Source: TW
‘उदयति’ इति रूपम्
२६२
इण् (गतौ) इति अदादिगणस्य परस्मैपदी धातुः ।
अस्य प्रथमैकवचनम् “एति” इति । अतः सूर्यः उदेति इति साधुप्रयोगः ।
अयँ (गतौ) इति भ्वादिगणस्य आत्मनेपदी धातुः । अतः सूर्यः उदयते इति साधुप्रयोगः ।
उदयति
साहित्ये तु कुत्रचित् अय्-धातुः परस्मैपदरूपेणापि प्रयुक्तः दृश्यते —
उदयति दीननाथः (शिशुपालवधम् ११.६४) — लट्लकारस्य प्रथमपुरुषैकवचनम् ।
उदयति विततोर्ध्वरश्मिरज्जौ (शिशुपालवधम् ४.२०) — शतृप्रत्ययान्तस्य सप्तम्येकवचनम् ।
उदयति इत्यादि चैवम् असाधु एव अस्तु — “कटी” धातोः व्याख्याने माधवीयधातुवृत्तौ प्रदर्शितम् मैत्रेयरक्षितस्य मतम् ।
अयतिर् अनुदात्तेत् ।
कथं तहि “उदयति विततोर्ध्वरश्मिरज्जौ” इति परस्मैपदम् ?
किमनेन वन्यगजशौचेन !
यदि वा,
पचाद्यजन्तात् उदयशब्दाद् आचारे क्विपि लट् — ८.२.१९ उपसर्गस्यायतौ इत्यत्र पदमञ्जरी ।
उद् + अय् धातोः
३.१.१३४ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः
इत्यनेन अच्-प्रत्यये कृते उदय इति शब्दः सिद्ध्यति ।
उदयते सः उदयः ।
उदयः इव आचरति अस्मिन् अर्थे उदयशब्दात् सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः इति वार्त्तिकेन क्विप्-प्रत्ययं कृत्वा, प्रक्रियायां ककार-वकार-इकार-पकाराणां लोपं कृत्वा उदय इति धातुः सिद्ध्यति । अयं परस्मैपदी धातुः । अस्य लट्लकारस्यैकवचनम् उदयति इति । अस्यैव शत्रन्तं रूपम् उदयत् इति ।
अथ कथं “उदयति विततोर्ध्वरश्मिरज्जावि"ति माघः ?
इटकिटकटी इत्यत्र प्रश्लिष्टस्य भविष्यति ।
इटकिटकटी is at 1.359
यद्वा, अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्, चक्षिङः ङित्करणाज्ज्ञापकात् — ८.२.१९ उपसर्गस्यायतौ इत्यत्र सिद्धान्तकौमुदी ।
(१) इटकिटकटी गतौ इत्यत्र इट्-किट्-कटि-इ इति चत्वारः धातवः सन्ति इति मत्वा, सर्वेषामपि परस्मैपदित्वं गत्यर्थं च स्वीकृत्य, “इ” धातोः “अयति” इति लटि रूपं सम्भवति, एवमेव “अयत्” इति शत्रन्तम् रूपम् अपि सम्भवति ।
कथमुदयतीति । उत्पूर्वकादयधातोः शत्रन्तात् सप्तम्यन्तमिति मत्वा आक्षेपः । अनुदात्तेत्त्वेन लटः शानच्प्रसङ्गादिति भावः । प्रश्लिष्टस्येति ।
इधातोः इति शेषः ।
तस्य अनुदात्तेत्त्व-अबाधात् शतृप्रत्ययः निर्बाधः इति भावः —
८.२.१९ उपसर्गस्यायतौ इत्यत्र बालमनोरमा ।
केचित्तु “इट किट कटी गतौ” इत्यत्र इकारमपि धातुं पठन्ति — ८.२.१९ उपसर्गस्यायतौ इत्यत्र पदमञ्जरी ।
इ इति चतुर्थधातुवादिनाम् अयति — “कटी” धातोः व्याख्याने माधवीयधातुवृत्तिः ।
(२) अयँ॒ इत्यस्मिन् धातौ यद्यपि अनुदात्तः इत्संज्ञकस्वरः अस्ति, तथापि, “अनुदात्तेत्त्वलक्षणम् आत्मनेपदम् अनित्यम्” इति परिभाषया अयं धातुः उभयपदी स्वीक्रियते, अतः अस्य परस्मैपदस्यापि रूपाणि भवन्ति इत्याशयः ।+++(5)+++
ज्ञापकादिति ।
चक्षि॒ङ् धातोः इकारस्य अनुदात्तया
अनुदात्तेत्त्वाद् एव आत्मनेपदसिद्धौ
ङित्करणम् अनुदात्तेत्त्व-प्रयुक्त-आत्मनेपदस्य अनित्यतां ज्ञापयति ।+++(5)+++
तस्य अनित्यत्वे तु नित्य-आत्मनेपदार्थं ङित्करणम् अर्थवद् - इति भावः । इदं तु भाष्ये न दृश्यते — ८.२.१९ उपसर्गस्यायतौ इत्यत्र बालमनोरमा ।