तृप्

Source: TW

तृप् इत्याख्याः धातवः
२६४

धातुपाठे “तृप्” इत्याख्याः चत्वारः धातवः सन्ति — तृपँ (प्रीणने, दिवादिः), तृपँ (प्रीणने, स्वादिः), तृपँ (तृप्तौ, तुदादिः), तृपँ (तृप्तौ सन्दीपने प्रीणने च, चुरादिः) ।

दिवादिः

तृपँ (प्रीणने, दिवादिः) इति धातुः तृप्तिः (to be satisfied) तथा तर्पणम् (to satisfy someone) इति उभयथा प्रयुज्यते ।

तृप्तिः अस्मिन् अर्थे अयम् अकर्मकः । देवदत्तः तृप्यति । देवदत्तः स्वयमेव तुष्टः भवति (तृप्तिं प्राप्नोति) इत्याशयः ।

तर्पणम् अस्मिन् अर्थे अयम् सकर्मकः । देवदत्तः पितॄन् तृप्यति । देवदत्तः अन्यान् तोषयति (तृप्तिं जनयति) इत्याशयः ।

प्रीणनं तृप्तिस् तर्पणा च ।
नाग्निस्तृप्यति काष्ठानाम् । पितॄनतार्प्सीदिति भट्टिः । इत्युभयत्र दर्शनात् — ८.४.३६ इत्यत्र कौमुदी ।

तृप्तिः अस्मिन् अर्थे प्रयुक्तस्य तृप्-धातोः
णिजन्त-प्रयोगे तु
तर्पणम् इत्येव अर्थः भवति —
देवदत्तः यज्ञदत्तं तर्पयति ।
यज्ञदत्तः तृप्यति; देवदत्तः तं प्रेरयति इत्याशयः ।
एवमेव, देवदत्तः पितॄन् तर्पयति, गृहस्वामी अतिथिं तर्पयति इत्यादिकम् ।

स्वादिः

तृपँ (प्रीणने, स्वादिः) इति धातुः सिद्धान्तकौमुद्यां पाठभेदेन निर्दिष्टः अस्ति —
ऋधु वृद्धौ, तृप प्रीणन इत्येके ।
तृप्नोति — ७.४.७२ इत्यत्र कौमुदी ।
अयं केवलम् सकर्मकरूपेण एव प्रयुज्यते ।
यथा, देवदत्तः पितॄन् तृप्नोति । गृहस्वामी अतिथिं तृप्नोति ।

तुदादिः

तृपँ (तृप्तौ, तुदादिः) इति धातुः तु सकर्मकः एव । अतः केवलं तर्पणम् अस्मिन् अर्थे एव अस्य प्रयोगः सम्भवति ।
यथा, देवदत्तः पितॄन् तृपति । गृहस्वामी अतिथिं तृपति ।

तुदादिगणे तृप् इति धातोः पाठभेदेन
तृफ् इति फकारान्तः धातुः अपि
तर्पणम् अस्मिन् अर्थे परिगणितः दृश्यते ।
अतः, देवदत्तः पितॄन् तृफति इति प्रयोगः अपि साधु ।

तृप्-धातोः अर्थे एव तृम्फ् इति धातुः अपि तुदादिगणे पाठितः अस्ति ।
अतः देवदत्तः पितॄन् तृम्फति इति प्रयोगः अपि साधु ।

चुरादिः

तृपँ (तृप्तौ सन्दीपने प्रीणने च, चुरादिः) इति धातुः अपि सकर्मकः एव । अतः केवलं तर्पणम् अस्मिन् अर्थे एव अस्य प्रयोगः सम्भवति । यथा, देवदत्तः पितॄन् तर्पयति तर्पयते वा । गृहस्वामी अतिथिं तर्पयति तर्पयते वा । १.३.७४ णिचश्च इति उभयपदित्वम् ।

अयं धातुः चुरादिगणे आधृषादिः अस्मिन् अन्तर्गणे वर्तते । अतः आधृषाद्वा इति गणसूत्रेण अस्मात् धातोः णिच्-प्रत्ययः विकल्पेनैव भवति । णिच्-प्रत्ययस्य अभावे अस्मात् धातोः केवलं परस्मैपदस्यैव प्रत्ययाः भवन्ति, अतः तर्पति इति प्रयोगः सिद्ध्यति । यथा, देवदत्तः पितॄन् तर्पति ।

अकर्मकप्रयोगे केवलम् तृप्यति इत्येव । सकर्मकप्रयोगे तु तृप्यति, तृप्नोति, तृपति, तृफति, तृम्फति, तर्पयति, तर्पयते, तर्पति इति प्रयोगाः ।