निणि

ताच्छील्ये णिनि-प्रत्ययः

Source: TW

[[२८१]]

३.२.७८ सुप्यजातौ णिनिस्ताच्छील्ये इति सूत्रेण
“तत् शीलम् अस्य अस्मिन्” अर्थे सुबन्त-उपपदस्य उपस्थितौ धातोः णिनि-प्रत्ययः भवति ।
यथा, उष्णं भुङ्क्ते इति शीलम् अस्य सः उष्णभोजी ।
उष्णम् + भुज् + णिनि → उष्णभोजिन् ।
एवमेव, शीतं भुङ्क्ते इति शीलमस्य सः शीतभोजी ।

उपसर्गाः

३.२.७८ सुप्यजातौ णिनिस्ताच्छील्ये इत्यत्र काशिका — सुपि इति वर्तमाने पुनः सुब्-ग्रहणम् उपसर्गनिवृत्यर्थम् ।
उत्प्रतिभ्यामाङि सर्तेरुपसङ्ख्यानम्। उदासारिण्यः। प्रत्यासारिण्यः। काशिकाकारस्य मतेन, सुबन्त-उपपदस्य स्थाने उपसर्गः विद्यते चेत् अस्य सामान्यरूपेण सूत्रस्य प्रयोगः न भवति ।
केवलम् “उद् + आ + सृ” तथा “प्रति + आ + सृ” इत्यत्र णिनि-प्रत्ययः सम्भवति ।+++(4)+++

अपवादाः

परन्तु, रघुवंशे १.१६ इत्यत्र “भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम्” इत्यत्र उपजीविनाम् इति प्रयोगः दृश्यते ।
अत्र उप-उपसर्गपूर्वकात् जीव्-धातोः णिनि-प्रत्ययः कृतः अस्ति ।

किञ्च, पाणिनिना स्वेनापि ५.४.१६ विसारिणो मत्स्ये इति सूत्रे विसारिन् इत्यत्र वि + सृ इत्यस्मात् णिनि-प्रत्ययः कृतः अस्ति;
एवमेव ५.४.१३ अनुगादिनष्ठक् इति सूत्रे अनुगादिन् इत्यत्र अनु + गद् इत्यस्मात् णिनि-प्रत्ययः कृतः अस्ति ।
अतः उपसर्गस्य उपस्थितौ अपि धातोः णिनि-प्रत्ययः सम्भवति इति स्पष्टम् ।

इह वृत्तिकारेणोपसर्गभिन्न एव “सुपि णिनिर्” इति व्याख्याय “उत्प्रतिभ्यामाङि सर्तेरुपसंख्यानम्” इति पठितम् । हरदत्तमाधवीदिभिश्च तदेवानुसृतम् ।
तच्च भाष्यविरोधादुपेक्ष्यम् । प्रसिद्धश्चोपसर्गेऽपि णिनिः । स बभूवोपजीविनाम् (रघुवंशे १.१६) ।
अनुयायिवर्गः (रघुवंशे २.४) ।
पतत्यधो धाम विसारि (शिशुपालवधे १.२) ।

न वञ्चनीयाः प्रभवोऽनुजीविभिः (किरातार्जुनीये १.४) इत्यादौ — ३.२.७८ सुप्यजातौ णिनिस्ताच्छील्ये इत्यत्र सिद्धान्तकौमुदी ।

उपसर्गभिन्न एवेति ।

सत्सूद्विष.. इति सूत्रे उपसर्गेऽपि इत्युक्तत्वाद्
उपसर्गभिन्नस्यैव सुपो लाभाय
अस्मिन्सूत्रे पुनः सुब्ग्रहणं कृतमिति भावः ।
भाष्यविरोधादिति ।
उक्तं च भाष्ये —
सुबिति वर्तमाने पुनः सुब्ग्रहणं किमर्थम्,
अनुपसर्गे इत्येव तदभूत्,
इदं तु सुब्मात्रे यथा स्यादुदासारिण्यः प्रत्यासारिण्य इति ।

अस्यायमाशयः — सत्सूद्विष.. इति सूत्रे “सुपि स्थः” इत्यतः सुप् इत्यनुवर्तते, तच्च उपसर्गेतरपरम्, उपसर्गेऽपीति पृथगुक्तेः ।
तद् इह अनुवर्तमानम् अर्थाधिकाराद् उपसर्गेतरपरमेव स्यादिति ।
निष्कर्षे तु मा भूदिह सुब्वचनग्रहणम्,
उपसर्गेऽपि इति अंशस्य अपि अनुवृत्त्या निर्वाहात् ।

“सर्वथापि सुब्मात्रे उपपदे णिनिः, न तु अनुपसर्ग” एवेति सिद्धान्तः‌ —‌ ३.२.७८ सुप्यजातौ णिनिस्ताच्छील्ये इत्यत्र तत्त्वबोधिनी ।
उपसर्गवाचके उपपदे अपि धातोः णिनिप्रत्ययः अवश्यं भवितुम् अर्हति इत्याशयः ।