Source: TW
‘वीज्’ इति धातुः
२६५
कस्मिन्नपि धातुपाठे वीज् इत्याख्यः धातु न दृश्यते ।
परन्तु आधुनिकैः वीजति इति प्रयोगः “व्यजनेन कृता वायुनिर्माणक्रिया” -(to fan someone) अस्मिन् अर्थे बहुधा कृतः दृश्यते । किञ्च, प्राचीनैः अपि अस्य धात्वोः बहुत्र प्रयोगः कृतः लभ्यते —
घर्मालसाङ्गी मधुराणि कूजन्
संवीजते पक्षपुटेन कान्ताम् — इति जाम्बवतीविजये ।
वीजन्ति बालव्यजनैर्विनिताः महासुराः स्यन्दनवेदिकास्थाः — इति हरिवंशे ।
गौतमः स्वयमादाय शिवविष्णू अवीजयत् — इति पद्मपुराणे ।
वीजयित्वा परिश्रान्तं तं मुनिं पर्यतोषयत् — इति स्कन्दपुराणे ।
केचन वैयाकरणाः अत्र “वि + ईज् (गतिकुत्सनयोः, भ्वादिः, आत्मनेपदी)” इति ईज्-धातोः आधारेण रूपसिद्धिं प्रदर्शयन्ति । तदपि शक्यम्, परन्तु एतादृशं क्रियते चेत् “अवीजयत्”, “वीजित्वा”, “वीजयित्वा” इत्यादिरूपाणां सिद्धिः न शक्या ।+++(4)+++
अतएव वीज वीजने (to fan), भ्वादिः, उभयपदी, सकर्मकः — इति कश्चन धातुः अङ्गीकरणीयः इति बहूनां वैयाकरणानां मतम् —
वीजेः लौकिकात् अवीजयत् — इति क्षीरतरङ्गिणी ।
वीजधातुः शास्त्रेषु अपठितः अपि, लोके लब्धप्रचारः — युधिष्ठिरमीमांसकः ।
यत्र “वीजयति”, “वीजयित्वा” इत्यादयः प्रयोगाः वीज्-धातोः अर्थे एव कृताः दृश्यन्ते, तत्र स्वार्थे णिच-प्रत्ययः स्वीक्रियते ।