उपसर्गे लङ्

Source: TW

उपसर्गस्य उपस्थितौ लङ्लकारे रूपम्
२६१

साधारण-गतिः

निस् + चि (स्वादिगणः) इत्यस्य लट्लकारे निश्चिनोति इति रूपम्, लङ्लकारे निरचिनोत् इति रूपम् ।
निस् इति उपसर्गः यद्यपि सकारान्तः,
तथापि “निस् + अचिनोत्” इत्यवस्थायाम् उपसर्गस्य पदत्वे जाते ८.२.६६ ससजुषो रुः इत्यनेन पदान्तसकारस्य रुँत्वं भवति ।
अतः निरचिनोत् इत्येव साधुरूपम् ।

निर् + चि इत्यस्यापि निरचिनोत् इत्येव रूपम् । एवमेव, अन्यत्रापि निस्/निर्-उपसर्गाभ्याम् समानम् एव रूपं भवति ।
यथा, निस् + गच्छति → निर्गच्छति । लङ्लकारे निरगच्छत् । निर् / निस् इत्येतयोः मध्ये विद्यमानः सूक्ष्मभेदः भाषापाकः ३ इत्यत्र २१०-तमे अध्याये स्पष्टीकृतः अस्ति ।

कृ

सम्+ कृ (तनादिगणः) इत्यस्य लट्लकारे संस्करोति इति रूपम्, लङ्लकारे समस्करोत् इति रूपम् ।
सम् + कृ इत्यत्र ६.१.१३७ सम्पर्युपेभ्यः करोतौ भूषणे इति सूत्रेण धातोः सुट् इति आगमः भवति । अतः लट्लकारे सम् + स् + कृ + शप् + तिप् इति स्थिते संस्करोति इति रूपं सिद्ध्यति ।
लङ्लकारस्य प्रक्रियायाम् अडागमः अपि प्राप्नोति । परन्तु सः लङ्लकारविशिष्टः, विकरणप्रत्ययात् अनन्तरं च विधीयते । अतः सः बहिरङ्गः । अतः आदौ सुडागमः भवति । विकरणान्त-अङ्गभक्त-अडागम-अपेक्षया अन्तरङ्गत्वात् प्रथमं सुट् — इति तत्त्वबोधिनी । अयं सुडागमः यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते इति परिभाषया धातोः एव अवयवरूपेण गृह्यते । अतः तदनन्तरं जायमानः अडागमः तु सुडागम-सहित-धातोः आद्यवयवरूपेण विधीयते —

सम् + कृ → (आदौ सुडागमः) सम् + (स् + कृ) → (ततः लकारप्रत्ययः, विकरणप्रत्ययः) सम् + (स् + कृ + शप्) + त् → (ततः अडागमः) सम् + (अट् + स् + कृ + शप्) + त् →‌ समस्करोत्

परि+ कृ (तनादिगणः) इत्यस्य लट्लकारे परिष्करोति इति रूपम्, लङ्लकारे पर्यष्करोत्, पर्यस्करोत् इति रूपद्वयम् । परि + कृ इत्यत्र ६.१.१३७ सम्पर्युपेभ्यः करोतौ भूषणे इति सूत्रेण धातोः सुट् इति आगमः भवति । अग्रे लट्लकारे परि + स् + कृ + शप् + तिप् इति जाते, ८.३.७० परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् इत्यनेन सकारस्य षत्वं विधीयते, येन परिष्करोति इति षकारघटितं रूपं सिद्ध्यति । लङ्लकारस्य प्रक्रियायाम् अडागमः अपि प्राप्नोति । सः बहिरङ्गः । अतः आदौ सुडागमः भवति । सुडागमे कृते जायमानः अडागमः तु सुडागम-सहित-धातोः आद्यवयवरूपेण विधीयते । अस्यां स्थितौ परि + अ + स् + कृ + शप् + त् इति स्थिते , ततः ८.३.७१‌ सिवादीनां वाऽड्व्यवायेऽपि इत्यनेन सकारस्य विकल्पेन षत्वं भवति । अतः परि + अ + स् / ष् + कृ + शप् + त्‌ →‌ पर्यस्करोत् / पर्यष्करोत् इति रूपद्वयं सिद्ध्यति । परि + स् + कृ + शप् + तिप् इति जाते आदेशप्रत्यययोः इति षत्वं न सम्भवति यतः अत्र सकारः आदेशभूतः अपि नास्ति; प्रत्ययावयवः अपि नास्ति । परि + अ + स् + कृ + शप् + त्” इति स्थिते इण्-वर्णस्य अनुपस्थितौ ८.३.७० परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् इत्यनेन षत्वं न सम्भवति ।