Source: TW
ह्रसयति, ह्रासयति
२६०
ह्रस् (शब्दे) इति भ्वादिगणस्य परस्मैपदी धातुः । अयम् अल्पीभवनम् / अपक्षयः (reduction / decline) अस्मिन् अर्थे अपि स्वीक्रियते ।
ह्रस् + घञ् → ह्रासः । अल्पीभवनम् इत्यर्थः । ह्रस् + णिच् + घञ् → ह्रासः । अल्पीकरणम् इत्यर्थः ।
ह्रासयति
ह्रस् + णिच् + शप् + तिप् → ह्रासयति (७.२.११६ अत उपधायाः इत्यनेन उपधावृद्धिः) । अल्पीकरोति इत्यर्थः ।
ह्रसयति
ह्रस् + वन् (उणादिप्रत्ययः) → ह्रस्वः । अल्पः इत्यर्थः ।
अग्रे, ह्रस्वं करोति इत्यस्मिन् अर्थे
तत्करोति तदाचष्टे इत्यनेन णिच्-प्रत्यये कृते
ह्रसि इति आतिदेशिकधातुः सिद्ध्यति ।
अस्य लट्लकारस्य प्रथमपुरुषैकवचनम् ह्रसयति इति । अल्पीकरोति इत्येव अर्थः ।
ह्रस्वं करोति
→ ह्रस्व + णिच् + शप् + तिप् [तत्करोति तदाचष्टे इति णिच् । प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च इति सः इष्ठन्-प्रत्ययसदृशं कार्यं करोति । ]
→ ह्रस् + इ + अ + ति [ ६.४.१५६ स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः इत्यनेन वकार-अकारयोः लोपः । वकारलोपाद् अनन्तरम् पुनः उपधावृद्धिः कथं न इति चेत्, “अङ्गवृत्तेः पुनर्वृत्तौ अविधिः निष्ठितस्य इति वृद्ध्यभावः इति भाष्ये” एतत् स्पष्टीकरणम् माधवीयधातुवृत्तौ दीयते ।]
→ ह्रसयति [७.३.८४ सार्वधातुकार्धधातुकयोः इति गुणः, ६.१.७८ एचोऽयवायावः इति अयादेशः]