यत्र सार्वधातुकलकाराणाम् आर्धधातुकलकाराणां च विषयः उदेति, केचन पारिभाषिकशब्दाः अवगन्तव्याः |
१. सार्वधातुकलकाराः = लट्, लोट्, लङ्, विधिलिङ् च | (किमर्थमिति अधः उच्यते |)
२. सार्वधातुकलकारेषु प्रत्येकं क्रियापदस्य अंशत्रयं वर्तते-- धातुः + विकरणप्रत्ययः + तिङ्प्रत्ययः | यथा भू + शप् + ति |
३. विकरणं नाम किम् इति तु वयं जानीमः एव; प्रथमपाठे (धातुगण-परिचये) विस्तरेण चर्चितम् | तिङ्प्रत्ययः कः इत्यपि प्रायः एतावता किञ्चित् ज्ञातम्; अस्मिन् पाठे बहु किमपि वक्ष्यते | भू + शप् + ति इत्यस्मिन् ति “तिङ्”-प्रत्ययः इति | सर्वेषां तिङ्प्रत्ययानां मूलरूपम् अस्ति |
परस्मैपदिधातूनां मूल-तिङ्प्रत्ययाः
तिप् तस् झि
सिप् थस् थ
मिप् वस् मस्
आत्मनेपदिधातूनां मूल-तिङ्प्रत्ययाः
त आताम् झ
थास् आथाम् ध्वम्
इड् वहि महिङ्
अत्र प्रथमप्रत्ययः तिप् अस्ति अतः सामूहिकरूपेण एते प्रत्ययाः तिबादयः इति उच्यन्ते | अपि च आत्मनेपदे अन्तिमप्रत्ययः महिङ् अतः तिप् इत्यस्मात् आरभ्य महिङ् पर्यन्तं, तिप्-तः महिङ्-अन्त्यः, आहत्य तिङ् इत्येषां प्रत्ययानां नाम |
क्रियापदानाम् अन्तिमभागः तिङ्प्रत्ययः एव, अतः क्रियापदं तिङन्तपदम् इति उच्यते |
४. तिङन्तपदस्य निर्माणसमये यः धातोः “अनन्तरम्” आयाति सः प्रत्ययः इति अवगच्छतु | सूत्रत्रयेण अयं बोधो भवति— धातोः (३.१.९१), प्रत्ययः (३.१.१), परश्च (३.१.२) | धातुः प्रथमः, धातोः ‘अनन्तरं’ विकरणम् अतः विकरणं प्रत्ययः | तथैव तिङ् अपि; धातोः अनन्तरं तिङ् आयाति अतः तिङ् अपि प्रत्ययः | तर्हि प्रथमं धातुः अस्ति, तदा प्रत्ययस्य आगमनम् | अस्याः आगमनक्रियायाः व्यक्तीकरणार्थं प्रत्ययस्य विधानम् इत्युच्यते | विधानं, विधीयते, विहितः—सर्वं समानम् | प्रत्ययः यदा आगच्छति, तदा प्रत्ययस्य विधानम्, प्रत्ययः विधीयते, प्रत्ययः विहितः चेत्युच्यते |
५. अङ्ग-शब्दस्य विशेषार्थः व्याकरणे | कस्मात् अपि प्रत्ययात् प्राक् यः भागः अस्ति, सः अङ्गम् इत्युच्यते | अतः विकरणप्रत्ययस्य कृते धातुः इति अङ्गम् | तिङ्प्रत्ययस्य कृते धातुः + विकरणप्रत्ययः, तयोः संयुक्तरूपम् इति अङ्गम् | अतः भू + शप् + ति इत्यस्मिन् उदाहरणे शप्-प्रत्ययस्य कृते भू-धातुः अङ्गम् अस्ति | ति-प्रत्ययस्य कृते भू + शप् + ति → भव + ति | भू शप् चेत्यनयोः संयुक्तरूपं भव | ति इत्यस्मात् पूर्वं यावत् अस्ति, तत् सर्वम् अङ्गम् अतः ति इत्यस्य कृते अङ्गं भव इति | पुनः वद् + अ + ति इति स्थितौ, अ (शप्) इत्यस्य दृष्ट्या वद् इति अङ्गम्; ति इत्यस्य दृष्ट्या वद (वद् + अ) इत्यङ्गम् |
परं द्रक्ष्यामः यत् अङ्गं च प्रत्ययः च, द्वयोः कार्य-कारण-सम्बन्धः भवति | आधिक्येन अङ्गे कार्यं क्रियते; तस्य कार्यस्य कारणम् अस्ति परे स्थितः प्रत्ययः | यथा भू + शप् → भू + अ | अत्र भू + अ → भो + अ इति गुणकार्यं भवति | तस्य गुणकार्यस्य कारणं शप्-प्रत्ययः | अस्य कार्य-कारण-सम्बन्धस्य कृते निमित्तम् इति उच्यते | अतः भू-धातौ यत् अङ्गकार्यं भवति, तदर्थं शप् निमित्तम् अस्ति, इत्युक्ते शप् कारणम् अस्ति | अपि च अस्मिन् एव अर्थे वदामः यत् भू-धातौ यत् अङ्गकार्यं भवति, तत् शपं निमित्तं मत्वा अङ्गकार्यम्, अथवा शपं निमित्तीकृत्य अङ्गकार्यम्, अथवा शप्-निमित्तकम् अङ्गकार्यम् इति | (कदाचित् प्रत्यये कार्यं क्रियते न तु अङ्गे, यथा इडागमविषये | अग्रे गत्वा तादृशप्रसङ्गोऽपि परिशीलयिष्यते |)
६. तिबादीन् निमित्तीकृत्य धातु-विकरणयोः मेलनेन यत् अङ्गं निष्पद्यते, तस्य अन्तिमः वर्णः अकारः अस्ति चेत्, अङ्गम् अदन्तम् इत्युच्यते | (अत् इत्युक्ते ह्रस्वः अकारः; तपरस्तत्कालस्य इति सूत्रेण तकारे परे सति प्राक् यः स्वरः, तस्य एव कालस्य सङ्केतः | अत् + अन्तम् = अदन्तम् |) धातु-विकरणयोः मेलनेन निष्पन्नस्य अङ्गस्य अन्तिमवर्णः अकारः नास्ति चेत्, अङ्गम् अनदन्तम् इत्युच्यते |
७. धातूनां दश गणाः सन्ति इति तु ज्ञातम् | दश धातुगणाः पुनः विभक्ताः अङ्गस्य अन्तिमवर्णस्य अनुसारम् | येषु धातुगणेषु अङ्गम् अदन्तं भवति, ते धातुगणाः प्रथमगणसमूहे वर्तन्ते | येषु धातुगणेषु अङ्गम् अनदन्तं भवति, ते धातुगणाः द्वितीयगणसमूहे वर्तन्ते |
प्रथमगणसमूहः = भ्वादिगणः, दिवादिगणः, तुदादिगणः, चुरादिगणः
द्वितीयगणसमूहः = अदादिगणः, जुहोत्यादिगणः, स्वादिगणः, रुधादिगणः, तनादिगणः, क्र्यादिगणः
८. दश लकाराः अपि गणद्वये विभक्ताः—सार्वधातुक-लकाराः आर्धधातुक-लकाराः च |
तयोः भेदः कः ? क्रियापदस्य निर्माण-क्रमे सर्वप्रथमम् अस्माकं विवक्षानुगुणम् धातुः आनीयते | यथा, वद् इति धातुः | तदा पुनः विवक्षानुगुणं लकारः आनीयते, यथा लट्-लकारः | वद् + लट् | परं लटः स्थाने तिबादयः आनीयन्ते यथेच्छम्, यथा प्रथमपुरुषैकवचने तिप् | पकारस्य इत्-संज्ञा लोपश्च, ति अवशिष्यते | वद् + ति | अत्र सर्वमहत्त्वपूर्णसिद्धान्तः—वद् ति इत्यनयोः सम्पर्कः अस्ति, स्पर्शः अस्ति यतः तयोः मध्ये अन्यः कोऽपि प्रत्ययः नास्ति | अत्र वदामः यत् वद्-धातुना ति-प्रत्ययः “दृश्यते” | दृश्यते यतः तयोः मध्ये बाधा नास्ति, अन्यः कोऽपि प्रत्ययः नास्ति | येषु लकारेषु क्रियापदस्य निर्माणक्रमे धातुना सार्वधातुक-तिङ्प्रत्ययः दृश्यते, अपि च सः तिङ्प्रत्ययः कर्त्रर्थे अस्ति, तत्र सः लकारः सार्वधातुक-लकारः इति उच्यते | क्रियापदस्य निर्माणक्रमे धातुना तिङ्प्रत्ययः न दृश्यते चेत्, सः लकारः आर्धधातुक-लकारः |
सार्वधातुक-लकाराः— लट्, लोट्, लङ्, विधिलिङ्
आर्धधातुक-लकाराः— लिट्, लुट्, लृट्, आशीर्लिङ्, लुङ्, लृङ्
९. अयं भेदः नितरां महत्त्वपूर्णः यतः धातुना तिङ्प्रत्ययः दृश्यते चेत्, तर्हि तेन एव सम्पर्केण विकरणप्रत्ययः विहितः अस्ति | एकैकस्य गणस्य स्वस्य पृथक् विकरणप्रत्ययः (विकरणलोपो वा) इति अस्माभिः प्रथमपाठे दृष्टम् | तेन विकरणभेदेन तिङन्तरूपाणि भिद्यन्ते | तर्हि भिन्नगणेषु तिङन्तरूपाणि भिद्यन्ते विकरणप्रत्ययानां कारणेन | गणस्य लक्षणं प्रत्ययेन ज्ञायते | अतः अत्र अवधेयम्—विकरणप्रत्ययाः यत्र आयान्ति, तत्र धातोः तिङन्तरूपस्य ज्ञानार्थम्, धातुः कस्मिन् गणे अस्ति इति अवश्यं बोध्यम् | केषु लकारेषु विकरणप्रत्ययाः आयान्ति ? यत्र कर्त्रर्थे धातुना तिङ्प्रत्ययः दृश्यते | तत् कुत्र ? सार्वधातुकलकारेषु इति | आर्धधातुकलकारेषु धातुना तिङ्प्रत्ययः न दृश्यते, अतः विकरणप्रत्ययः नायाति | विकरणप्रत्ययः नायाति अतः तत्र गणभेदेन तिङन्तभेदः न जायते | फलितार्थः एवं यत् सार्वधातुकलकारेषु गणीया चर्चा करणीया; आर्धधातुकलकारेषु गणीया चर्चा नापेक्षिता | तत्र गणस्य विषयः नायाति एव |
उदा–
सार्वधातुक-लकारः लट्
* वद् + लट् →
* वद् + ति →
* वद् + शप् + ति →
* वद् + अ + ति →
* वदति
उपरितने क्रमे धातुना तिङ्प्रत्ययः ति “दृश्यते” (वद् + ति) | नाम मध्ये काऽपि बाधा, किमपि व्यवधानं नास्ति | धातुना तिङ्प्रत्ययः दृश्यते इति कारणतः कर्तरि शप् इत्यनेन सूत्रेण मध्ये विकरण-प्रत्ययः शप् विहितः | भ्वादिगणे शप् तिष्ठति; अपरेषु गणेषु शपं प्रबाध्य तत्तत् गणे अन्ये विकरणप्रत्ययाः आयान्ति | एतदर्थं सार्वधातुकलकारेषु धातुः कस्मिन् गणे अस्ति इति ज्ञातव्यम् |
आर्धधातुकलकारेषु विकरणप्रत्ययः किमर्थं नायाति इत्यत्र किञ्चित् पश्येम—
आर्धधातुक-लकारः लृट्
* वद् + लृट् →
* वद् + स्य + लृट् →
* वद् + स्यति →
* वद् + इ + स्यति →
* वदिष्यति
उपरितने क्रमे प्रथमं स्य प्रत्ययः आयाति, तदा एव ति आयाति | तत्र धातु-ति इत्यनयोः मध्ये स्य अस्ति इति कारणेन धातुना ति न दृश्यते (वद् + स्यति) | मध्ये स्य अस्ति अतः बाधा अस्ति, व्यवधानम् अस्ति | धातुः तिङ्प्रत्ययं “ति” द्रष्टुं न शक्नोति; धातुः केवलं “स्य” पश्यति | धातुना तिङ्प्रत्ययः ति न दृश्यते इति कारणतः कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति (यदा हि ति दृश्यते तदा हि कर्तरि शप्), अतः मध्ये विकरण-प्रत्ययः नायाति | विकरण-प्रत्ययः न विहितः इति कारणेन गणीयः विचारः नापेक्षितः | धातुः यस्मिन् कस्मिन् अपि गणे भवतु, कार्यं समानमेव | अतः आर्धधातुकलकारेषु गणस्य ज्ञानं नापेक्षितम् | किन्तु आर्धधातुकलकारेषु अन्यत् कार्यम् अस्ति | पश्यन्तु रूपं कथम् अस्ति— “वदिष्यति” इति | अत्र मध्ये इकारः आगतः अस्ति वद्-इ-ष्यति | यद्यपि आर्धधातुकलकारेषु गणीयः विचारः नापेक्षितः, किन्तु इडागमस्य विचारः अपेक्षितः एव | स च विषयः अग्रे आयास्यति |
१०. सार्वधातुकलकारः अस्ति चेत्, धातु-विकरणयोः अङ्गं भवति; तच्च अङ्गम् अदन्तम् अनदन्तं वा इत्युक्तम् | अस्मिन् पाठे सार्वधातुकलकाराः (लट्, लोट्, लङ्, विधिलिङ्) परिशीलयिष्यन्ते यत्र अङ्गम् अदन्तम् अस्ति | अङ्गम् अदन्तं केषु गणेषु ? भ्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे च | यतः एषां चतुर्णां गणानाम् अङ्गम् अदन्तम्, अतः एषां सिद्ध-तिङ्प्रत्ययाः समानाः | अस्य पाठस्य तृतीयाध्याये चतुर्थाध्याये च एते सिद्ध-तिङ्प्रत्ययाः निष्पन्नाः भवन्ति | अदन्तम् अङ्गम् + सिद्ध-तिङ्प्रत्ययः = तिङन्तपदं (क्रियापदम् इति) | यथा वद् + शप् → वद् + अ → वद इति अदन्तम् अङ्गम्; तिप् → पकारस्य इत्-संज्ञा लोपश्च → ति इति सिद्ध-तिङ्प्रत्ययः; वद + ति → वदति इति तिङन्तपदम् | तथैव वद + तः = वदतः, वद + अन्ति = वदन्ति इति | आहत्य भ्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे च 1700 धातवः सन्ति | एवं च अस्मिन् पाठे कण्ठस्थीकरणेन विना 1700 धातूनां लट्, लोट्, लङ्, विधिलिङ् इत्येषां तिङन्तरूपाणि ज्ञास्यन्ते | अत्र अस्ति मातुः पाठस्य वैलक्षण्यम् !
एवं च दीक्षितपुष्पायाः पाणिनीय-धातुपाठः अत्यन्तं शक्तिशाली | कश्चन बोधोऽस्ति चेत्, बहूनि क्रियापदरूपाणि ज्ञातुं शक्नुमः | अग्रे अङ्गं कथं निष्पाद्यते, तिङ्प्रत्ययाः कथं साधनीयाः, अपि च अङ्ग-तिङ्प्रत्यययोः मेलनं कथं क्रियते इत्येषु विषयेषु चर्चयिष्यामः |