गमयति, क्रमयति, रमयति, नमयति ।

अपवादाः

परन्तु, “न कम्यमिचमाम्” इति गणसूत्रेण ‘कम्, अम्, चम्’ एतेषां धातूनां मित्त्वं निषिध्यते । अतः एतेषां सर्वेषां ण्यन्तप्रक्रियायाम् उपधाह्रस्वः न भवति । यथा, कामयति, आमयति, आचामयति ।

तथैव, “शमो दर्शने” इति गणसूत्रेण शम्-धातोः “दर्शने” इति अर्थे मित्त्वं निषिध्यते, अतः अस्य शामयति इति ण्यन्तं रूपं भवति । अन्येषु अर्थेषु (यथा, श्रवणम् अस्मिन् अर्थे नि+शम् इति धातोः प्रयोगे) मित्त्वं विद्यते एव, अतः णिचि उपधाह्रस्वे शमयति इति रूपं सिद्ध्यति ।

एवमेव, “यमोऽपरिवेषणे” इति गणसूत्रेण यम्-धातोः “अपरिवेषणे” इति अर्थे मित्त्वं निषिध्यते, अतः अस्य यामयति इति ण्यन्तं रूपं भवति । अन्येषु अर्थेषु (यथा, परिवेषणम् इत्यस्मिन् अर्थे) मित्त्वं विद्यते एव, अतः णिचि उपधाह्रस्वे यमयति इति रूपं सिद्ध्यति ।

क्वथ्

क्वथेँ (निष्पाके, to boil / cook) अयं भ्वादिगणस्य धातुः । अस्य धातोः विषये मतद्वयं वर्तते ।

माधवीयधातुवृत्तौ अयं धातुः घटादिगणे स्वीकृतः अस्ति । अतः तस्य मतेन अस्य णिचि उपधाह्रस्वे कृते “क्वथयति” इति रूपम् भवति ।

अन्ये बहवः वैयाकरणाः तु अमुं धातुं घटादिगणे नैव स्वीकुर्वन्ति । अतः तेषां मतेन अस्य णिचि उपधाह्रस्वः न भवति, येन “क्वाथयति” इति रूपं सिद्ध्यति ।

स्मृ चिन्तायाम्

  • धातुपाठे स्मृ इति द्वौ धातू स्तः । स्मृ चिन्तायाम् इति प्रथमः धातुः । ‘स्मृतिपथं प्रति आनयनम्’ (to remember) इति अर्थः ।
  • अयं सकर्मकः धातुः । यस्य स्मरणं क्रियते तस्य कर्मसंज्ञा । यथा, हनुमान् रामं स्मरति ।

अस्मात् धातोः णिच्-प्रत्यये कृते “स्मारि” इति आतिदेशिकधातुः सिद्ध्यति । यथा, हनुमान् स्मारयति ।

स्मृ-धातुः बुद्ध्यर्थकः अस्ति, यतः पूर्वं प्राप्तस्य ज्ञानस्य बुद्धौ स्मरणं भवति । अतः स्मृ-धातोः णिच्-प्रत्यये कृते १.४.५२ गतिबुद्धिप्रत्यवसानार्थ… इति सूत्रेण शुद्धकर्तुः कर्मसंज्ञा भवितुम् अर्हति । परन्तु स्मृ (चिन्तायाम्) इत्यस्य प्रयोगे शुद्धकर्तुः कर्मसंज्ञा नैव भवति । तत्र विद्यमाने कौमुदीव्याख्याने इदं स्पष्टीकृतम् वर्तते —

सूत्रे ज्ञान-सामान्यार्थानाम् एव ग्रहणं न तु तद्विशेषार्थनाम् इत्य् अनेन ज्ञाप्यते । तेन स्मरति जिघ्रतीत्यादीनां न । स्मारयति घ्रापयति वा देवदत्तेन — इति ।

अतः स्मृ (चिन्तायाम्) इत्यस्य णिजन्तप्रयोगे शुद्धकर्तुः तृतीयया एव निर्देशः क्रियते । “हनुमान् सीतया रामं स्मारयति” इति साधु प्रयोगः । “हनुमान् सीतां रामं स्मारयति” इति असाधु प्रयोगः । एवमेव, “पिता पुत्रेण धर्मं स्मारयति” इति उचितः प्रयोगः । “पिता पुत्रं धर्मं स्मारयति” इति असाधु प्रयोगः ।

शिष्टप्रयोगाः

परन्तु कुत्रचित्, “स्मारयति” इत्यस्य प्रयोगे अपि शुद्धकर्तुः कर्मत्वं स्वीकृत्य द्वितीया प्रयुक्ता दृश्यते । तत्र “स्मृ चिन्तायाम्” इत्यस्य बुद्धिसामान्यत्वं स्वीकृत्य गतिबुद्धि.. इत्यनेन शुद्धकर्तुः कर्मत्वं स्वीक्रियते । यथा, मुद्राराक्षसे

“न खलु चन्द्रगुप्तदोषाः अतिक्रान्त-पार्थिव-गुणान् अधुना स्मारयन्ति प्रकृतीः”
इत्यत्र “प्रकृति” इति शुद्धकर्तुः णिजन्तप्रयोगे “प्रकृतीः” इति द्वितीयान्तः पाठः दृश्यते । डुण्डिराजव्याख्याने अस्मिन् विषये उच्यते —

स्मरतिः ज्ञानसामान्यवचनः । अतः गतिबुद्धि… इत्यनेन कर्मत्वम् । यद्वा प्रकृतिभिः इति पाठः साधु ।

एतादृशान् शिष्टप्रयोगान् विहाय अन्येषु स्थलेषु “स्मारयति” इत्यस्य प्रयोगे शुद्धकर्तुः कर्मत्वं नैव भवति । अतः “त्वं माम् स्मारय” इति प्रयोगः अनुचितः, अस्माभिः च नैव प्रयोक्तव्यः । “त्वं मया स्मारय” इत्येव साधु ।+++(५)+++

स्मृ आध्याने

स्मृ आध्याने इति द्वितीयः धातुः । deep remembrance, typically with sorrow or pain (उत्कण्ठापूर्वकेच्छा) इति अर्थः ।

अयम् अपि सकर्मकः धातुः । यस्य स्मरणं क्रियते तस्य कर्मसंज्ञा । यथा, सः प्रियां स्मरति ।

अयम् धातुः घटादिगणे स्वीक्रियते । इत्युक्ते, घटादयो मितः इति गणसूत्रेण अयं मित् भवति । अतः णिच्-प्रत्यये परे “६.४.९२ मितां ह्रस्वः” इत्यनेन उपधाह्रस्वे कृते “स्मरि” इति आतिदेशिकधातुः सिद्ध्यति । यथा, सः स्मरयति ।

अस्य धातोः विषये यद्यपि कौमुदीवाक्यम् अनुसृत्य “बुद्ध्यर्थत्वम्” न स्वीकर्तव्यम्, अतश्च शुद्धकर्तुः ण्यन्तप्रयोगे कर्मसंज्ञा न करणीया, तथापि भाष्यकारेण “१.३.६७ णेरणौ यत्कर्म णौ चेत् स कर्ताऽनाध्याने” इत्यत्र “स्मरयत्य् एनं वनगुल्मः स्वयम् एव” +इति प्रयोगः कृतः दृश्यते । अस्य प्रयोगस्य सामर्थ्यात् स्मृ आध्याने इति धातोः ण्यन्तप्रयोगे शुद्धकर्तुः कर्मत्वं विधीयते, “तेन तद्वचनं तं प्रियां स्मरयति”, स्मरदायिनः स्मरयन्ति स्म भृशम् (किरातार्जुनीये ६.१३) एतादृशाः प्रयोगाः अपि साधुत्वं प्राप्नुवन्ति ।

सूत्रे ज्ञानसामान्यार्थानाम् एव ग्रहणं,
न तु तद्विशेषार्थनामित्यनेन ज्ञाप्यते ।
तेन स्मरति जिघ्रतीत्यादीनां न ।
स्मारयति घ्रापयति वा, देवदत्तेन स्मारयति इति
— १.४.५२ गतिबुद्धिप्रत्यवसानार्थ… इत्यत्र सिद्धान्तकौमुदी ।

यत्तु णेरणौ इति सूत्रे “वनगुल्मः स्वयमेव” इति उदाह्रियते,
तत्र भाष्यप्रयोगाद् एव कर्मत्वं बोध्यम् ‌—
१.४.५२ गतिबुद्धिप्रत्यवसानार्थ… इत्यत्र प्रौढमनोरमा ।

आध्यानार्थक-घटादि–भिन्न-स्मरतेः एव योगे, तद्-भाष्य-प्रामाण्यात्, कर्मत्वाभावः; घटादेः तु +++(आध्यानार्थकस्मरतेर्)+++ भवत्य् एव कर्मत्वम् इति भावः —
१.४.५२ गतिबुद्धिप्रत्यवसानार्थ… इत्यत्र प्रौढमनोरमाव्याख्याने हरिदीक्षितविरचिते शब्दरत्ने ।

स्मारयत्येनं +++(← स्मरयत्येनम्)+++ वनगुल्म इत्यत्र तु णेरणौ इति सूत्रे
भाष्ये प्रयोगादेव कर्मत्वं बोध्यम् — १.४.५२ गतिबुद्धिप्रत्यवसानार्थ… इत्यत्र तत्वबोधिन्याः बहुषु संस्करणेषु दोषः !

“स्मारयति” इत्यस्य प्रयोगे शुद्धकर्तुः तृतीया, “स्मरयति” इत्यस्य प्रयोगे शुद्धकर्तुः कर्मत्वात् द्वितीया — इति आशयः ।

घटँ चेष्टायाम्

धातुपाठे घट् इति त्रयः धातवः सन्ति — एकः भौवादिकः, द्वौ चौरादिकौ ।

भ्वादिगणे विद्यमानः घटँ चेष्टायाम् इति प्रथमः धातुः । अयम् आत्मनेपदी । घटते (सिद्ध्यति / becomes) इति रूपम् ।

धातुपाठे विद्यमानेन “घटादयः मितः” इति गणसूत्रेण भौवादिकः घट्-धातुः मित् स्वीक्रियते । मित्त्वस्य फलम् अस्ति ६.४.९२ मितां ह्रस्वः इत्यनेन णिजन्तप्रक्रियायाम् उपधाह्रस्वत्वम् — इति । अतः “घट् +णिच्” इत्यत्र आदौ “७.२.११६ अत उपधायाः” इत्यनेन वृद्ध्यादेशे कृते, “घाटि” इति स्थिते, ततः “६.४.९२ मितां ह्रस्वः” इत्यनेन उपधाह्रस्वः भवति, येन “घटि” इति आतिदेशिकधातुः सिद्ध्यति । अस्य रूपाणि “घटयति / घटयते” इति भवन्ति ।

क्रुधा सन्धिं भीमो
विघटयति यूयं घटयत
— इति वेणीसंहारे प्रथमे अङ्के ।

विष्णु-रथ-दण्डकोऽसौ विघटयति विपक्षवाहिनीव्यूहम्
— इति गरुडपुराणे ।

घटँ सङ्घाते, घटँ भाषायाम्

चुरादिगणस्य घटँ सङ्घाते, घटँ भाषायाम् इति द्वौ धातू । एतौ द्वौ अपि उभयपदिनौ । एतयोः विषये “घटादयः मितः” इति गणसूत्रं नैव प्रवर्तते, अतः एतौ धातौ मितौ न स्तः । इत्युक्ते, एतयोः णिजन्तप्रक्रियायां ७.२.११६ अत उपधायाः इत्यनेन वृद्ध्यादेशे कृते, “घाटि” इत्येव सिद्ध्यति (ततः पुनः उपधाह्रस्वः न प्रवर्तते) । अतः एतयोः रूपाणि घाटयति / घाटयते — इति भवन्ति । केचन प्रयोगाः एतादृशाः —

  • कमलवनोद्घाटनं कुर्वते ये…(सूर्यशतके द्वितीयः श्लोकः)
  • प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिव (किरातार्जुनीये २.४६)
  • द्यूत-सभाद्य्-अपकार-स्थानोद्घाटनम् एवेदं मन्ये (वेणीसंहारे प्रथमे अङ्के)
  • उद्घाटको भवति यन्त्ररूढे कपाटे (मृच्छकटिकम् ३.१६)
  • धर्मं यो न करोति निश्चल-मतिः स्वर्गार्गलोद्घाटनम् (हितोपदेशः)
  • गृहेऽनुद्धारित-द्वारि नाहूतः प्रविशेन् नरः (स्मृतिः)

भी भये

भी (भये) इति जुहोत्यादिगणस्य णिजन्ते आहत्य चत्वारि रूपाणि भवन्ति — भापयते, भीषयते, भाययते, भाययति । भापयति, भीषयति इति द्वे तु अशुद्धे रूपे ।

भी-धातुः अकर्मकः, अतः णिजन्तप्रयोगे “१.४.५२ गतिबुद्धिप्रत्यवसानार्थ…” इति सूत्रेण शुद्धकर्तुः कर्मसंज्ञा भवति । “पुत्रः बिभेति” इति शुद्धधातोः प्रयोगः । “पिता पुत्रं भापयते / भीषयते / भाययते / भाययति” इति ण्यन्तप्रयोगाः ।

साधनेन भये

यत्र भयस्य मूलं करणे विद्यते (साक्षात् प्रयोजककर्तुः कारणात् भयं न जायते अपि तु प्रयोजककर्त्रा प्रयुक्तम् किञ्चित् साधनम् भीतिं जनयति — इत्याशयः) तर्हि भी-धातोः भाययति, भाययते एते द्वे रूपे प्रयोक्तव्ये । यथा — पिता पुत्रं दण्डेन भाययति । वनरक्षकः सिंहं अग्निना भाययते । अत्र प्रक्रिया इत्थम् —

  • भी + णिच् → भै + इ → भायि । ३.१.३२ सनाद्यन्ता धातवः इति धातुसंज्ञा ।
  • १.३.७४ णिचश्च इति सूत्रेण उभयपदं विधीयते । भायि + शप् + ति / ते → भाययति / भाययते ।

हेतुभये

यदि भयस्य मूलं साक्षात् प्रयोजककर्तरि अस्ति (साक्षात् प्रयोजककर्ता भीतिं जनयति, न हि तस्य समीपे विद्यमानम् वस्तु — इत्याशयः) तर्हि तत्र “हेतुभयम्” अस्ति इति उच्यते । हेतुकर्तुः जायमानं भयम् तत् हेतुभयम् इत्याशयः ।

हेतुभयस्य विषये भी-धातोः भीषयते, भापयते एते द्वे रूपे प्रयोक्तव्ये । यथा — राक्षसः मुनीन् भीषयते । सिंहः मृगान् भापयते । अत्र प्रक्रिया इत्थम् —

  • हेतुभयस्य विषये भियो “६.१.५६ बिभेतेर्हेतुभये” इत्यनेन भी-धातोः विकल्पेन आकारादेशः भवति ।
  • आकारादेशस्य पक्षे ७.३.३६ अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ इत्यनेन पुगागमः भवति, येन “भा + पुक् + णिच् → भापि” इति आतिदेशिकधातुः सिद्ध्यति ।
  • आकारादेशाभावपक्षे “७.३.४० भियो हेतुभये षुक्” इत्यनेन षुगागमः भवति, येन “भी + षुक् + णिच् → भीषि” इति आतिदेशिकधातुः सिद्ध्यति ।
  • उभयपक्षे “१.३.६८ भीस्म्योर् हेतुभये” इत्यनेन केवलम् आत्मनेपदस्यैव प्रत्ययाः भवन्ति । अतः ‌— “भापि / भीषि + शप् + ते → भापयते / भीषयते” इति रूपे सिद्ध्यतः ।

ण्यन्ताभ्याम् आभ्याम् आत्मनेपदं स्याद् हेतोः चेद् भयस्मयौ ।…मुण्डो भापयते… (अग्रिमसूत्रे) मुण्डो भीषयते
— इति अत्र सिद्धान्तकौमुदी ।

ज्वल्

ज्वल् (दीप्तौ) इति भ्वादिगणे द्विवारं विद्यमानः धातुः । वस्तुतस्तु एकः एव धातुः धातुपाठे द्विवारं पाठितः । तत्र एकः पाठः घटादित्वार्थः, अपरः पाठः ज्वलादित्वार्थः ।

णप्रत्ययार्थं पठिष्यमाण एवायं मित्त्वार्थम् अनूद्यते
‌— ७.४.६८ व्यथो लिटि इत्यत्र सिद्धान्तकौमुदी ।

घटादिगणे पाठसामर्थ्यात् अयं “घटादयः मितः” इत्यनेन मित् स्वीक्रियते, अतः ण्यन्त-प्रक्रियायां “६.४.९२ मितां ह्रस्वः” इत्यनेन ह्रस्वादेशः भवति — देवदत्तः दीपं प्रज्वलयति ।

ज्वल्-धातोः मित्त्वम् उपसर्गस्य अनुपस्थितौ “ज्वलह्वलह्मलनमामनुपसर्गाद्वा” इति गणसूत्रेण विकल्प्यते । अतः देवदत्तः दीपं ज्वलयति, देवदत्तः दीपं ज्वालयति — उभयथा साधु ।

तर्हि “प्रज्वालितो ज्ञानमयः प्रदीपः” इत्यस्य साधुत्वं कथम् ?

कथं तर्हि प्रज्वालयति, उन्नामयतीति ? घञन्तात्तत् करोतीति णौ
— ७.४.६८ व्यथो लिटि इत्यत्र सिद्धान्तकौमुदी ।

भावे घञ् प्रत्ययं कृत्वा ततः “तत्करोति तदाचष्टे” इति णिच्-प्रत्यये कृते इदं रूपं सिद्ध्यति इत्याशयः । प्रज्वल् + (भावे) घञ् → ज्वाल; प्रज्वालं करोति = प्रज्वाल + णिच् → प्रज्वालि । अत्र इष्ठवद्भावः भवति - अतः टिलोपे कृते, तस्य स्थानिवद्भावात् उपधाह्रस्वः न । अतः प्रज्वालयति इति सिद्धम् ।

श्रम्

श्रमुँ (तपसि खेदे च) इति दैवादिकः । अस्य अमन्तत्वात् “जनीजॄष्क्नसुरञ्जोऽमन्ताश्च” इति गणसूत्रेण अयं मित् स्वीक्रियते, अतः ण्यन्तप्रक्रियायां ६.४.९२ मितां ह्रस्वः इत्यनेन ह्रस्वादेशः भवति । श्रमयति, विश्रमयति —‌ इति साधु ।

वि + श्रम् + घञ् इत्यत्र यदि “विश्राम” इति रूपं स्यात्, तर्हि तस्मात् “तत्करोति तदाचष्टे” इति णिच्-प्रत्ययं कृत्वा “विश्रामि” इति आतिदेशिकधातुः अवश्यं सिद्ध्येत् । परन्तु श्रम्-धातोः घञ्-प्रत्ययान्तरूपम् अपि “श्रमः” इति उपधाह्रस्वघटितम् एव भवति, यतः “श्रम् +घञ्” इत्यत्र “७.२.११६ अत उपधायाः” इत्यनेन उपधादीर्घे प्राप्ते, “७.३.३४ नोदात्तोपदेशस्य मान्तस्यानाचमेः” इति सूत्रेण उपधादीर्घः निषिध्यते, अतः “श्रमः / विश्रमः” इत्येते एव साधुरूपे ।

अतः, विश्रामयति, विश्रामः इति उपधादीर्घयुक्तानां शब्दानां साधुत्वज्ञापनं क्लेशाय !

विश्रामः

साहित्ये तु बहुत्र विश्रामयति, विश्रामः — एतादृशानि रूपाणि प्रयुक्तानि दृश्यन्ते ! तत्र व्याख्यातृभिः अस्य अपाणिनीयत्वमेव प्रतिपादितम् अस्ति ।

विश्रामो हृदयस्य यत्र जरसा यस्मिन्न हार्यो रसः (उत्तररामचरिते)

अत्र विश्रामः इति अपाणिनीयम्, नोदात्तेति वृद्धिप्रतिषेधात् इति वैयाकरणाः, श्रीहर्षस्तु विश्रामो विश्रमश्च इति द्विरूपकोशे उक्तवान्
— वीरराघवकृता टीका ।

विश्रामं लभताम् इदं च शिथिलज्याबन्धम् अस्मद्धनुः (अभिज्ञानशाकुन्तले)

विश्रामम् इति अपाणिनीयः पाठः, विश्रान्तिम् इति पठनीयम् — राघवभट्टकृता टीका ।

अथ यन्तारम् आदिश्य
धुर्यान् विश्रामयेति सः (रघुवंशे)

विश्रमय इति ह्रस्वपाठः अपि अस्ति — मल्लिनाथकृता टीका ।

कथं सूर्यविश्रामभूः इति ? एवमादिकं प्रयोगं अन्याय्यमेव मन्यन्ते इति वृत्तौ उक्तत्वात् — इति माधवीयधातुवृत्तिः ।

अनाचमिकमिवनीनाम् इत्यत्र केचित् श्रमिवमी पठन्ति इति रक्षितः ।
श्रम-निकेत-कुण-गुण-चामन्त्रणे इति चौरादिकस्य वा — दुर्घटवृत्तौ शरणदेवः ।

विश्राम इति त्वपाणिनीयम्
— ६.१.४७ स्फुरतिस्फुलत्योर्घञि इत्यत्र भट्टोजिदीक्षितः ।

“६.४.९२ मितां ह्रस्वः” इति सूत्रे
“६.४.९१ वा चित्तविरागे” इत्यतः “वा” इति अनुवर्त्य
व्यवस्थितविभाषाश्रयणाद् इति वृत्तिकृत् ।
एतेन राजो विश्रामयन् राज्ञाम्,
धुर्यान्विश्रामयेति स
इत्यादि व्याख्यातम्
— ७.४.६८ व्यथो लिटि इत्यत्र सिद्धान्तकौमुदी ।

वृत्तिकृदिति । भाष्ये तु नैतत् दृश्यते इति भावः — बालमनोरमा ।

व्यवस्थितविभाषेत्यादि ।
क्वचिण्णौ मितां ह्रस्वो न प्रवर्तत इति भावः ।
वृत्तिकृदिति । केचित्तु घञन्तात्क्रमशब्दात्प्रज्ञाद्यणि क्रामशब्दं स्वीकृत्य तस्मात् तत्करोतीति णौ सङ्क्रामयतीति — तत्त्वबोधिनी ।

ज्ञा

धातुपाठे “ज्ञा” इत्याख्यौ द्वौ धातू —

  • क्र्यादिगणस्थः ज्ञा अवबोधने (to know) इति — जानाति, जानीतः जानन्ति इति रूपाणि ।
  • चुरादिगणस्थः ज्ञा नियोगे (to order) इति । अयं प्रायेण आङ्-पूर्वकः प्रयुज्यते । आज्ञापयति, आज्ञापयतः, आज्ञापयन्ति इति रूपाणि ।
  • चुरादिगणे ज्ञप् (ज्ञाने, ज्ञापने च) इति अन्यः धातुः वर्तते । तत्रैव विद्यमानेन “ज्ञपादयः मितः” इति गणसूत्रेण अयं धातुः मित् स्वीक्रियते, अतः अस्य “ज्ञपयति” इति रूपं भवति । धातुपाठे अयं धातुः केवलम् ज्ञप् मिच्च इति स्वरूपेण निर्दिष्टः दृश्यते । तत्र ७.४.७ उर्ऋत् इत्यत्र सिद्धान्तकौमुद्याम् “अयं ज्ञाने ज्ञापने च वर्तते” इति निर्देशः अस्ति ।

    प्रच्छ ज्ञीप्सायामित्यत्र ज्ञाने, श्लाघङ्नुङ्स्थाशपां ज्ञीप्स्यमानः इत्यत्र ज्ञापने च प्रयोगदर्शनादिति भावः
    — इति बालमनोरमायां स्पष्टीकृतम् ।

  • भ्वादिगणे (तत्र घटाद्यन्तर्गणे) ज्ञा मारणतोषणनिशामनेषु इति धातुः विद्यते । क्र्यादिगणस्थस्य ज्ञा अवबोधने इत्यस्यैव विशिष्टेषु अर्थेषु मित्त्वार्थम् अयं पुनः पाठः । एतेषु अर्थेषु ६.४.९२ मितां ह्रस्वः इति उपधाह्रस्वे कृते “ज्ञपयति” इति रूपम् ।
    • मारणे —‌पशुं संज्ञपयति (अक्षतं मारयति इत्यर्थः)
    • तोषणे — हरिं ज्ञपयति (सन्तोषयति इत्यर्थः)
    • निशामने — रूपं ज्ञपयति (बोधयति / अवबोधयति / माधवीयधातुवृत्तौ दर्शयति इत्यर्थः) ।
      • पदमञ्जर्याम् “निशामनम्” इत्यस्य स्थाने “निशानम्” (तीक्ष्णीकरणम्) इति निर्देशः दृश्यते । अतः “शरं ज्ञपयति” (तीक्ष्णीकरोति) इति तन्मतेन प्रयोगः ।

अवबोधनार्थे अपि “ज्ञापयति / विज्ञापयति” इति प्रयोगः भाषायां दृश्यते । तत्र त्रिप्रकारकम् समाधानम् —

  • चौरादिकस्य ज्ञा नियोगे इत्यस्य एव इदं रूपम् । धातूनाम् अनेकार्थत्वात् नियोगभिन्नेषु अर्थेषु अपि तस्य प्रयोगः सम्भवति इति आशयः ।
  • “ज्ञा मारणतोषणनिशामनेषु” इत्यत्र विद्यमानः “निशामन” इति शब्दः दर्शनार्थे (चाक्षुषज्ञानार्थे) प्रयुक्तः । अतः तस्मिन् अर्थे एव मित्त्वम् (अतश्च उपधाह्रस्वः) भवति; तद्भिन्नस्थलेषु मित्त्वं नैव भवति ।
  • निशामनम् इत्यस्य स्थाने पदमञ्जर्याम् “निशानम्” (तीक्ष्णीकरणम्) इति निर्देशः दृश्यते । अतः पदमञ्जरीकारस्य मतेन निशामनार्थे (बोधनार्थे) मित्त्वं नैव प्रवर्तते, अतः अवश्यमेव दीर्घः भवति ।