आजघ्ने

Source: TW

आजघ्ने इति प्रयोगः
२७०

हन् इति अदादिगणस्य परस्मैपदी धातुः ।
परन्तु, यत्र आङ्-उपसर्गपूर्वकः हन्-धातुः प्रयुज्यते, तत्र —
अकर्मकप्रयोगे अस्मात् धातोः
१.३.२८ आङो यमहनः
इत्यनेन आत्मनेपदस्य प्रत्ययाः भवन्ति ।+++(5)+++
यथा - रामः आहते । रामः आजघ्ने ।

सकर्मकप्रयोगे यदि कर्मपदम् “कर्तुः अङ्गस्य कश्चन अवयवः” अस्ति,
तत्र “स्वाङ्गकर्मात् चेति वक्तव्यम्” इति वार्त्तिकेन आत्मनेपदस्य प्रत्ययाः भवन्ति ।
यथा - रावणः स्वस्य शिरः आजघ्ने ।

सकर्मकप्रयोगे अन्येषु स्थलेषु परस्मैपदस्य प्रत्ययाः भवन्ति ।

यथा — रामः रावणस्य शिरः आजघान ।

“अर्जुनः शिवस्य वक्षः आजघ्ने ।”

अत्र अकर्मकता अपि नास्ति, स्वाङ्गकर्मकत्वम् अपि नास्ति । तर्हि अत्र आत्मनपेदं कथम् —‌इति प्रश्नः ।

किरातार्जुनीये १७.६३

कथं तर्हि आजघ्ने विषमविलोचनस्य वक्षः इति भारविः ?
प्रमादः एव अयम् इति भागवृत्तिः ।
प्राप्य इति अध्याहारः वा ।
ल्यब्लोपे पञ्चमी इति तु ल्यबन्तं विना एव तदर्थावगतिः यत्र तद्विषयम् ।
भेत्तुम् इत्यादि तुमुन्नन्ताध्याहारो वा । समीपम् एत्य इति वा — १.३.२८ आङो यमहनः इत्यत्र सिद्धान्तकौमुदी ।

“प्राप्य” इति शब्दस्य अध्याहारं कृत्वा तस्य अन्वयः “वक्षः” इत्यनेन सह करणीयः । अनेन “विषमविलोचनस्य वक्षः प्राप्य आजघ्ने” इति वाक्यं सिद्ध्यति । अत्र आ+हन् इत्यस्य किमपि कर्मपदं न (यतः वक्षः इति प्राप्य इत्यस्य कर्मपदम् अस्ति), अतः अत्र आत्मनेपदप्रयोगः न दोषाय ।

प्रश्नः —‌ २.३.१८ अपादाने पञ्चमी इत्यत्र वार्त्तिककारः “पञ्चमीविधाने ल्यब्लोपे कर्मण्युपसङ्ख्यानम्” इति वार्त्तिकम् पाठयति । अनेन वार्त्तिकेन अत्र पञ्चमी भवेत् । यथा, प्रासादम् आरुह्य प्रेक्षते ⇔ प्रासादात् प्रेक्षते । तर्हि अत्र ल्यप्-प्रत्याहारस्य अनुपस्थितौ अपि वक्षः इति द्वितीया कथम् ?

उत्तरम् — “पञ्चमीविधाने ल्यब्लोपे कर्मण्युपसङ्ख्यानम्” इति वार्त्तिकम् तदा एव प्रयुज्यते यदा ल्यब्-प्रत्ययान्तस्य अर्थस्य अध्याहारः क्रियते ।
अत्र तु केवलं शब्दस्य अध्याहारः क्रियते (न हि अर्थस्य),+++(5)+++
तत्र इदं वार्त्तिकं नैव प्रवर्तते ।

भेत्तुम् इति तुमुन्-प्रत्ययान्तशब्दस्य अध्याहारं कृत्वा तस्य अन्वयः वक्षः इत्यनेन सह करणीयः । अनेन विषमविलोचनस्य वक्षः भेत्तुम् आजघ्ने इति वाक्यं सिद्ध्यति । अत्र आ+हन् इत्यस्य किमपि कर्मपदं न (यतः वक्षः इति भेत्तुम् इत्यस्य कर्मपदम् अस्ति), अतः अत्र आत्मनेपदप्रयोगः न दोषाय ।

समीपम् तथा स्वीयम् इति शब्दयोः अध्याहारः करणीयः । अनेन विषमविलोचनस्य समीपम् एत्य भुजाभ्यां स्वीयं वक्षः आजघ्ने इति वाक्यं सिद्ध्यति । अर्जुनः शिवस्य समीपं गत्वा मदेन स्वस्य वक्षः ताडितवान् — इति अर्थः । अत्र आ+हन् धातोः “स्वीयं वक्षः” (स्वाङ्गम्) इत्यनेन सह अन्वयः, अतः अत्र अवश्यम् आत्मनेपदम् साधु ।

इदं समाधानम् मल्लिनाथेन नाङ्गीकृतम् । न हि युद्धाय सन्नद्धाः निपुणाः अपि मल्लाः स्ववक्षस्ताडनम् आचरन्ति, किंतु स्वभुजास्फालनम् — इति स्वव्याख्याने मल्लिनाथः ।

दुर्घटवृत्तौ १.३.२८‌ आङो यमहनः इत्यत्र विवरणम्

  1. प्रतिमुखम् इति अव्ययीभावः = मुखे इति । so एत्य need not have an anvay with it. (earlier it was समीप so प्रतिमुखम् = मुखस्य समीपमागत्य = so एत्य had अन्वय with it.