लिट्

आम् चकार

णिजन्त-धातूनाम् (अन्येषाम् अपि केषाञ्चन धातूनाम्) लिट्-लकारस्य रूपसिद्ध्यर्थम् आदौ णिजन्तधातोः आम् इति प्रत्ययम् उपयुज्य ततः कृ/भू/अस्-धातोः लिट्-लकारस्य तस्यैव पुरुषस्य / वचनस्य च रूपस्य अनुप्रयोगः क्रियते ।

  • चुर् + णिच् + आम् + चकार /चक्रतुः/ चक्रुः/ …
  • चुर् + णिच् + आम् + बभूव / बभूवतुः/ बभूवुः/ …
  • चुर् + णिच् + आम् + आस / आसतुः / आसुः/ …

आम्-प्रत्ययस्य प्रयोगात् अनन्तरम् कृ-भू-अस्-धातोः तस्यैव पुरुषस्य वचनस्य अव्यवहितः प्रयोगः एव करणीयः । अस्यैव नाम “अनुप्रयोगः” इति ।

चोरय् + आम् + चकार / बभूव / आस → चोरयाञ्चकार / चोरयाम्बभूव / चोरयामास ।

परन्तु कुत्रचित् कविभिः लिट्लकारस्य कानिचन रूपाणि अनुप्रयोगं विना प्रयुक्तानि दृश्यन्ते । एतत् प्रामादिकमेव इति वैयाकरणानां मतम् । नो चेत्, महाकविप्रयोगात् तस्य साधुत्वं मन्तव्यम् ।

कर्मत्वपरित्यागः

कृ-भू-अस्-धातोः रूपाणां यत्र अनुप्रयोगः क्रियते, तत्र एते त्रयः धातवः स्वस्य कर्मकत्वं परित्यजन्ति ।

  • यद्यपि अस्-धातुः / भू-धातुः अकर्मकः अस्ति, तथापि सकर्मकधातूनां रूपसिद्धौ अपि एतयोः अनुप्रयोगः अवश्यं भवति ।
  • यद्यपि कृ-धातुः सकर्मकः अस्ति, तथापि अकर्मकधातूनां रूपसिद्धौ अपि अस्य अनुप्रयोगः अवश्यं भवति ।

आतपत्रम् बिभराम्बभूवे (छत्रम् धृतम् आसीत् इति अर्थः) इत्यत्र भू-धातोः कर्मणि प्रयोगे लिट्-लकारस्य आत्मनेपदस्य प्रथमपुरुषस्य एकवचनस्य रूपं प्रयुक्तम् अस्ति, तत् च कर्मपदस्य उपस्थितौ प्रयुक्तं दृश्यते ।