शंस्

Source: TW

शंस्-धातुद्वयम्
२५८

धातुपाठे शंस् इत्याख्यौ द्वौ धातू —
शन्सुँ स्तुतौ (भ्वादिः),
तथा च आङ् + शसिँ (इच्छायाम्, भ्वादिः)

शन्सुँ (स्तुतौ) इति भ्वादिगणस्य परस्मैपदी धातुः । शंसति इति लट्लकारस्य रूपम् । यद्यपि दृश्यरूपे अनुस्वारः अस्ति, तथापि नकारजौ अनुस्वारपञ्चमौ झलि धातुषु इति वचनात् अत्र नकारोपधत्वम् एव स्वीकृतम् अस्ति । इत्युक्ते, अस्मिन् धातौ औपदेशिकस्वरूपे एव नकारः विद्यते ।

अस्य धातोः कर्मणि प्रयोगे शन्स् + यक् + ते इति स्थिते, यक्-प्रत्ययस्य कित्त्वात् ६.४.२४ अनिदितां हल उपधायाः क्ङिति इति सूत्रेण उपधानकारस्य लोपे कृते शस्यते इति रूपं सिद्ध्यति ।

आङ् + शसिँ (इच्छायाम्) इति भ्वादिगणस्य आत्मनेपदी धातुः । अयम् नित्यम् आङ्-उपसर्गेण सह एव प्रयुज्यते । न च केवलो नाप्युपसर्गान्तरपूर्वः — इति माधवीयधातुवृत्तिः । अतः आशंसति इति अस्य लट्लकारस्य रूपम् । अयं धातुः इदित् अस्ति, अतः कर्मणि रूपेषु यक्-प्रत्यये अस्य उपधानकारस्य लोपः न भवति । आङ् + शसिँ + यक् + ते → आशंस्यते