लिङ्ग-निर्धारः

लिङ्ग-नित्यता

कृदन्तप्रकरणस्थाः बहवः प्रत्ययाः विशेष्यनिघ्नानां प्रातिपदिकानां निर्माणं कुर्वन्ति ।

  • पच् + अनीय → पचनीय । पचनीयः ओदनः, पचनीया रोटिका, पचनीयम् अन्नम् ।
  • गम + क्त → गतः । रामः गतः, सीता गता, फलं गतम् ।

केचन कृत्प्रत्ययाः केवलं विशिष्टलिङ्गवाचकशब्दानां निर्माणार्थम् एव प्रयुज्यन्ते ।

  • पुंलिङ्गविशिष्टाः प्रत्ययाः — यथा, घञ् । पच् + घञ् → पाकः ।
  • स्त्रीलिङ्गविशिष्टाः प्रत्ययाः — यथा, क्तिन् । पच् + क्तिन् → पक्तिः । नपुंसकलिङ्गविशिष्टाः प्रत्ययाः — यथा, ल्युट् । पच् + ल्युट् → पचनम् । अव्ययसाधकाः प्रत्ययाः — यथा, तुमुन् । पच् + तुम् → पक्तुम् ।

स्त्रीलिङ्गवाचिनः

कृदन्तप्रकरणस्थाः केचन भाववाचकप्रत्ययाः केवलं स्त्रीलिङ्गवाचिनां शब्दानां निर्माणार्थम् एव प्रयुज्यन्ते ।

  • सर्वेभ्यः धातुभ्यः औत्सर्गिकरूपेण ३.३.९४ स्त्रियां क्तिन् इत्यनेन क्तिन् इति प्रत्ययः भवति ।
    • बुध् + क्तिन् → बुद्धि । स्मृ + क्तिन् → स्मृति । मन् + क्तिन् → मति । दृश् +क्तिन् → दृष्टि । कृ + क्तिन् → कृति ।
  • णिच्-प्रत्ययान्त-धातवः —‌ एतेभ्यः ३.३.१०७ ण्यासश्रन्थो युच् इत्यनेन युच् (अन) प्रत्ययः भवति ।
    • गण् (संख्याने) + णिच् + युच् + टाप् → गणना । तड् (ताडने) + णिच् + युच् + टाप् → ताडना ।
  • षित्-धातवः — एतेभ्यः ३.३.१०४‌ षिद्भिदादिभ्योऽङ् इत्यनेन अङ् प्रत्ययः भवति ।
    • जॄष् (वयोहानौ) + अङ् + टाप् → जरा । त्रपूँष् (लज्जायाम्) + अङ् + टाप् → त्रपा ।
  • हलन्त-गुरुमत्-धातवः — यदि हलन्त-धातोः उपधायां व्यञ्जनम् उत दीर्घः स्वरः वर्तते, तर्हि तादृशात् धातोः “३.३.१०३ गुरोश्च हलः” इत्यनेन अ प्रत्ययः भवति ।
    • ईह् (चेष्टायाम्) + अ + टाप् → ईहा । कुण्ड् (दाहे) + अ + टाप् → कुण्डा ।