आचामयसे

Source: TW

आचामयसे इति प्रयोगः

२७१

श्रीहर्षविरचिते नैषधीयचरिते १२.६
आचायमसे इत्यत्र आ-उपसर्गपूर्वकः चमुँ (अदने, to consume) इति धातुः । अयं भ्वादिगणीयः । अस्य णिजन्तस्य लटि आत्मनेपदस्य मध्यमपुरुषैकवचनरूपम् इदम् ।
किमर्थम् न पाययसि (why don’t you let your eyes drink the nector from his face) इत्यर्थः ।
अत्र आचमनक्रियायाः शुद्धकर्ता चक्षुः इति ।
ण्यन्तप्रयोगे गतिबुद्धिप्रत्यवसानार्थ.. इति सूत्रेण तस्य कर्मत्वं विधीयते, अतः द्वितीयायां प्रयोगः ।

आ + चम् + णिच् [हेतुमति च इति प्रेरणार्थे णिच् ]
→ आ + चाम् + इ [प्रत्ययस्य णित्त्वात् अत उपधायाः इति उपधावृद्धिः]
→ आ + चाम् + इ [धातुपाठे विद्यमानेन जनीजॄष्क्नसुरञ्जोऽमन्ताश्च इति गणसूत्रेण अमन्तधातूनां विषये णिच्-प्रत्यय परे मित्त्वम्, अतश्च मितां ह्रस्वः इति उपधाह्रस्वः प्राप्नोति । एतादृशे उपधाह्रस्वे प्राप्ते; तत्रैव अग्रे विद्यमानेन न कम्यमिचमाम् इति गणसूत्रेण चम्-धातोः विषये इदं मित्त्वम् निषिध्यते । अतः अन्ते अत्र उपधाह्रस्वः न भवति ।]
→ आचामि [सनाद्यन्ता धातवः इति धातुसंज्ञा]

आचामि‌ इति ण्यन्तः धातुः ।
अस्य धातोः १.३.७४ णिचश्च इत्यनेन उभयपदित्वे प्राप्ते;
१.३.८७ निगरणचलनार्थेभ्यश्च इति सूत्रेण निगरणम् (भोजनम्) अस्मिन् अर्थे परस्मैपदमेव विधीयते ।
अतः भोजनार्थकः “आचामि” इति धातुः नित्यं परस्मैपदे एव प्रयोक्तव्यः ।
अतः त्वम् आचायमसे इति प्रयोगः असाधु ।

अतएव नैषधीयचरितस्य ‘नैषधीयप्रकाशः’ इत्यस्यां व्याख्यायां —
णिचश्च इति कर्त्रभिप्राये क्रियाफले विवक्षायाम् आत्मनेपदे प्राप्तेऽपि निगरणचलनार्थेभ्यश्च इति परस्मैपदप्राप्तेः आचामयसे इति चिन्त्यम् —
इति निर्देशः वर्तते ।

तथापि, स्थितस्य गतिश्चिन्तनीया इति न्यायेन, अस्याम् एव व्याख्यायाम् अस्य प्रयोगस्य साधुत्वस्य पञ्च युक्तयः उक्ताः सन्ति !

नैषधीयचरितम् (१२.६) इत्यस्य नारायणरचिता नैषधीयप्रकाशव्याख्या

नैषधीयप्रकाशव्याख्यायाम् उक्तं प्रथमं समाधानम् आदौ आचामवती इति शब्दः साधनीयः । तदित्थम् — आ + चम् + घञ् → आचाम । आचमनम् / पानम् इत्यर्थः । आचामः अस्याः अस्ति सा = आचाम + मतुप् + ङीप् = आचामवती (दृष्टिः) । द्वे नेत्रे ज्योत्स्नायाः पानं कुरुतः, अतः अत्र दृष्ट्याः आचामवती इति विशेषणम् प्रयुक्तम् । तदनन्तरम् आचामि इति धातुः साधनीयः । तदित्थम् — दमयन्ती स्वस्याः दृष्टिम् आचामवतीम् करोति । अतः तत्करोति तदाचष्टे इति गणसूत्रेण आचामवती-शब्दात् सनादिः णिच्-प्रत्ययः भवितुम् अर्हति । आचाम + मतुप् + ङीप् + णिच् इति स्थिते, प्रक्रियायाम् णाविष्ठवत् प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरविन्मतोर्लुक्कनर्थम् इति भारद्वाजमतेन पुंवद्भावः, ततश्च मतुप्-प्रत्ययस्य लोपः भवति, येन आचाम + णिच् → आचामि इति धातुः सिद्ध्यति । (दृष्टिम्) आचामवतीम् करोति इत्यस्मिन् अर्थे अयं धातुः प्रयुज्यते । अन्ते आत्मनेपदे रूपसिद्धिः — लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति परिभाषया १.३.८७ निगरणचलनार्थेभ्य इत्यस्मिन् सूत्रे केवलं प्रतिपदोक्तः आचामि-धातुः एव स्वीक्रियते, न हि लक्षणोक्तः आचामि धातुः । अतः लक्षणोक्तस्य आचामि-धातोः १.३.७४‌ णिचश्च इति उभयपदित्वम् एव भवति । अतः अस्माद् धातोः आचामयसे इति आत्मनेपदी प्रयोगः साधयितुम् शक्यः ।

नैषधीयप्रकाशव्याख्यायाम् उक्तं द्वितीयं समाधानम् व्याकरणशास्त्रे संज्ञापूर्वकः विधिः अनित्यः इति काचित् परिभाषा वर्तते । यत्र कश्चन विधिः कस्याश्चित् संज्ञायाः प्रयोगं कृत्वा उक्तः अस्ति, तत्र सः विधिः कुत्रचित् नैव भवति —‌ इति अस्याः परिभाषायाः आशयः । १.३.८७ निगरणचलनार्थेभ्यश्च इति सूत्रे १.३.७८ शेषात्कर्तरि परस्मैपदम् इति सूत्रात् परस्मैपदम् इति शब्दः अनुवर्तते । इयं व्याकरणशास्त्रस्य संज्ञा (१.४.९९ लः परस्मैपदम् इत्यन परस्मैपदसंज्ञा पाठ्यते) । अतः अत्र धातोः विहितस्य परस्मैपदस्य निर्देशः परस्मैपदम् इति संज्ञया कृतः अस्ति । अस्यां स्थितौ संज्ञापूर्वकः विधिः अनित्यः इति परिभाषया अस्य विधेः अनित्यत्वं स्वीकर्तुं शक्यते । अस्य अनित्यत्वे जाते, निरगणार्थे अपि आत्मनेपदं साधुत्वं प्राप्तुम् अर्हति । अतएव आचामयसे इति प्रयोगः साधु भवितुम् अर्हति ।

प्रौढमनोरमा

आचामयसे इत्यत्र आचामय + से इति पदद्वयम् स्वीकर्तव्यम् । आचामय इति परस्मैपदस्य रूपम्, अतः अत्र न कश्चन दोषः । से इति अत्र से इति प्रातिपदिकस्य सम्बोधनैकवचनम् । से इति प्रातिपदिकस्य अर्थः दमयन्ती इति । अतः हे दमयन्ति इत्यस्मिन् अर्थे (सम्बोधने) से इति प्रयुकम् । सरस्वती दमयन्तीं कथयति — (हे) से, चक्षुषी आचामय — इत्याशयः । से इति प्रातिपदिकस्य सिद्धिः —‌ अ इति विष्णोः अपरं नाम । अतः विष्णोः पत्नी = ‘अ’स्य पत्नी इत्यस्मिन् अर्थे अ शब्दात् ङीष्-प्रत्यये कृते अ + ई → ई (यस्येति च इति अकारलोपः) अनेन प्रकारेण ई इति शब्दः लक्ष्मीः अस्मिन् अर्थे सिद्ध्यति । ई इत्यनया सह विद्यते इत्यस्मिन् अर्थे बहुव्रीहिसमासे कृते, तत्र ६.३.७८ सहस्य स संज्ञायाम् इति सूत्रेण सह इत्यस्य स इति परिवर्तने जाते स + ई → से इति प्रातिपदिकं सिद्ध्यति । यः कोऽपि लक्ष्म्या सह विद्यते तस्य नाम से इति । अत्र दमयन्त्याः कृते से इति शब्दः प्रयुक्तः । से इति शब्दस्य सम्बोधनैकवचनम् अपि से इत्येव । प्रक्रियायाम् से इति प्रातिपदिकात् सुँ-प्रत्यये कृते, ६.१.६९ एङ्ह्रस्वात्सम्बुद्धेः इति सुँप्रत्ययस्य लोपः भवति ।

तत्त्वबोधिनी आचामयसे न चक्षुषी इत्यत्र आचामय + सा + इनचक्षुषी इति पदत्रयम् स्वीकर्तव्यम् । आचामय इति परस्मैपदस्य रूपम्, अतः अत्र न कश्चन दोषः । सा इति शब्दः दमयन्तीम् उद्दिश्य सरस्वत्या उक्तः । दमयन्त्याः वर्णनं कृत्वा, एतादृशी सा त्वम् दमयन्ति, इनचक्षुषी आचामय — इति सम्पूर्णं वाक्यम् । अत्र इनचक्षुषी इत्युक्ते “श्रेष्ठे नेत्रे” । हे दमयन्ति, एते द्वे नेत्रे त्वं ऋतुपर्णस्य मुखज्योत्स्नां पायय — इति अर्थः । इन इति शब्दस्य अर्थः “प्रभुः / श्रेष्ठः” इति । इने च एते चक्षुषी = इनचक्षुषी इति कर्मधारयसमासः । द्वे श्रेष्ठे नेत्रे इत्याशयः ।

त्रिकाण्डशेषानुसारेण नैषधीयप्रकाशव्याख्यायाम् टिपण्ण्यां निर्दिष्टं समाधानम् आचामयसे इत्यत्र आचामय + से इति पदद्वयम् स्वीकर्तव्यम् । आचामय इति परस्मैपदस्य रूपम्, अतः अत्र न कश्चन दोषः । से इति शब्दः सा इत्यस्य सम्बोधनैकवनचम् ! सा इति शब्दः लक्ष्मी इति शब्दस्य पर्यायवाची शब्दः — श्री च लक्ष्मी चला सा मा रमा जलधिजेन्दिरा — इति त्रिकाण्डशेषः । अतः अत्र दमयन्तीं लक्ष्मीस्वरूपां मत्वा ताम् उद्दिश्य सरस्वती कथयति — आचामय, (हे) से — इत्याशयः ।

बालमनोरमा वस्तुतस्तु चक्षुषः मुखचन्द्रिकाकर्मकपानात्मक-आचमन-असंभवाद् आचामिः आदरे लाक्षणिकः । अतः निगरणार्थकत्व-अभावात् न परस्मैपदम् । अत्र साक्षात् भोजनं किमपि न क्रियते, अतः न हि अयं निगरणस्य विषयः । अतश्च, १.३.८७ निगरणचलनार्थेभ्यश्च इति सूत्रेण परस्मैपदम् अपि अत्र नैव प्राप्तम् । इत्युक्ते, १.३.७४ णिचश्च इत्यनेन अत्र उभयपदित्वम् एव साधु, अतश्च अत्र आत्मनेपदप्रयोगः नैव दोषाय ! न च एवं सति प्रत्यवसानार्थकत्व-अभावात् चक्षुषोः गतिबुद्धि.. इति कर्मत्वं न स्याद् इति शङ्क्यम्, न हि आचामिः अत्र केवले आदरे वर्तते, किंतु दर्शनपूर्वकादरे वर्तते । … ततश्च बुद्ध्यर्थकत्वाद् आचामेः चक्षुषोः कर्मत्वं निर्बाधम् इत्यादि शब्देन्दुशेखरे प्रपञ्चितम् । अत्र निरगणविषयः नास्ति; अतः “चक्षुषा” इत्यत्र गतिबुद्धिप्रत्यवसानार्थ… इति सूत्रेण कर्मत्वं अपि न प्राप्नोति । अस्यां स्थितौ अत्र बुद्ध्यर्थकं स्वीकृत्य कर्मत्वं निर्बाधम् ।